रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 632, कुल 799 में से
संदर्भ में पढ़ेंत्रयोविंशस्तरङ्गः ६०७ अथ हीरकरसायनम् हीरं तार्क्ष्यञ्च माणिक्यं पुष्परागं च नीलकम्॥ वैदूर्यमथ गोमेदं चन्द्ररत्नञ्च विद्रुमम् ॥ ३७ ॥ भागोत्तरमिदं तस्मात्पञ्चगुञ्जोन्मितं हरेत् । योजयेन्मृतवैक्रान्तं तस्मादष्टगुणं ततः ॥ ३८ ॥ माक्षिकद्वयजं भस्म पृथग् वैक्रान्तसम्भवम् । तथा सर्वत्रिगुणितां समगन्धेशकज्जलीम् ॥ ३६ ॥ पिष्ट्वाऽपयसोश्चैव बन्ध्याकर्कोटकीद्रवैः । वन्योपलैः कलावारं पादायुधपुटे पुटेत् ॥ ४० ॥ भिषग्वरैः समाख्यातमेतद्धीररसायनः गर्भिणीनान्तु नारीणां विविधागयनाशनम् ॥ ४१ ॥ हीराद्यं विमलं रसायनमिदं सन्दीपनं पाचनम् बल्यं मेध्यमलं तथैव महिलासौभाग्यसंवर्द्धनम् योनिव्याधिनिबर्हण खलु नृणां बन्ध्यत्वरोगापहं वन्ध्यानां खलु पुत्ररत्नजननं काकादिसंज्ञवताम् ॥ ४२ ॥ हीरकरसायनम्—चन्द्ररत्नं मुक्तां, विद्रुमं प्रवालम् । भागोत्तरमिति क्रमशः यथोत्तरं प्रवर्धमानैकभागम्। समगन्धेशकज्जलीमिति पारदगन्धौ समौ कृत्वा कृतां कज्जलीमित्यर्थः। कलावारं षोडशवारम् । पादायुधपुटे कुक्कुटपुटे । वन्ध्यत्वं पुंसः शुक्रादिदुष्ट्याऽपत्यजननेऽसमर्थत्वम् । काकबन्ध्या च “पूर्वे पुत्रवती या सा कचिद् वन्ध्या भवेद् यदि । काकबन्ध्या तु सा ज्ञेया” इत्युक्तलक्षणा सकृत् प्रसूता इत्यर्थः। “काकबन्ध्या सकृत्प्रसूः” इति स्मरणात् । व्याख्यासमानमन्यत् ॥ ३७–४२ ॥ भा.टी.—हीरकभस्म, तार्क्ष्यमणिभस्म, माणिक्यभस्म, पुखराजभस्म नीलम- भस्म, वैदूर्यभस्म, गोमेदभस्म, मुक्ताभस्म, प्रवालभस्म को क्रमशः उत्तरोत्तर एक- एक भाग वृद्धि से लेकर अर्थात् हीरकभस्म एक भाग, तार्क्ष्य दो भाग, माणिक्य तीन भाग, पुखराज चार भाग, नीलम पाँच भाग, वैदूर्य छः भाग, गोमेद सात भाग, मुक्ता आठ भाग, प्रवाल नौ भाग लेकर सबको एकत्र पीसकर रख लें । अब इस मिश्रित ओषधि में से पाँच रत्ती मात्रा में लेकर उसमें वैक्रान्तभस्म चालीस रत्ती, स्वर्णमाक्षिकभस्म चालीस रत्ती, रूपामाक्षीभस्म चालीस रत्ती मिलायें, जितना यह सब मिलकर हो अर्थात् एक सौ पच्चीस रत्ती के इसमें सम-