रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 693, कुल 799 में से
संदर्भ में पढ़ें६६८ रसतरङ्गिणी तीव्रशोफव्यथोपेतं स्तब्धांगं काससंयुतम् ॥ ११० ॥ सज्वरं वातजं वापि खलु वातबलासजम् । प्रतिश्यायं निहन्त्याशु दिवसत्रयमात्रतः ॥ १११ ॥ सन्निपातसमुद्भूतं तथैव तु गलग्रहम् । कर्णक्षतादिजनितं ज्वरं हन्ति च दारुणम् ॥ ११२ ॥ नवज्वरायमाणञ्च प्रतिश्यायसमन्वितम् । श्वासं प्रतमकाभिख्यं नाशयत्यविलम्बितम् ॥ ११३ ॥ दिवसत्रयमात्रत इति अनुभवविषयीभूतकाल निवेदनं प्रायिकम् । ११०-११३। भा.टी.—इस कफकेतुरस को वातप्रकोपजन्य अथवा कफवातप्रकोपजन्य प्रतिश्याय में, जब ज्वर, अधिक पीड़ा, शरीर में स्तब्धता तथा कास भी साथ हो तो अदरक और शहद के साथ सेवन करने से शीघ्र ही तीन दिन में आराम आ जाता है । इसी तरह गले में सन्निपातप्रकोपजन्य अवरोध और कर्ण, गल, कण्ठ आदि क्षत के कारण होनेवाले भयंकर ज्वरों में यह शीघ्र लाभ करता है । नूतन ज्वर और प्रतिश्याय युक्त प्रतमक श्वास रोग में भी यह शीघ्र ही उक्तानुपान से लाभ पहुँचाता है ११०-११३ ॥ विषरसायनम् अमृतं तोलकंमितं गोमूत्रविमलीकृतम् । तत्समं रससिन्दूरं हिंगुलं विमलं तथा ॥ ११४ ॥ तथैव तारं ताम्रं च रसगन्धकजारितम् । व्योषं पलार्द्धप्रमितं चतुर्जातं च चित्रकम् ॥ ११५ ॥ समादाय भिषग्वर्यो वारिणा परिपेषयेत् । वटिकाः कारयेद्युक्त्या रक्तिद्वितयसंमिताः ॥ ११६ ॥ प्राणाचार्यैः समाख्यातं नाम्ना विषरसायनम् । बल्यं वयं परं वृष्यं नानारोगनिषूदनम् ॥ ११७॥ मासद्वयप्रयोगेण रसस्यास्य निरन्तरम् । दिव्यदृष्टिर्दीर्घकायो भवत्येवाविलम्बितम् ॥ ११८ ॥ अग्निसंदीपनमिदं यकृत्प्लीहनिषूदनम् । अजीर्णानाहशमनं परं शूलनिबर्हणम् ॥ ११९ ॥ कर्तुं जीवनसाफल्यं विहर्तुं ललनाकुले । यौवनानन्दमाहर्तुमिदं सेव्यं रसायनम् ॥ १२० ॥