रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 696, कुल 799 में से
संदर्भ में पढ़ेंचतुर्विंशस्तरङ्गः ६७१ अथ विषस्य प्रयोगः व्योषताम्रसमायुक्तं विषं तु परिशीलितम् । वातशूलं तथा गुल्मं विनिहन्ति सुदारुणम् ॥१३१॥ मधुयष्टीपद्मकन्दलाक्षोशीरयुतं विषम् । शीलितं तण्डुलाम्भोभी रक्तपित्तहरं परम् ॥१३२॥ वचाचन्दनलोध्राढ्यं विषं क्षौद्रेण शीलितम् ! समाख्यातं विशेषेण जीर्णज्वरविनाशनम् ॥१३३॥ वरीविदारिकाद्राक्षाकपिकच्छूममन्वितम् । विषं तु मधुना लीढं शुक्रसञ्जननं परम् ।.१३४॥ रजनीगोक्षुरद्राक्षायुतं युक्तं विषं द्रुतम् । गोक्षुरस्य कषायेण मूत्रकृच्छ्रप्रणाशनम् ॥१३५॥ त्रायन्तीवायसीमूलगायत्रीराजपादपैः । शृतैर्विषं शीलितं तु ख्यातं कुष्ठनिषूदनम् ॥१३६॥ पाषाणभेदाश्मजतुयवक्षारसमन्वितम् । अमृतं शीलितं हन्ति त्वश्मरीमतिदारुणाम् ॥१३७॥ सर्जिकाक्षारसंयुक्तं सव्योषं परिशोलितम् । विषं खलु समाख्यातं परं गुल्मप्रणाशनम् ॥१३८॥ जन्तुघ्नदाडिमशिफाशतपुष्पायुतं विषम् । शोलितं नाशयात्याशु कृमिरोगं सुदारुणम् ॥१३६॥ त्रिक्षारशरपुङ्खाढ्यं कणामूलयुतं विषम् । शोलितं मात्रया नित्यं मतं प्लीहनिषूदनम् ॥१४०॥ अथ विषस्य प्रयोगाः—व्योष त्रिकटु । पद्मकन्दः शालूकं विषं वा । त्रायन्ती त्रायमाणा । वायसीमूलम्—"काकाह्वा चैव वायसी" इति निघण्टुः । गायत्री खदिरः, राजपादपंः आरग्वधः, अश्मजतु शिलाजतु, दडिमशिफा दाडिमीमूलम् ॥१३१–१४०॥ भा.टी.—शुद्ध विष को सोंठ, मिर्च तथा पिप्पलीचूर्ण और ताम्रभस्म के साथ मिलाकर सेवन करने से भयंकर बातिक शूल और गुल्म रोग शान्त हो जाता है । रक्तपित्त को शान्त करने के लिए शुद्ध विषचूर्ण में मुलैठी, कमल- कन्द, लाख तथा खश का चूर्ण मिला चावलों के धोवन के साथ सेवन करना