भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 699, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 699

६७४ रसतरङ्गिणी विषयुक्त अञ्जनों को नेत्रों में लगाने के बाद नेत्रों को बार-बार शुद्ध जल से कई बार धोना चाहिए ॥ १४१-१५० ॥ विषप्रभा वर्तिका विषं तु तोलकमितं निशास्वरसपेषितम् । विशोधिता रोगशिला भृङ्गराजद्रवेणं तु ॥१५१॥ श्लक्ष्णचूर्णीकृतं शङ्खं त्वब्धिफेनं च सैन्धवम् । कणाभया लोध्रनिशे बीजमक्षक़रञ्जयोः ॥१५२॥ वृक्षाम्लं मरिचं चैव मञ्जिष्ठा रक्तचन्दनम् । समं समं समादाय त्वजाक्षीरेण पेषयेत् ॥१५३॥ निर्मापयेद्भिषग्वर्यो वर्तिकाः खलु शोभनाः । नामतस्तु समाख्याता भिषग्भिस्तु विषप्रभा ॥१५४॥ सङ्घृष्टा वर्तिका वारि नेत्रयोर्विनियोजिता । शुक्लार्ममांसपिल्लादीन् रोगान् नाशयति द्रुतम् ॥१५५॥ शिरीषदलपुष्पाढ्यं विषं तु परिशीलितम् । समाख्यातं विशेषेण भृशमाखुविषापहम् ॥१५६॥ कदलीकन्दतोयेन विषं साज्यं प्रयोजितम् । अशनाल्लेपनाच्चैव हन्ति सर्पविषं भृशम् ॥१५७॥ गोतक्रेण समायुक्तं विषमल्पमात्रया । निपीतं शमयत्येव विषमाखुकुलोद्भव २ ॥१५८॥ विषं तु तिलतैलेन घृष्टं लेपप्रयोगतः । विनिहन्त्यचिरादेव वृश्चिकार्तिं सुदारुणाम् ॥१५६॥ अर्कक्षीरेण लिप्तं तु विषमल्पमात्रया । सर्वासामेव लूतानां विषं जयति दारुणम् ॥१६०॥ विषगर्भाभिधं तैलं नित्यमभ्यङ्गयोजितम् । मन्यास्तम्भं हनुस्तम्भं पक्षाघातं परिग्रहम् ॥१६१॥ सर्वाङ्गग्रहणं पृष्ठत्रिककम्पादिकं तथा । निहन्ति हि विशेषेण निखिला निलवेदनाः ॥१६२॥ विषप्रभा वर्तिका- अक्षस्य विभीतकस्य बीजम् । बीजस्य मज्जा ग्राह्या तथा करञ्जस्य च बीजमज्जा शिरीषस्य पत्रपुष्पाभ्यां संयुक्तं विषं विशेषतो मूषिकां वषापहम्।