रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 704, कुल 799 में से
संदर्भ में पढ़ेंचतुर्विंशस्तरङ्गः ६७६ तृतीयः शोधनप्रकारः विषतिन्दुकबीजानि पोट्ठल्यां विन्यसेद्भिषक् । स्वेदयेद् गव्यपयसा दालिकायन्त्रमागतः ॥१७६॥ एवं यामैकमात्रेण शुद्धिमायान्त्यनुत्तमाम् । शोधितं तिन्दुकं त्वेवं वीतशङ्कः प्रयोजयेत् ॥१७७॥ भा.टी.—कुचला बीजों को एक कपड़े में बाँधकर पोटली बना लें । अब इस पोटली को दोलायन्त्र में गाय का दूध डालकर उसमें लटकाकर तीन घण्टे तक पकायें । तीन घण्टे बाद बीजों को निकाल बाहर की त्वचा पृथक् करके उसी समय लोहे के खरल में कूटकर चूर्ण कर लें । इस विधि से भी कुचला बीज उत्तम रूप से शुद्ध हो जाते हैं ॥१७६, १७७॥ विषतिन्दुकस्य गुणाः विषतिन्दुकमाग्नेयं कटुकं दीपनं परम् । उग्रवीर्यं तीक्ष्णसारं कामोद्दीपनमुत्तमम् ॥१७८॥ अम्लपित्तप्रशमनं मूत्रलं क्षुत्प्रदीपनम् । पाचनं श्लेष्महरणं बलसञ्जननं परम् ॥१७९॥ मेदोहरं रुचिकरं सारमेयविषापहम् । ग्रहणीहरमत्यन्तं तथोन्मादविनाशनम् ॥१८०॥ आध्मानापहमत्यन्तं तथाऽजीर्णविनाशनम् । आमाशयोत्थशूलघ्नं हृद्दौर्बल्यहरं परम् ॥१८१॥ श्वासप्रशमनञ्चैव तथा फुप्फुसशोथनुत् । अर्द्धाङ्गादितवातघ्नं नाडीबलविवर्धनम् ॥१८२॥ दुष्टनागाशनाद्भूतं वा मदात्ययसम्भवम् । अर्द्धाङ्गवातं हन्त्याशु भृशमङ्गविशेषगम् ॥१८३॥ मांसपेशीशोषयुते नवे कठिनपेशिके । पक्षाघाते न युञ्जीत स्पर्शानुभववर्जिते ॥१८४॥ मदात्ययात्ययकरं नाडीशूलनिबर्हणम् । अनिद्रापहमत्यन्तं गुदजामयनाशनम् ॥१८५॥ राजयक्ष्मसमुद्भूतदिशास्वेदनिवारणम् । मानसश्रमसम्भूतावसादविनिषूदनम् ॥१८६॥