भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 705, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 705

६८० रसतरङ्गिणी अनिद्राजनिताजीर्णनाशनं दुग्धपाचनम् । अर्द्धावभेदकहरं श्रमकासनिवर्हणम् ॥१८७॥ निम्ननिर्दिष्टरोगाणां तत्तल्लक्षणसम्भवे । कारस्करं प्रयुञ्जीत भृशमत्यल्पमात्रया ॥१८८॥ निर्जनप्रियतां चैव परां क्रोधालुतां तथा । विनिहन्ति हि रुग्णानां तत्तद्धेतुविशेषजाम् ॥१८६॥ अम्लतिक्तरसोन्मिश्रानुद्गारान् नाशयत्यलम् । श्रमोत्थां चित्तदौर्बल्यसमतां मलबद्धताम् ॥१९०॥ अत्यम्लवदनास्वादं नवं वा चिरकालजम् । आध्मानं नाशयत्याशु भोजनोत्तरकालिकम् ॥१९१॥ चित्तावसादसंयुक्तं दारुणाध्मानसङ्गतम् । अम्लपित्तसमुद्भूतमन्त्रशूलं व्यपोहति ॥१९२॥ मलत्यागसमीहाढ्यां मुहुर्वेदनान्विताम् । कष्टप्रवृत्तमल्पमलां नाशयेन्मलबद्धताम् ॥१९३॥ अत्यल्पमूत्रस्रवणं सदाहं वेदनान्वितम् ॥ मूत्रेगोच्छापरिगतं मूत्ररोधं निवारयेत् ॥१९४॥ रक्तातिस्रावसंयुक्तं दीर्घकालानुबन्धनम् । रजःस्रावं निहन्त्याशु समयात्पूर्वकालिकम् ॥१९५॥ सवेदनां तथा पीतदुर्गन्धास्रावसंयुताम् । विनिहन्ति विशेषेण श्वेतप्रदरजां रुजम् १९६॥ रात्रौ निद्रायमाणस्य विवृद्धां पृष्ठदेशजाम् । वेदनां शमयत्याशु तथैव कटिवेदनाम् ॥१९७॥ दिने तु स्रवदास्रावं निशि स्रावविवर्जितम् । व्यपोहति विशेषेण प्रतिश्याये नवोत्थितम् ॥१९८॥ भक्तणोत्तरजं श्वासं हन्ति पित्तसमुत्थितम् । अनारतं जायमानं वर्त्मस्पन्दनकं तथा ॥१९६॥ रात्रिजागरणोद्भूतं तथा बह्वशनोत्थितम् । विवर्द्धमानं प्रत्यूषे सशब्दं तृष्णयान्वितम् ॥२००॥ आलोहितं घनञ्चैव कामं सलिलसन्निभम् । समुल्बणं विशेषेण विनिहन्त्युदरामयम् ॥२०१॥