रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 714, कुल 799 में से
संदर्भ में पढ़ें४४ चतुर्विंशस्तरङ्गः ६८६ नाशयति । तन्त्रान्तरदर्शनात् क्रमवृद्धमात्रया सेवनीयम् । उक्तं हि—"कारस्क- रफलं सेव्यं क्रमवृद्धं दिने-दिने । सारमेयविषं हन्ति मासेन नहि संशयः ॥" इति । भा.टी.—कुचला बीज एक तोला लेकर आठ तोले शुद्ध तिल तैल में डाल- कर इस तेल को मन्द-मन्द अग्नि से तब तक पकायें जब तक कि कुचला बीज पककर लाल रंग का न हो जाय । बीज के लाल रंग का होने पर तैल को नीचे उतार लें । इस प्रकार यह कुचला तैल तैयार हो जाता है । इस तेल को शरीर में मालिश करने से पक्षाघात आदि वात रोग निश्चित दूर हो जाते हैं ॥२३४॥ वक्तव्य—शुद्ध कुचलाचूर्ण, लौंगचूर्ण, कर्पूर, सोंठ, दालचीनी, पीपला- मूल, प्रत्येक सम भाग में लेकर गोमूत्र के साथ एकत्र पीसकर लेप तैयार कर लें । इस लेप को माथे पर लगाने से आधा-सीसी की वेदना शान्त हो जाती है । अथ अहिफेनस्य नामानि आहिफेनमफेनञ्च निफेनमहिफेनकम् । अफूकं फणिफेनञ्च नागफेनञ्च तन्मतम् ॥२३५॥ भा.टी.—अहिफेन, अफेन, निफेन, अहिफेनक, आफूक, फणिफेन और नागफेन, ये सब नाम अफीम के कहे जाते हैं ॥२३५॥ अहिफेनस्य परिचयः खस्तिलस्य फलानां तु चीरणात्खलु दुग्धवत् । निर्यासो योऽभिनिर्याति अहिफेनः स एव हि ॥२३६॥ अहिफेनपरिचयः—खस्तिलस्येत्यादिना । यद्यपि केचित्—"समुद्रे चैव जाय- न्ते विषमत्स्याश्चतुर्विधाः। तेभ्यः फेनं समुत्पन्नमहिफेनं चतुर्विधम् ॥" "केचिद्वदन्ति सर्पाणां फेनं स्यादहिफेनकम् । धारणं श्वेतवर्णञ्च रक्तवर्णञ्च जारकम् ॥ सारणं पीतवर्णञ्च कृष्णवर्णञ्च मारणम् । विषवद्धयुत्तमं फेनं युज्यते रसकर्मणि" इत्याहुः। तत्त्वनर्गलंवचनमेव, तादृशपदार्थानुपलम्भात् । निघण्टुवर्णितगुणायोगाच्च खाख- सजातो निर्यास एव अहिफेनं सर्वसम्मतमिति निर्विवादम् । तदेतदाह—खस्तिलस्य तदाख्यक्षुपविशेषस्य, फलानां क्षुपलग्नानां हरितानामेव चरणात् लेखनादिति यावत्, "चीरं रेखाभेदो लेखनभेद" इति मेदिनी । चीरणं च लेखनयन्त्रविशेषेण सम्पाद्यते । लेखनयन्त्रं हि पञ्चषैस्तीक्ष्णाग्रैर्लोहफलकैरकत्र ईषदन्तरेण संयोजितैः सम्पन्नं भवति । सायं खस्तिलफलानि लिख्यन्ते, प्रातश्च निर्यासः शुष्कः विलि- ख्यैकत्रीक्रियते । दुग्धवत् दुग्धसदृशो यो निर्यासः अभिनिर्याति बहिः स्रवति तस्यैव नाम अहिफेनमिति ॥२३६॥