रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 94, कुल 799 में से
संदर्भ में पढ़ें५२ रसतरङ्गिणी स्थालीयन्त्रम् स्थाल्यां संस्थाप्य लोहादि मल्लेनावृणुयान्मुखम् । स्थाल्यधोज्वालयेदग्निं स्थालीयन्त्रमिदं स्मृतम् ॥२८॥ मल्लेन शरावेण ॥ २८ ॥ भा. टी.—किसी हाँडी या पात्र में लोहा आदि धातुओं को अम्ल आदि द्रव्यों के साथ भरकर उसके मुख को एक सिकोरे से बन्द करके चूल्हे में रख- कर पकाने के लिए काम में आनेवाले यन्त्र को स्थालीयन्त्र कहते हैं ॥२८॥ वालुकायन्त्रम् सवस्त्रकुट्टितमृदा लिप्ताङ्गीञ्च विशोषिताम् । रसादिपूर्णजठरां काचकूपोन्तु विन्यसेत् ॥२९॥ स्थाल्यां मृत्तललिप्तायां सुदृढायां प्रयत्नतः । आकण्ठं कूपिकां तत्र वालुकाभिः प्रपूरयेत् ॥३०॥ भाण्डाधो ज्वालयेदग्निं यथाकालं यथाक्रमम् । एतद् बुधैः समाख्यातं वालुकायन्त्रसंज्ञकम् ॥३१॥ वालुकायन्त्रे—स्फुटनभयाल्लेपस्य दृढताऽपेक्षिता, अत आह सवस्त्रकुट्टितमृ- देति । अत्र च वालुका स्थूलशर्करा ग्राह्या, सम्यक् तापार्थं चालनीशोधिता च । स्पष्टमन्यत् । अत्रेदमवधेयम्—उक्तप्रचलितवालुकायन्त्रद्वारा मकरध्वजादिसाध- नेन न स्वर्णसहितो रस ऊर्ध्वं लगतीति, तथाच निःस्वर्णक एवासौ नाधिकमुप- युक्तः स्यादिति विमृशद्भिर्मित्रवंशावतंसैः श्रीनरेन्द्रनाथनामधेयैः सूक्ष्मेक्षणमनु- निश्चितं यत् प्रचलितं वालुकायन्त्रमेव न सम्यक्, अतिप्राचीनतन्त्रेष्ववर्णितञ्चे- ति प्राचीनाचार्य्यसम्मतेन वालुकायन्त्रेण मकरध्वजादिनिर्माणे स्वर्णसाहित्यं भवति रसेश्वरस्येति । तदेतद्रहस्यमत्यन्तकृपोपलब्धमाविष्कुर्मः सतां लाभाय । तद् यथा—“आदौ पुष्टां दीर्घनालां काचकूपीं विचक्षणः । समाहृत्य तत्तृतीयं भागं द्रव्येण पूरयेत् ॥ तस्या मुखं मुद्रयित्वा लिम्पेन्मृद्वस्त्रसप्तकैः । विशोष्य च सुगम्भीरे भाण्डे संस्थाप्य यत्नतः ॥ यथा तु कूपिकास्थेऽपि वालुका स्यात् षडङ्गुला । तथा च मुखपर्य्यन्तं भाण्डमापूरयेद् बुधः ॥ मृत्पंकविलिप्ताङ्गश- रावेणाथ योजयेत् । तस्याधोऽग्निं तथा दद्याद्यथा भाण्डमुखोपरि ॥ क्षिप्तं तृणं दहेदग्निः, स्वाङ्गशीतन्ततो नयेत् । एषोऽन्तर्धूमसिन्दूरनिर्माणे सिद्धस- म्मतः ॥ प्रकारो वालुकायन्त्रस्यैतद्भिन्नो न चोत्तमः ॥” इति । अत एव च “अधः