रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 257, कुल 584 में से
संदर्भ में पढ़ेंभाषाटीकासहित । (२३१) चन्द्रप्रभा वटिका । क्रिमिरिपुदहनव्योषत्रिफलासुरदारुचव्यभूनिम्बम् । मागधिमूलं मुस्तं सशटा वचा धातुमाक्षिकञ्चैव ॥ लवणक्षारनिशायुगकुस्तुम्बुरुगजकणातिविषा ।१२॥ कर्षांशकान्येव समानि कुर्यात्पलाष्टकं चाश्मज- तोर्विदध्यात् । निष्पत्रशुद्धस्य पुरस्य धीमान् पलद्वयं लौहरजस्तथैव ॥ १३ ॥ सिताचतुष्कं पलमत्र वांश्यां निकुम्भकुम्भात्रिसुगन्धियुक्तम् । चन्द्रप्रभेयं गुटिका विधेया अर्शांसि निर्णाशयते षडेव॥१४॥भगन्दरं कामलपाण्डुरोग विनष्टवह्नेः कुरुते च दीप्तिम् । हन्त्यामयान् पित्तकफानिलो- त्थान्नाडीगते मर्मगते व्रणे च ॥ १५ ॥ ग्रन्ध्यर्बुदे विद्रधिराजयक्ष्ममेहे भगाख्ये प्रदरे च योज्या । शुक्रक्षये चाश्मरिमूत्रकृच्छ्रे मूत्रप्रवाहेऽप्युदरा- मये च ॥१६॥ तक्रानुपानं त्वथ मस्तुपानमाजो रसो जाङ्गलजो रसो वा । पयोऽथवा शीतजलानु- पानं बलेन नागस्तुरगो जवेन ॥ १७ ॥ दृष्ट्या सुपर्णः श्रवणे वराहः कान्त्या रतीशो धिषणश्च बुद्धया । न पानभोज्ये परिहार्यमस्ति न शीत- वातातपमैथुनेषु । शम्भुं समभ्यर्च्य कृतप्रणामं प्राप्ता गुटी चन्द्रमसःप्रसादात् ॥१८॥ शुक्रदोषान् निहन्त्याशु प्रमेहानपि दारुणान् । वलीपलित- निर्मुक्तो वृद्धोऽपि तरुणायते ॥ १९ ॥