भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 105, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 105

60 रत्नावली सागरिका—कहं पत्थिदा देवी । भोदु । तुरिअं गमिस्सं । (राजानं सस्पृहं दृष्ट्वा निःश्वस्य) कथं मन्दभाइणीए मए पेक्खिदुं वि चिरं ण पारिदो अअं जणो । (क) (इति निष्क्रान्ता) राजा—(परिक्रामन्) देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा पश्यान्यानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् । श्रुत्वा ते परिवारवारवनितागीतानि भृङ्गाङ्गना लीयन्ते मुकुलान्तरेषु शनकैः सञ्जातलब्जा इव ॥२५॥ (इति निष्क्रान्ताः सर्वे) इति मदनमहोत्सवो नाम प्रथमोऽङ्कः (क) कथं प्रस्थिता देवी ! भवतु, त्वरितं गमिष्यामि । कथं मन्दभागिन्या मया प्रेक्षितुमपि चिरं न पारितः अयं जनः । वैतालिकः मागधः । विविधाश्चासौ तालः, तेन चरतीति वैतालिकः स्तुतिकीर्त्तनविद् । अस्तापास्तेति । अस्ते अस्ताचले अपास्ताः निक्षिप्ताः समस्ताः भासः किरणा येन तस्मिन् रवौ नभसः पारं प्रयाते अस्तङ्गते इत्यर्थः । सायन्तने समये सायं काले दृशां लोकनयनानां प्रीत्युत्कर्षं कृतः आनन्दातिशयं विदधतः सुधामयूखत्वात्, (राजपक्षे) रञ्जनशीलत्वात् रमणीयाकृतित्वाच्च इत्यर्थः । इन्दोः चन्द्रस्य इव तव सरोरुहद्युतिमुषः कमलशोभापहारिणः, चन्द्रोदये कमलानां निमीलनेन शोभापगमात् । पादान् (चन्द्रपक्षे) मयूखान् (राजपक्षे) चरणौ बहुवचनं त्वत्यादरात् इत्यर्थः । सेवितुं एषः नृपजनः प्रस्तावनायां पादपद्मोपजीवी राजसमूह इति यदुक्तं तस्यैव समर्थनम् । सम्प्रति आस्थानीं राजसभां समं युगपत् सम्पतन् उदीक्षते औत्सुक्येन अपेक्षते । ऊर्ध्वं प्रेक्षते च । शार्दूलविक्रीडितं वृत्तम् । श्लेषाणु- प्राणितैयमुपमा । पादान् इत्यत्र श्लेषः ॥२३॥ तत्परेति । परस्य प्रेष्यं प्रेरणां परादेशकारित्वमिति यावत् वासवदत्तायाः आज्ञा- कारित्वमिहस्य कथयतीति भावः । तेन परप्रेष्येण कथितं क्लिष्टमपि जीवितं एतस्य