रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 104, कुल 520 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः 59 Vasava—(offering sandal-paste, flowers and ornaments) Noble Brahmana, please receive your benedictory presents. Jester—(Accepting joyfully) Let good fortune attend your ladyship ! ( नेपथ्ये वैतालिकः पठति ) अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवौ, आस्थानीं समये समं नृपजनः सायन्तने सम्पतन् । सम्प्रत्येष सरोरुहद्युतिमुषः¹ पादांस्तवासेवितुं ²प्रोद्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोदीक्षते ॥२३॥ सागरिका—³(श्रुत्वा सहर्षं परिक्रम्य राजानं दृष्ट्वा सस्पृहम्) कहं अअं सो राआ उदअणो णाम जस्स अहं तादेण दिन्ना ! ता परप्पे- सणकरिसिदं वि मे जीविदं एदस्स दंसणेण दाणिं बहुमदं संबुत्तं ! (क) राजा—कथमुत्सवापहृतचेतोभिरस्माभिः सन्ध्यातिक्रमोऽपि नोपलक्षितः। ⁴देवि पश्य— उदयतटान्तरितमियं प्राची सूचयति दिङ् निशानाथम् । परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥२४॥ देवि तदुत्तिष्ठावः⁶। आवासाभ्यन्तरमेव प्रविशावः। ( सर्वे उत्थाय परिक्रामन्ति ) (क) कथम् अयं सः राजा उदयनी यस्याहं तातेन दत्ता ! तत् परप्रेष्य- कर्षितमपि मे जीवितं एतस्य दर्शनेन इदानीं बहुमतं संवृत्तम् !
- ॰मुखाः 2. प्रभ्युत् 3. आकर्ण्य (सोद्वेगम्) 4. सम्प्रति परिक्षतमहः, देवि पश्य
- तदुत्तिष्ठ ।