रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 154, कुल 520 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः 109 निपुणिका—कहं सुसंगदा ! हला$^१$ सुसङ्गदे, सुट्ठु तुए जाणिदं । एदं खु मम विस्रम्भस्स कारणं ।—अज्ज किल भट्ठा सिरिपव्वदादो आगदस्स सिरिकंठ$^२$नामधेयस्स धम्मिअस्स सकासादो अकालकुसुम-संजणण$^३$दोहअं सिक्खिअ अत्तणो पडिग्गहिदं णोमालिअं कुसुमसमिद्धिसोभिअं करिस्सदित्ति तहिं एदं वुत्तंतं जाणिदुं देवीए पेसिदम्हि । तुमं उण कहिं पत्थिदा ? (क) सुसङ्गता—पिअसहिं सागरिअं अन्वेसिदुं । (ख) निपुणिका—सहि दिट्ठा मए दे पिअसही सागरिआ गहीद-समुग्गअचित्तफलअवट्टिआ ससुब्बिग्गा विअ कदलीघरं पबिसंती । ता गच्छ पिअसहिं । अहंपि देवीसआसं गमिस्सं । (ग) इति निष्क्रान्ते इति प्रवेशकः (क) कथं सुसङ्गता ! हला सुसङ्गते ! सुष्ठु त्वया ज्ञातम् । एतत् खलु मम विश्रम्भस्य कारणम्—अद्य किल भर्त्ता श्रीपर्वतात् आगतस्य श्रीकण्ठनामधेयस्य धार्मिकस्य सकाशात् अकाल-कुसुम-सञ्जननदोहदं शिक्षित्वा आत्मनः परिगृहीतां नवमालिकां कुसुम- समृद्धिशोभितां करिष्यति इति तत्र एतत् वृत्तान्तं ज्ञातुं देव्या प्रेषितास्मि । त्वं पुनः कुत्र प्रस्थिता ? (ख) प्रियसखीं सागरिकां अन्वेष्टुम् । (ग) सखि, दृष्टा मया प्रियसखी सागरिका गृहीतसमुद्गकचित्रफलकवर्तिका समुद्विग्ना इव कदलीगृहं प्रविशन्ती । तद् गच्छ प्रियसखीम् । अहमपि देवीसकाशं गमिष्यामि । 1 सखि । 2 सिरिखंडदाए । 3 समुग्गम ।