रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 175, कुल 520 में से
संदर्भ में पढ़ें130 रत्नावली वसन्तकः—( सहसोपसृत्य ) जयदु जयदु पियवयस्सो ! भो वयस्स ! दिठ्ठिआ वड्ढसि ( जेण दिन्नमेत्तेण ज्जेव तेण दोहएण इत्यादि पुनः पठति ) (क) (क) जयति जयति प्रियवयस्यः ! भो वयस्य, दिष्ट्या वर्द्धसे (येन दत्तमात्रेण एव तेन दोहदेन ईदृशी नवमालिका संवृत्ता, येन निरन्तरोद्भिन्नकुसुमगुच्छाच्छादित- विटपा उपहसन्ती इव लक्ष्यते देवीपरिगृहीतां माधवीलताम् । ) निर् नास्ति अन्तरम् अवकाशः यस्मिन् तत् निरन्तरं सन्ततं यथा तथा उद्भिन्नानि उद्गतानि कुसुमानि तेषां गुच्छानि तैः आच्छादिताः विटपाः शाखाः यस्याः सा नवमालिका राज्ञः परिगृहीता । देवीपरिगृहीतां माधवीलतामुपहसन्ती स्वकुसुमसमृद्ध्या इत्यर्थः । लब्धप्रत्ययतया लब्धविश्वास्तया । उद्दामेति । उद्दामा बद्धरंहिताः अतिप्रभूता च उत्कलिकाः उत्कण्ठाः कोरकाश्च यस्याः ताम् । विपाण्डुरुचं विपाण्डुरा विशेषेण पाण्डुवर्णा प्रियविरहेण पुष्पोद्गमेन च शुक्लवर्णत्वात् रुक् कान्तिः शोभा च यस्याः ताम् । प्रारब्धजृम्भां प्रारब्धा जृम्भा जृम्भणं विकासश्च यस्याः ताम् 'जृम्भा विकास-जृम्भणयो- स्त्रिषु' इति मेदिनी । अविरतैः निरवच्छिन्नैः श्वसनोद्गमैः श्वासोद्गमैः उद्गमैः वायुनामुद्गमैश्च "श्वसनः स्पर्शने वायौ" इत्यमरः । आत्मनः आयासं खेदं भ्रमणजन्यं श्रमञ्च चातन्वतीं कुर्व्वतीं समदनां मदनवशगां नारीमिव अद्य इमाम् उद्यानलताम् नवमालिकाम् इत्यर्थः । पश्यन् अद्य देव्याः वासवदत्तायाः मुखं कोपविपाटलद्युति कोपेन क्रोधेन विपाटला विशेषेण पाटला श्वेतरक्ता, “श्वेतरक्तस्तु पाटलः” इत्यमरः, द्युतिः कान्तिः यस्य तत् मुखम् ध्रुवं निश्चितं करिष्यामि । यथा काचित् नारी प्रियेण विशेषेणानुगृहीतामन्यां नारीं समृद्धां विलोक्य ईर्ष्यया स्वमुखमारक्तिभावं करोति तथा कुसुमसमृद्ध्या राज्ञा अनु- गृहीतां नवमालिकां विलोक्य वासवदत्ताया अपि मुखं रक्ताभं भविष्यति कोपेनेत्यर्थः । अत्र उक्तिभङ्ग्या सागरिकामुपक्षिपतीत्यर्थः ॥४॥ पताकास्थानकमेतत् । Prose order. उद्दामोत्कलिकां विपाण्डुरुचं अद्यत् प्रारब्धजृम्भां अविरतैः श्वसनोद्गमैः चात्मनः चायासं चातन्वतीम् अद्य समदनां नारीम् इव इमाम् उद्यानलतां पश्यन् अहम् अद्य ध्रुवं देव्याः मुखं कोपविपाटलद्युति करिष्यामि ॥४॥