रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 287, कुल 520 में से
संदर्भ में पढ़ें242 रत्नावली स्थगयति आच्छादयति ऋणद्धीति यावत् । ततः अन्यामपि दिशं स्थगयति इत्यर्थः । क्रमात्- क्रामन् सञ्चरन्। अद्रिः पर्व्वतः द्रुमः वृक्षः पुरविभागाश्च नगरविभागाश्च तान् तिरयति आच्छादयति । ततः पीनत्वं स्थूलत्वम् उपेतः तदनु ततः इत्यर्थः जनस्य ईक्षणपथं दृष्टिपथं हरति ॥ स्वभावोक्तिरलङ्कारः । शिखरिणी वृत्तम् ॥७॥ बहुलपादपतया वृक्षबहुलतया । पिण्डीकृतान्धकारं घनीभूतान्धकारं वृक्षाणां निरन्तर- सन्निविष्टतया इत्यर्थः । पुष्पगन्धेन मार्गं निश्चिनोति पालीयमिति । इयं चम्पकानां चम्पकवृक्षाणां पाली पङ्क्तिः । सिन्धुवारः वृक्षविशेषः सान्द्रा घना बकुलविटपिनां वीथी पङ्क्तिः । पाटलानां पाटलवृक्षाणाम् एषा पङ्क्तिः । एवं विविधं गन्धम् आघ्राय वीप्सायां द्विरुक्तिः । अधिगतैः ज्ञातैः पादपैः वृक्षैः करणैः द्विगुणतरेण तमसा निङ्गुतः आच्छादितः अपि एषः पन्थाः चित्रैः गन्धादिभिरित्यर्थः । व्यक्तिम् अभिव्यक्तिं सुस्पष्टतामिति यावत् । प्रयाति । स्रग्धरा वृत्तम् ॥८॥ निपतन्तः मधुकराः यस्मिन् तत् । बकुलकुसुमानाम् आमोदेन गन्धेन वासितं सुगन्धीकृतं दिशां मुखानि यस्मिन् तत् । मसृणा अकर्कशाः मरकतमणयः तैः निर्भितं यत् शिलाकुट्टिमं बद्धभूमिः तस्मिन् सुखायमानाः सुखमनुभवन्तः चरणसञ्चाराः पादविक्षेपाः तैः सूचितं माधवीलतामण्डपम् । लघु शीघ्रम् । स्वर्गस्त्रिया स्वस्त्रिया यः समागमः तं परिभावयति तिरस्करोति । यः तस्य पक्षपातः आदरातिशयः । **Prose order :—**हरकण्ठद्युतिहरः अयं तमःसंघातः पुरः पूर्ध्वामेव दिशं स्थगयति ततः अन्यामपि ( दिशं स्थगयति ) क्रमात् क्रामन् अद्रिद्रुमपुरविभागान् तिरयति । तदनु पीनत्वम् उपेतः जनस्येक्षणपथं हरति ( पाठान्तरे—भुवनेक्षणफलं हरति ) ॥७॥ नियतमियं चम्पकानां पाली, अयम् असौ सुन्दरः सिन्धुवारः, तथा इयं बकुलविटपिनां सान्द्रा वीथी, एषा पाटला पङ्क्तिः । एवं विविधगन्धम् आघ्राय आघ्राय अधिगतैः पादपैः चित्रैः द्विगुणतरतमोनिङ्गुतः अपि एषः पन्थाः व्यक्तिं प्रयाति ॥८॥ Beng. Trans. রাজা—( আনন্দের সহিত চারিদিকে অবলোকন করিয়া ) বয়স্য, ঠিকই লক্ষ্য করিয়াছ। কেননা, হরকণ্ঠদ্যুতিহারী এই তমোরাশি আগে পূর্ব্বদিক্ তারপর অন্যদিক্ আচ্ছন্ন করিয়া ক্রমে ক্রমে অগ্রসর হইতে হইতে পর্ব্বত বৃক্ষ ও জনপদের