रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 367, कुल 520 में से
संदर्भ में पढ़ें322 रत्नावली वसन्तकः—(गहीत्वा णिरूप्प¹ सविस्मयम्) भोदि ! कुदो उण ईदिसस्स अलंकारस्स समागमो ? (क) सुसङ्गता—अज्ज ! मएवि सा कौतूहलेण पुच्छिदा आसि² । (ख) वसन्तकः—तदा ताए किं भणिदं ? (ग) सुसङ्गता—तदो सा उद्धं पेक्खिअ दीहं निस्ससिअ—सुसंगदे ! किं दाणिं तुह इमाए कथाएत्ति—भणिअ रोदितुं³ पउत्ता । (घ) वसन्तकः—णं कथिदं एव्व ताए⁴ । सामञ्जणदुलहेण इमिणा परिच्छदेण सब्बथा महाभिजणसमुप्पण्णाए ताए होदव्वं । सुसंगदे ! पिअवअस्सो दाणिं कहिं ? (ङ) सुसङ्गता—अज्ज ! एसो क्खु भट्टा देवीभवणादो निक्कमिअ फडिहसिलामंडवं गदो । ता गच्छदु अज्जो । अहंपि देवीए बासबदत्ताए परिचारिणी⁵ भविस्सं । (च) (इति निष्क्रान्तौ) इति प्रवेशकः (क) भवति, कुतः पुनः ईदृशस्य अलङ्कारस्य समागमः ? (ख) आर्य, मयापि कौतूहलेन पृष्टा चासीत् । (ग) तदा तया किं भणितम् ? (घ) ततः सा ऊर्ध्वं प्रेक्ष्य दीर्घं निःश्वस्य—सुसङ्गते, किमिदानीं तव अनया कथयेति भणित्वा रोदितुं प्रवृत्ता । (ङ) ननु कथितमेव तया । सामान्यजनदुर्लभेण अनेन परिच्छदेन महाभिजन- सम्पन्नया तया भवितव्यम् । सुसङ्गते, प्रियवयस्य इदानीं क्व ? (च) आर्य, एष खलु भर्त्ता देवीभवनात् निष्क्रम्य स्फटिकशिलामण्डपं गतः । तद् गच्छतु आर्यः । अहमपि देव्याः वासवदत्तायाः परिचारिणी भविष्यामि ।
- निर्वण्यं । 2. मएवि कौतूहलेण पुच्छिदं अब्वे । 3. रोइदुं । 4. मए ।
- पल्लवणिधी ।