रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 420, कुल 520 में से
संदर्भ में पढ़ें: चतुर्थोऽङ्कः 375 भणिअ अमच्चजोगंधरायणेण मम हत्थे निक्खित्ता। अदो ज्जेब्ब साअरिआत्ति सद्दाईअदि । (क) राजा—(स्वगतम् ) कथं यौगन्धरायणेन न्यस्ता ! कथमसौ मामनिवेद्य किञ्चित् करिष्यति ! वसुभूतिः—( अपवार्य ) बाभ्रव्य ! यथा सुसदृशो वसन्तकस्य कण्ठे रत्नमाला अस्या अपि सागरात् प्राप्तिः तथा व्यक्तं सिंहले- श्वरस्य दुहिता रत्नावलीयम् । ( इत्युपसृत्य—प्रकाशम् ) आयुष्मति ! रत्नावलि ! राजपुत्रि ! त्वमीदृशीमवस्थां गतासि¹ !. सागरिका—(वसुभूतिं दृष्ट्वा सास्रम्²) कहं अमच्चो बसुभूदी ! (ख) वसुभूतिः—हा हतोऽस्मि मन्दभाग्यः ! ( इति भूमौ पतति ) सागरिका—हा हदह्नि मंदभाइणी ! हा ताद ! हा अम्ब ! कहिं सि ? देहि मे पडिवअणं । ( इत्यात्मानं पातयन्ती मोहमुपगता³) (ग) वासवदत्ता—( ससम्भ्रमम् ) कंचुइ ! इयं सा मम बहिणिआ रअणावली । (घ) बाभ्रव्यः—देवि ! इयमेव सा । (क) अमात्य, एसा खलु सागरात् प्राप्तेति भणित्वा अमात्ययौगन्धरायणेन मम हस्ते निक्षिप्ता । अतएव सागरिकेति शब्द्यते । (ख) कथममात्यो वसुभूतिः ! (ग) हा हतास्मि मन्दभागिनी ! हा तात ! हा अम्ब ! क्वासि ? देहि मे प्रतिवचनम् । (घ) कञ्चुकिन् ! इयं सा मम भगिनी रत्नावली ?
- आयुष्मति, न खलु राजपुत्री रत्नावली त्वमिनामवस्थामुपगता ! 2. विलोक्य ।
- इति वसुभूतेरुपरि पतन्ती मोहमुपगता ।