भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 461, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 461

416 रत्नावली ततश्च दिवसैस्तत्र श्लाघनायमनन्दिता । सत्सङ्गतिरिवाचारं पुत्ररत्नमसूत सा ॥ ६८ ॥ श्रीमानुदयनो नामा राजा जातो महायशाः ॥ ६९ ॥ हरिणाखेटके जातु भ्राम्यन्नुदयनोऽथ सः । शबरेण दृढाक्रान्तमटव्यां सर्पमैक्षत ॥ ७२ ॥ उवाच मुच्यतामेष सर्पो मद्वचनादिति ॥ ७५ श्रुत्वेत्युदयनस्त्यागी दत्त्वार्घं शबराय तम् । कटकं जननीदत्तं स तं सर्पममोचयत् ॥ ७८ ॥ गृहीतकटके जातं शबरे पुरतो गतिम् । कृत्वा स भुजगः प्रीतो जगादोदयनं तदा ॥ ७९ ॥ वसुनेमिरिति ख्यातो ज्येष्ठो भ्रातास्मि वासुकेः । इमां वीणां गृहाण त्वं मत्तः स्वरचिताख्या ॥ ८० ॥ ॥ इति कथासरित्सागरे कथामुखलम्बके प्रथमस्तरङ्गः ॥ तृतीयस्तरङ्गः ततः स वत्सराज्यञ्च प्राप्य पित्रा समर्पितम् । कौशाम्ब्यांवस्थितः सम्यक् शशासोदयनः प्रजाः ॥ १ ॥ यौगन्धरायणाद्येषु भरं विन्यस्य मन्त्रिषु । बभूव स शनैः राजा सुखेष्वेकान्ततत्परः ॥ २ ॥ सदा सिषेवे मृगयां वीणां घोषवतीं च ताम् । अस्तीहोज्जयिनी नाम नगरी भूषणं भुवः । यस्यां वसति विश्वेशो महाकालवपुः स्वयम् । तस्यां महेन्द्रवर्म्माख्यो राजाभूद् भूभृतां वरः । जयसेनाभिधानोऽस्य बभूव सदृशः सुतः ॥ ३३ ॥ जयसेनस्य तस्याथ पुत्रोऽप्रतिमविक्रमः । समुत्पन्नो महासेननामा नृपतिकुञ्जरः ॥ ३४