रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 47, कुल 520 में से
संदर्भ में पढ़ें२ रत्नावली जगत्' इत्यादिमहाजनवाक्यतातपर्य्यानुसारेण सम्यग् विविच्य शृङ्गाररसप्रधानां रत्नावलीं नाम नाटिकां चिकीर्षुः ग्रन्थविघ्ननिराकरणमुखेन देवतास्तुतिद्वारा नान्दीश्लोकान् अवतारयन् तत्र प्रथमम् आह—पादाग्रस्थितया इत्यादि। पादयोः अग्रे ताभ्यां स्थितया अवतिष्ठमानया उच्चैर्भावार्थमित्यर्थः। मुहुः पुनः पुनः स्तनभरेण नम्रतां प्रह्वताम् आनीतया प्रापितया शम्भोः शिवस्य, सस्पृहलोचनत्रयपथं सस्पृहं साकाङ्क्षं लोचनत्रयं तस्य पन्थानं 'ऋक्पूरब्धूःपथामानक्षे इति समासान्तः अ-प्रत्ययः। यान्त्या गच्छन्त्या ह्रीमत्या लज्जाशीलया प्रथमोद्भुतयौवनत्वात्, सपुलकस्वेदोद्गमोत्कम्पया पुलकः रोमाञ्चः 'पुलको लोमहर्षणम्' स्वे दोद्गमः घर्मोत्पत्तिः उत्कम्पः वेपथुः च तैः सहिता तया। सात्त्विकभावोदयात् देवाधिदेवे अनुरागः सूचितः। एवम्भूतया गिरिजया पार्व्वत्या तदारा- धने तस्य शिवस्य आराधने पूजायां शिरसि ईङ्गितः अर्पयितुम् अभिप्रेतः क्षिप्तः कुसुमाञ्जलिः अन्तरे पार्वतीशिवयोर्मध्ये विश्रिष्यन् विशीर्णः वः युष्मान् सामाजिकान् रङ्गान्तर्वर्त्तिनः पातु रक्षतु। अत्रायमभिप्रायः—उच्चैर्वेदीमास्थितस्य शम्भोः शिरसि तन्तुष्ट्यर्थं पुष्पाञ्जलिं दातु- कामा पार्व्वती यदा पादाग्राभ्यां स्थिता तदा देवेन मदनावेशात् निरीक्ष्यमाणा तया देव्या लज्जावशात् पुष्पाञ्जलिः उभयोरन्तरे एव क्षिप्तः। शार्दूलविक्रीड़ितं वृत्तम्। काव्य- लिङ्गमलङ्कारः, कुसुमाञ्जलेः अन्तरे पतनं प्रति पूर्व्वपादस्थितानां पदार्थानाम् हेतुभूतत्वात्। अस्य श्लोकस्य मगणेन आरम्भात् ग्रन्थस्य शुभसमाप्तिः सूच्यते। यथोक्तं भामहेन—'क्षेमं सर्व्वगुरुर्द्दत्ते मगणो भूमिदैवतः।” अन्येन च “मौ भूमिस्त्रिगुरुः श्रियं दिशति" इति ॥१॥ Prose. पादाग्रस्थितया मुहुः स्तनभरेण नम्रताम् आनीतया तदाराधने सस्पृहलोचनत्रयपथं यान्त्या ह्रीमत्या सपुलकस्वेदोद्गमोत्कम्पया गिरिजया शम्भोः शिरसि ईङ्गितः क्षिप्तः कुसुमाञ्जलिः अन्तरे विश्रिष्यन् वः पातु ॥१॥ Beng. Trans. তাঁহার (শিবের) আরাধনাকালে পাদাগ্রে দণ্ডায়মানা, স্তনভারে পুনঃ পুনঃ বিনম্রগাত্রা পার্ব্বতীর প্রতি শিব পুনঃ পুনঃ নেত্রত্রয়দ্বারা সস্পৃহ দৃষ্টিপাত করিতেছিলেন। (তাহাতে) পার্ব্বতীর রোমাঞ্চ, ঘর্ম্মোদ্গম ও ঈষৎকম্প হইয়া লজ্জার উদ্রেক করিতেছিল। সেই হেতু পার্ব্বতীকর্তৃক তদীয় শিরোভাগে প্রদানার্থ ঈপ্সিত যে কুসুমাঞ্জলি নিক্ষিপ্ত হইয়াও উভয়ের মধ্যস্থলে বিশ্লিষ্ট হইয়াছিল, সেই পুষ্পাঞ্জলি তোমাদিগকে রক্ষা করুক ॥১॥