रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 90, कुल 520 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः 45 काञ्चन—एदु एदु भट्टिणी। (ग) वासव—( परिक्रम्य ) हञ्जे कञ्चणमाले ! अध केत्तिअदूरे सो रत्तासोअपायवो जहिं मए भगवदो कुसुमाउहस्स पूजा निव्वत्तइदव्वा। (घ) (क) वयस्य न एते मधुकरा नूपुरशब्दमनुहरन्तः। नूपुरशब्द एव एष देव्याः परिजनस्य। (ख) हञ्जे काञ्चनमालि, आदिशय मकरन्दोद्यानस्य मार्गम्। (ग) एतु एतु भर्त्री। (घ) हञ्जे काञ्चनमालि, अथ कियद्दूरे सः रक्ताशोकपादपः यत्र मया भगवतः कुसुमायुधस्य पूजा निर्वर्त्तयितव्या। मूले इति। मूले तरोरधः वकुलैः पुष्पवृष्ट्या गण्डूषसेकासवः तरुणीनां मुख- शीधुः येन वकुलः पुष्पाणि लभते “विकसति वकुलं योषितामास्यमद्यैः” इति कविसमयात्। वास्यते सुगन्धीक्रियते । तरुण्याः मध्वाताम्रे मधुना मद्येन चाताम्रे ईषत्ताम्रे मुखशशिनि अद्य बहोः कालादनन्तरमित्यर्थः चम्पकानि भान्ति। मधुपानारुणवदनमण्डले पटुमधुद्रुडसन- मालोक्य चम्पकानि विकसन्तीति कविसमयः। अशोकापादाहतिषु तरुणीनां पादाघातेन अशोकतरुः पुष्पितो भवति 'पादाघातादशोकः विकसति' इत्यादि कविसमयवचनात्। निर्भरं सान्द्रं नूपुराणां रसितं शब्दं रक्षताम् नूपुराणामिति वा पाठः। आकर्ण्य श्रुत्वा। भृङ्गसार्थैः मधुपसमूहैं अनुगीतैः गायनैः झङ्कारस्य नूपुरशब्दस्य अनुकरणम् अनुकृतिः आरभ्यते। अनुरणनम् इति वा पाठः। स्रग्धरा वृत्तम्। स्वभावोक्त्युत्प्रेक्षयोः संसृष्टिः ॥१८॥ Prose. अपिच, वकुलैः पुष्पवृष्ट्या मूले गण्डूषसेकासवः वास्यते इव। तरुण्याः मध्वाताम्रे मुखशशिनि चिरात् अद्य चम्पकानि भान्ति। अशोकापादाहतिषु नूपुराणां निर्भरं रसितम् आकर्ण्य भृङ्गसार्थैः झङ्कारस्य अनुगीतैः अनुकरणम् आरभ्यते इव ॥ १८ ॥ Beng. Trans. পুনশ্চ, ( অদ্য ) বকুলবৃক্ষসমূহ পুষ্পবর্ষণ দ্বারা মূলদেশে বিক্ষিপ্ত