रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 93, कुल 520 में से
संदर्भ में पढ़ें48 रत्नावलो ⸱⸱ सागरिका—जं भट्टिणी आणवेदि। ( इति कतिचित् पदानि गत्वा आत्मगतम् ) सारिआ मए सुसङ्गदाए हत्थे समप्पिदा। एदंपि अत्थि मे पेक्खिदु' कोदूहलं किं जहा तादस्स अन्तेउरे भअव' अणंगो अच्चीअदि, इह वि तह ज्जेव्व किं अच्चहेत्ति। ता जाव इह पूजासमओ होदि, दाव अहंपि भअवन्तं अणंगं ज्जेव्व पूअइदु' कुसुमाइ' अवचिणिस्स' । ( इति कुसुमावचयं नाटयति ) ( छ ) (क) भर्त्तुरासन्न एव किं न प्रेक्षते भर्त्ता। इयं खलु सा निरन्तरोद्भिद्नकुसुम- शोभिनी भर्त्रा प्रतिगृहीता माधवीलता। एषापि अपरा नवमालिका लता यस्याः अकालकुसुम समुद्गमग्रहिलामुना भर्त्रा अनुदिन' आयास्यते आत्मा। तत् एतत् अतिक्रम्य दृश्यते एव स रक्ताशोकपादपो यत्र देवी पूजां निर्व्वर्त्तयिष्यति। (ख) तर्हिहि तत्र एव लघु गच्छामः। (ग) एतु एतु भर्त्ता। (घ) अयं सः रक्ताशोकपादपो यत्र अहं पूजां निर्व्वर्त्तयिष्यामि। तत् पूजानिमित्तानि उपकरणानि मे उपनय। (ङ) भर्त्त्रि, एतत् सर्व्वं सज्जम्। (च) अहो प्रमादः परिजनस्य ! यस्य एव दर्शनपथात् प्रयत्ने'न रक्ष्यते तस्य एव दृष्टिगोचर' पतिता भवेत्। भवतु, एतत् तावत् भणिष्यामि। हञ्जे सागरिके, कथ' त्वमद्य मदनमहोत्सवापराधीने परिजने सारिकां उज्झित्वा इहागता। तत् तत्र एव लघु गच्छ। एतदपि सर्व्वं पूजोपकरण' काञ्चनमालायाः हस्ते समर्पय। (छ) यद् भर्त्री आज्ञापयति। सारिका मया सुसङ्गतायाः हस्ते समर्पिता। एतदपि अस्ति प्रेक्षितु' मे कौतूहलम्—किं यथा तातस्य अन्तःपुरे भगवान् अनङ्गः अर्च्य'ते, इहापि तथा एव किम् अर्च्चयेति। तद् यावद् इह पूजासमयौ भवति, तावदहम् अपि भगवन्तम् अनङ्गमिव पूजयितु' कुसुमानि अवचेष्यामि। निरन्तर' सन्तत' • उद्भिन्नानि प्रस्फुटितानि कुसुमानि तैः १ शोभते या सा।