समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 504, कुल 726 में से
संदर्भ में पढ़ेंविमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४१ तद्रूपमेव लतिनं वर्तयेद् वलनाकृतिम्¹ । शङ्खावर्तः ॥ ब्रूमोऽथ पुष्पकं स स्याद् विमानसदृशाकृतिः ॥ ८३ ॥ तावत्प्रमाणस्तद्वृद्धिः पञ्चभूश्चतुरश्रकः । (विमानेन मानयुक्त ?) यन्मञ्जर्या यच्च लक्षणम् ॥ ८४ ॥ तत् कार्यमत्र मञ्जर्या नतु कार्य जलान्तरम् । पुष्पकः ॥ गृहराजमथ ब्रूमः स स्यात् कैलाससन्निभः ॥ ८५ ॥ विटङ्कनिर्गमाधारनिर्यूहैः सर्वतो वृतः³ । वलभ्या भूषितो मध्ये गवाक्षद्वारसंयुतः ॥ ८६ ॥ कपोतस्तम्भपर्यन्तः शाला(ल)भञ्जीविराजितः । वेदिकाखण्डजालाद्यं क++ परितो भवेत् ॥ ८७ ॥ (कुर्वीत ?) मल्लकैश्छाद्यैः सिंहकर्णैश्च भूषितः । अलिन्दभेदतः प्राहु(गृह)राजमितं(मं) बुधाः ॥ ८८ ॥ कैलासस्येव संस्थानं स्यादस्योर्ध्वमधोऽपि च । गृहराजः ॥ ब्रूमोऽथ स्वस्तिकं तस्य पूर्ववन्मानलक्षणम् ॥ ८९ ॥ तेनैव लतिनं सर्वं कुर्वीतैवं विचक्षणः । यथा मूले विभक्ताः स्युर्लतिनैस्वस्तिकादयः ॥ ९० ॥ तथैषां स्कन्धभक्तानां मध्ये रेखां प्रकल्पयेत् । प्रासादः स्वस्तिको नाम स्यादेवं लक्षणान्वितः ॥ ९१ ॥ (सुँधानासोदयैः ?) खस्य कर्तव्यः स+भागिकः । स्कन्धं यावत् समुत्सेधो विस्ताराद् द्विगुणो भवेत् ॥ ९२ ॥ (त्यवृ?) द्वागोच्छ्रिता जङ्घा मेखला⁷ चा+भागिकी । मध्यशाला द्विभागाश्च मूलसूत्रविभागत्ः ॥ ९३ ॥ १ द. तिः । २ द. द । ३ द. दतः । ४ द. का । ५ द नः । ६ द. मुद्रित पुस्तके ‘शुकनासोदयः’ इति पाठः स्यात् । ७ द. र्य । ८ द. लां । वा. ५६