भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

विमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४१ तद्रूपमेव लतिनं वर्तयेद् वलनाकृतिम्¹ । शङ्खावर्तः ॥ ब्रूमोऽथ पुष्पकं स स्याद् विमानसदृशाकृतिः ॥ ८३ ॥ तावत्प्रमाणस्तद्वृद्धिः पञ्चभूश्चतुरश्रकः । (विमानेन मानयुक्त ?) यन्मञ्जर्या यच्च लक्षणम् ॥ ८४ ॥ तत् कार्यमत्र मञ्जर्या नतु कार्य जलान्तरम् । पुष्पकः ॥ गृहराजमथ ब्रूमः स स्यात् कैलाससन्निभः ॥ ८५ ॥ विटङ्कनिर्गमाधारनिर्यूहैः सर्वतो वृतः³ । वलभ्या भूषितो मध्ये गवाक्षद्वारसंयुतः ॥ ८६ ॥ कपोतस्तम्भपर्यन्तः शाला(ल)भञ्जीविराजितः । वेदिकाखण्डजालाद्यं क++ परितो भवेत् ॥ ८७ ॥ (कुर्वीत ?) मल्लकैश्छाद्यैः सिंहकर्णैश्च भूषितः । अलिन्दभेदतः प्राहु(गृह)राजमितं(मं) बुधाः ॥ ८८ ॥ कैलासस्येव संस्थानं स्यादस्योर्ध्वमधोऽपि च । गृहराजः ॥ ब्रूमोऽथ स्वस्तिकं तस्य पूर्ववन्मानलक्षणम् ॥ ८९ ॥ तेनैव लतिनं सर्वं कुर्वीतैवं विचक्षणः । यथा मूले विभक्ताः स्युर्लतिनैस्वस्तिकादयः ॥ ९० ॥ तथैषां स्कन्धभक्तानां मध्ये रेखां प्रकल्पयेत् । प्रासादः स्वस्तिको नाम स्यादेवं लक्षणान्वितः ॥ ९१ ॥ (सुँधानासोदयैः ?) खस्य कर्तव्यः स+भागिकः । स्कन्धं यावत् समुत्सेधो विस्ताराद् द्विगुणो भवेत् ॥ ९२ ॥ (त्यवृ?) द्वागोच्छ्रिता जङ्घा मेखला⁷ चा+भागिकी । मध्यशाला द्विभागाश्च मूलसूत्रविभागत्ः ॥ ९३ ॥ १ द. तिः । २ द. द । ३ द. दतः । ४ द. का । ५ द नः । ६ द. मुद्रित पुस्तके ‘शुकनासोदयः’ इति पाठः स्यात् । ७ द. र्य । ८ द. लां । वा. ५६

४४२ समराङ्गणसूत्रधारे

कर्णा¹ द्विभागिकाश्चैव जलमार्गस्तु षोडश । अष्टौ शाला भवन्त्यस्मिन् कर्णाश्चाष्टौ समन्ततः ॥ ९४ ॥ प्राग्ग्रीवं बाह्यतः कुर्यात् ( ²मुखभाग³ ? ) विचक्षणः⁴ । कलशश्चण्डिका ग्रीवा तद्वदामलसारकः ॥ ९५ ॥ ऊर्ध्वं ऊर्ध्वप्रमाणं च यथैवाद्य(?)तथा भवेत् । स्वस्तिकः ॥ रुचकं ब्रूमहे तस्य विभागो दशधा भवेत् ॥ ९६ ॥ भागद्वयमितौ कर्णौ भद्रं षड्भागसम्मितम् । तेषां विनिर्गमं विद्या( ५दैस्तामात्रा ? ) प्रमाणतः ॥ ९७ ॥ कुर्यादुदकमार्गांश्च प्रासादे रुचके क्वचित् । स्कन्धावशिष्टमुत्सेधो विस्ताराद् द्विगुणो भवेत् ॥ ९८ ॥ वेदिकायास्तु विस्तारः स्कन्धे षड्भागिकः स्मृतः । तृतीयांशेन कुर्वीत जङ्घामूर्ध्वं सुरोदयान्⁷ ॥ ९९ ॥ जङ्घायाश्च त्रिभागेन कार्या खुरखरण्डिका । मेखलान्तरपत्रं च कुर्यादध्यक्षभागिकम् ॥ १०० ॥ सार्धत्रिगुणसूत्रेण पूर्वा कर्कटना भवेत् । ( १०चतुर्गुणं मूलसूत्रेण मध्ये कर्कटना स्मृतौ ? ) ॥ १०१ ॥ विभज्य दशधा स्कन्धविस्तारं तैः प्रकल्पयेत् । भद्रं चतुर्भिः ११कर्णांशु(र्णांस्तु ) कुर्याद् भागैस्त्रिभिस्त्रिभिः ॥१०२॥ स्वच्छाया भूमिकाः कार्या या¹² वा मूलार्धभागिकीः¹³ (?) । भागेनामलसारं च कुमुदं चार्धभागिकम् ॥ १०३ ॥ कुम्भं भागेन कुर्वीत प्रासादे¹४ रुचके¹⁵ बुधः । साधारणोऽयं सर्वेषां प्रासादस्तु दिवौकसाम् ॥ १०४ ॥ रुचकः ॥


१ द. र्ण । २ मुद्रित पुस्तके 'मुखभागे' इति स्यात् । ३ द. गे । ४ द. णैः । ५ मु. पु. 'हस्तमात्रम्' इति स्यात् । ६ द. न्धो । ७ द. विश । ८ द. न् । ९ द. ता । १० मुद्रित पु. 'चतुर्गुणेन सूत्रेण मध्यकर्कटना स्मृता' । इति स्यात् । ११ द. कर्णांशु कुं । १२ द. ग्रीवा । १३ द. की । १४ द. द । १५ द. कं ।

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४० पुण्ड्रवर्धनकं ब्रूमः प्रासादं वल्लभं हरेः । भ्रमयेन्मूलसीमाष्टग्वृत्तमादौ समन्ततः ॥ १०५ ॥ तच्छालाकर्णसंयुक्तं कर्तव्यं सर्वतोदिशम् । यच्छन्दः स्वस्तिकेऽस्य(स) स्याद् द्विगुणः पुण्ड्रवर्धने १०६ ॥ जङ्घोदकान्तभद्राणामुच्छ्रायो विस्तृतिश्च या । स्वस्तिके कथिता सैव विज्ञेया पुण्ड्रवर्धने ॥ १०७ ॥ पुण्ड्रवर्धनः ॥ अथाभिधीयते मेरुर्दशधा तत्र भाजयेत् । सीमा(नं) तस्य कुर्वीत शृङ्गं चापि (वि ?) भागिकम् ॥ १०८ ॥ १शेषं + भागिकं भद्र( २मांयमाने ? ) ३विधीयते । पदस्य षोडशौसेने(शांशेन ) कर्तव्यमुदकान्तरम् ॥ १०९ ॥ पदैः षोडशभिर्गर्भो विधातव्यः पदं पदम् । भित्तिरन्धारिका बाह्यभित्तिश्चास्य विधीयते ॥ ११० ॥ भागषट्कोच्छ्रिता जङ्घा मेखला चैकभागिकी५ । शृङ्गं च त्रिपदोत्सेधं शिखरं स्याद् दशोच्छ्रितम् ॥ १११ ॥ कर्तव्यं वास्तुशास्त्रज्ञैस्तरस्यैकादशभूमिकम् । अर्धपञ्चमविस्तारः स्कन्धो ग्रीवार्धभागिका ॥ ११२ ॥ उच्छ्रायेण विधातव्या भा(गि)क्रोत्सेधमण्डकम् । भागार्धि(र्ध)कं च कुमुदं भागिका कलशोच्छ्रितिः ॥ ११३ ॥ षड्गुणेनैव सूत्रेण रेखा तस्य प्रकीर्तिता । मेरुं मेरुगिरिप्रख्यमेवं यः कारयेदिमम् ॥ ११४ ॥ शिलाभिरिष्टकाभिर्वा स महत् पुण्यमाप्नुयात् । मेरुः ॥ लक्षणं मन्दरस्याथ प्रासादस्याभिधीयते ॥ ११५ ॥ १ द. शेषं षड्भागिकं भद्रमा° । २ 'मायामेन' इति मुद्रित पुस्तके पाठः स्यात् । ३ द. भि । ४ द. षोडसांशेन । ५ द. तरां । ६ द. का । ७ द. च्छ्र । ८ द. र्धि । ९ द. षड्गुणो न च सू° ।

४४४ समराङ्गणसूत्रधारे गर्भ¹स्यार्धेन निष्क्रान्तं भद्रं कुर्वीत मन्द²रे । ³+++ मेरुसङ्काशं विन्यस्येत् सर्वतोदिशम् ॥ ११६॥ वलभी⁴ मध्यदेशे तु शिखरोर्ध्वसमुद्भूता⁵ । सर्वमा(म)न्यत् प्रमाणं तु मेरोरिव भवेदिह ॥ ११७॥ मन्दरः ॥ कैलासमथ वक्ष्यामो दशधा तं विभाजयेत् । भद्रं षड्भागविस्तारं मध्यदेशे विनिःसृतम् ॥ ११८॥ कर्ण(र्णा) द्विभागविस्ताराः सलिलान्तरवर्जिताः । गर्भस्यार्धेन निष्कासः कार्यो भद्रस्य सर्वतः ॥ ११९॥ (लँतिस्याखरं ?) मध्ये शिखराधसमोदयम् । भित्तिगर्भभ्रमन्तीनां जङ्घामेखलयोरपि ॥ १२०॥ विस्तारमुदयं चास्मिन् विदध्यात् स्कन्धशृङ्गयोः । मेरोरिवास्मिन् प्रासादे (वैवचद्ध ?) ग्रीवाण्डकस्य च ॥ १२१ ॥ कैलासः ॥ ब्रूमोऽथ हंसक(म)स्य स्याद् विभागो रुचके यथा (?) । जलान्तरं विशेषोऽत्र शेषं⁹ भ(रु) चंकवद् भवेत् ॥ १२२॥ हंसः ॥ भद्रस्य लक्षणं ब्रूमो दशधा तं विभाजयेत् । गर्भविस्तारमानेन स्यादस्मिन् भद्रविस्तृतिः¹¹ ॥ १२३॥ सार्धद्विभागविस्तारौ रथकौ वामदक्षिणौ । गर्भाधा(?) तुल्यमायामात्¹² प्राग्ग्रीवं चेह(लं ?) कारयेत् ॥ १२४॥ प्राग्ग्रीवस्य समुत्सेधं शिखराधेन कारयेत् । वलभीं¹³ मध्यदेशेऽस्य सिंहकर्णसमन्विताम् ॥ १२५ ॥ १ द. र्गं । २ द. न्दिं । ३ द. मंदिरं । ४ द. भीं । ५ द. च्छ्रिता । ६ द. लतिः स्याच्छिखरं मध्ये । ७ द. न्ता । ८ द. व बद्ध । ९ द. षे । १० द. व । ११ द. स्तृ । १२ द. सा । १३ द. भी ।

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४५ ( १लताजलेगवाक्षाद्यैो ? )२श्चतुष्काभिश्चतुर्दिशम् । भद्रो भवति शेषं तु स्यादत्र रुचके यथा ॥ १२६ ॥ भद्रम् ॥ अथ ३तुङ्गं प्रवक्ष्यामो द्वितीयो ह्येष मन्दरः । भूषयेत् सिंहकर्णैस्तं लतामूर्ध्वं च कारयेत् ॥ १२७॥ भूमि४र्भूमिसमुत्सेधः स्तम्भचित्रौ५दिकं तथा । मेरोरिवात्र मध्ये तु मञ्जर्यः सर्वतोदिशम् ॥ १२८॥ तुङ्गः ॥ ब्रूमोऽथ मिश्रकं स स्यान्मानसंस्थानलक्षणैः । भौमो(?)६वि( मानव )न्मध्ये शृङ्गं कैलासवद् भवेत् ॥ १२९ ॥ मिश्रकः ॥ ( अथ मालामाकारं तु तं कृत्वा गवाक्षैरुपशोभयेत् ?७) । यत्किञ्चिन्मानमध्यं तु तदाद्यस्येव ( प्र ?)कल्पयेत् ॥ १३० ॥ गवयः ॥ चित्रकूतमथ ब्रूमो दशधा तं विभाजयेत् । प्राग्ग्रीवा निर्गता(?) तस्य गर्भमानेन कारयेत् ॥ १३१ ॥ सार्धद्वर्यार्घो८विस्तारांस्तत्कर्णान् वामदक्षिणान् । उत्सेधस्य ९त्रिभागेन जङ्घोत्सेधं प्रकल्पयेत् ॥ १३२ ॥ जङ्घोत्सेधत्रि१०भागेन विन्यस्येत्११ खुरपिण्डिकाम् । कपोता१२न्तरपत्रं च तत्र स्यादधभागिकम् ॥ १३३ ॥ शिखरोत्सेधमानं यत् तत् त्रयोदशभिः पदैः । तत्र( भूमां१३स्तदुत्सेधं ? ) कल्पयेदनुसारतः ॥ १३४ ॥ ( स्तास्तम्भसो भित्तिः १४ ?) कुर्यान्मुक्ताश्च परिकर्मणा । कूटच्छेदेन तत्कर्म विन्यस्येत्१५ सर्वतोदिशम् ॥ १३५ ॥

१ मु. पु. ‘लताजालगवाक्षाद्यैः’ इति स्यात् । २ द. प्रतौ यश्चचतुष्की । ३ मु. पु. ‘उन्नुङ्ग’ इति लक्ष्यनिर्देशे पश्यते । ४ द. भू । ५ द. विवा । ६ द. वि । ७ अत्र मालाधरप्रासादलक्षणस्यावसानं, गवयप्रासादलक्षणस्यारम्भश्च मातृकायां नोपलभ्यते । ८ द. यां । ९ द. वि । १० द. वि । ११ द. से । १२ द. लासु । १३ द. मी । १४ द. तः । १५ द. से ।

भक्तमन्तरपत्रेण तलच्छन्दं तदूर्ध्वतः । द्वे द्वे कूटो ततो न्यस्येद् वामदक्षिणकर्णयोः ॥ १३६ ॥ शालामध्ये तु चत्वारि (नामे ?)कूटानि सर्वतः । भूमिकाः सिंहकर्णाश्च कपाटद्वारघटनाः ॥ १३७॥ शिखराणां समुत्सेधो त(य)थैवाद्ये तथा भवेत् । चित्रकूटः ॥ किरणः कथ्यते से स्यात् पद्मतुल्यः³ प्रमाणतः ॥ १३८ ॥ द्वात्रिंश(दनारा ?) नस्मिन् विदध्यात् षोडशाथवा । शालासु भेदः कर्णैः स्याच्छेषं मालाधरे यथा ॥ १३९ ॥ किरणः ॥ सर्वाङ्गसुन्दरं ब्रूमः कर्मभेदैरनेकता । नानाश्ल्पिलताधारं प्रासादैर्बहुभिर्युतम् ॥ १४० ॥ (तलच्छन्दतुल्यन्यासविरूक्तं ?) बहुलक्षणम् । ना ++++++ प्रासादे सर्वसुन्दरे ॥ १४१ ॥ तोरणैः सिंहकर्णैश्च संयुक्तं परिकर्मभिः । प्रमाणमिह यत्किञ्चित् सर्व विद्यात् तदाद्यवत् ॥ १४२ ॥ सर्वसुर्न्दरः ॥ श्रीवत्समथ वक्ष्यामो दशधा तं विभाजयेत् । भागत्रयेण कुर्वीत शालां तत्र विचक्षणः ॥ १४३ ॥ सार्धभागप्रविस्तारौ रथकौ वामदक्षिणौ । मूलकर्णा भवन्त्यत्र भागद्वितयविस्तृताः ॥ १४४ ॥ प्रासादहस्तमात्राभिः प्रत्येकं भद्रनिर्गमः । द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमे(व वा) ॥ १४५ ॥ १ द. पु । २ द. स्वा । ३ द. त्याः । ४ द. विं । ५ द. ˚त्पं लाला˚ । ६ द. भ । ७ द. र्णेः संयुक्तः । ८ द. प्रतौ नास्ति । ९ इह श्रीवत्सः पद्मनाभः वैराजः वृत्तकः नन्द्यावर्तः वलभीः सुपर्णः इत्येतेषां प्रासादानां क्रमेण लक्षणेषु वक्तव्येषु तानि आदर्शग्रन्थे तथा संकुलतया लिखितानि, यथा मिथो विवेक्तुं न शक्येरन् । अतो यथास्थित एवादर्शपाटो मुद्रणीय आपतितः । किन्तु पद्मनाभ-वैराज- वृत्तकानां लक्षणं परं क्रमिकं दृश्यते । १० द. ती ।

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४७ (भैली ?) मध्ये तु मञ्जर्यः कार्याः पद्मदलोपमाः । सर्वतः परिकर्म स्याद् रथिका कर्णसंश्रयौ ॥ १४६ ॥ आमलैँश्चन्द्रशालाभिः स्कन्धान्तं परिपूरयेत् (?) । खुरपिण्डौँ च जङ्घा च कुम्भायं शिखरादिँ च ॥ १४७ ॥ यत्किञ्चित् तत् प्रमाणेन वर्धमानसमं भवेत् । नन्द्यावर्तः ॥ ब्रूमो वलभ्यं स भवेद् गृहराजस्य सन्निभः ॥ १४८ ॥ आर्व(य)तश्चतुरश्रो वा प्रमाणैनैकतः समः । चतुरश्रंस्तु विस्तारादुदयो(ये) द्विगुणो भवेत् ॥ १४९ ॥ (आद्यतन्त्रस्य पुनः सार्धः स्कन्धोच्छ्रायो विधीयते ? ) । (विस्तारं दशधा समक्ष + तुरश्च समन्तः ?) ॥ १५० ॥ विभाजे (भागे) स्यात् ततो मानं पूर्वप्रासादसन्निभम् । स्वरूपं तस्य वक्ष्यामः श्रीवत्समिव तं भवे ( जे ) त् ॥ १५१ ॥ यद्वा विमानरुचकवर्धमानादिसद्मनां । छन्दे नैकस्य कस्यापि प्रासादस्य विभाजयेत् ॥ १५२ ॥ भूस्तम्भपरिकर्माणि विस्तारोत्सेधमेखलाः । सिंहकर्णरथा घण्टा तथा कुम्भाग्रषण्डकम् ॥ १५३ ॥ यत्किञ्चित् तत् प्रमाणेन यथैवाद्यं तथा भवेत् । वलभ्यः ॥ सुपर्णस्य (स्व) रूपं च प्रमाणं चाभिधीयते ॥ १५४ ॥ विभक्तं सिंहरूपेण सर्वभद्रं निवेशयेत् । भागैश्चतुर्भिर्निष्क्रान्तं भद्रं (गैँभयितः ?) समम् ॥ १५५ ॥ द्वौ भागौ मूलकर्णौ तु षड्भागा भद्रविस्तृतिः । पञ्चभागोच्छ्रिता जङ्घा मेखला तस्य भागिका ॥ १५६ ॥ १ द. शाला । २ द. यां । ३ द. लै । ४ द. ण्डी । ५ द. 'रोदिव । ६ द. प । ७ द. स्रस्य । ८ द. पुरश्च समंततः । ९ द. विभजेत् । १० द. नां । ११ द. गर्भायतः; मुद्रित प्रतौ 'गवयत:' इति स्यात। १२ द. द्वि ।

४४८ समराङ्गणसूत्रधारे मूलजङ्घात्रिभागेन खुरवेदिसमुच्छ्रितिः¹। ( सच ?) मध्ये तु शृङ्गे द्वे कर्तव्ये² वामदक्षिणे ॥ १६७ ॥ उच्छ्रायाद् द्विपदे स्यातां विभक्ते सर्वतोदिशम् । मूलकर्णेषु शृङ्गाणां त्रिपदा स्यात् समुच्छ्रितिः ॥ १६८ ॥ +++++ सेवापि चतुरङ्गुलमेव वा । कुर्याज्जालौ( ध ?)विस्तारं श्रीवत्से नन्दने यथा ॥ १६९ ॥ विस्ताराद् द्विगुणोत्सेधः स्कन्धः षड्भागविस्तृतः । उत्सेधस्य त्रिभागेन जङ्घोत्सेधो विधीयते ॥ १७० ॥ तृतीयांशेन जङ्घायाः कुर्वीत खुरपिण्डिकाम् । मेखलान्तरपत्रं च विदध्यात् सार्धभागिकम् ॥ १७१ ॥ विभाज्या दशभिर्भागैः पूर्ववत् स्कन्धविस्तृतिः⁴। सार्धद्वैगुणविस्तृत्या पूर्वा कर्कटना भवेत् ॥ १७२ ॥ चतुर्गुणेन सूत्रेण मध्या कर्कटना भवेत् । श्री( ग्री )वार्थभागमुत्सेधात् कुमुदं कुम्भकं पुनः ॥ १७३ ॥ अस्मिन्नामलसारं च यथा⁵ चाद्ये तथा भवेत् । श्रीवत्सः ॥ पद्मनाभंमथ ब्रूमः पद्मशालाभिरन्वितम् ॥ १७४ ॥ द्वितीयः⁶ पद्मकॊ ह्येष पद्ममालाधरः शुभः । सर्वमन्यत् प्रमाणं तु पद्मस्वस्तिकयोर्यथा ॥ १७५ ॥ पद्मनाभः ॥ वैराजमथ वक्ष्यामि⁷ स विज्ञेयो विमानवत् । ( रूपशिखं + मुत्सेधस्तम्भग्रीव + रूपकम् ? ) ॥ १७६ ॥ संभातोरणनिर्यूहसिंहकर्णा( र्णै )श्च तादृशैः¹²। साधारं चतुरश्रं च तं कुर्यात् पञ्चभूमिकम् ॥ १७७ ॥ १ द. तिं । २ द. व्यो । ३ द. जलाध । ४ द. तिं । ५ द. त्रि । ६ द. यथैवाद्ये । ७ द. क । ८ द. यं । ९ द. मः । १० द. वे । ११ द. स्तंभ । १२ द. शः ।

विमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४९ विमानसदृशाकारो वैराजोऽयमुदाहृतः । ²वैराजः ॥ ब्रूमोऽथ वृत्तकं मूले चतुरश्रः प्रकीर्तितः ॥ १७८ ॥ जङ्घामूले ततोऽष्टाभिस्त्रि( त्रि )वृत्तो भागत्तृतीयेके । मूलमध्याग्रतः³ पूर्णं तं कुर्यात् सर्वतोदिशम् ॥ १७९ ॥ भद्राकारं च भद्रेषु विभागे४ चतुरश्रके । ( अष्टाश्रिवज्र्रंकाकारा ? ) वृत्ते स्वस्तिकसन्निभम् ॥ १८० ॥ यथा मूलैविभागेन लतिनः स्वस्तिकोदयः । तथा वृद्धिप्रमाणाभयामयमप्याद्यवद् भवेत् ॥ १७१ ॥ वृत्तकः ॥ नन्द्यावर्तमथ ब्रूमो दशधा तं विभाजयेत् । ( र्पादोमध्यंशविस्तारो ? ) कर्णौ कुर्वीत पार्श्वयोः ॥ १७२ ॥ चतुर्भागप्रविस्तारं भद्रमस्य प्रकल्पयेत् । सपादपदिकं कुर्याच्छालाकर्णान्तरे रथम् ॥ १७३ ॥ जलाधाररथं कर्णं( तः ? )शालान्तेषु यथेष्टितः । ष+सु शिखरायामास्तन्मध्ये वलभी भवेत् ॥ १७४ ॥ जलमार्गं चैं कुर्वीत शालाकर्णान्तमूलयोः । प्रमाणमन्यथा किञ्चिद् ( भूसिंहस्येव ? ) कारयेत् ॥ १७५ ॥ सुपर्णः ॥ प्रमाणमथ सिंहस्य लक्षणं चाभिधीयते । दशधा क्षेत्रविस्तारं विभजेत् सर्वतः समम् ॥ १७६ ॥ द्विभागौ मूलकर्णौ तु कर्तव्यौ वामदक्षिणौ । मूलभद्रस्य विस्तारः षड्भिर्भागैर्विधीयते ॥ १७७ ॥ १ द. वि । २ द. वि । ३ द. तत् । ४ द. गं। ५ मुद्रित पु. ' अष्टाश्रौ वज्रकाकारम् ' इति स्यात् । ६ द. ज्ञ । ७ द. ला । ८ मुद्रित पुस्तके ' पा दोनब्यंशविस्तारौ ' इति पाठः स्यात् । द. प्रतौ च इत्येव पाठः । ९ द. लां । १० द. र्णन्तिः । ११ द. यथोष्टितः । १२ द. र्गाश्च । वा. ५७

४५० समराङ्गणसूत्रधारे विस्तारो द्विगुणैः कार्यः स्कन्धोत्सेधप्रमाणतः । पञ्चभागोच्छ्रिता जङ्घा मेखला सार्धभागिकी ॥ १७८ ॥ खुरकं वेदिबन्धं च तैत्त्रिभागेन कल्पयेत् । भागत्रयोच्छ्रितानि स्युः शृङ्गाणि च चतुर्दिशम् ॥ १७९ ॥ सिंह(स्य) कर्णवन्मध्ये वलभी भूषयेद् बुधः । सर्वमन्यत् प्रमाणं च सर्वतोभद्रवद् भवेत् ॥ १८० ॥ सिंहः ॥ विचित्रकूटं वक्ष्यामो दशधा तं विभाजयेत् । (४द्विभागिको मूलभद्रस्य ?) हस्ततुल्याङ्गुलो भवेत् ॥ १८१ ॥ शालामध्यप्रदेशे तु वलभीं सन्निवेशयेत् । कूटे द्वे सर्वतो न्यस्येच्छ्लिष्टे + मूलक + योः ॥ १८२ ॥ एष भेदः समुद्दिष्टः शाला स्यात् कूटवर्जिता । प्रमाणमन्यत् सर्वं तु विज्ञेयं चित्रकूटवत् ॥ १८३ ॥ ६विचित्रकूटः ॥ योगपीठमथ ब्रूमात्रिविष्टपमिवोत्तमम् । विभजेद् भागविंशत्या चतुरश्रं समन्ततः ॥ १८४ ॥ (कोष्ठान्यद्भागविस्तारा ?) कुर्याद् दिक्षु विदिक्षु च । भागिकौ जलमार्गौ च विदध्याद् वामदक्षिणौ ॥ १८५ ॥ विस्तारात् तेषु गर्भः स्याद् भागत्रितयसंमितः । पञ्चभागोच्छ्रिता जङ्घा कपोतान्तरवर्जिता ॥ १८६ ॥ खुरकं वेदिबन्धं च कुर्याद् भागत्रयोच्छ्रितम् । विस्तारात् (कुर्याद् दिक्षु ?) द्विगुणोच्छ्रायः कार्योऽयं पञ्चभूमिकः ॥ सिंहकर्णै रथैर्घण्टाभ्रमिकास्तम्भतोरणैः । रचनास्य विधातव्या कथिता पुष्पके तथा ॥ १८८ ॥ १ द. रा । २ द. णा । ३ द. त्रि । ४ द. द्विभागिकौ मूलकर्णौ षड्भागाद्द्रुद्विविस्तृतिः । निर्गमो मूलभद्रस्य हस्ततुल्यांगुलो भवेत् । ५ द. न्यस्येत्संश्लिष्टे मूलकर्णयोः । ६ द. मुद्रित पुस्तके 'विचित्र' इति लक्ष्य निर्देशे पठितः । ७ द. य ।

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४५१ सान्धारः केवलं कार्यः प्रासादोऽयं विचक्षणैः । योगपीठः ॥ घण्टानादमथ ब्रूमः सं भवेत् पञ्चभूमिकः ॥ १८९ ॥ अष्टाश्रिःकोणः कर्तव्यः संस्थानात् पुष्पकोऽपरः । भैरवो भद्रकाली च (स्थाप्यै चात्र पाठैको ?) ॥ १९० ॥ घण्टानादः ॥ पताकिनमथ ब्रूमो वातोद्भूतमिवार + । लतिनं लतिनाकारं ( ? ) विभक्तं सर्वतोदिशम् ॥ १९१ ॥ तं चण्डिकायाः कुर्वीत रुचकं वर्धमानकम् । ( वृक्षपताकिनं वक्ष्यामि + भृतं शाखिनं यथा ? ) ॥ १९२ ॥ पताकिनः ॥ गुहाधरमथ ब्रूमः श्रीपुष्टिसुखदायिनम् । विभक्ते दशधा क्षेत्रे भद्रं स्याद् गर्भमानतः ॥ १९३ ॥ अर्धेन मूलगर्भस्य कार्यों भद्रस्य निर्गमः । सार्धभागप्रविष्टारौ कर्णौ द्वौ द्वौ च पार्श्वयोः ॥ १९४ ॥ ( जैलाधा ? ) मूलकर्णान्ते कर्तव्यः पार्श्वयोर्द्वयोः । तद्द्वारमध्यदेशे तु विन्यस्येत् स्तम्भतोरणम् ॥ १९५ ॥ विस्तारद्विगुणोत्सेधश्चतुःशृङ्गश्चतुर्मुखः ? । भूग्रीवामेखलाजङ्घाः कुम्भकामलसारके ॥ १९६ ॥ सिंहस्येव प्रकुर्वीत गुहाधारस्ततो भवेत् । द्वारभेदेन नामास्य प्रासादस्य विनिर्मितम् ॥ १९७ ॥ गुहाधरः ॥ कथयामोऽथ शालाकं दशधा नं विभाजयेत् । द्विभागिकौ मूलकर्णौ षड्भागा भद्रविस्तृतिः ॥ १९८ ॥ द्वाराणि भद्रमध्ये स्युर्मूलद्वारसमानि तु । चतुर्बाहुश्चतुर्द्वारो द्वितीयो रुचको ह्यसौ ॥ १९९ ॥ १ द. सं । २ द. श्रि । ३ द. प्या । ४ द. पीठके । ५ द. वृक्षं पंतान वं° । ६ द. मु । ७ द. जलधो । ८ द. था ।

४५२ समराङ्गणसूत्रधारे द्वारमानेन नामास्य शालाक इति कीर्तितम् । प्रमाणमन्यद् यत्किञ्चिद् भद्रकस्येव तद् भवेत् ॥ २००॥ शालाकः ॥ इदानीं वेणुकं ब्रूमश्चतुरश्रं समं शुभम् । न कुर्याद् भद्रनिष्क्राममात्रच्छत्रात्मनः( ? ) शुभम् ॥ २०१ ॥ विस्तारद्विगुणोच्छ्रायः कुम्भाग्रं¹ (यचेदिष्यत् ?)। शिखाद्विगुणमानस्य जङ्घा त्र्यंशेन कल्पते ॥ २०२ ॥ जङ्घात्रिभागमुत्सेधात् कार्या खुरवरण्डिका । कपोतान्तरपत्रं च कर्तव्यं सार्धभागिकम् ॥ २०३ ॥ चतुर्भागो(गे)न सूत्रेण वेणुकोशं समालिखेत् । सर्वतः शोभनं कुर्यात् तं कपोतविनिर्गमै² ॥ २०४ ॥ मुखेऽस्य सिंहकर्णाः स्युश्चन्द्रशालाविवर्जिताः । प्रमाणमस्य यत्किञ्चिद् वेणुकं च विधीयते ? ॥ २०५ ॥ वेणुकम् ॥ इदानीं कुञ्जरं ब्रूमो गजलक्षणलक्षितम् । अर्धसूत्रेण तत्सा(सी)म्नः पृष्ठतो वृत्तमालिखेत् ॥ २०६ ॥ चतुर्भागा भवेज्जङ्घा मेखला सार्धभागिका । वृत्ताकारं पृष्ठदेशे तं कुर्वीत विचक्षणः ॥ २०७॥ शालासु सिंहकर्णाः स्युः पार्श्वतः पृष्ठतोऽग्रतः । कर्णाश्च तस्य कर्तव्याः शृङ्गैः सर्वैर(वै³)ऽपि पूरिताः ॥ २०८ ॥ मध्यप्रदेशे वलभी कर्तव्या चातिशोभना । यत्किञ्चित् तत्प्रमाणं तु यथैवाद्ये४ तथा भवेत् ॥ २०९॥ कुञ्जरः ॥ अथ हर्षं प्रवक्ष्यामश्चतुरश्रं मनोरमम् । विस्तारात् सार्ध उत्सेधः (स्गौँद्धूयटां ?) मस्तकावधेः ॥ २१० ॥ १ द. 'ग्रं यावदिष्यति । २ द. मैः । ३ द. पुस्तके नास्ति । ४ द. द्यं । ५ द. स्याद्वर्धटाम- स्तकावधे ।

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४९३ छाद्यरूपं च कुर्वीत चतुरश्रं चतुर्दिशम् । शुकनासं सुखातेन शोभितं परिकर्मणा ॥ २११ ॥ जङ्घामेखलयोश्च + सुरपिण्डस्य चोच्छ्रितिः । घण्टाग्रं चन्द्रशाला च च्छाद्यकं च यदृच्छया ॥ २१२ ॥ कुर्यात् प्रमाणमन्यच्च यथैव मनसः १प्रियम् । हर्षणः ॥ इदानीं विजयं ब्रूमः प्रासादं (सार्थ ?) शोभनम् ॥ २१३ ॥ लतिनो वर्धमानेन³ ++++ विभाजयेत् । शुकनासोदयं न्यस्येदंशोनशिखरोदयम् ॥ २१४ ॥ अग्रप्राग्ग्रीवकौ कार्यों रथकौ वामदक्षिणौ । (कर्तव्योर्ध्वलतश्चापं पूर्णः ?) सर्वतोदिशम् ॥ २१५ ॥ विजयो वर्धमानश्च प्रमाणेन समावुभौ । अलिन्दभेदान्नामास्य कृतं विजय इत्यदः ॥ २१६ ॥ महापद्मः ॥ ब्रूमोऽथ हर्म्यं प्रासादं ४तं कुर्यादेकभूमिकम् । दारुजं चतुरश्रं च (पट्टर्तुलांभित्तिभिः ?) ॥ २१७ ॥ दण्डच्छाद्यं च कुर्वीत समन्ताच चतुष्किकाम् । ऊर्ध्वतस्तुम्बिकाक्रान्तं पद्मखण्डै⁷र्विभूषितम् ॥ २१८ ॥ मुखैः(खे) पत्रैर्गवाक्षैश्च वेदिकास्तम्भतोरणैः । वलभीशालभञ्जीभिः सिंहकर्णैश्च भूषयेत् ॥ २१९ ॥ विस्तारमस्य हर्म्यस्य कुर्यादुच्छ्रयसंमितम् । हर्म्यः ॥ इदानीमुज्जयन्तस्य लक्षणं सम्प्रचक्ष्महे ॥ २२० ॥ कुर्याद् ⁸भूर्म्यमानेऽत्र द्वारि मण्डपभूषितम् । चतुर्द्वारं च कुर्वीत सर्वतो मण्डपान्वितम् ॥ २२१ ॥ १ द. ला । २ द. पू । ३ द. नेनं विदाजं । ४ इह 'विजयः' इति लेख्यं भाति । महापद्म इति लेखनेन च विजयानन्तरक्रमलक्षणीयानामुदकुम्भमोदकमहापद्मानां लक्षणश्लोका गलिता इत्यनुमीयते । ५ द. तत् । ६ द. त्यामिदिभिः । ७ द. ण्डे । ८ द. कुर्यास्तं हं ।

४५४ समराङ्गणसूत्रधारे प्रमाणमन्यदप्यस्य हर्म्यस्यैवाखिलं भवेत् । उज्ज्यन्तः^{२} ॥ इदानीमभिधास्यामो गन्धमादनलक्षणम् ॥ २२२ ॥ हर्म्यमानेन कर्तव्यः प्रासादो गन्धमादनः । अग्रतः पृष्ठदेशे च मण्डपं तस्य कारयेत् ॥ २२३ ॥ चतुष्कीजालपक्ष्माद्या वामदक्षिणभागयोः । प्रमाणमस्य कर्तव्यं यथा हर्म्यस्य कीर्तितम् ॥ २२४ ॥ गन्धमादनः ॥ ब्रूमोऽथ शतशृङ्गं स त्रिविष्टपंसमो भवेत् । विभजेद् भागविंशत्या पञ्चभौमं च कारयेत् ॥ २२५ ॥ +द्विभागानि कूटानि सैकमण्डशतं भवेत् । भूमौ भूमौ च शृङ्गाणि भूविस्तारदशांशतः ॥ २२६ ॥ प्रमाणमस्य यत्किञ्चित् तत् त्रिविष्टपवद् भवेत् । निरवद्यः^{६} ॥ विश्रान्तमथ वक्ष्यामः सर्वतोभद्रसन्निभम् ॥ २२७ ॥ सान्धारं तं प्रकुर्वीत सर्वतो मण्डपैर्युतम् । गवाक्षां वेदिजालाद्याः(?) कुर्याद् दिक्षु चतुष्किकाः ॥ २२८ ॥ विश्रान्तः ॥ मनोहरमथ ब्रूमः स भवेन्मण्डपो यथा । साच्छाद्यतोरणैर्दिक्षु चतुर्द्वारः समण्डपः ॥ २२९ ॥ वेदिर्षण्डाम्बुमार्गाद्यैः^७ प्रतोलीद्वारजालिकैः । सिंहपीठतलन्यासैः कलशैः परिपूरितः ॥ २३० ॥ वृत्तस्तम्भस्तुलाच्छेन्नो बहिश्चाद्येन भूषितः । सिंहव्यालगजैः पत्रैर्मुखे सस्तम्भतोरणैः ॥ २३१ ॥ १ द. स्यै । २ द. प्रतौ नास्ति । ३ द. ऽथ सततं शृंगं । ४ द. पस्य । ५ द. त । ६ इद 'शतशृङ्ग' इति लेख्यम् । निरवद्यस्य लक्षणमपि गलितम् । ७ द. क्षं । ८ द. ख । ९ द. यः । १० द. च्छेद्रो ।

विमानादिचतुष्षष्टिप्रसांदलक्षणं नामैकोनषष्टितमोऽध्यायः । ४५९ पुनः कार्यं प्रमाणं तु यथाशोभं विधीयते । मनोहरः ॥ वृत्तवृत्तायतौ ब्रूमस्तयोः कम्बुसमाकृतिः ॥ २३२ ॥ वृत्तस्तत्र तलन्यासचतुरस्रोऽशपञ्चकम् (?)। वृत्तायन्मूर्ध्वतो वृत्तं यथाशोभं समुत्थितम् ॥ २३३ ॥ कुर्यान्मुखायतं चान्यं सिंहकर्णान्वितं मुखे । वृत्तवृत्तायतौ ॥ चैत्यस्य लक्षणं ब्रूमः स स्याच्छा(थ)त्रयान्वितः ॥ २३४ ॥ अस्याकारः प्रमाणं च यथा वृत्ते तथा भवेत् । चैत्यः ॥ किङ्किणीकमथ ब्रूमः पञ्चाण्डं नवभूमिकम् ॥ २३५ ॥ वृत्तकूटाः शुभाः कार्याः सर्वेऽमी शुभलक्षणाः । किङ्किणीकः ॥ इदानीं लयनं ब्रूमः स शैलखननाद् भवेत् ॥ २३६ ॥ निःश्रेण्यारोहसोपाननिर्यूहकगवाक्षकान् । वेदीभ्रमविटङ्कांश्च प्रतोलीद्वारसंयुतान् ॥ २३७ ॥ ( उत्कीर्णान्नाचरे तैरप्राग्रीवन्मानं च ? ) । लयनम् ॥ इदानीं पट्टिसं ब्रूमः प्रासादं वस्त्रसम्भवम् (?) ॥ २३८ ॥ ( ⁴बोहातो ? ) जालपादैश्च वेदीषण्डैश्च मण्डितम् । कूर्मपृष्ठं प्रदातव्यमिच्छता शुभलक्षणम् ॥ २३९ ॥ पट्टिसः ॥ विभवः कथ्यते स स्यात्⁵ ( सुर्यामन्यसमाश्रयः ? ) । दारवे दारवो योज्यः शैलजे शैलसम्भवः ॥ २४० ॥ मृन्मये मृन्मयः कार्यश्चयने ⁶चयनोद्भवः । प्रत्यन्तग्रामखेटेषु दारुस्तम्भैर्विधीयते ॥ २४१ ॥ १ द. चित्रा । २ द. च्छि्र । ३ द. त्त । ४ द. बाह्यतो जाँ । ५ द. नं (नां) । ६ द. त्यु । ७ द. म । ८ द. न ।

४९६ समराङ्गणसूत्रधारे विभवस्यानुसारेण स कार्यों धार्मिकैस्त्रिभिः । विभवः ॥ तारागणमथ ब्रूमः स भवेन्मण्डपाकृतिः ॥ २४२ ॥ वस्त्रचीरतुलाशाण्डो (?) डोलाक्रीडाभ्रमैर्गृहैः । वस्त्रजैश्चित्ररूपाद्यैर्घण्टादर्पणतोरणैः ॥ २४३ ॥ ध्वजच्छत्रविमानाद्यैः किङ्किणीभिर्विराजितम् । यत्किञ्चित् सुन्दरं सर्वं तदत्र विनिवेशयेत् ॥ २४४ ॥ तारागणः ॥ अष्टाष्टकैर्द्वे च विशेषयोगात् प्रासादषष्टिश्चतुरन्वितेषा । विमानमुख्याः कथिता य एतान् (जोनायस्यैस ?) शिल्पिगणाग्रणीः स्यात् ॥ २४५ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे विमानादिचतुःषष्टिनामैकोनषष्टितमोऽध्यायः ॥ अथ श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । षड्त्रिं(द्त्रिं)शतमथ ब्रूमः प्रासादान् नागरक्रियान् । साधारणान् प्रथमैस्तेषु श्रीकूटः श्रीमुखस्ततः ॥ १ ॥ श्रीधरो बर्दरश्चैव तथाभ्यः(न्यः) प्रियदर्शनः । कुलनन्दोऽन्तरिक्षश्च पुष्पभासो विशालकः ॥ २ ॥ सङ्कीर्णोऽथ महानन्दो नन्द्यावर्तस्तथापरः । सौभाग्यश्च विभङ्गश्च विभवस्तदनन्तरम् ॥ ३ ॥ वीभत्सकोऽथ श्रीतुङ्गो मानतुङ्गस्तथापरः । (भेवतो र्भद्र ?) संज्ञश्च (भैवद्वाह्योदरस्तचः ?) ॥ ४ ॥ १ द. एषां । २ मु. पु. ‘जानात्यसौ’ इति स्यात् । ३ द. र्गणा । ४ द. मा । ५ मु. पुस्तकानुसारेण ‘वरद’ इति लक्षणे दृश्यते । ६ द. ष्पा । ७ द. र्णाय । ८ द. भाग । ९ मु. पु. ‘सर्वतोभद्र’ इति स्यात् । १० द. भ । ११ मु. पु. ‘भवेद् बाह्योदरस्ततः’ इति पाठः स्यात् ।; द. भवेद्वाह्योदरस्तवः ।

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४१७ निर्व्यूहोदर(संज्ञोऽन्य)स्ततो ज्ञेयः समोदरः । नन्दिभद्रो भद्रकोशश्चित्रकूटस्ततः परम् ॥ ५ ॥ विमलो हर्षणो भद्रसङ्कीर्णस्तदनन्तरम् । ततो भद्रविशालाख्यो भद्रविष्कम्भे एव च ॥ ६ ॥ उज्जयनताभिधानश्च सुखे(मे)रुरथ मन्दरः । कैलासः कुम्भकाक्ष(क्ष्य)श्च गृहराजश्च नामतः ॥ ७ ॥ एतेषां(षट्)त्रिंशादुद्दिष्टा लक्षणं कथ्यतेऽधुना । चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ॥ ८ ॥ प्रासादं विभजेत् प्राज्ञः श्रीकू(टं) नाम शोभने(नम्) । ज्येष्ठः स्याद् विंशतिर्हस्ता मध्यमो दश पञ्च च ॥ ९ ॥ कनीयान् दश विज्ञेयः प्रमाणं हस्तसङ्ख्यया । भद्रं षड्भागिकायामं(मं) कर्णाः कार्या द्विभागिकाः ॥ १० ॥ तिलकं भागिकं कार्यं भागेनैकेन निर्गतम् । तस्माद् भागेन निष्क्रान्तं भद्रमस्य विधीयते ॥ ११ ॥ भागिकी बाह्यभित्तिः स्याद् द्विपदा चान्धकारिका । भागिकी गर्भभित्तिश्च गर्भः कार्यश्चतुष्पदः ॥ १२ ॥ अधश्छन्दः समुद्दिष्ट ऊर्ध्वच्छन्दोऽभिधीयते । विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥ १३ ॥ भागत्रयोच्छ्रितं शृङ्गं द्वितीयमपि तादृशम् । पूर्वशृङ्गस्य मध्ये तद् विधातव्यं विचक्षणैः ॥ १४ ॥ सार्धभागोदयः कार्यस्तिलकोऽन्यश्च तादृशः । द्वितीयतिलकस्योर्ध्वं सुश्लिष्ट(ष्टा) रूपसंयुता ॥ १५ ॥ स्यादुरोमञ्जरी सप्तभागोत्सेधा षडायता । स्याद् भागिकमूर्च्छा(ध्छ्र्छा)यं मञ्जर्या या तु विस्तृतिः ॥ १६ ॥ १ द. नामाभ्य । २ द. न्व । ३ द. मागतः । ४ द. ते । ५ द. या । ६ द. °दः बाध्र° । ७ द. य । ८ द. वस्था । वा. ५८

४. चित्र-कर्म, षडङ्ग व प्रतिमा लक्षण (अध्याय ५१-६५)

४९८ समराङ्गणसूत्रधारे दशधा प्रविभाज्यासौ शेषं श्रीवत्सवद् भवेत् । स्कन्धः षड्भागविस्तारो ग्रीवा भागार्धमुच्छ्रिता ॥ १७ ॥ अण्डकं भागिकं कार्यं कुमुदं चार्धभागिकम् । सार्धभागेन कलशो बीजपूरकसंयुतः ॥ १८ ॥ द्वितीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी । ++++++++ १अष्टभागंसमुच्छ्रिता ॥ १९ ॥ श्रीवत्सवद् विभागोऽस्याः स्कन्धग्रीवादिके भवेत् । एवं श्रीकूटसंक्षेपं (ज्ञोऽयं) प्रासादः परिकीर्तितः ॥ २० ॥ यं कृत्वा त्रिसहस्राणि दिव्यानि दिवि मोदते । श्रीकूटः ॥ अथ लक्ष्म २+++++++ स्याभिधीयते ॥ २१ ॥ तुल्यं प्रासादमानेन विदध्यादिह मण्डपम् । मुखायामेन तिर्यक् तु चतुरश्रं ३++++ ॥ २२ ॥ ४+++ भद्रविस्तारः कर्णाश्च तिलकास्तथा । मध्ये चतुष्किका कार्या भद्रविस्तारसम्मिता ॥ २३ ॥ नि५++++++ विधातव्यस्तु मण्डपे । जङ्घाप्रासादजङ्घायाः समोत्सेधा(?)विधीयते ॥ २४ ॥ मेखलं भागिकं ६++++++ च पूर्ववत् । स्तम्भं त्र्यंशोच्छ्रितं भागं वेदी घण्टा त्रिभागिका ॥ २५ ॥ क्रमाश्रयो यवाः पञ्च ७सिंहक +++++ । शोभिताः सिंहकर्णैश्च ८वृच्छाद्याङ्गातिभूषिताः (?) ॥ २६ ॥ मण्डपं कारयेदेवं श्रीकूटस्य विचक्षणः । श्रीकूटस्यं मण्डपः समाप्तः । अलिन्दे तु यदास्यैव क्रियते ११ भद्रवेदिका १२ (यदा ?) ॥ २७ ॥ १ द. इतः पूर्वं ‘प्रविस्तारा दशभाग स°’ इत्याधिकः पाठः । २ द. °मां तदीयस्य मंडपास्या° । ३ द. °सं समंततः । ४ द. तथैव । ५ द. निर्गमस्तेन मानेन वि° । ६ द. °कां कुर्यान्मन्वच्छाद्यं । ७ द. सिंहव्याघ्रविभूषिताः । ८ द. वृ । ९ द. य । १० द. श्रीकूटस्य विक्षणं भूषणं समण्डपः समाप्तः पाठः । ११ द. न्ते । १२ काः ।

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४५९ प्रासादः श्रीमुखं ++ तदानीं स्यात् सुखावहः । श्रीमुखः ॥ यदा कूर्परमस्यैव चतुरश्रमधो भवेत् ॥ २८ ॥ तदा स्याच्छ्रीधरो नाम प्रासादो देवताश्रयः । श्रीधरः ॥ अस्यैव तु यदालिन्दः क्रियते भद्रवर्जितः ॥ २९ ॥ (रुचेः ?) भवेत् तदानीं वरदः प्रासादः शुभदायकः । वरदः ॥ विधीयते यदास्यैव भद्रमेकं विनिर्गतम् ॥ ३० ॥ निर्व्यूहैश्च तदा स स्यात् प्रासादः प्रियदर्शनः । प्रियदर्शनः ॥ विधीयते यदास्यैव नन्द्यावर्तो विनिर्गमः ॥ ३१ ॥ कुलमन्दस्तदा ज्ञेयः प्रासादः सुखकारकः । कुलनन्दनः ॥ इति श्रीकूटादिषट्कम् । अन्तरिक्षमथ ब्रूमस्तस्य द्वादशभागिकाः(?) ॥ ३२ ॥ षड्विंशत्या करैर्ज्येष्ठं मानायां दशभिर्भवेत्(?) । मध्यमे (मो) मध्यमनेन हस्तसंख्येयमीरिता ॥ ३३ ॥ पञ्चभागायतं भद्रं कर्णाः कार्या द्विभागिकाः । विस्तारस्तिलकानां स्यादन्तरं भद्रकर्णयोः ॥ ३४ ॥ निर्गमः सार्धभागः स्याद् भद्रस्य तिलकस्य च । गर्भः षोडशभागः स्याद् भागिकी भित्तिविस्तृतिः ॥ ३५ ॥ प्रदक्षिणा तु भागौ द्वौ बाह्यभित्तिः पदं भवेत् । कथितोऽयमथश्छन्दो ब्रूमश्छन्दमथोर्ध्वतः ॥ ३६ ॥ १ द. खो नाम । २ द. रुचेत्तदानीं । ३ द. हा । ४ द. त । ५ मुद्रित प्रतौ 'स स्याद् द्वादशभागिकः' इति स्यात् ।; द. स्तस्या । ६ द. कः । ७ मुद्रित पु. 'ज्येष्ठः कनीयान्' इति स्यात् । ८ द. कार्याः । ९ द. का । १० द. नां तु स्याद् ।

४६० समराङ्गणसूत्रधारे जङ्घा षड्भागिकोत्सेधा भागोत्सेधा च मेखला । ²++ भागत्रयोत्सेधे शिखरं प्रथमं तथा ॥ ३७॥ द्वितीयं तत्समं चोर्ध्वं तिलकस्योपरि स्थितम् । अधस्ता³++++++ छाद्यं तु भागिकम् ॥ ३८॥ शिखरं गर्भविस्तारं कर्तव्यं षट्पदोच्छ्रितम् । अर्धेन गर्भविस्तारा⁴ +++++स्तथा ॥ ३९॥ द्वितीयँशिखरस्योर्ध्वं (प्रागुल्भ्यान् ?) मूलमञ्जरी । इत्येष कथितः सम्यगन्तरिक्ष⁶ ++++ ॥ ४०॥ अन्तरिक्षप्रिया देवाः सर्वे वैमानिका यतः । अन्तरिक्षः ॥ भागैरष्टभिरत्रैव क्रियतेऽलिन्द⁸ +++ ॥ ४१॥ पुष्पाभासस्तदा ज्ञेयः प्रासादश्चारुदर्शनः । पुष्पाभासः । अथास्य क्रियते भद्रमलिन्दा¹⁰ +++++ ॥ ४२ ॥ ¹¹+ विशालको नाम्नौप्रासादाज्जायते शुभः(?) । विशालकः ॥ अथास्य क्रियते भद्रयुक्तस्त्यै¹³ ++ वर्जितः ॥ ४३॥ तदा संकीर्णको नाम प्रासादः परिकीर्तितः । संकीर्णकः ॥ यदा संकीर्णकस्यैव नन्दिका स( म )भागिकी ॥ ४४ ॥ क्रियते निर्गमेणैव महानन्दस्तदा भवेत् । महानन्दः ॥ विस्तारेण समश्च स्यान्नन्दिकानिर्गमो यदा ॥ ४५ ॥ १ द. धः । २ द. कार्य । ३ द. ˚स्तात् शिखरात् कार्य मल्लछाद्यं तु भाषिकं । ४ द. तां । ५ द. ग्रीवाण्डकलस । ६ द. यं । ७ द. क्षः सुरालयः । ८ द. ˚क्षाः प्रिय । ९ द. को यथा । १० द. श्चाग्रतो यदा । ११ 'विशालको नाम तदा प्रासादो जायते शुभः' इति स्यात् । इति मुद्रित पुस्तके । द. तदा । १२ द. म । १३ द. श्व यदालिंदविवर्जितः । १४ द. न्द । १५ द. स्त ।