समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 601, कुल 726 में से
संदर्भ में पढ़ें५४० समराङ्गणसूत्रधारे राजसेनसमा कुम्भी जङ्घा वेदिसमा भवेत् । एवमेतत् १त्रिधा प्रोक्तं (सूर्प ?)च्छाद्यमथोच्यते ॥ ७३ ॥ अधःपट्टोर्ध्वपट्टान्तं पञ्चधा प्रविभाजयेत् । उभाभ्यां वा त्रिभिर्वापि भजे(२निगतिस्तु सार्यते ?) ॥ ७४ ॥ ++पट्टसमोऽथ (द्वा ?) त्रयोदशविभाजिते । शूर्प३भागं त्यजेदूर्ध्वं भ(घै )टना द्वादशांशिका ॥ ७५ ॥ कुर्यान्निपातं शूर्पस्य पञ्चभागमथापि वा । दण्डकैर्भूषयेच्छूर्पं मध्ये दण्डं विवर्जयेत् ॥ ७६ ॥ मध्ये च स्तम्भिका वेद्या मत्तवारणकस्य च । भागेन पट्टपिण्डस्तु सपादेनाथवा भवेत् ॥ ७७ ॥ पृथुत्वं स्यात् स षड्भागपिण्डतुल्यं तु पट्टके । स्तम्भः पट्टसमः कार्यः६ शीर्षकं त्रिगुणं ततः ॥ ७८ ॥ स्तम्भादप्यर्थिका कूटी हीरकादपि पट्टकः । बाह्यापट्टवदुच्छ्रायः शुकनासस्थ पट्टके ॥ ७९ ॥ पट्टपिण्डोच्छ्रिता वेदी यद्वा पट्टाधिका भवेत् । मण्डपे स्यात् तुलोच्छ्रायो विभागैः प्रमितोऽष्टभिः ॥ ८० ॥ स्थलप्रासादतुल्यो वा पातस्य च सतोऽपि वा । निम्नोन्नतं छादयेच्च छेदिकायोगतो बुधः ॥ ८१ ॥ कण्ठकश्चे११+ कार्येन विधातव्यो विचक्षणैः । छेदिकायोगतो मध्ये स्तम्भाः स्युर्बाह्यतोऽधिकाः ॥ ८२ ॥ पञ्चाशेनाष्टषष्ठेन केशान्तात् सालभञ्जिकाः । रथिकाशालभञ्जीभिः स्थिताभिः पट्टिकोर्ध्वतः ॥ ८३ ॥ मध्ये क(वा)राटकं कार्यं मनोज्ञं वा सरोरुहम् । छादयेद् वास + मलं विमानैर्बहुभेदवत् ॥ ८४ ॥ १ द. स त्रि । २ द. न्नि । ३ द. प । ४ द. पैं । ५ द. तटना । ६ द. कां । ७ द. द । ८ द. र्या । ९ द. भ्यधिकां । १० द. सू । ११ द. ०क च्छेदिकार्धेन ।