साम्ब पुराण (श्री एस. एन. खण्डेलवाल हिन्दी व्याख्या सहित)
Samba Purana Hindi
महर्षि वेदव्यास (व्याख्याकार: श्री एस. एन. खण्डेलवाल) द्वारा
स्रोत: Sri Samba Purana with Hindi Commentary by Sri S. N. Khandelwal (उद्गम)
पृष्ठ 245, कुल 424 में से
संदर्भ में पढ़ेंचतुश्चत्वारिंशत्तमोऽध्यायः २३५
नास्तिक, अश्रद्धाशील होना, गुरु तथा शास्त्रवाक्य का लङ्घन करने का कार्य करना, अवैध मैथुन में प्रवृत्त होना उचित नहीं है।।६।।
अतः अक्रोधेन सत्यवादिना भूतानामहिंसकेनानसूयुनाशुचिनाऽजिह्येनानालस्येन भवितव्यम्। अतोऽङ्गमर्दिना तृणच्छेदिना नखशोधिना नित्योच्छिष्टेनाऽशङ्कमनसा सुकेशोनाभाव्यम्।
ब्राह्मे मुहूर्त्त उत्थाय धर्मार्थसाधुचिन्तकः।
आचम्य सन्ध्यां वन्देत पूर्वा च पश्चिमां तथा ॥
आदित्यमुद्यन्तमस्तं यान्तं वारिस्थमहमर्धमथ्मुपसृष्टं च नेक्षेत। परदारा न गन्तव्याः। केशप्रसाधनदन्तधावनान्यदेवतापूजनानि मध्याह्ने न कुर्वीत। मूत्रपुरीषे नाधितिष्ठेन्न पश्येच्च उदक्यया न प्रभाषेत। ग्रामसमीपे कृष्टक्षेत्रे न च पुरीषयेत्। विण्मूत्रे नाप्सु कुर्यात्। न भस्मनि मग्नो व्रजेन्न वास्थिनि। न प्राङ्मुखो न च कुत्सितमन्नमश्नीयात्। भुक्त्वाग्निमालम्भयेन्न सर्वप्राणान् स्पृशेत्। तुषकेशभस्मकार्पासास्थिउद्वर्त्तनावरक्तास्वेदादीनाधितिष्ठेत।
शान्तिहोमादीनि पवित्राणि कारयेत्। न सुप्तं गच्छन्तं स्थविरं प्रत्युत्थापयेत् न सुप्तं गच्छन्तं वा उपस्थापयेत्। आर्द्रार्नाईपादौ भोजनशयने। न वाग्निब्राह्मणोच्छिष्ठमालभेत्। न पश्येच्च सूर्याचन्द्रमसौ, नक्षत्राणि च न पश्येत्। आगच्छन्तं स्थविरं प्रत्युत्थायाभिवाद्यासनं दद्यात्। गच्छन्तं पृष्ठतोऽनुयायात्। भिन्नकांस्यासनं वर्जयेत्। नैकवस्त्रो भुञ्जीत न नग्नः स्नायाच्छयीत। नोच्छिष्टः स्पृशेच्छिरः। शिरसि केशप्रहरणं परिहरेत्। न पाणिद्वयेन शिरः कण्डूयेत्। नाभीक्ष्णं शिरसा स्नायात्। न द्विः स्नायाच्च। शिरः स्नातस्तैलेनाङ्गं न किञ्चित्स्पृशेत्। घृतं मधुसमं विषम्। मुद्गतिलान् भ्रष्टान्राश्नीयात्। उच्छिष्टो नाधीयात्। न वाध्यापयेत्, पूतिगन्धवातेन च।
अत्र गाथा यमेन गीता—
आयुरस्य निकृन्तति प्रजा नास्या भवेत्तथा।
य उच्छिष्टः प्रपठति स्वाध्यायं चाधिगच्छति ॥
सूर्यानिलानलसोमोदकगोद्विजनक्षत्राभिमुखः पथि च न मेहेत्। दिवा संध्या-सूदङ्मुखो दक्षिणामुखो रात्रौ तृणान्तर्हितभूमौ अवगुण्ठ्य नीवीविण्मूत्रे कुर्यात्। सामिषं श्राद्धं भुक्त्वा च न संध्यां वदेत्। ब्राह्मणक्षत्रियसर्पन्नात्रामन्येत। मिथ्यासत्याभ्यां गुरुणानुबन्धः कार्यो, गुरुं नापवादयेत्। गुर्वपवादे कर्णौ पिधातव्यौ, गन्तव्यमन्यत्र वा दूरादावसथात्। मूत्रपादावसेचने स्पृष्ट्वा मार्जनानि कर्त्तव्यानि। नाति प्रातर्मध्याह्ने सायाह्नेषु गच्छेत्, नैकौनाज्ञातैर्वृषलैः। गो-ब्राह्मण-क्षत्रिय-वृद्ध-भारतप्त-गर्भिणी-दुर्बलेभ्यः पन्था देयः। धृतं न धारयेद् वस्त्रं पादेनाक्रमते।