सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 102, कुल 837 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः ४३ अब चतुर्थ मन्त्र का उद्धार कहते हैं—'ॐ अच्युतायाविकृतायानन्ताय अध्यक्षाय नमः' । यह २० अक्षरों का मन्त्र है । इस प्रकार सुषुप्ति व्यूह के चारों मन्त्र कह दिये गये ॥ ४७-५६ ॥ एकार्णं पदमाद्यं तु द्वितीयं चतुरक्षरम् । पञ्चाक्षरं तृतीयं तु चतुर्थं चतुरक्षरम् ॥ ५७ ॥ तथैव पञ्चमं विद्धि अन्तस्थं द्व्यक्षरं स्मृतम् । चतुर्णामपि मन्त्राणामुद्धारप्रकारं तत्तत्पदविभागांश्चाह—आदायाक्षगतं बीजमि- त्यारभ्य अन्तस्थं द्व्यक्षरं स्मृतमित्यन्तम् । एतद्व्याख्यानमार्गस्य पूर्वमेव प्रदर्शितत्वात् सुगमः । प्राग् वर्णचक्रं विलिख्य उक्तक्रमेण वर्णोद्धारे कृते—ॐ अप्रतिहतानन्तगतये परमेश्वराय कर्त्रे नमः । ॐ अमोघसर्वशक्त्यात्मने भगवते नमो नमः । ॐ प्राणापान- समानोदानव्यानप्राणाय परायोद्गमाय नमः। ॐ अच्युतायाविकृतायानन्ताय अध्यक्षाय नम इति क्रमेण एकविंशाक्षरोऽष्टादशाक्षरस्त्रयोविंशत्यक्षरो विंशत्यक्षरश्चत्वारो मन्त्रा भवन्ति ॥ १८-५७ ॥ इस चौथे मन्त्र में एक अक्षर का प्रथम पद, चार अक्षर का दूसरा पद, पाँच अक्षर का तीसरा पद, चार अक्षर का चौथा पद, उसी प्रकार चार अक्षर का पाँचवाँ पद, तदनन्तर दो अक्षर का छठाँ पद समझना चाहिये ॥ ५७-५८ ॥ पदानां वर्णसंख्यापूरणप्रकारकथनम् यत्र यत्र पदानां च वर्णाधिक्यमुदाहृतम् । तत्रादौ नाभिपूर्वं तु व्याहृत्याद्यं पदं न्यसेत् ॥ ५८ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां सुषुप्तिव्यूहसमाराधनं नाम तृतीयः परिच्छेदः ॥ ३ ॥ — ❦ — पदानां वर्णसंख्यापूरणप्रकारमाह—यत्रेति । पदानां पूर्वोक्तमन्त्रान्तर्गतपदानां मध्ये यत्र यत्र यस्मिन् यस्मिन् पदे प्रथममन्त्रेऽनन्तगतये इत्यत्र वर्णाधिक्यमुदाहृतम् । षडक्षरं तृतीयं त्विति अक्षराधिक्यमुक्तम् । तत्र तस्मिन् पदे, आदौ प्रथमत आद्यपदाद् अप्रतिहतेति पदस्य उपरि विद्यमानमकारमाहृत्यानन्तगतय इति पदस्यादौ योजयेदिति यावत् । तथा च अनन्तगतये इति षडक्षरत्वं संभवति । एवं चतुर्थमन्त्रे अविकृताया- नन्ताय इत्यत्रापि बोध्यम् ॥ ५८ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये तृतीयः परिच्छेदः ॥ ३ ॥ — ❦ —