सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 311, कुल 837 में से
संदर्भ में पढ़ें२५२ सात्वतसंहिता जिस प्रकार अपर ओष्ठ उसके नीचे मेखला बन जावे उस प्रकार संकोच के साथ दोनों सूत्रपात करे। उसके बाहर तीन पङ्क्ति में चौकोर तीन मेखला का निर्माण करे। शङ्खान्त मेखलाओं की ऊँचाई कुण्ड के विस्तार के समान ही करे ॥ ६२-६३ ॥ चक्रकुण्डलक्षणकथनम् मेखलानां तु शङ्खस्य यन्मध्येऽश्रिचतुष्टयम् । तच्चक्रचिह्नितं कुर्यात् तल्लक्षणमथोच्यते ॥ ६४ ॥ ब्रह्ममर्मनिरुद्धेन चतुर्भागसमेन तु । खातार्थं प्राग् भ्रमं दद्यात् क्षेत्रमध्ये महामते ॥ ६५ ॥ बहिर्भागसमा नाभिस्तद्बहिर्द्व्यंशविस्तृतम् । अरक्षेत्रं च तस्यापि नेमिभागसमा बहिः ॥ ६६ ॥ भागेन तद्बहिस्त्वेका चतुरश्रा च मेखला । भ्राम्य मध्यादरक्षेत्रं वृत्तेनैकेन वै पुनः ॥ ६७ ॥ ततः सूत्राष्टकं दद्याद् दिग्गविदिक्संस्थितं पुरा । तस्य चान्तर्गतं पश्चादष्टकं पातयेत् परम् ॥ ६८ ॥ ततस्तेषां समापाद्यम् अरत्वममलेक्षण । अन्तर्वृत्तनिरोधेन प्रतिसूत्रस्य पक्षयोः ॥ ६९ ॥ सूत्रेण लाञ्छनं कुर्यान्नाभिनेमिभ्रमावधेः । एकांशादर्धमानं च नेमिवृत्तस्य चान्तरे ॥ ७० ॥ द्वाभ्यां द्वाभ्यामराभ्यां तु मध्ये कुर्यात् प्रधिं प्रधिम् । विस्तारप्रोन्नता नाभिः कूर्मपृष्ठोपमाऽरका ॥ ७१ ॥ नेमिं दर्पणवत् कुर्यात् त्वीषन्निम्नावसानतः । अथ चक्रकुण्डलक्षणमाह—मेखलानां तु शङ्खस्येत्यारभ्य शिष्टं पुरोदितं सर्वमि- त्यन्तम् । अत्र प्रतिसूत्र(स्य) पक्षयोः सूत्रेण लाञ्छन कुर्यादित्यर लक्षणमुक्तम् । पार- मेश्वरे—"मत्स्यवल्लाञ्छनं कुर्यात्" (२६।२१) इति व्यक्तमुक्तं ज्ञेयम् ॥ ६४-७२ ॥ अथ चक्रकुण्डलक्षणमुच्यते—पूर्वोक्तप्रकारेणाष्टादशधा विभक्ते चतुरश्रे क्षेत्रे मध्ये मर्मस्थाने सूत्रं संस्थाप्य मध्यात् पञ्चमरेखास्पर्शिना सूत्रेणैकं मण्डलं विलिख्य पुनः षष्ठरेखास्पर्शिना सूत्रेणैकं वृत्तमापाद्य पुनर्नवामरेखास्पर्शिना सूत्रेणैकं वृत्तं कुर्यात् । तेषु प्रथमं मण्डलं खातार्थं द्वितीयं नाभिस्थानं तृतीयमरस्थानं चतुर्थं नेमि- स्थानमिति ज्ञेयम् । तद्बहिःपङ्क्तौ चतुरश्रा एकैव मेखला कर्तव्या । पूर्वोक्तमरस्थानं मध्यात् पुनरेकेन वृत्तेन परिभ्राम्य तत्र प्रागादिदिक्ष्वाग्नेयादिविदिक्षु च सूत्राष्टकं दत्वा तेषामरत्वसिद्ध्यर्थमन्तर्वृत्तनिरुद्धेन सूत्रेण प्रतिसूत्रस्य पक्षयोर्नाभिवृत्तपर्यन्तं नेमि-