भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

२५२ सात्वतसंहिता जिस प्रकार अपर ओष्ठ उसके नीचे मेखला बन जावे उस प्रकार संकोच के साथ दोनों सूत्रपात करे। उसके बाहर तीन पङ्क्ति में चौकोर तीन मेखला का निर्माण करे। शङ्खान्त मेखलाओं की ऊँचाई कुण्ड के विस्तार के समान ही करे ॥ ६२-६३ ॥ चक्रकुण्डलक्षणकथनम् मेखलानां तु शङ्खस्य यन्मध्येऽश्रिचतुष्टयम् । तच्चक्रचिह्नितं कुर्यात् तल्लक्षणमथोच्यते ॥ ६४ ॥ ब्रह्ममर्मनिरुद्धेन चतुर्भागसमेन तु । खातार्थं प्राग् भ्रमं दद्यात् क्षेत्रमध्ये महामते ॥ ६५ ॥ बहिर्भागसमा नाभिस्तद्बहिर्द्व्यंशविस्तृतम् । अरक्षेत्रं च तस्यापि नेमिभागसमा बहिः ॥ ६६ ॥ भागेन तद्बहिस्त्वेका चतुरश्रा च मेखला । भ्राम्य मध्यादरक्षेत्रं वृत्तेनैकेन वै पुनः ॥ ६७ ॥ ततः सूत्राष्टकं दद्याद् दिग्गविदिक्संस्थितं पुरा । तस्य चान्तर्गतं पश्चादष्टकं पातयेत् परम् ॥ ६८ ॥ ततस्तेषां समापाद्यम् अरत्वममलेक्षण । अन्तर्वृत्तनिरोधेन प्रतिसूत्रस्य पक्षयोः ॥ ६९ ॥ सूत्रेण लाञ्छनं कुर्यान्नाभिनेमिभ्रमावधेः । एकांशादर्धमानं च नेमिवृत्तस्य चान्तरे ॥ ७० ॥ द्वाभ्यां द्वाभ्यामराभ्यां तु मध्ये कुर्यात् प्रधिं प्रधिम् । विस्तारप्रोन्नता नाभिः कूर्मपृष्ठोपमाऽरका ॥ ७१ ॥ नेमिं दर्पणवत् कुर्यात् त्वीषन्निम्नावसानतः । अथ चक्रकुण्डलक्षणमाह—मेखलानां तु शङ्खस्येत्यारभ्य शिष्टं पुरोदितं सर्वमि- त्यन्तम् । अत्र प्रतिसूत्र(स्य) पक्षयोः सूत्रेण लाञ्छन कुर्यादित्यर लक्षणमुक्तम् । पार- मेश्वरे—"मत्स्यवल्लाञ्छनं कुर्यात्" (२६।२१) इति व्यक्तमुक्तं ज्ञेयम् ॥ ६४-७२ ॥ अथ चक्रकुण्डलक्षणमुच्यते—पूर्वोक्तप्रकारेणाष्टादशधा विभक्ते चतुरश्रे क्षेत्रे मध्ये मर्मस्थाने सूत्रं संस्थाप्य मध्यात् पञ्चमरेखास्पर्शिना सूत्रेणैकं मण्डलं विलिख्य पुनः षष्ठरेखास्पर्शिना सूत्रेणैकं वृत्तमापाद्य पुनर्नवामरेखास्पर्शिना सूत्रेणैकं वृत्तं कुर्यात् । तेषु प्रथमं मण्डलं खातार्थं द्वितीयं नाभिस्थानं तृतीयमरस्थानं चतुर्थं नेमि- स्थानमिति ज्ञेयम् । तद्बहिःपङ्क्तौ चतुरश्रा एकैव मेखला कर्तव्या । पूर्वोक्तमरस्थानं मध्यात् पुनरेकेन वृत्तेन परिभ्राम्य तत्र प्रागादिदिक्ष्वाग्नेयादिविदिक्षु च सूत्राष्टकं दत्वा तेषामरत्वसिद्ध्यर्थमन्तर्वृत्तनिरुद्धेन सूत्रेण प्रतिसूत्रस्य पक्षयोर्नाभिवृत्तपर्यन्तं नेमि-

एकादशः परिच्छेदः २५३ वृत्तपर्यन्तं च मत्स्यवल्लाञ्छनं कृत्वा नेमिवृत्तस्यान्तरे द्वयोर्द्वयोररयोर्मध्ये एकैकं प्रधिं कुर्यात् । अत्र नाभिः कुण्डविस्तारसदृशोच्छाया कूर्मपृष्ठसदृशी कार्या । नेमि- र्दर्पणसदृशयग्रे ईशन्निम्ना च कर्तव्या । अन्यत् सर्वं पूर्ववत् कुर्यात् ॥ इति चक्र- कुण्डलक्षणम् ॥ ६४-७२ ॥ अब चक्र कुण्ड का लक्षण कहते हैं— पूर्वोक्त प्रकार से अट्ठारह भागों में प्रविभक्त चक्रकुण्ड चौकोर क्षेत्र में मध्य के मर्मस्थान में सूत्र संस्थापित करे । मध्यम से पञ्च रेखा का स्पर्श करने वाले सूत्र से एक मण्डल निर्माण कर षष्ठ रेखा का स्पर्श करने वाले सूत्र से एक वृत्त बना कर, फिर नवम रेखा का स्पर्श करने वाले सूत्र से एक वृत्त का निर्माण करे । उसमें प्रथम मण्डल खात के लिये, द्वितीय नाभि स्थान के लिये, तृतीय अरा के लिये और चतुर्थ मण्डल नाभि के लिये समझना चाहिये । उसके बाहर की पङ्क्ति में चौकोर एक ही मेखला बनानी चाहिये । पूर्वोक्त अर स्थान मध्य से पुनः एक वृत्त से घुमा कर, पूर्वादि दिशाओं में तथा आग्नेयादि कोणों में, आठ सूत्र लगा कर, उनके अरत्व की सिद्धि के लिये, अन्तर्वृत्त निरुद्ध सूत्र से, प्रत्येक सूत्र के दोनों पक्षों के नाभिवृत्त पर्यन्त और नेमिवृत्त पर्यन्त, मछली के समान रेखा खींच कर, नेमिवृत्त के भीतर रहने से दो-दो अरों के बीच में एक-एक प्रधि निर्माण करे । यहाँ नाभि कुण्ड के विस्तार के सदृश ऊँची कूर्मपृष्ठ के सदृश बनावे । नेमि दर्पण के समान आगे थोडी नीची बनावे । अन्य सब निर्माण पूर्ववत् करे ॥ ६४-७२ ॥ पद्मकुण्डलक्षणकथनम् शिष्टं पुरोदितं सर्वम् अथ पद्माकृतिं शृणु ॥ ७२ ॥ भागार्धं भ्रामयेन्नाभेर्बहिः केसरसिद्धये । भ्रामयेदपरं चार्धमरक्षेत्रस्य बाह्यगम् ॥ ७३ ॥ नीत्वा लोपमनेनैव विधिना नेमिमण्डलम् । अरसूत्राश्रितं कुर्यात् ततः पद्मदलाष्टकम् ॥ ७४ ॥ केसरभ्रमरुद्धेन सूत्रेणार्धेन्दुलक्षणम् । तच्छृङ्गकोटिसंस्थेन परिधेर्बाह्यकेन तु ॥ ७५ ॥ सूत्रद्वयेन पत्राग्रं कुर्याद् ब्रह्मभ्रमावनेः । निरन्तराणामा मूलात् केसराणां महामते ॥ ७६ ॥ कर्णिकोच्छ्रायतुल्यानां विभागं जनयेत् स्फुटम् ।

२५४ सात्वतसंहिता शङ्खकोणचतुष्के तु शेषं पूर्ववदाचरेत् ॥ ७७ ॥ पद्मकुण्डलक्षणमाह— अथ पद्माकृतिं शृण्वित्यारभ्य शेषं पूर्ववदाचरेदित्यन्तम् ॥ ७२-७७ ॥ अथ पद्मकुण्डलक्षणमुच्यते—अत्रापि चक्रकुण्डवत् प्रथमं मण्डलं खातार्थं कृत्वा द्वितीये नाभिमण्डले भागार्धं कर्णिकासिद्ध्यै अपरार्धं केशरसिद्ध्यै द्वेधा मण्डलीकृत्याऽरक्षेत्रस्य बहिरेवमेव नेमिमण्डलं द्वेधा कृत्वा प्रथमभागमरक्षेत्रेण सहैकीकुर्यात् । उत्तरभागं पत्राग्रसिद्ध्यै स्थापयेत् । अरक्षेत्रेऽष्टदलसिद्ध्यर्थं प्रागाद्यष्टदिक्ष्वपि केसरमण्डलरुद्धेन सूत्रेणाऽर्धचन्द्राकारं लाञ्छनद्वयं (द्वयं?) परस्पराभिमुखं कृत्वा तच्छृङ्गाग्रसंस्थितेन दलमण्डलबाह्यगेन सूत्रद्वयेन पत्राग्रं कुर्यात् । आमूलान्तरितन्तराणां कर्णिकोच्छ्रायतुल्यानां केसराणां व्यक्तं यथा तथा विभागं जनयेत् । पत्राग्रमण्डलाद् बहिश्चतुष्कोणेषु शङ्खचतुष्टयं कुर्यात् । शेषं पूर्ववत् ॥ इति पद्मकुण्डलक्षणम् ॥ ७३-७७ ॥ पद्मकुण्ड अब पद्म कुण्ड का लक्षण कहते हैं—यहाँ भी चक्रकुण्ड के समान प्रथम मण्डल खात के लिये बनावे । द्वितीय नाभिमण्डल में आधा भाग कर्णिका बनाने के लिये, शेष आधे भाग में केशर निर्माण के लिये दो मण्डल बनावे । फिर अर क्षेत्र के बाहर भी इसी प्रकार नेमि मण्डल कर, दो भाग कर, प्रथम भाग को अरा क्षेत्र के साथ मिला देवे । उत्तर भाग पत्राग्र बनाने के लिये स्थापित करे । अरा क्षेत्र में अष्टदल निर्माण के लिये पूर्वादि आगे दिशाओं में केशर मण्डल से अवरुद्ध सूत्र से अर्ध चन्द्राकार दो लाञ्छन परस्पराभिमुख बना कर, उस शृङ्गाग्र स्थित दल मण्डल से बाहर रहने वाले दो सूत्रों से पद्माग्र निर्माण करे । मूल से प्रारम्भ करके अन्तर रहित कर्णिका के ऊँचाई के तुल्य जिस प्रकार केशर स्पष्ट दिखाई पड़े, ऐसा उनका विभाग करे और पद्माग्र मण्डल के बाहर चारों कोणों पर चार शङ्ख बनावे । शेष पूर्ववत् बनावे ॥ ७३-७७ ॥ योनिमेकेन भागेन चतुर्भिर्मेखलागणम् । खातं पूर्वसमं किन्तु वृत्ते वृत्तास्तु मेखलाः । चतुरश्रे तदाकारा इत्युक्तं कुण्डपञ्चकम् ॥ ७८ ॥ वृत्तचतुरश्रकुण्डयोर्लक्षणमाह—योनिरिति सार्धेन ॥ ७८ ॥ अब वृत्त तथा चौकोर कुण्ड का लक्षण कहते हैं—पूर्वोक्त रीति से अट्ठारह भाग में प्रविभक्त क्षेत्र में मध्य में पूर्ववत् ६४ कोष्ठ खात के लिये छोड़कर, उसके बाहर एक पङ्क्ति में योनि बनावे । फिर चार पङ्क्ति में चार मेखला

एकादशः परिच्छेदः २५५ वृत्त कुण्ड चतुरस्रकुण्ड निर्माण करे । किन्तु खात और मेखला वृत्त कुण्ड में वृत्ताकार तथा चौकोर कुण्ड में चौकोर निर्माण करनी चाहिये । वृत्त और चौकोर इन दोनों कुण्डों में ओष्ठ और योनि पूर्ववत् निर्माण करे ॥ ७८ ॥ कालमाहुतिसंख्यां च होमद्रव्यप्रभूतताम् । ज्ञात्वैवमेकहस्तात् तु कुर्यादष्टकरावधि ॥ ७९ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां यागकुण्डविधिर्नाम एकादशः परिच्छेदः ॥ ११ ॥ होमाधिक्यानुसारेण कुण्डविस्ताराभिवृद्धिमाह—कालमिति । अत्रैकहस्तादार- भ्याष्टहस्तपर्यन्तमेकैकाङ्गुलवृद्ध्या नवषष्ट्युत्तरशतसंख्याकमानभेदा ज्ञेयाः । पारमेश्वरे द्वादशाङ्गुलमारभ्याष्टहस्तपर्यन्तमेकाशीत्यधिकशतसंख्याकमानभेदा उक्ताः— आ द्वादशाङ्गुलान्मानादेकैकाङ्गुलवर्धनात् । द्विचतुर्हस्तपर्यन्तमेकाशीत्यधिकं शतम् ॥ एतेष्वेकतरं प्रोक्तमन्येषामेवमेव हि । (२६।२८-२९) इति । द्वादशाङ्गुलमारभ्य कुण्डमानाभिवृद्धिरवश्यमपेक्षिता । यतोऽत्र प्रतिष्ठाप्रकरणे— ह्रासादङ्गुलयुग्मस्य यावद्वै षोडशाङ्गुलम् । स्यात् षट्करे गृहे कुण्डं कार्या वा मेखलाधिका ॥ (२५।९४) इति षोडशाङ्गुलकुण्डमप्युक्तम् । एवमेतावत्संख्यकहोम एतावन्मानमितं कुण्ड- मिति व्यक्तमुक्तं जयाख्ये— शतार्धसंख्याहोमे तु कुण्डं स्याद् द्वादशाङ्गुलम् ॥ होमे साष्टशते चैव मुष्ट्यरत्निसमं भवेत् । होमे चार्धशते चैव सारत्निः सकनिष्ठिकः ॥

२५६ सात्वतसंहिता हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम्। लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्टहस्तकम्॥ —(१५।१२-१४) इति। द्वादशाङ्गुलादिकुण्डानां मेखलाप्रमाणमपि तत्रैव स्पष्टमुक्तम्— प्रमाणं मेखलानां च यवद्वादशसंमितम्॥ द्वादशाङ्गुलमानस्य कुण्डस्य परिकीर्तितम्। विस्तारतुल्यमुच्छ्रायो मेखलानां महामते॥ मेखलात्रितयं चैवमेकीकृत्य तु जायते। विस्तारस्तु ततोच्छ्रायः सार्धं तु चतुरङ्गुलम्॥ रत्निमात्रस्य कुण्डस्य मेखला द्व्यङ्गुलाः स्मृताः। अङ्गुलं सकनिष्ठस्य कुण्डस्यार्धोत्तरं द्वयम्॥ त्र्यङ्गुला हस्तमात्रस्य कुण्डस्य समता स्मृता। द्विहस्तस्य द्विजश्रेष्ठ मेखलाश्चतुरङ्गुलाः॥ चतुर्हस्तस्य कर्तव्याः सर्वाश्चैव षडङ्गुलाः। अष्टाङ्गुलिश्च कुण्डस्य अष्टहस्तस्य कीर्तिताः॥(१५।१६-२१) इति ॥७९॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये एकादशः परिच्छेदः ॥ ११ ॥ — ❧ ❦ ❧ — काल, आहुति, संख्या, होम एवं द्रव्य की अधिकता को देखते हुए कुण्ड एक हाथ से लेकर आठ हाथ तक गहरा निर्माण किया जा सकता है ॥ ७९ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के यागकुण्डविधि नामक एकादश परिच्छेद की हिन्दी समाप्त हुई ॥ ११ ॥ — ❧ ❦ ❧ —

द्वादशः परिच्छेदः विभवदेवताध्यानम् नारद उवाच एवमाकर्ण्य स त्वेवं मुसली मुनिनायकाः । कृताञ्जलिपुटो भूत्वा पप्रच्छ जगतां पतिम् ॥ १ ॥ अथ द्वादशो व्याख्यास्यते । इह सङ्कर्षणो वासुदेवं विभवदेवध्यानं पप्रच्छे- त्याह—एवमिति ॥ १ ॥ इस बारहवें परिच्छेद में सङ्कर्षण भगवान् वासुदेव से विभव देवताओं का ध्यान पूछते हैं । नारद ने कहा—हे मुनिनायकों ! इस प्रकार पूर्वोक्त वचनों को सुन कर सङ्कर्षण ने हाथ जोड़कर भगवान् से पूछा ॥ १ ॥ सङ्कर्षण उवाच यथाक्रमस्थितानां च मन्त्राणां लक्ष्मीनन्दन । त्वत्तोऽहं श्रोतुमिच्छामि सर्वेषां ध्यानलक्षणम् ॥ २ ॥ प्रश्नप्रकारमाह—यथाक्रमस्थितानामिति । लक्ष्मीं नन्दयति सन्तोषयतीति लक्ष्मीनन्दनेति वासुदेवसम्बोधनम् ॥ २ ॥ सङ्कर्षण ने पूछा—हे लक्ष्मीनन्दन ! अब मैं यथाक्रम स्थित विभव देवताओं का ध्यान आपसे जानना चाहता हूँ ॥ २ ॥ श्रीभगवानुवाच त्रयाणां मुख्यपूर्वाणां ध्रुवान्तानां पुरोदितम् । शेषादीनां च शेषाणामिदानीमवधारय ॥ ३ ॥ ध्यानं पातालनिलयपर्यन्तानां यथास्थितम् । एवं पृष्टो भगवान् प्रत्याह—त्रयाणामिति सार्धेन । मुख्यपूर्वाणां विशाखयूपा- दीनामित्यर्थः । त्रयाणां विशाखयूपपद्मनाभध्रुवाणामित्यर्थः । पूर्वं नवमपरिच्छेदे— "विशाखायूपो भगवान् स्वयं विश्वसिसृक्षया" (९।४९) इत्यादिभिर्विशाखयूप-

२५८ सात्वतसंहिता ध्यानम्, ‘‘इत्येवमादिः सर्वेषाम्’’ (९।९६) इत्यादिभिः पद्मनाभध्रुवध्यानं च प्रति- पादितमित्यर्थः । शेषाणाम् अवशिष्टानामित्यर्थः । शेषादीनामनन्तादीनां पाताल- निलयपर्यन्तानां पातालशाय्यन्तानां षट्त्रिंशद्विभवदेवानामित्यर्थः ॥ ३-४ ॥ एक एव जगन्नाथः स्वरूपाद्यैस्तु शक्तिभिः ॥ ४ ॥ नानात्वेनाप्यनन्तो यो भक्तानुग्रहकाम्यया । तस्याभिमानिकं रूपं शृणु सर्वेश्वरस्य तु ॥ ५ ॥ तत्रादावनन्तस्य रूपं शृण्वित्याह—एक इति सार्धेन ॥ ४-५ ॥ श्री भगवान् ने कहा—मैंने पूर्व के मुख्य-मुख्य तीन ध्रुवान्त (विशाखयूप, पद्मनाभ और ध्रुव) (द्र. ९.४९-९६) का ध्यान पूर्व में कह दिया है अब शेष अनन्तादिकों से प्रारम्भ कर पातालशायी पर्यन्त ३६ विभव देवताओं के ध्यान को सुनिए । एक ही जगन्नाथ अपनी शक्तियों से स्वरूपों से अनेक होने के कारण जो भक्तों पर अनुग्रह करने के लिय अनन्त नाम से अभिमानिक रूप धारण करते हैं उन सर्वेश्वर के स्वरूप को सुनिये ॥ ४-५ ॥ तुहिनाचलसंकाशं पूर्णचन्द्रसमाननम् । स्वमणिव्यञ्जितेनैव युक्तं फणगणेन तु ॥ ६ ॥ प्रोद्वहन्तं हलं चक्रमपसव्यद्वयेन तु । वामहस्तद्वयेनैव शङ्खं मुसलमेव च ॥ ७ ॥ नित्यसन्निहिताशेषशक्तिं सर्वज्ञमच्युतम् । मनस्यन्तर्मुखानां यत् कर्मिणां पूरयेच्च तत् ॥ ८ ॥ तस्य ध्यानप्रकारमाह—तुहिनेति त्रिभिः । शेषकृत्यं भगवत्कैङ्कर्यधुरीणामि- त्यर्थः । नन्वनेनानन्तस्य भगवदाविष्टत्वमात्रं ज्ञायते, न साक्षादवतारत्वम्, कथं तस्य मुख्यप्रादुर्भावेष्वन्तर्भाव इति चेन्न, भगवदधिष्ठितबद्धचेतनानामेव मुख्येष्वनन्तर्भावात् । अन्तर्मुखानां निजभक्तानां मनसि यद्वाञ्छितमस्ति, तत् पूरयेत् प्रयच्छेदित्यर्थः । अनन्तस्थानं तु श्रीविष्णुपुराणे— आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ॥ तस्य वीर्यं स्वभावं च स्वरूपं रूपमेव च । नहि वर्णयितुं शक्यं ज्ञातं वा त्रिदशैरपि ॥ यस्य सा सकला पृथ्वी फणामणिशिखारुणा । आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ॥ (२।५।२०-२२) इति ॥ ६-८ ॥ भगवान् अनन्त का स्वरूप तुहिन (बर्फ) के समान स्वच्छ है तथा चन्द्रमा के समान मुख है, जो अपने फण समूहों में स्थित मणि समूहों से सारी पृथ्वी

द्वादशः परिच्छेदः २५९ प्रकाशित कर रहे हैं, जो अपने अपसव्य (दाहिने) दो हाथों से हल और चक्र धारण किये हुए हैं और दोनों बायें हाथों से शङ्ख और मुशल धारण किये हुए हैं। सम्पूर्ण शक्तियाँ जिनके सन्निधान में हैं, जो सर्वज्ञ अच्युत हैं और जो मन में अन्तर्मुख जीवों की अभिलाषा पूर्ण करते हैं ॥ ६-८ ॥ १. शक्तीशध्यानकथनम् शक्तीशोऽप्यथ सञ्चिन्त्यः पुण्डरीकनिभेक्षणः । इच्छारूपधरश्चैव सौम्यः प्रहसिताननः ॥ ९ ॥ व्यक्तये च फलादीनां भक्तानामनुकम्पया । पीडयन् स्वाङ्घ्रियुग्मेन वसुधां च करद्वयम् ॥ १० ॥ युगानुसारिकान्तिश्च चतुर्वक्त्रश्चतुर्भुजः । मूर्तचक्रगदाहस्तः अमूर्ताब्जाम्बुजाङ्कितः ॥ ११ ॥ शमं नयति सन्तापं कमलेनेन्दुखान्तिना । नानामन्त्रमयीं विद्यां व्यञ्जयत्यमलात्मनाम् ॥ १२ ॥ सम्यग् वाक्पतिना चैव कम्बुना शब्दमूर्तिना । आज्ञाप्रतीक्षकेणैव गदाचक्रद्वयेन तु ॥ १३ ॥ प्रेरितेन हिनस्त्याशु साधुसन्तापकारिणाम् । नारसिंहेन वक्त्रेण भवभीतिविघातकृत् ॥ १४ ॥ पुष्णाति सर्वभूतानि वाराहेणामृतात्मना । कुरुते पश्चिमस्थेन कापिलेनोपसंहृतिम् ॥ १५ ॥ भक्तिश्रद्धापराणां च स्मृतमात्रः सदैव हि । हृन्मध्ये गगने भूमौ वह्निमध्ये जलान्तरे ॥ १६ ॥ चतुर्णां ब्राह्मणादीनां स्वयमेवानुकम्पया । चातुरात्म्येन रूपेण चतुर्धा व्यक्तिमेति च ॥ १७ ॥ आत्मतुल्येन देहेन शङ्खपद्माङ्कितेन तु । मूर्तिमद्भिर्हलाद्यैस्तु युक्तेन वदनैर्विना ॥ १८ ॥ वर्णानुरूपवर्णेन समेनाप्यसमेन तु । अन्योन्यानुगतेनैव पूर्वोद्दिष्टेन नान्यथा ॥ १९ ॥ अथ शक्त्यात्मध्यानमाह—शक्तीश इत्येकादशभिः । इच्छारूपधरः, वक्ष्य- माणवाहनदेवीभुजास्त्रभेदैर्नानारूपधर इत्यर्थः । अमूर्ताब्जाम्बुजाङ्कितः, अमूर्तः = केवलरेखारूपः, अब्जः = शङ्खः, अम्बुजं = कमलम्, ताभ्यामङ्कितः । एवं शक्तीशा- वतारो व्यूहाद् विभवाद्वा संभवतीति बोध्यम् । यतोऽस्मिन्नेव परिच्छेदे वक्ष्यति—

२६० सात्वतसंहिता चातुरात्म्यसमूहं तु यत्पद्मदलभूस्थितम्। तथा विभवदेवानां मध्यात् पद्मदलेक्षण ॥ एकस्त्वनुग्रहार्थं तु शक्त्यात्मा भावितात्मनाम्। बिभर्ति बहुभेदोत्थं रूपं सद्वाहनस्थितम्॥ (१२।१७५-१७६) इति । अंशावतारत्वमेवोक्तमस्य सहस्रनामभाष्ये—“अथांशावतारा युगा- नुसारिकान्तिश्चेति । एवं व्याप्तिनियमनादिशक्तिद्वारा विश्वस्य व्याप्तेर्विष्णुः, “सर्व- शक्त्यात्मने” (सा०सं० २३।४८) इति मन्त्रवर्णात्” (पृ० ५३१) इति । एवं च त्रिमूर्तिष्वयमेकतम इति बोध्यम्, “नारायणावतारो यः शक्तीशो नाम नामतः” (८।१९) इति लक्ष्मीतन्त्रोक्तेः ॥ ९-१९ ॥ अब शक्तीश का ध्यान कहते हैं—उन अंशावतार शक्तीश का ध्यान करना चाहिए; जिनका कमल के समान नेत्र है, जो इच्छानुसार रूप धारण करते हैं, सौम्य तथा प्रहसित मुख हैं, जो भक्तों पर अनुग्रह करने के लिये उन्हें फलादि प्रदान करने के लिये अपने दोनों पैरों से तथा दोनों हाथों को तथा वसुधा को पीड़ित करते रहते हैं । उनकी कान्ति युगानुसार बदलती रहती है । उनकी चार भुजायें तथा मुख हैं । मूर्त रूप से चक्र और गदा हाथ में धारण किये हुए हैं और अमूर्त रूप से जल में उत्पन्न कमल धारण किये हुए हैं । जो चन्द्रमा के समान कान्ति वाले हैं और अपने कमल से सबके सन्ताप को शमन करते हैं । इतना ही नहीं जो अमलात्मा महात्माओं में नानामन्त्रमयी विद्या प्रकाशित करते हैं । जो वाक्पति शब्दमूर्ति शङ्ख से प्रेरित होने पर आज्ञा प्रतीक्षक के समान अपनी गदा तथा अपने चक्र इन दोनों से साधुओं को सन्ताप देने वालो को नष्ट कर देते हैं और अपने नरसिंह के मुख से सारे संसार का भय दूर करने वाले है । अमृतात्मना अपने वाराहमुख से सारे प्राणियों का पोषण करते हैं । पश्चिमस्थ कापिल मुख (अग्नि) से सब का उपसंहार करते हैं । भक्ति और श्रद्धा युक्त अमलात्मा महात्माओं द्वारा स्मरण किये जाने पर हृदय के मध्य में, आकाश मण्डल में, भूमि में, आग के मध्य में तथा ब्राह्मणादि चारों वर्णों पर अनुकम्पा के लिये अपने चातुरात्म्य रूप से चार प्रकार से प्रगट हो जाते हैं । जो शङ्ख, पद्माङ्कित अपने शरीर के समान जो बिना मुख के भी मूर्त्तिमान हलादि से युक्त होकर वर्णानुरूप वर्ण से, सम रूप से अथवा विषम रूप से अन्योन्यानुगत के समान पूर्वोद्दिष्ट रूप से प्रगट हो जाते हैं ॥ ९-१९ ॥ २. मधुसूदनध्यानकथनम् प्रलयानलसूर्याभः स्मर्त्तव्यो मधुसूदनः । अष्टबाहुर्विशालांसोऽप्यग्निष्टोमकराङ्कितः ॥ २० ॥ शङ्खचक्रधरश्चैव बाणकार्मुकधृक् तथा। रजस्तमोभ्यां मूर्त्ताभ्यां सम्प्रवृत्तिनिवृत्तये ॥ २१ ॥

द्वादशः परिच्छेदः २६१ कर्णपीठनिविष्टं च ध्येयं पाणियुगं विभोः। अथ मधुसूदनध्यानमाह—प्रलयानलेति सार्द्धद्वाभ्याम्। अस्यावतारस्य प्रादुर्भा- वान्तरत्वमुक्तं पौष्करे— मधुकैटभमाथी च प्रादुर्भावेश्वरस्य च। प्रादुर्भावान्तरं विद्धि पद्मनाभस्य वै विभोः॥—(३६।२१४) इति। अस्य स्थानमप्युक्तं तत्रैव— मधुकैटभमाथी च संस्थितः सोऽवनीतले॥ क्षीरोदकक्षतिक्षेत्रे सुरासुरनिषेविते।—(३६।३४३-३४४) इति॥ २०-२२॥ अब मधुसूदन का ध्यान कहते हैं—प्रलयकालीन ऐसे शक्तीश का ध्यान करना चाहिए जो अग्नि तथा सूर्य के समान देदीप्यमान, अष्टबाहु, विशाल कन्धे वाले तथा अग्निष्टोम कराङ्कित मधुसूदन हैं। जो मूर्त्तिमान रज तथा तम की प्रवृत्ति के लिये शङ्ख, चक्र तथा बाण और धनुष धारण किये हुए हैं तथा जो अपने कर्णपीठ पर अपने दोनों हाथों को रखे हुए हैं, ऐसे मधुसूदन का ध्यान करना चाहिए॥ २०-२२॥ ३. विद्याधिदेव ध्यानकथनम् विद्याधिदेवं भगवच्चतुर्वक्त्रं चतुर्भुजम्॥ २२॥ लम्बकूर्चं जटादण्डकमण्डल्वक्षसूत्रिणम्। फुल्लरक्ताम्बुजाभासं श्वेतपद्मकराङ्कितम्॥ २३॥ अथ विद्याधिदेवध्यानमाह—विद्याधिदेवमिति सार्धेन। यद्यपि चतुर्वक्त्रमित्यस्य श्रुतीर्वक्त्रेभ्यः प्रोद्गिरन्तमित्यस्य चैककण्ठ्याद् “वेदविदे” (सा० सं० २३।५०) इति विद्याधिदेवमन्त्रवर्णलिङ्गाद् उत्तरत्र स्मरेद् ध्यायेदिति पौनरुक्त्यप्रसङ्गासंभवाच्च “श्रुतीर्ऋगाद्या वक्त्रेभ्यः प्रोद्गिरन्तमन्तः स्मरेत्” (१२।२४) इति वाक्यस्यापि पूर्वेणान्वयः स्वरसः, तथापि सर्वज्ञैः श्रीमत्पराशरभट्टारकैः सहस्रनामभाष्ये (पृ० ४८३) तस्य वाक्यस्य कपिलध्यानपरत्वेनोत्तरत्र योजितत्वादस्मादृशैस्तच्चलयितुं न शक्यम्। किञ्च, यद्यप्यस्य विद्याधिदेवस्य चतुर्वक्त्रत्वजटाकमण्डल्वक्षसूत्रधरत्वादि- लक्षणानामुक्तत्वादयं विरिञ्चिरिति ज्ञायते, तथापि सहस्रनामभाष्ये (पृ० १८३) निय- मेन तेषां ब्रह्मादीनां भगवदवतारगणनास्वपरिगणनात्, देवमनुष्यादिवत्, सृष्टिप्रकरणेषु सृज्यतया परिगणनात्, प्रत्युत तेषां प्रादुर्भावेभ्यो भेदव्यपदेशात्, प्रादुर्भावविलक्षणेन प्रादुर्भावान्तरशब्देन निर्देशात्, भगवद्विभूतिलेशोद्भवत्वतत्तत्प्रादुर्भावविशेषाधीनप्रवृत्ति- त्वादिव्यवहाराच्च ब्रह्मणः प्रादुर्भावत्वं निह्नुतम्। किञ्च, कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम्। विद्याधिपतयश्चैव सरुद्रः सगणः शिवः॥

२६२ सात्वतसंहिता प्रजापतिसमूहस्तु इन्द्र सपरिवारकः। —(९।९१-९२) इत्यादिपूर्वोक्तभवोपकरणदेवतावर्ग एव प्रजापतिसमूह इत्यत्र चतुर्मुखस्याप्यन्त -र्भावश्चोक्तः। तस्मात् “परमात्मने” (सा०सं० २३।५१) इति मन्त्रवर्णलिङ्गाच्च नायं विद्याधिदेवो विरिञ्चिः, अपि तु साक्षात् प्रादुर्भाव इति ज्ञेयम्। ननु पौष्करे— मधुकैटभमाथी च प्रादुर्भाविश्वेरस्य च। प्रादुर्भावान्तरं विद्धि पद्मनाभस्य तद्विभोः॥ —(३६।२१४) इत्यादिभिर्मधुसूदनादीनामपि प्रादुर्भावान्तरत्वं बहुशः कण्ठरवेणोक्तम्। किं तावता तेषामपि प्रादुर्भावत्वविरोध इति चेन्न, समुच्चितैः पूर्वोक्तैर्हेतुभिश्चतुर्मुखादीनां प्रादुर्भावत्वविरोधात्, मधुसूदनादिषु तथाविधहेतुसमुच्चयस्यानवकाशाच्च ॥२२-२३॥ विद्याधिदेव का ध्यान—चार भुजा, चार मुख वाले लम्बे कूर्च (दाढ़ी), जटा, दण्ड, कमण्डल तथा अक्षमाला धारण किये हुए, विकसित रक्त कमल के समान कान्ति वाले, हाथ में श्वेत पद्म धारण किये हुए विद्याधिदेव का स्मरण करना चाहिये ॥ २२-२३ ॥ ४. कपिलध्यानकथनम् श्रुतीर्ऋग्गाद्या वक्त्रेभ्यः प्रोद्गिरन्तमतः स्मरेत्। निर्धूमाङ्गारवर्णाभं शङ्खपद्माक्षसूत्रिणम्॥ २४ ॥ फुल्लरक्ताब्जविभवं देवताद्यात्मसूत्रकम्। ध्यायेदभयपाणिं तं कपिलं तेजसां निधिम्॥ २५ ॥ अथ कपिलध्यानमाह—श्रुतीरिति द्वाभ्याम्। वक्त्रेभ्य इति पूजायां बहुवचनं बोध्यम्। यद्वा तस्याप्यैच्छिकं चतुर्मुखत्वं वक्तव्यम्। अस्य श्रुतिप्रवर्तकत्वं तु सहस्र- नामभाष्य एव प्रतिपादितम्, “सत्यवृत्तिस्त्रिविक्रमः। महर्षिः कपिलाचार्यः” (५७- ५८ श्लो०) इत्यत्र— “ईदृशेन महामहिम्ना वाच्येन विक्रान्तत्रिवेदस्त्रिविक्रमः। त्रिरित्येवं त्रयो वेदाः कीर्तिता मुनिसत्तमैः। क्रमसे तांस्तथा सर्वान् त्रिविक्रम इति स्मृतः॥” (पृ० ४८१) इति, “यथोक्तवेददर्शनान्महर्षिः” (पृ० ४८२) इति च। अस्य पातालतलवा- सित्त्वं सुप्रसिद्धम्। अर्चारूपस्थानं तु पौष्करे— प्राक्समुद्राप्याने तु भूभागे शुभलक्षणे॥ कापिलीं मूर्तिमासाद्य वासुदेवः स्थितः प्रभुः। (३६।३५७-३५८) इति प्रतिपादितम् ॥ २४-२५ ॥ अब कपिल का ध्यान कहते हैं—वेद की ऋचाओं का स्मरण करते हुए, विधूम अग्नि के समान तेजस्वी शङ्ख, पद्म एवं अक्षमाला धारण किये हुए,

द्वादशः परिच्छेदः २६३ विकसित रक्त वर्ण के समान तेजस्वी आत्मज्ञानी, आदिदेव, अभयपाणि तथा तेजोनिधि कपिल का ध्यान करे ॥ २४-२५ ॥ ५. विश्वरूपध्यानकथनम् योऽन्तः सर्वेश्वरो देवः साक्षिभूतो व्यवस्थितः । स्फटिकोपलवद् भावान् स्वशक्त्युत्थान् बिभर्ति च ॥ २६ ॥ अविद्याविष्कृतानां तु भक्तानां सत्पदाप्तये । तमनादिं जगन्नाथं बहिः स्थूलतरात्मनाम् ॥ २७ ॥ द्यावापृथिव्योरन्तःस्थं विश्वरूपमनुस्मरेत् । अनेकवक्त्राङ्घ्रिकरम् अनेकमकराङ्कितम् ॥ २८ ॥ यद्यप्यनेकवदनम् अनेकभुजभूषितम् । तथापि वै त्रयस्त्रिंशद् वदनैर्विविधैर्युतम् ॥ २९ ॥ चतुरभ्यधिकैर्दिव्यैश्चत्वारिंशन्महाभुजैः । ब्रह्मरुद्रेन्द्रदक्षार्कचन्द्रसिद्धास्तथा श्रुतिः ॥ ३० ॥ पौरुषस्य तु वक्त्रस्य चोर्ध्ववक्त्रस्थितास्त्वमी । पिशाचाग्निमरुच्छैलद्वीपगन्धर्ववारिभिः ॥ ३१ ॥ वक्त्रैरूर्ध्वस्थितैर्ध्यायेद् दक्षिणं वदनं विभोः । पातालदिङ्‌महामेघलोकराशिग्रहोत्थितैः ॥ ३२ ॥ वक्त्रैस्तारासमेतैस्तु ध्यायेद् वक्त्रं तु पश्चिमम् । यक्षान्तकाम्बुनागाद्यैर्वसुनक्षत्रयोगणैः ॥ ३३ ॥ वक्त्रैर्वराहवक्त्रोर्ध्वस्थितैर्ध्यायेच्च दक्षिणम् । पद्माद्यं चातुरात्मीयमस्त्राणां दशकं महत् ॥ ३४ ॥ प्रोच्छ्रितं हि सुवर्णाद्यं तल्लाञ्छनचतुष्टयम् । लोकेशास्त्राष्टकं चैव पुस्तकं चाक्षसूत्रकम् ॥ ३५ ॥ दर्वी कमण्डलुहैमश्चाभयं हि वरान्वितम् । दर्भाजिनं ततश्छत्रं सुशुभं चामरं सितम् ॥ ३६ ॥ स्रुक्स्रुवौ चापि कलशौ वेदिर्वह्निसमन्विता । चन्द्रार्कमण्डले पूर्णे नागेन्द्रो मणिदर्पणः ॥ ३७ ॥ पुष्पस्रग् व्यजनं दिव्यं विश्वपत्रलता तथा । स्मर्त्तव्यास्तु भुजेष्वस्य विभोः संस्थानकैः समैः ॥ ३८ ॥ यथोदितक्रमेणैव व्यत्ययो न भवेद् यथा । भाभिर्नानाप्रकाराभिर्देहोत्थाभिरिदं जगत् ॥ ३९ ॥

२६४ सात्वतसंहिता भासयन्तं जगन्नाथं स्मरेद् हृत्कमलादिषु । अथ विश्वरूपध्यानमाह—योऽन्तः सर्वेश्वरो देव इत्यारभ्य स्मरेद् हृत्कमलादि- ष्वित्यन्तम् । प्राङ्मुखस्य पौरुषस्य वक्त्रस्योर्ध्वं ब्रह्मादिश्रुत्यन्तवक्त्राष्टकम्, दक्षिणस्य नारसिंहवक्त्रस्योर्ध्वं पिशाचादि(वारि)पर्यन्तवक्त्रसप्तकम्, पश्चिमस्य कपिलवक्त्र- स्योर्ध्वं पातालादितारान्तवक्त्रसप्तकम्, औत्तरस्य वाराहवक्त्रस्योर्ध्वं यक्षादिगोगणा- न्तवक्त्रसप्तकम्, आहत्य त्रयस्त्रिंशद्वक्त्राणि ज्ञेयानि । तारासमेतैरित्यत्र ताराशब्देन अश्विन्यादिप्रधाननक्षत्राणि, नक्षत्रशब्देन तदन्यानि नक्षत्राणि ज्ञेयानि, अन्यथा पौन- रुक्त्यात् । एवं वारिभिरित्यत्र वारिधिर्विवक्षणीयः । अम्बुशब्देन केवलमुदकं विवक्षणीयम् । नागाद्यैरित्यत्र नागानामाद्यः प्रथमोऽनन्त इत्यर्थः । चातुरात्मीयं वासु- देवादिव्यूहीयमित्यर्थः । पद्माद्यमस्त्राणां दशकं पद्मशङ्खचक्रगदाखड्गलाङ्गुलमुसल- शरशार्ङ्गखेटाख्यमायुधदशकमित्यर्थः । एतेषामायुधानां पूर्वं जाग्रद्व्यूहवासुदेवचतुर्मूर्ति- लाञ्छनत्वेनोक्तत्वाच्चातुरात्मीयत्वं सुस्पष्टम् । लोकेशास्त्राष्टकं तु वज्रशक्त्यादिकं प्रसिद्धमीश्वरादिषु (९।११६-११७) प्रतिपादितं च । विश्वरूपस्थानं तु श्रीपौष्करे— श्वेतद्वीपे कुरुक्षेत्रे हिमवन्ताचलेऽब्जज । वेदिकायामपि तटे विश्वरूपः स्थितः प्रभुः ॥ (३६।३३७) इति ॥ २६-४०॥ अब विश्वरूप का ध्यान कहते हैं—जो सर्वेश्वर सभी के अन्तःकरण में साक्षात् रूप से स्थित है, स्फटिक मणि के समान स्वशक्ति से उठे हुए भावों को धारण करते हैं, अविद्याग्रस्त भक्तों को सन्मार्ग बताने के लिये जो उद्यत रहते हैं, जो स्थूलतर आत्माओं के बाहर हैं और जो द्यावापृथिवी के अन्तराल हैं, ऐसे अनादि जगन्नाथ का विश्वरूप के रूप में स्मरण करे । जो अनेक मुख, अनेक चरण और अनेक हाथों वाले हैं । अनेक मकर चिह्नों से युक्त हैं । यद्यपि उनके अनेक मुख हैं और अनेक भुजाओं से वे भूषित हैं, फिर भी वे मुख्य रूप से विविधाकार तैंतीस मुखों से युक्त है तथा ४४ दिव्य भुजाओं वाले है ॥ २७-३० ॥ उनके पूर्व स्थित पौरुष वक्त्र के ऊपर ब्रह्मा, रुद्र, इन्द्र, दक्ष, अर्क, चन्द्रमा, सिद्ध तथा श्रुति ये आठ देवता स्थित हैं । दक्षिण नारसिंह वक्त्र के ऊपर पिशाच, अग्नि, मरुत्, शैल, द्वीप, गन्धर्व और वारि ये सात देवयोनियाँ स्थित हैं । पश्चिम कपिल वक्त्र के ऊपर पाताल, दिक्, महामेघ, लोक, राशि, ग्रह एवं तारादि सात मण्डल स्थित हैं । उत्तर वाराह वक्त्र के ऊपर यक्ष, अन्तक, अम्बु, नाग, वसु, नक्षत्र और गोगण ये सात स्थित हैं । तारा, नक्षत्रादि मिलाकर कुल ३३ वक्त्र हो जाते हैं । वासुदेवादि चार व्यूह और पद्मादि दश, अस्त्र, वासुदेवादि चतुर्मूर्ति, लाञ्छन, लोकेश, अस्त्राष्टक, वज्रादि, पुस्तक, अक्षसूत्र, दर्वी, कमण्डल, अभय, वर, दर्भ, अजिन, मनोहर छत्र, श्वेत चामर, स्रुक्-स्रुवा, दो कलश, वेदी, वह्नि, पूर्ण चन्द्रार्क मण्डल, नागेन्द्र, मणिदर्पण, पुष्पमाला, दिव्य व्यञ्जन, विश्वपत्र तथा लता—ये सभी भगवान् की भुजाओं में यथास्थान सन्निविष्ट

द्वादशः परिच्छेदः २६५ हैं। अतः इन सभी से समन्वित भगवान् की भुजा का स्मरण करे। जैसा कहा गया है साधक उसी प्रकार स्मरण करे, जिससे व्यत्यय न हो। इस प्रकार जो शरीर से उठी हुई अपनी नाना प्रकार की कान्ति से सारे जगत् को भासित करते हैं ऐसे जगन्नाथ का हृदय-कमल आदि में ध्यान करे ॥ २४-४० ॥ ६. हंसध्यानकथनम् हंसमूर्तिमथात्मानं ज्ञानयज्ञभुजं स्मरेत् ॥ ४० ॥ कुन्देन्दुस्निग्धकान्तिं च हेमतुण्डं महातनुम् । रजस्तमोऽङ्घ्रिं सत्सत्त्वविग्रहं परमेश्वरम् ॥ ४१ ॥ धर्माधर्मेक्षणं ध्यायेदग्नीषोमात्मकेन तु । दक्षिणोत्तरसंस्थेन पक्षयुग्मेन राजितम् ॥ ४२ ॥ बहिस्तमेवोदकस्थं तुहिनाचलसन्निभम् । ध्यात्वाऽर्चयेत् तु विधिवद् हंसविग्रहमच्युतम् ॥ ४३ ॥ अथ हंसध्यानमाह—हंसेति सार्धैस्त्रिभिः । अस्य स्थानं तु श्रीपौष्करे— "सिद्धामरार्चितं विद्धि श्वेतद्वीपे तु हंसराट्" (३६।३१७) इति ॥ ४०-४३ ॥ अब हंस स्वरूप का ध्यान कहते हैं—ज्ञान रूप यज्ञ की भुजा वाले, कुन्द इन्द्र के समान श्वेत कान्ति वाले, स्वर्ण के समान तुण्ड से युक्त एवं रज-तम स्वरूप चरणों वाले, सत्सत्त्व विग्रह वाले, धर्मा-धर्म नेत्रों वाले, दक्षिण-उत्तर अग्निषोमात्मक दो पक्षों से सुशोभित, उदक में निवास करने वाले, हिमालय के समान सर्वत्र श्वेत वर्ण उन परमेश्वर हंस रूप विग्रह वाले अच्युत का विधिवत् ध्यान कर साधक को पूजन करना चाहिये ॥ ४०-४३ ॥ ७. वराहध्यानकथनम् बहिर्द्रव्यमयस्त्वेकः सामान्येनैकलक्षणः । सम्यङ्‌निर्वर्तितः स्वर्गं पूर्वमृच्छति चार्थिनाम् ॥ ४४ ॥ अन्तर्वेद्यां चतुर्था यस्त्वेक एव महामखः । तपोयागजपध्यानस्वरूपः शश्वदेव हि ॥ ४५ ॥ याजिनामपवर्गं तु विदधाति समापनात् । तं यज्ञपुरुषं ब्रह्म वासुदेवमजं हरिम् ॥ ४६ ॥ ध्यायेद् वै सूकारात्मानमञ्जनाद्रिसमप्रभम् । यज्ञाङ्गचिह्निताङ्घ्रिं च महाव्याहृतिदंष्ट्रिणम् ॥ ४७ ॥ भूर्भुवः स्वः शरीरं च शब्दब्रह्मैकमानसम् । निर्णुदन्तं प्रपन्नानामविद्यापङ्कमञ्जसा ॥ ४८ ॥ सा० सं० - 21

२६६ सात्वतसंहिता वैद्येन पोत्रप्रान्तेन त्वक्षयेनामलेन च। अथ वराहध्यानमाह—बहिर्द्रव्यमय इत्यादिभिः । वैद्येन = विद्यामयेन । पोत्र- प्रान्तेन वराहवक्त्राग्रेणेत्यर्थः । एवं यज्ञाङ्गदेहत्वं विष्णुपुराणेऽपि स्पष्टमुक्तम्— पादेषु वेदास्तव यूपदंष्ट्र दन्तेषु यज्ञाश्चितयश्च वक्त्रे । हुताशजिह्वोऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ॥ विलोचने रात्र्यहनी महात्मन् सर्वात्मकं ब्रह्मपदं शिरस्ते । सूक्तान्यशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥ स्रुक्तुण्ड सामस्वरधीरनाद प्राग्वंशकायाखिलसत्रसन्धे । पूर्तेष्टधर्मश्रवणोऽसि देव सनातनात्मन् भगवन् प्रसीद ॥ इति । —(१।४।३२-३४) अस्य स्थानं तु श्रीपौष्करे— "सौकरीयेन रूपेण क्षेत्रे तत्संज्ञके तु वै" (३६।३१९) इति ॥ ४४-४९ ॥ बाहर से एकद्रव्यमय, सामान्य रूप से एक लक्षण वाले, जो अर्थी जनों के लिये पूर्व में स्वर्ग का निर्माण कर देते हैं, जो हैं तो एक ही महामख किन्तु अन्तर्वेदी में होतादि चार स्वरूप हो जाते हैं। जो निरन्तर तप, याग, जप, ध्यान स्वरूप वाले हैं, जो समापन होने पर यज्ञ कर्त्ताओं को अपवर्ग प्रदान करते हैं। उन यज्ञ पुरुष, ब्रह्मस्वरूप अज, हरि, वासुदेव, अञ्जन-पहाड़ की तरह कान्तिमान सूकर शरीरधारी भगवान् का ध्यान करे। जिनका पैर यज्ञाङ्ग से चिह्नित है और महाव्याहृतियाँ जिनकी दंष्ट्रा है, भूर्भुवः स्वः जिनका विग्रह है, एक शब्द-ब्रह्म ही जिनका मन है, जो शरणागतों के अविद्या रूप पङ्क को अपने अक्षय एवं अमल वक्त्र के अग्रभाग से अकस्मात् दूर कर देते हैं उन वाराह भगवान् का ध्यान करना चाहिये ॥ ४४-४९ ॥ ८. वडवानलध्यानकथनम् वासनावासितानां च जीवानां भवशान्तये ॥ ४९ ॥ महाविभूतिर्भगवान् पूर्णषाड्गुण्यविग्रहः । स्वकाच्छान्ततराद् ब्रह्मतत्त्वादादाय चाञ्जलिम् ॥ ५० ॥ करोति सेचनं दोषदग्धानां च स्वतेजसा । स्थूलरूपेण तमजं बहिराराधनाविधौ ॥ ५१ ॥ आध्मातं वायुना यद्वन्निर्धूमाङ्गारपर्वतम् । ध्यायेत् तद्वन्महादीपं वाजिवक्त्रमलाच्छनम् ॥ ५२ ॥ बद्धब्रह्माञ्जलिं कस्थं द्रुतकनकलोचनम् । घोणाग्रेणाहरन्तं च त्रैलोक्योत्थं जलेन्धनम् ॥ ५३ ॥

द्वादशः परिच्छेदः २६७ कृत्वा तद् भस्मसात् सम्यक् स्फूक्कुर्वन्तं मुखेन तु । वडवानलध्यानमाह—महाविभूतिरित्यादिभिः । अस्य स्थानं तु श्रीपौष्करे— "अश्वात्मा वडवामुखे" (३६।३१८) इति ॥ ५०-५४ ॥ अब वडवानल का ध्यान कहते हैं—अविद्या वासना वासित जीवों के भवशान्ति के लिये जो महाविभूति भगवान् षाड्गुण्य विग्रह रूप धारण करते हैं । जो अज भवाग्निरूप दोष से दग्ध जीवों के दोष को स्थूल रूप से धारण कर, अपने तेज से एवं ब्रह्मतत्त्व रूप स्वच्छ अन्तरात्मा द्वारा जलाञ्जलि भर कर उससे उस दोष को शान्त कर देते हैं । जिस प्रकार निर्धूम अङ्गार-पर्वत वायु से आध्मात होने पर प्रदीप्त हो जाता है, उसी प्रकार बाहर स्थूल रूप से आराधना करने पर जो अज प्रदीप्त हो जाते हैं, जिन्होंने ब्रह्माञ्जलि बाँध ली है, जिनके सुवर्णमय लोचन द्रवीभूत हो रहे हैं और जो घोण के अग्रभाग से त्रैलोक्य से उत्पन्न जलेन्धन को जला रहे हैं, इस प्रकार (मोह रूप) इन्धन को भस्म कर मुख से जो फूत्कार कर रहे हैं, उस वडवामुख वाले अज का ध्यान करना चाहिये ॥ ५०-५४ ॥ ९. धर्मध्यानकथनम् धर्मसामान्यममल मनादिनिधनं विभुम् ॥ ५४ ॥ दुर्लभं यत् प्रबुद्धानां यत्प्रसादधिया विना । तस्य स्थूलतरं रूपं शृणु तत्प्राप्तये परम् ॥ ५५ ॥ तुहिनाचलसंकाशं सौम्यवक्त्रं चतुर्भुजम् । कामार्थावुद्वहन्तं च शङ्खपद्मच्छलेन तु ॥ ५६ ॥ साधुमार्गे स्थितानां तु संयच्छन्तं धिया च तौ । सिताक्षमालं धर्मं तु वरपाणिमतः स्मरेत् ॥ ५७ ॥ अथ धर्मध्यानमाह—धर्ममिति सार्धैस्त्रिभिः । तौ कामार्थावित्यर्थः, कामार्थावु- द्वहन्तमिति पूर्वोक्तेः । अनेन प्रसिद्धस्यैव धर्मस्य भगवदवतारत्वमिति न भ्रमितव्यम्, तस्य तदुपकरणत्वमात्रात् । तथा च सहस्रनामभाष्ये—"तच्छीलभगवदुपकरत्वाद्वि प्रसिद्धस्यापि धर्मस्य ताच्छील्यमिति, प्रसिद्धोऽपि धर्मोऽस्य सर्वसाधारणोपकरमिति धर्मी" (पृ० ४३५) इति । किञ्च, धर्मात्मा भगवान् विष्णुः प्रादुर्भावं च शाश्वतम् । प्रादुर्भूतं हि वै यास्मान्नराद्यं कृष्णपश्चिमम् ॥ सपञ्चकालषट्कर्ममखधर्मैः समन्वितम् । जपध्यानसमोपेतमेवं यः पाति सर्वदा ॥ चतुर्मूर्तिमयो विप्र नरो नारायणो हरिः । कृष्णासंज्ञश्च भगवान् प्रादुर्भावान्तरं विभोः ॥ —(३६।२०७-२०९) इति,

२६८ सात्वतसंहिता धर्ममूर्तिर्महात्मा वै धर्मारण्ये सुरार्चिते। अनुग्रहपरस्त्वास्ते लोकानां लोकपूजितः ॥ (३६।३३२) इति च श्रीपौष्करे सुस्पष्टं प्रतिपादितम् ॥ ५४-५७ ॥ अब धर्म का ध्यान कहते हैं—जो सामान्य अमल, अनादि, विभु हैं। जिनकी प्रसन्नता के बिना प्रबुद्ध जन भी जिन्हें नहीं प्राप्त कर पाते, उनके स्थूल रूप को उनकी प्राप्ति के लिये, हे सङ्कर्षण ! आप सुनिए। जो हिमालय के समान स्वच्छ हैं, जिनका मुख्य सौम्य है, जिनकी चार भुजायें हैं, जो शङ्ख एवं पद्म के बहाने से काम और अर्थ धारण किये हुए हैं, जो साधुमार्ग में स्थित जनों के अर्थ एवं काम को बुद्धि से नियन्त्रण करते हैं ऐसे वरदपाणि, श्वेत, अक्षमाला धारण करने वाले भगवान् धर्म का स्मरण करना चाहिये ॥ ५४-५७ ॥ १०. हयग्रीवध्यानकथनम् वाङ्‌मयं निखिलं यस्य वस्तुजातमनश्वरम् । शक्तित्वेन स्वभावस्थं चिद्रूपस्यामलद्युतेः ॥ ५८ ॥ वरवाजिमुखं ध्यायेदथ वागीश्वरं विभुम्। सूर्यकान्ताग्निसंकाशमनेकभुजभूषितम् ॥ ५९ ॥ कमलं चाक्षसूत्रं च वेदिं त्रेताग्निभूषिताम्। साज्यधारौ स्रुक्स्रुवौ तु विष्टरं सोमसंयुक्तम् ॥ ६० ॥ दर्भाजिनं मेखलां चाप्यपसव्येषु षट्स्वमी । स्मरेद् वामकरेष्वस्य पुस्तकं शङ्खमेव च ॥ ६१ ॥ दण्डं कमण्डलुं दर्वीमेकस्मिंस्त्रितयं करे । पूर्णं ग्राम्यैस्तथारण्यैश्चरुबीजैस्तु पञ्चमे ॥ ६२ ॥ स्रुङ्‌मूलफलपत्रैस्तु यज्ञद्रव्यैः सदक्षिणैः। सर्वाश्रमोपकरणैर्युक्तं चमसभाजनम् ॥ ६३ ॥ ध्येयमस्य भुजे षष्ठे वृत्तभूतैर्ऋगादिभिः । वेदाङ्गैरुपवेदैस्तु संस्कारैः समखैस्तथा ॥ ६४ ॥ अथ हयग्रीवध्यानमाह—वाङ्‌मयमित्यादिभिः । सोमसंयुक्तं सोमलतान्वित- मित्यर्थः । ग्राम्यारण्यबीजभेदास्त्वीश्वरपारमेश्वरयोर्हविःपाकप्रकरणे प्रतिपादिता द्रष्टव्याः । विष्णुपुराणे च— व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः । प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलुत्थकाः ॥ श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः । तथा वेणुयवाः प्रोक्तास्तद्वन्मर्कटका मुने ॥

द्वादशः परिच्छेदः २६९ ग्राम्यारण्याः स्मृता होता ओषध्यस्तु चतुर्दश । —(१।६।२४-२६) इति । एतैर्बीजैः पूर्णं पात्रं चतुर्थे, यज्ञद्रव्यैः पूर्णं पात्रं पञ्चमे, आश्रमोपकरणैर्युक्तं चम- सभाजनं षष्ठे हस्ते च ध्येयम् । अस्य स्थानं तु श्रीपौष्करे—‘‘कृष्णाश्वेऽश्वशिरोदेवो क्षितिक्षेत्रे ममार्चिते’’ (३६।३२१) इति ॥ ५८-६४ ॥ अब हयग्रीव का ध्यान कहते हैं—जो चिद्रूप, अमलद्युति, समस्त वाङ्मय रूप, समस्त वस्तुजात रूप, अनश्वर हैं और जिनकी शक्ति से वे अपने स्वभाव में स्थित रहते हैं, उन अश्व के समान मुख वाले विभु वागीश्वर का ध्यान करना चाहिये । जो सूर्यकान्ता अग्नि के समान हैं, जो अनेक भुजाओं से भूषित हैं । कमल, अक्षसूत्र, त्रेताग्नि से भूषित वेदी वाले, साज्य, आधार, स्रुक्-स्रुवा एवं विष्टर, सोमलता, दर्भ, अजिन मेखला अपने ६ दाहिने हाथों में तथा ६ बायें हाथों में पुस्तक, शङ्ख, दण्ड, कमण्डल, दर्वी, तीन हाथों में बीजों से पूर्ण पात्र, चतुर्थ में यज्ञद्रव्यों से पूर्ण पात्र, पञ्चम हाथ में आश्रमोपकरण से युक्त चमस और भाजन बायें षष्ठ हाथ में लिये हुए हैं । इनके छठे हाथ वृत्ति के उपकरण भूत, ऋगादि, वेद, वेदाङ्ग, उपवेद, संस्कार तथा मख से संयुक्त हैं ऐसे हयग्रीव का ध्यान करना चाहिए ॥ ५८-६४ ॥ ११. एकार्णवशायिध्यानकथनम् विकारवसुधाधारे ह्यभावे तु गुणोदधौ । स्वशक्तिभावितं कृत्वा मनःपूर्वं चतुष्टयम् ॥ ६५ ॥ प्रकृत्यन्तं समास्ते यः सर्वज्ञः पुरुषात्मना । निषण्णं भोगिशय्यायां तपनीयरुचिं स्मरेत् ॥ ६६ ॥ देवमर्णवशाय्याख्यं मूर्त्तैश्चक्रादिकैर्वृतम् । लक्ष्म्या संवाह्यमानं च समाक्रान्तं च निद्रया ॥ ६७ ॥ वीज्यमानं हि वै प्रीत्या गीयमानं हि विद्यया । एकार्णवशायिध्यानमाह—विकारेति सार्धैस्त्रिभिः । मनःपूर्वं चतुष्टयं मनोबुद्ध्य- हङ्कारप्रकृतिचतुष्टयमित्यर्थः । अस्य लक्ष्म्यादिशक्तिचतुष्टयान्वितत्वं लक्ष्मीतन्त्रेऽपि प्रतिपादितम्— अवतारो हि यो विष्णो सिन्धुशायीति संज्ञितः । स्थितोऽहं परितस्तस्य चतुर्धा रूपमेयुषी ॥ लक्ष्मीर्निद्रा तथा प्रीतिर्विद्या चेति विभेदिनी । —(८।३०-३१) इति । ननु किमयं चतुर्मुखरूपो भगवदवतारः । यतः श्रीविष्णुपुराणे—

२७० सात्वतसंहिता एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः। भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः॥ (१।३।२४) इति ब्रह्मण एवैकार्णवशायित्वं प्रतिपादितमिति चेन्न, यतो ब्रह्मणोऽप्याधारभूतो- ऽयमर्णवशाय्यवतारः। ब्रह्मणस्तु तदानीं तन्नाभिकमलशायित्वम्। भोगिशय्यागत- वचनं तु "भगवन्नाभिसरोरुहव्यवधानसहम्" (१।३।२४) इति विष्णुचित्तीये प्रति- पादितम्॥ ६५-६८॥ अब एकार्णवशायी का ध्यान कहते हैं—विकार रूप वसुधाधार में तथा गुणसमुद्र में, मन, बुद्धि, अहङ्कार, प्रकृति, को जो सर्वज्ञ अपने पुरुषार्थ से प्रभावित कर सर्पशय्या पर स्थित हैं, जो मूर्त्तिधारी चक्रादि आयुधों से घिरे हुए हैं, लक्ष्मी जिनकी सेवा कर रही हैं, जो स्वयं निद्रा से समाक्रान्त हैं, प्रीति जिन्हें पङ्खा कर रही हैं और विद्या गीत गा रही हैं, ऐसे सुवर्ण विग्रह वाले एकार्णवशायी भगवान् का ध्यान करे॥ ६५-६८॥ १२. कूर्मध्यानकथनम् कूर्मात्मा कूर्मवद् बुद्ध्या ध्यातव्यस्त्वथ लाङ्गलिन्॥ ६८॥ द्रुत्कनकवर्णाभः स्वसामर्थ्याज्जलाश्रयः। शक्त्यादिककलाद्वन्द्वद्वितयाङ्घ्रिः सनातनः॥ ६९॥ शक्त्यादिककलाढ्यश्च प्रोद्गिरंस्तु श्रुतित्रयम्। अथ कूर्मध्यानमाह—कूर्मात्मेति द्वाभ्याम्। अस्य स्थानं तु—"रसातले तु कूर्मात्मा" (३६।३१८) इति पौष्करे दर्शितम्। अयं तु निखिलजगदाधारभूतकूर्मा- वतारः, "भवनधृते" (२३।६४) इति मन्त्रवर्णात्, "द्वन्द्वद्वितयाङ्घ्रिः" (१२।६९) इति ध्यानाच्च। केवलकूर्मवक्त्रावतारश्च विद्यते। तथा च पौष्करे— लवणोदधिपर्यन्ते भूभागे सिद्धसेविते। कूर्मवक्त्रश्च भगवान् संस्थितः शङ्खचक्रधृक्॥—(३६।३२२) इति॥ ६८-७०॥ अब कूर्म का ध्यान कहते हैं—हे लाङ्गलिन्! अब इसके बाद अपनी बुद्धि से कूर्मात्मा का कूर्मवद् ध्यान करे। जिनकी शरीर की आत्मा द्रवीभूत सुवर्ण कान्ति के समान है, अपनी सामर्थ्य से जो जल का आश्रय लिये हुए हैं, शक्त्यादि तथा कलादिक जिनके दो चरण हैं, जो अपने मुख से तीनों श्रुतियों का उद्‌गिररण करते रहते हैं, ऐसे कूर्म भगवान् का ध्यान करना चाहिये॥ ६८-७०॥ १३. वराहध्यानकथनम् अतसीपुष्पसंकाशः शङ्खचक्रगदाधरः॥ ७०॥ मखोपकरणाङ्गश्च निमग्नोद्धरणक्षमः।

स्वशक्तिविभवाधारमिच्छाज्ञानक्रियार्चिषम् ॥ ७१ ॥ नानाविशेषविज्ञानस्फुलिङ्गोर्मिसदोदितम् । दारयन्तं स्थितं हार्दमनूनं मोहमूल्बणम् ॥ ७२ ॥ नदन्नादमनाख्येयं तमजं परमेश्वरम् । वराहध्यानमाह—अतसीपुष्पसंकाश इति त्रिभिः । पूर्वोक्तो वराहस्तु साक्षाद् वराहः, अयं नृवराह इति ध्येयम्, "शङ्खचक्रगदाधरः" (१२।७०) इति ध्यानात्, "कोकामुखे वराहस्तु वाराहे तु नगोत्तमे" (३६।३२४) इति पौष्करे पुनर्वराह- स्थानप्रदर्शनाच्च ॥ ७०-७३ ॥ अब वराह का ध्यान कहते हैं—अतसी पुष्प के समान नीलवर्ण वाले तथा शङ्ख, चक्र एवं गदा धारण किये हुए, जिनके अङ्ग यज्ञ सामग्री से निर्मित हैं, जो डूबे हुए को ऊपर लाने में समर्थ हैं। स्वशक्ति, विभवाधार तथा इच्छा, ज्ञान एवं क्रिया से संयुक्त हैं, अनेक प्रकार के विशेष विज्ञान के स्फुलिङ्ग रूप ऊर्मि से सदा उदीयमान हैं। हृदय में स्थित उल्बण महामोह को उखाड़ कर फेकने में सर्वथा सशक्त हैं, ऐसे वराह भगवान् का ध्यान करना चाहिये ॥ ७०-७३ ॥ १४. नृसिंहध्यानकथनम् निष्प्तकनकाभं च ध्यायेद् देवं नृकेसरिम् ॥ ७३ ॥ ज्वलदग्निस्रफुलिङ्गाभिः स्वदेहोत्थाभिरावृतम् । रथाङ्गशङ्खधातारं बृहन्मूर्तिं सुभीषणम् ॥ ७४ ॥ सत्सत्त्वकरजश्रेणीदीप्तेनोभयपाणिना । संयच्छन्तं धिया सम्यग् भविनां साभयं वरम् ॥ ७५ ॥ अथ श्रीनृसिंहध्यानमाह—निष्प्तेति सार्धद्वाभ्याम् । मूर्तं ब्रह्म साकारं परंब्रह्म- त्यर्थः । ब्रह्ममूर्तिमिति पाठे बृहत्कायमित्यर्थः । सत्सत्त्वकरजश्रेणीदीप्तेनोभयपाणिना साभयं वरं संयच्छन्तं शुद्धसत्त्वमयनखपङ्क्तिरिवाजिताभ्यां कराभ्यामभयवरदमुद्रा- न्वितमित्यर्थः । अस्य स्थानं तु श्रीपौष्करे— नृहरिः कृतशौचे तु उज्जायिन्यामपि द्विज । विशालमूलसंज्ञे तु स्थाने त्वेवं स्थितस्त्रिधा ॥ (३६।२२३) इति । केवलनृसिंहावतारस्थानमपि तत्रैव प्रतिपादितम्— "विन्ध्यारण्ये तु पौष्कर । विज्ञातव्यो मृगेन्द्रात्मा पापहा सर्वदेहिनाम्" (३६।३१८-३१९) इति ॥ ७३-७५ ॥ अब नृसिंह जो अज हैं और अप्रतिम नाद करते रहते हैं, जिनके शरीर की आभा तपाये हुए सुवर्ण की भाँति उद्दीप्त है, जो अपने शरीर से निकली हुई अग्नि को जलती हुई ज्वालाओं से आवृत किए हुए हैं, जो चक्र, शङ्ख धारण किये हुए है, जिनका शरीर अत्यन्त बृहत् तथा भीषण है, जो सत्त्व युक्त, प्रदीप्त