सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 353, कुल 837 में से
संदर्भ में पढ़ें२९४ सात्वतसंहिता अथवा पद्मासन पर रहते हैं। किन्तु वहाँ अकेले नहीं रहते लक्ष्मी के साथ से रहते हैं सुव्यक्त (स्पष्ट) शरीरावयव स्थिति में वे गरुड़ासन पर रहते हैं ॥ १९१-१९३ ॥ मेढ्रभूः सोदराऽस्यैव गोपिता वेगगामिना ॥ १९३ ॥ वीर्यपातात् स्वशिरसा गच्छतश्चाण्डजेन तु । भगवन्मेढ्रप्रदेशस्य पक्षीश्वरशिरसा गोपने प्रयोजनमाह—मेढ्रभूरिति । सोदरा उदरसहितेत्यर्थः । वीर्यपातादिति ल्यब्लोपे पञ्चमी । अण्डजेन (=पराक्रम) पक्षिणा गरुडेनेत्यर्थः ॥ १९३-१९४ ॥ वे गरुड़ जब चलने लगते हैं तब अपने वेगगामी शिर से उनके वीर्यपात से अण्डकोश को छिपा देते हैं ॥ १९३-१९४ ॥ लोकान्तराणां कार्यार्थं वात्सल्याद् ध्यायिनामपि ॥ १९४ ॥ प्रत्यक्षदर्शनार्थं तु स्मृतो गरुडवाहनः । भगवतो गरुडारोहणप्रयोजनमाह—लोकेति ॥ १९४-१९५ ॥ लोकान्तर में कार्य के लिये, अथवा ध्यान करने वालों पर वत्सलता प्रगट करने के लिये, अथवा प्रत्यक्ष दर्शन के लिये वे गरुड़ को वाहन रूप में स्मरण करते हैं ॥ १९४-१९५ ॥ तस्माद् भगवतो विष्णोरेवंरूपधरस्य तु ॥ १९५ ॥ समाहूतस्य सिद्ध्यर्थमासीनां संस्मरेत् स्थितिम् । साधकेन तत्तत्फलसिद्ध्यर्थं भगवदासनभेदः स्मर्तव्य इत्याह— तस्मादिति ॥ १९५-१९६ ॥ उपसंहृतवामाङ्घ्रिः कञ्जस्थो वा खगस्थितः ॥ १९६ ॥ वाममिच्छाफलानां यो ध्वंसयत्यन्यचिन्तितम् । आजानोर्दक्षिणस्यैवमविक्षिप्तः स्मृतोऽच्युतः ॥ १९७ ॥ आमोक्षात् सर्वसिद्धीनां दक्षिणोऽध्यायिनां भवेत् । सर्वमेव ऋजुस्थित्या संस्थितश्चार्थिना स्मृतम् ॥ १९८ ॥ स्वस्तिकाद्यैर्भवत्येवं किन्तु ते वाहनं विना । विहिताः पीठकह्वारसिंहासनगतस्य च ॥ १९९ ॥ आकुञ्चितवामपादो भगवाननिष्टं निवारयतीत्याह—उपसंहृतेति । वामं प्रति- कूलमित्यर्थः । कुञ्चितदक्षिणाङ्घ्रिस्त्विष्टं प्रापयतीत्याह—आमोक्षादिति । दक्षिण उदार इत्यर्थः । तदुभयं विना ऋजुस्थितो भगवाननिष्टनिवारमिष्टप्रदानं च सर्वं करोतीत्याह—सर्वमित्यर्धेन । एवं स्वस्तिकाद्यासनभेदा वाहनं विना पीठाधिरूढस्यापि संभवन्तीत्याह—स्वस्तिकाद्यैरिति ॥ १९६-१९९ ॥