भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

२९४ सात्वतसंहिता अथवा पद्मासन पर रहते हैं। किन्तु वहाँ अकेले नहीं रहते लक्ष्मी के साथ से रहते हैं सुव्यक्त (स्पष्ट) शरीरावयव स्थिति में वे गरुड़ासन पर रहते हैं ॥ १९१-१९३ ॥ मेढ्रभूः सोदराऽस्यैव गोपिता वेगगामिना ॥ १९३ ॥ वीर्यपातात् स्वशिरसा गच्छतश्चाण्डजेन तु । भगवन्मेढ्रप्रदेशस्य पक्षीश्वरशिरसा गोपने प्रयोजनमाह—मेढ्रभूरिति । सोदरा उदरसहितेत्यर्थः । वीर्यपातादिति ल्यब्लोपे पञ्चमी । अण्डजेन (=पराक्रम) पक्षिणा गरुडेनेत्यर्थः ॥ १९३-१९४ ॥ वे गरुड़ जब चलने लगते हैं तब अपने वेगगामी शिर से उनके वीर्यपात से अण्डकोश को छिपा देते हैं ॥ १९३-१९४ ॥ लोकान्तराणां कार्यार्थं वात्सल्याद् ध्यायिनामपि ॥ १९४ ॥ प्रत्यक्षदर्शनार्थं तु स्मृतो गरुडवाहनः । भगवतो गरुडारोहणप्रयोजनमाह—लोकेति ॥ १९४-१९५ ॥ लोकान्तर में कार्य के लिये, अथवा ध्यान करने वालों पर वत्सलता प्रगट करने के लिये, अथवा प्रत्यक्ष दर्शन के लिये वे गरुड़ को वाहन रूप में स्मरण करते हैं ॥ १९४-१९५ ॥ तस्माद् भगवतो विष्णोरेवंरूपधरस्य तु ॥ १९५ ॥ समाहूतस्य सिद्ध्यर्थमासीनां संस्मरेत् स्थितिम् । साधकेन तत्तत्फलसिद्ध्यर्थं भगवदासनभेदः स्मर्तव्य इत्याह— तस्मादिति ॥ १९५-१९६ ॥ उपसंहृतवामाङ्घ्रिः कञ्जस्थो वा खगस्थितः ॥ १९६ ॥ वाममिच्छाफलानां यो ध्वंसयत्यन्यचिन्तितम् । आजानोर्दक्षिणस्यैवमविक्षिप्तः स्मृतोऽच्युतः ॥ १९७ ॥ आमोक्षात् सर्वसिद्धीनां दक्षिणोऽध्यायिनां भवेत् । सर्वमेव ऋजुस्थित्या संस्थितश्चार्थिना स्मृतम् ॥ १९८ ॥ स्वस्तिकाद्यैर्भवत्येवं किन्तु ते वाहनं विना । विहिताः पीठकह्वारसिंहासनगतस्य च ॥ १९९ ॥ आकुञ्चितवामपादो भगवाननिष्टं निवारयतीत्याह—उपसंहृतेति । वामं प्रति- कूलमित्यर्थः । कुञ्चितदक्षिणाङ्घ्रिस्त्विष्टं प्रापयतीत्याह—आमोक्षादिति । दक्षिण उदार इत्यर्थः । तदुभयं विना ऋजुस्थितो भगवाननिष्टनिवारमिष्टप्रदानं च सर्वं करोतीत्याह—सर्वमित्यर्धेन । एवं स्वस्तिकाद्यासनभेदा वाहनं विना पीठाधिरूढस्यापि संभवन्तीत्याह—स्वस्तिकाद्यैरिति ॥ १९६-१९९ ॥

द्वादशः परिच्छेदः २९५ इस कारण, भगवान् के इस प्रकार रूप धारण करने पर, सिद्धि की प्राप्ति के लिये बुलाये जाने पर, गरुड़वाहन विष्णु का ध्यान करे, अथवा बायें पैर को समेटे हुए कमल पर बैठे हुए ध्यान करे, अथवा गरुड़ पर बैठे हुए भगवान् का ध्यान करे । (यहाँ (काम्य कर्म रूप) कार्य भेद से विष्णु के आसन का भेद कहा गया) ये भगवान् प्रतिकूल इच्छित फल को शीघ्र विनष्ट करते हैं । इस प्रकार ध्यान करने वाले भक्तों द्वारा बुलाने पर भगवान् अच्युत जानु से लेकर दाहिने पैर को संकुचित कर सभी सिद्धियों से लेकर मोक्ष पर्यन्त सब कुछ देने के लिये तैयार रहते हैं । दोनों पैरों के संकोच विना केवल ऋजु स्थिति में भी वे वैष्णव अर्थियों को सब कुछ देने के लिये स्थित रहते हैं ॥ १९५-१९८ ॥ इसी प्रकार स्वस्तिकासन आदि भेद से वाहन के विना भी पीठ एवं कल्हार तथा सिंहासन पर बैठ कर भी वे वाञ्छित पूर्ण करते रहते हैं ॥ १९९ ॥ विहगाधिपतिश्चात्र योगैश्वर्याद् बिभर्ति च । सवक्त्रं भुजवृन्दं तु नागेन्द्रास्त्रवरान्वितम् ॥ २०० ॥ विभोराज्ञावशेनैव तुष्ट्यर्थं वा स्वयं विभोः । जगज्जयोद्यार्थं तु शान्तये शरणैषिणाम् ॥ २०१ ॥ विभिन्नेन च रूपेण नानालोकान्तरेषु च । अनिरुद्धगतिर्वीरो विचरत्येक एव हि ॥ २०२ ॥ स्वाधिरूढशक्तीश इव पक्षीशोऽपि तदाज्ञया निखिलजगत्संरक्षणार्थं वक्त्र- भुजायुधादिभिर्विविधस्वरूपः स्वयमेक एव सर्वत्र विचरतीत्याह—विहगाधिपतिरिति त्रिभिः ॥ २००-२०२ ॥ इसी प्रकार पक्षीश भी भगवान् की आज्ञा से समस्त जगत् की रक्षा के लिये मुख सहित भुजवृन्द नागेन्द्र युक्त श्रेष्ठ अस्त्र धारण कर भगवान् की आज्ञावश होकर, अथवा अपनी तुष्टिवश, अथवा जगज्जय के लिये, अथवा शरणार्थियों को शरण देने के लिये विभिन्न रूप धारण कर अनेक लोक-लोकान्तरों में बेरोक-टोक अकेले विचरण करते हैं ॥ २००-२०२ ॥ तदारूढस्य यद् रूपं शक्तीशस्य च सम्प्रति । अनेकभेदभिन्नं तु निबोध गदतो मम ॥ २०३ ॥ शक्तीशस्य रूपभेदान् शृण्वित्याह—तदारूढस्येति ॥ २०३ ॥ गरुड़ पर आरूढ़ रहने वाले शक्तीश का सम्प्रति जो अनेक भेद एवं भिन्न रूप है उसे हे सङ्कर्षण ! आप सुनिये, मैं कह रहा हूँ ॥ २०३ ॥ संयच्छन्तं सदा शान्तिं भविनां दक्षिणेन तु । प्रोद्वहन्तं च वामेन शङ्खं पूर्वोक्तलक्षणम् ॥ २०४ ॥

२९६ सात्वतसंहिता द्विभुजस्य त्विदं रूपं शक्तीशस्य तु केवलम् । रूपेणानेन च पुनः षोढा समुपयाति च ॥ २०५ ॥ सह कान्तागणैनैव त्वेकाद्येन पृथक् पृथक् । प्राग्वल्लक्ष्म्या समेतं यत्तदेकं रूपमैश्वरम् ॥ २०६ ॥ श्रीपुष्ट्योरथ मध्यस्थं द्वितीयं परिकीर्तितम् । श्रियादिमायानिष्ठेन चतुष्केणावृतं परम् ॥ २०७ ॥ पूर्वं केवलं द्विभुजरूपं तस्य लक्ष्यादिभिः षोढा भेदांश्चाह— संयच्छन्त- मित्यादिभिः ॥ २०४-२०७ ॥ वे शक्तीश अपने दाहिने हाथ से संसारी जनों को सर्वदा शान्ति प्रदान करते हैं और बायें हाथ से पूर्वोक्त लक्षण वाला शङ्ख धारण किये हुए हैं । यह केवल शक्तीश का द्विभुज रूप है । वे शक्तीश पुनः इसी रूप से छह प्रकार के हो जाते हैं ॥ २०४-२०५ ॥ वे एकादि कान्ता गणों के साथ पृथक्-पृथक् रूप धारण करते हैं । पूर्व में कही गई लक्ष्मी के साथ उनका जो एक रूप है वह ऐश्वर्य रूप है । जब वे श्री एवं पुष्टि के मध्य में रहते हैं, तब वह दूसरा रूप होता है । जब चारों श्रियादि माया के साथ रहते हैं तब वह उनका तृतीय रूप हो जाता है ॥ २०६-२०७ ॥ शुद्ध्यादिकेन षट्केन चतुर्थं विद्धि संवृतम् । पुष्ट्यन्तेन श्रियाद्येन त्वष्टकेन तु पञ्चमम् ॥ २०८ ॥ लक्ष्म्याद्येन द्विषट्केन षष्ठं विद्धि समन्वितम् । श्रीदेवी कीर्तिदेवी च जयादेवी हलायुध ॥ २०९ ॥ चतुर्थी भगवन्माया विश्वस्यास्य निबन्धनी । शुद्धिर्नीरञ्जना नित्या ज्ञानशक्त्यपराजिते ॥ २१० ॥ प्रकृतिः सुन्दरी षट्कमित्युक्तं सर्वसिद्धिदम् । लक्ष्मीः शब्दनिधिः सर्वकामदा प्रीतिवर्धनी ॥ २११ ॥ यशस्करी शान्तिदा च तुष्टिदा पुष्टिदाष्टकम् । श्रियादिचतुष्टयस्य शुद्ध्यादिषट्कस्य लक्ष्म्याद्यष्टकस्य च नामधेयान्याह— श्रियेति (त्रिभिः?पञ्चभिः) । शब्दनिधिः = सरस्वतीत्यर्थः ॥ २०७-२१२ ॥ शुद्ध्यादि छह के साथ जब वे (शक्तीश) रहते हैं तब उनका वह चतुर्थ रूप होता है । श्री से लेकर पुष्ट्यन्त के साथ जब वे रहते हैं, तब उनका पञ्चम रूप होता है एवं जब लक्ष्म्यादि बारह देवियों के साथ वे रहते हैं, तब उनका षष्ठ रूप होता है ॥ २०८-२१० ॥

द्वादशः परिच्छेदः २९७ हे हलायुध, श्री देवी, कीर्त्ति देवी, जया देवी और चौथी भगवन्माया जो इस समस्त जगत् को बाँधने वाली हैं। ये श्रियादि चतुष्टय है ॥ २०९-२१० ॥ अब शुद्ध्यादि षट्क कहते हैं। शुद्धि, निरञ्जना, नित्या, ज्ञानशक्ति, अपराजिता, सुन्दरी, प्रकृति इसके बाद लक्ष्म्याद्यष्टक, लक्ष्मी, शब्दानिधि (= सरस्वती), सर्वकामदा, प्रीतिवर्धनी, यशस्करी, शान्तिदा, तुष्टिदा और पुष्टिदा ये आठ लक्ष्म्याद्यष्टक हैं ॥ २१०-२११ ॥ द्विषट्कं वैभवे योगे देवीनां कीर्तिदं हि यत् ॥ २१२ ॥ लक्ष्म्याद्यं तच्च बोद्धव्यं भेदेऽस्मिन् पारमेश्वरे । लक्ष्म्यादिद्विषट्कं पूर्वं नवमपरिच्छेदे (९।८५) एवोक्तं द्रष्टव्यमित्याह— द्विषट्कमिति । वैभवे योगे = विभवदेवताकथनप्रकरण इत्यर्थः । नन्वेवं व्याख्यानं सात्वतोपबृंहणलक्ष्मीतन्त्रविरुद्धम्, यतस्तत्र— एकधा द्विचतुर्धा च षोढा चैव तथाष्टधा । पुनर्द्वादशधा चैव तत्र नामानि मे शृणु ॥ श्रीर्नाम द्विभुजस्याहमङ्कस्था वरवर्णिनी । तस्यैवोभयतो रूपे श्रीश्च पुष्टिश्च वासव ॥ चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा । मायेति कृत्वा रूपाणि भुज्येऽहं तेन विष्णुना ॥ तस्यैव कोणषट्कस्था षोढाऽहं शृणु नाम च । शुद्धिर्निरञ्जना नित्या ज्ञानशक्तिश्च वासव ॥ तथाऽपराजिता चैव षष्ठी तु प्रकृतिः परा । तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता ॥ लक्ष्मीः सरस्वती सर्वकामदा प्रीतिवर्धनी । यशस्करी शान्तिदा च तुष्टिदा पुष्टिरष्टमी ॥ कोणद्विषट्के तस्यैव स्थिता द्वादशधाऽस्म्यहम् । श्रीश्च वागीश्वरी कान्तिः क्रियाशक्तिर्विभूतयः ॥ इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च । —(८।२०-२७) इति श्रीसात्वताष्टमपरिच्छेदोक्तं (८।३१-३२) लक्ष्मीवागीश्वर्यादिद्विषट्कमेव प्रतिपादितम्, अतो वैभवयोग इत्यत्रापि विभोरयं वैभव इति भगवत्सम्बन्धिनि व्रतार्चन इत्येवार्थो वर्णनीय इति चेन्न, सत्यं तन्नायं भवद्दोषः, किन्तु लक्ष्मीतन्त्रलेखकदोषः । यतस्तेन “लक्ष्मीः पुष्टिर्दया निद्रा” (९।८५) इत्यादिश्लोकस्थाने प्रमादात् “श्रीश्च वागीश्वरी कान्तिः” (८।३१-३२) इत्यादिश्लोको विलिखितः । यद्यपि तदेव भवता समर्थितम्, तथापि त्रयोदशपरिच्छेदे ध्यानप्रकरणे (१३।३६-४३) नवमपरि- च्छेदोक्तलक्ष्मीपुष्ट्यादिद्विषट्कस्यैव कण्ठरवेण वक्ष्यमाणत्वान्न भवतोऽभिमतं सिद्ध्यति । ननु च लक्ष्मीतन्त्रकोशेषु सर्वत्राप्येकरूपः पाठः परिदृश्यते, कथं तस्य प्रामा- सा० सं० - २३

२९८ सात्वतसंहिता दिकत्वमिति चेन्न, प्रथमकोशानुसारेण सर्वत्रापि प्रामादिकस्यैव प्रसृतत्वात् । यथा पारमेश्वरकोशेषु सर्वत्राप्यावरणदेवतालक्षणाध्याये—“कुन्दावदातं कमलम्” (६। २५९) इत्यादिप्रसिद्धकमलध्यानश्लोक एव “वृन्दावदातं मुसलम्” इति मुसलध्यान- परत्वेन विलिखितः प्रामादिकः परिदृश्यते, तथाऽयमपीति ज्ञेयम् । ननु कुन्दावदातं कमलमिति कुत्र प्रसिद्धमिति चेत्, पारमेश्वरार्चनाध्याये (६।२५९) एव पश्यतु भवान् । ननु च किं तावता कमलमुसलयोरेक एव ध्यानश्लोकः स्यादिति चेत्, किं मुसलकिसलयमपेक्षसे । यतः कमलमुसलादीनां प्रत्येकं ध्यानश्लोकानत्रैव वक्ष्यति । एतदनुसारेणैव पारमेश्वरे समस्तायुधध्यानश्लोका विलिखिताः । ननु पारमेश्वरोक्तं न प्रामादिकम्, अपि तु संहिताकारस्यैवाभिमतम् । तथाहि पौष्करे—“शिशिरास्त्रकरं स्मरेत्” (४।१५५) इति सोमस्य शिशिरम्, “दण्डहस्तं प्रजापतिम्” (४।१५८) इति प्रजापतेर्मुसलं च प्रतिपादितम् । जयाख्ये (७।८४- ८७) तु—सोमस्य मुद्गरं प्रजापतेः कमलं च प्रतिपादितम् । उभयत्राऽप्यायुधध्यान- मुक्तम् । तदेव पारमेश्वरे शिशिरकमलयोः प्रतिपादितमिति चेत्, मर्मज्ञोऽसि । तथापि शिशिरमुद्गरयोः पर्यायत्वबुद्ध्या कदाचित् तथा ध्यानकथनं संभवेत् । तथा कमल- मुसलयोर्भेदबुद्धेरवतरणासंभवात् तल्लेखकप्रमादकृतमेव । अथवा जयाख्योक्त- पक्षान्तरज्ञापनार्थं मुद्गरध्यानश्लोके शिशिरपदप्रक्षेपश्चैवमेव बोध्यः । एवं चोभयथापि प्रामादिकत्वं सिद्धम् । अलं प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः ॥ २१२-२१३ ॥ इस प्रकार वैभव प्रकरण (९.८५) में जो १२ देवियाँ कही गई हैं उनको इस पारमेश्वर (= बारहवें) प्रकरण में यहाँ से भिन्न जानना चाहिये ॥२१२-२१३॥ पुनश्चतुर्भुजस्यैवं विज्ञेयं भेदसप्तकम् ॥ २१३ ॥ किन्तु वै शङ्खचक्रे द्वे वामहस्ते द्वयेन तु । जगत्यस्मिन् हि यच्छन्तं शान्तिमाद्येन शाश्वतीम् ॥ २१४ ॥ प्रोद्वहन्तं द्वितीयेन त्वपसव्येन वै गदाम् । चतुर्भुजस्यापि द्विभुजवत् केवलरूपमेकम्, लक्ष्यादिभिः सहितं रूपं षोढा चाहत्य सप्तधा रूपं ज्ञेयमित्याह—पुनरित्यर्धेन । चतुर्भुजस्य लाञ्छनचतुष्टय- धारणक्रममाह—किन्विति सार्धेन । शान्ति यच्छन्तमित्येनैव कमलधारणं सूचितं हि भवति, “शमं नयति सन्तापं कमलेनेन्दुकान्तिना” (१२।१२) इति पूर्वं शक्त्यात्म- लक्षणोक्तेः ॥ २१३-२१५ ॥ इसके बाद चतुर्भुज के भी सात भेद इस प्रकार जानना चाहिये । पहले लक्ष्म्यादि के साथ छह रूप कह आये हैं । अब यहाँ सात रूप कहते हैं—चतुर्भुज का द्विभुजवत् केवल एक रूप है । पहले लक्ष्म्यादि के साथ छह रूप कहा गया है । इस प्रकार कुल सात रूप निष्पन्न हो जाता है ॥ २१३ ॥ अब उन चतुर्भुज का लाञ्छन चतुष्टय धारण का क्रम कहते हैं—उन्होंने

द्वादशः परिच्छेदः २९९ अपने दोनों बायें हाथ में शङ्ख एवं चक्र धारण किया है । इस प्रकार वे आद्य (शङ्ख) धारण करने से इस संसार में शाश्वती शान्ति प्रदान कर रहे हैं । द्वितीय दाएँ हाथ में वे गदा धारण करते हैं (जो पालनहार का प्रतीक है) ॥२१४-२१५॥ भूयः करचतुष्केण पूर्वोक्तेन क्रमेण तु ॥ २१५ ॥ चतुर्णामिब्जपूर्वाणामन्योन्यत्वेन धारणात् । धत्ते द्वादशधा रूपं निःशक्तिकं च केवलम् ॥ २१६ ॥ एषां कमलादीनां परस्परव्यत्यस्तधारणेन चतुर्भुजरूपं द्वादशधा भवतीत्याह— भूय इति सार्धेन । द्वादशधा पद्मादिधारणक्रमस्तु मुख्यदक्षिणहस्तमारभ्य मुख्य- वामकरान्तम्— १. पद्मगदाचक्रशङ्खाः २. पद्मशङ्खचक्रगदाः ३. पद्मगदाशङ्खचक्राणि ४. पद्मचक्रशङ्खगदाः ५. पद्मचक्रगदाशङ्खाः ६. पद्मशङ्खगदाचक्राणि ७. शङ्खगदाचक्रपद्मानि ८. शङ्खपद्मचक्रगदाः ९. शङ्खचक्रगदापद्मानि १०. शङ्खपद्मगदाचक्राणि ११. शङ्खगदापद्मचक्राणि १२. शङ्खचक्रपद्मगदाश्च क्रमेण ज्ञेयाः ॥ २१५-२१६ ॥ फिर वे अपने परस्पर-व्यत्यस्त चारों हाथों में चार पूर्ण कमल धारण करने से बारह रूप धारण करते हैं जो केवल निःशक्तिक रूप है और शान्ति का प्रतीक है । (इन बारह स्वरूपों का क्रम टीका में देखना चाहिए) ॥ २१५-२१६ ॥ पुनर्द्वादशकं तच्च सह शक्तिचयेन तु । स्थितमेकाधिकेनैव षोढा कमललोचन ॥ २१७ ॥ एवं चतुर्भुजेनैव वपुषा बहुधा स्थितः । इदमैकैकं रूपं पुनः प्रत्येकं लक्ष्म्यादिशक्तिभेदैः षोढा भवतीत्याह—पुनर्द्वादश- कमिति सार्धेन । शक्ति(द्व?च)येन देवीसमूहेनेत्यर्थः । अत्र चयेनेति जात्येकवचनम्, द्विकचतुष्कषट्काष्टकद्विष्टकभेदभिन्नानां शक्तिसमूहानामुक्तत्वात् । एकाधिकेन लक्ष्माधिकेनेत्यर्थः । "प्राग्वल्लक्ष्म्या समेतं यत्तदेकं रूपमीश्वरम्" (१२।२०६) इति पूर्वोक्तेः । समूहस्यानेकात्मकत्वादेकाधिकेनेति शक्ति(द्व?च)यस्य पृथग्विfeedणमुक्त- मिति ज्ञेयम् । एवं चतुर्भुजेनैव वपुषा बहुधा स्थितः । केवलरूपैर्द्वादशभिर्लक्ष्म्यादि- शक्तिसहितैर्द्विसप्ततिरूपैराहत्य चतुरशीतिरूपभेदैरन्वित इत्यर्थः ॥ २१७-२१८ ॥ पुनः यही एक-एक रूप में लक्ष्म्यादि शक्ति के भेद से छः भेद हो जाता है । इनका कुल ७ × १२ = ८४ रूप हो जाता है, उसे वहीं देखिये) फिर शक्ति के साथ उनका बारह रूप हो जाता है । इस प्रकार, हे कमललोचन ! एकाधिक अर्थात् लक्ष्मी के साथ ६(= ७) रूप हो जाता है ॥ २१७-२१८ ॥ सप्तधा षड्भुजाद्येन भुजाधिक्येन वै पुनः ॥ २१८ ॥ स्थितस्त्वनेकधा देवो यथा तदवधारय ।

३०० सात्वतसंहिता पुनः षड्भु(जाः?जाद्यान्) अष्टादशभुजान्तान् सप्तरूपभेदान् शृण्वित्याह— सप्तधेति ॥ २१८-२१९ ॥ पुनः षड्भुजा से लेकर अष्टादश भुजा पर्यन्त ७ रूपों को सुनिये षड्भुजा से लेकर अष्टादश भुजा पर्यन्त बाहु के आधिक्य से सात रूप होते हैं। इस प्रकार वे देव जिसके प्रकार अनेक रूपों में स्थित होते हैं उसे सुनिए ॥ २१८-२१९ ॥ षड्बाहुरष्टबाहुश्च दशद्वादशबाहुधृक् ॥ २१९ ॥ द्विसप्तषोडशकरस्तथाष्टादशभूषितः । केवलादिश्च सर्वेषां प्राग्वद् भेदस्तु सप्तधा ॥ २२० ॥ षड्भुजादीनां सप्तानामपि प्राग्वत् केवलत्वेन सशक्तिकत्वेन च सप्तधा भेदाः संभवन्तीत्याह—षड्बाहुरिति सार्धेन ॥ २१९-२२०॥ षड्बाहु, अष्टबाहु, दशबाहु, द्वादशबाहु, द्विसप्त (१४), षोडश तथा अठारह भुजाओं से वे भूषित होते हैं। इस प्रकार केवल षड्भुजादि जो सात कहे गये हैं। मात्र उन्हीं के सशक्तिक सात भेद हो जाते हैं ॥ २१९-२२० ॥ तन्मे शृणु यथावस्थमस्त्रविन्यासचिह्नितम् । षड्भुजो दक्षिणेर्धत्ते निस्त्रिंशं कमलं गदाम् ॥ २२१ ॥ सशरं कार्मुकं शङ्खं वामैरस्त्रोत्तमं त्रिभिः । गदामूसलचक्रासीनष्टबाहुस्तु दक्षिणैः ॥ २२२ ॥ शङ्खमङ्कुशपाशौ च वामैस्तु सशरं धनुः । खड्गबाणगदापद्मशक्तियुक्तास्तु दक्षिणाः ॥ २२३ ॥ दशबाहोर्धनुःशङ्खचक्रखड्गाश्च साभयाः । षण्णां दक्षिणहस्तानां द्विषट्कभुजभूषितः ॥ २२४ ॥ सन्धत्ते कमलं खड्गचक्रबाणगदाङ्कुशान् । शङ्खपाशाभयान् शक्तिं सव्यानां मुसलं धनुः ॥ २२५ ॥ चतुर्दशभुजो धत्ते वामे तु भुजसप्तके । शङ्खं गदाङ्कुशौ पाशं मुसलं मुद्गरं हलम् ॥ २२६ ॥ दण्डाब्जकुलिशान् चक्रं खड्गशक्तिपरश्वधान् । बिभृयात् षोडशभुजो मुख्यहस्तैः समुद्गरान् ॥ २२७ ॥ अभयं कमलं खड्गं शक्तिदण्डवराङ्कुशान् । शङ्खचक्रगदावज्रपाशलाङ्गलकार्मुकान् ॥ २२८ ॥ वरं कराष्टकेनैव धत्ते सव्येन विश्वजित् । पद्गखड्गगदावज्रचक्रबाणवराङ्कुशान् ॥ २२९ ॥

द्वादशः परिच्छेदः ३०१ दण्डं दक्षिणहस्तैस्तु धत्तेऽष्टादशबाहुधृक् । शङ्खाभयौ हलं शक्तिं मुद्गरं मुसलं धनुः ॥ २३० ॥ कुठारमतुलं पाशं विभुर्वामभुजैरमूर्न् । बिभर्ति दुष्टशान्त्यर्थं साधूनां पालनाय च ॥ २३१ ॥ षड्भुजादीनामायुधभेदानाह—तन्मे शृणु यथावस्थमित्यारभ्य साधूनां पालनाय चेत्यन्तम् ॥ २२१-२३१ ॥ अब अस्त्रविन्यास से चिह्नित यथावस्था उनके स्वरूपों को सुनिये—षड्भुज अपने दाहिने हाथ में त्रिशूल, कमल एवं गदा, तथा तीन बायें हाथों में बाण सहित धनुष तथा शङ्ख धारण करते हैं। अष्टबाहु अपने दाहिने चार हाथों में गदा, मुसल, चक्र एवं तलवार तथा चार बायें हाथ में शङ्ख, अङ्कुश, पाश तथा सशर धनुष धारण करते हैं। दशबाहु अपने हाथों में धनुष, शङ्ख, चक्र, खड्ग और अभय धारण करते हैं। द्वादश भुजाओं वाले अपने छह दाहिने हाथों में कमल, खड्ग, चक्र, बाण, गदा, अङ्कुश, एवं बायें हाथों में शङ्ख, पाश, अभय, शक्ति, मुशल और धनुष धारण करते हैं ॥ २२१-२२५ ॥ चतुर्दश भुजा वाले अपने बायें भुजसप्तक में शङ्ख, गदा, अङ्कुश, पाश, मुसल, मुद्गर, हल एवं दाहिने हाथों में दण्ड, अब्ज, कुलिश, चक्र, खड्ग, शक्ति तथा परशु धारण करते हैं। षोडश भुजा वाले अपने मुख्य हाथों में मुद्गर, अभय, कमल, खड्ग, शक्ति, दण्ड, वर, अङ्कुश, तथा बायें हाथ में शङ्ख, चक्र, गदा, वज्र, पाश, लाङ्गल (=हल), कार्मुक एवं वर मुद्रा धारण करते हैं ॥ २२६-२२८ ॥ विश्वजित् अपने बायें कराष्टक में पद्म, खड्ग, गदा, वज्र, चक्र, बाण, वर, अङ्कुश और दण्ड तथा वही अष्टादशबाहु धारण करने वाले विश्वजित् अपने दाहिने हाथ में शङ्ख, अभय, हल, शक्ति, मुद्गर, मुसल, धनुष, अतुल कुठार, एवं पाश धारण करते हैं। वे विश्वभुज दुष्टों की शान्ति के लिये तथा साधुओं के पालन के लिये इन अस्त्रों को धारण करते हैं ॥ २२९-२३१ ॥ भूयो विशेषरूपाणि त्वेतान्येव विशेषतः । स्ववक्त्रद्वयमात्रेण नयत्यमितविक्रमः ॥ २३२ ॥ उक्तान्येतानि रूपाणि पुनर्वक्त्रद्वयमात्रेण विशेषत्वं प्रापयतीत्याह—भूय इति ॥ २३२ ॥ सिंहतेजोऽसहिष्णूनां पितृयाणरतात्मनाम् । अङ्गनादिसंसारभीतानां वै हिताय च ॥ २३३ ॥ आमृते वै ग्रहे भागे तैजसे नित्यदक्षिणे । वामदक्षिणवक्त्राभ्यां कुर्याद् वै व्यत्ययं प्रभुः ॥ २३४ ॥ वृद्धयेऽपि च शान्त्यर्थं तेजसः पद्मलोचन ।

३०२ सात्वतसंहिता दक्षिणोत्तरवक्त्रयोर्व्यत्यासभेदमाह—सिंहेति सार्धद्वाभ्याम् । स्वदक्षिणभाग- स्यैव तेजोमयत्वात् पुनस्तत्रातितेजोमयं सिंहवक्त्रमप्यस्ति चेत्, उपासकास्तदुभयं तेजः संमिलितं सोढुं न शक्नुवन्तीति तेषां मुमुक्षूणामुपासकानां हितार्थं तेजोमयं सिंहवक्त्रममृतम(यैः ये) स्ववामभागे, वराहमुखं तैजसे दक्षिणभागे च प्राप्नोतीति भावः ॥ २३३-२३५ ॥ हेतुनानेन भगवान् बहिरन्तर्गतिन वै ॥ २३५ ॥ अग्नीषोमौ समीकृत्य त्वास्ते साधारणात्मना । व्यक्तं वागीशवक्त्रं तु नीत्वैवं शिरसोपरि ॥ २३६ ॥ एवं मुखद्वयव्यत्ययेन हेतुना समीकृततेजोऽमृतमयविग्रहः सन् सर्वसेव्यो भवती- त्याह—हेतुनेति ॥ २३५-२३६ ॥ पञ्चवक्त्रेण वपुषा त्वामूलाद् यात्यनेकधा । शब्दब्रह्मरतानां च ध्यायिनामात्मसिद्धये ॥ २३७ ॥ शब्दब्रह्मासक्तोपासकानुग्रहार्थमूर्ध्वचतुर्मुखमध्ये हयग्रीववक्त्रं च बिभर्तीत्याह— व्यक्तमिति सार्धेन ॥ २३६-२३७ ॥ यहाँ तक विष्णु के सभी रूपों को कह दिया गया है । इनमें विशेषता यही है कि अमित पराक्रम वाले विष्णु अपने दोनों मुखों से ही इतने रूपों को धारण करते हैं, जो सिंह का तेज सहन करने में असमर्थ हैं, पितृयाण में अधिक रुचि रखने वाले हैं और जो अङ्गनादि से संसार में भयभीत हैं, उनके हित के लिये वे ऐसा करते हैं । यतः उन विश्वजित का दक्षिण भाग अत्यन्त तेजोमय है । वहीं अत्यन्त तेजोमय सिंह मुख भी है । उपासक उन सम्मिलित दोनों तेजों को सहन नहीं कर सकते । इसलिये उनकी भलाई के लिये अपना तेजोमय सिंहमुख एवं वराहमुख वाले वामभाग में और वराहमुख तेज के लिये अपने दक्षिण भाग में कर देते हैं । ऐसा करने से दोनों भाग का तेज सम हो जाता है । यही विशेषता है, एक ओर तेज की अभिवृद्धि और दूसरी ओर तेज की शान्ति हो जाती है । इस प्रकार अग्नीषोमात्मक दोनों तेजों को बराबर कर साधारण एवं सर्व सामान्य मार्ग में स्थित हो जाते हैं । शब्दब्रह्म में आसक्त उपासकों की आत्मसिद्धि के लिये वे परमात्मा, ऊपर के अपने चार मुखों में, अपने हयग्रीव मुख को, शिर के ऊपर धारण कर, पाँच मुख वाले शरीर से वे प्रभु अनेक प्रकार के होते हैं ॥ २३२-२३७ ॥ आ पातालाच्च सर्वेषां लोकानां पूरणाय च । नानावपुर्धरो भूयस्त्वेकैकेनैष याति च ॥ २३८ ॥ भेदेन रूपमाश्रित्य दशधा च सितादिकम् । विना वक्त्रैर्नृसिंहाद्यैः सर्वज्ञमहिमान्वितः ॥ २३९ ॥ वर्णभेदं चाह—आपातालादिति सार्धेन । पातालादिसमस्तलोकेषु स्वयमेव

द्वादशः परिच्छेदः ३०३ गत्वा गत्वा संरक्षितुमिच्छारूपधर एष भगवान् एकैकेन भेदेन भुजास्त्रशक्ति- वक्त्रभेदेनैकेकं रूपमाश्रित्य दशधा सितादिकं च याति । “युगानुसारिकान्तिश्च” (१२।११) इति पूर्वोक्तक्रमेण तत्तद्युगानुसारिण्याऽवस्थया सितरक्तादिवर्णभेदं च प्राप्नोतीत्यर्थः । एवं च पूर्वोक्तैर्भुजवक्त्रवर्णैः शक्तीशस्याशीत्युत्तरचतुःशताधिक- सहस्ररूपभेदा भवन्तीति ज्ञेयम् ॥ २३८-२३९ ॥ पाताल से लेकर सभी लोकों की पूर्ति के लिये वे विश्वात्मा अनेक रूप धारण कर फिर एक-एक रूप से लोक में विचरण करते हैं ॥ २३८ ॥ वे युगादि भेद से दश प्रकार का सितादि रूप धारण करते हैं, वे सर्वज्ञ हैं, वे महिमामण्डित हैं। वे आद्य केवल नृसिंह का मुख धारण नहीं करते ॥ २३९ ॥ विमर्श—इस प्रकार पूर्वोक्त भुजाओं, वक्त्रों एवं वर्ण की विभिन्नता से वे आद्य प्रभु चार सौ अस्सी हजार रूप धारण करते हैं—ऐसा समझना चाहिए । बिभर्ति रूपाण्येतानि त्वनिरुद्धस्तु तार्क्ष्यकम् । एवमाक्रम्य गरुडं प्रद्युम्नो बिभृयात् तनुम् ॥ २४० ॥ नानात्वमपि चाभ्येति सङ्कर्षणः सुपर्णगः । देवः सत्योपरि स्थित्वा विश्वात्मा यात्यनेकधा ॥ २४१ ॥ सुरसिद्धमनुष्यादिभूतानां दुःखशान्तये । अथ “चातुरात्म्यसमूहात्तु यत्पद्मादलभूस्थितम्” (१२।१७५) इत्याद्युक्त- प्रकारेण वासुदेवादीनां मध्येऽन्यतमस्य शक्त्यात्मत्वे तस्य नृसिंहादिवक्त्रद्वयं विना भुजास्त्रशक्तिभेदान्वितत्वं सर्वं प्राग्वदेव, वाहनं तु सत्यादिक्रमेण विभिन्नमित्याह— विना वक्त्रैरिति त्रिभिः ॥ २३९-२४२ ॥ अनिरुद्ध तार्क्ष्य पर सवार होकर इतने रूपों को धारण कर लेते हैं । प्रद्युम्न गरुड़ पर सवार होकर अनेक शरीर धारण कर लेते हैं । सङ्कर्षण सुपर्ण पर सवार होकर नाना रूप धारण कर लेते हैं । इसी प्रकार विश्वात्मा प्रभु देवाधिदेव-सत्यात्मा पर सवार होकर अनेक रूप धारण कर लेते हैं ॥ २४०-२४१ ॥ चतुर्णां योनिजा वर्णास्ते तु मूर्त्यन्तरेषु च ॥ २४२ ॥ चतुर्भुजस्यादिमूर्तेर्विष्णोर्मूर्त्यन्तरस्य च । वर्णलाञ्छनतुल्यत्वे भेदकृत् तद्द्वजद्वयम् ॥ २४३ ॥ वासुदेवाद्युक्तं शुक्लादिवर्णचतुष्टयं शक्त्यात्ममूर्त्यन्तरेष्वपि संभवतीत्याह— चतुर्णामित्यर्धेन ॥ २४२ ॥ चतुर्भुजस्य वासुदेवस्य तथाविधशक्त्यात्ममूर्तेश्च वर्णलाञ्छनतुल्यत्वेन मूर्तिसंदेहे प्राप्ते तत्तद्ध्वजद्वयं तत्तन्मूर्तिभेदज्ञानजनकं भवतीत्याह—चतुर्भुजस्येति ॥ २४३ ॥ देवता, सिद्ध, मुनष्य तथा समस्त प्राणियों के दुःख की शान्ति के लिये जो

३०४ सात्वतसंहिता चारों वर्णों के चार योनिज वर्ण शुक्ल, रक्त, पीत एवं नीलादि हैं वे अन्य मूर्त्तियों में भी हो जाते हैं। आदि मूर्ति चतुर्भुज विष्णु में तथा अन्य मूर्त्तियों में वर्ण एवं लाञ्छन समान होता है। किन्तु उनमें लाञ्छन से भेद न होकर ध्वजा से भेद होता है ॥ २४२-२४३ ॥ अपसव्यस्थितेनैव तत्तालाख्यध्वजेन तु । स्वरूपभेदमाप्नोति स्वमूर्त्तिः सह सर्वदा ॥ २४४ ॥ सर्वत्रैवं तद्दक्षिणभागस्थध्वजेन तन्मूर्तिभेदो ज्ञेय इत्याह—अपसव्येति ॥२४४॥ यस्मात् कार्यवशेनैव मूर्तीनामपि पाणिगाः । चतुःपद्मादयोऽमूर्ता मूर्ताः शान्तास्तथोधताः ॥ २४५ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवताध्यानं नाम द्वादशः परिच्छेदः ॥ १२ ॥ — ❦ ❖ ❧ — तत्र हेतुमाह—यस्मादिति । वासुदेवादिनां हस्तस्थितपद्मादिलाञ्छनानि प्रकृत- कार्यानुसारेण कदाचित् शान्तरूपमङ्गीकृत्यामूर्तानि भवन्ति, कदाचिदिच्छारूपमङ्गीकृत्य मूर्तीभूतानि भवन्ति । तस्माल्लाञ्छनैर्भेदो न ज्ञायते, तत्तद्ध्वजेनैव तत्तन्मूर्तिभेदो ज्ञातव्य इत्यर्थः ॥ २४५ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये द्वादशः परिच्छेदः ॥ १२ ॥ — ❦ ❖ ❧ — यतः वासुदेवादि हस्तस्थ पद्मादि लाञ्छन प्रकृत कार्य के अनुसार कभी शान्तरूप अङ्गीकार कर अमूर्त रूप होते हैं और कभी इच्छा रूप अङ्गीकार कर मूर्त्त स्वरूप हो जाते हैं। इसलिए लाञ्छन से भेद नहीं जानना चाहिये। इस प्रकार ध्वज से ही मूर्त्तिभेद जानना चाहिये ॥ २४४-२४५ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के विभवदेवताध्यान नामक द्वादश परिच्छेद की हिन्दी समाप्त हुई ॥ १२ ॥ — ❦ ❖ ❧ X —

त्रयोदशः परिच्छेदः भूषणाद्यस्त्रदेवताध्यानम् श्रीभगवानुवाच यागेऽस्मिंस्त्वेकपीठे वै सर्वसामान्यलक्षणे । ध्येया विशेषरूपेण किरीटाद्यखिलास्तु वै ॥ १ ॥ चतुर्भुजाश्चतुर्वक्त्रा वस्त्रस्रग्भूषणान्विताः । पुनर्विशेषयागानामर्चनावसरे वपुः ॥ २ ॥ एकाननं च सर्वेषां द्विभुजं विहितं सदा । अथ त्रयोदशः परिच्छेदो व्याख्यास्यते । अत्र प्रथमं किरीटादिभूषणानां लाञ्छ- नानां च सर्वेषामपि स्वातन्त्र्येणार्चनप्रकरणे चतुर्मुखत्वं चतुर्भुजत्वं च ध्येयम्, पारतन्त्र्ये- णार्धनप्रकरणे तु द्विभुजत्वमेकमुखत्वमेव ध्येयमित्याह—याग इति सार्द्धद्वाभ्याम् । अत एव जयाख्य (१३।१५१) लक्ष्मीतन्त्रादिषु (३८।६८) भोगयागप्रकरणे कौस्तुभा- दीनां द्विभुजत्वमेवोक्तम् । ननु तर्हीश्वरपारमेश्वरयोर्भोगयागप्रकरणेऽपि श्रीवत्सकौस्तुभयोश्चतुर्भुजत्वम्, “उद्गिरन्तं स्वकैर्मुखैः” (ई०सं० ४।१२०, पा०सं० ६।३६३) इत्यनेन शङ्खस्य चतुर्मुखत्वं चोक्तम् । तस्य का गतिरिति चेत्, सत्यम् । तत्र सात्वतोक्तस्वतन्त्रार्चनपर- ध्यानश्लोका एव यथावस्थितं विलिखिताः । तथापि तत्रैवोत्तरत्र— ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ॥ सास्त्राः किरीटपूर्वा ये गदामालाङ्गनाकृतीः । —(ई०सं० ४।१२०-१२१, पा०सं० ६।२६९-२७०) इत्युक्तत्वान्न विवादावकाशः ॥ १-३ ॥ श्री भगवान् ने कहा—इस सर्वसामान्य एक पीठ नामक याग में विशेष रूप से किरीट आदि समस्त भगवान् के भूषणभूत चिह्नों का स्वतन्त्र रूप से अर्चन प्रकरण में चतुर्मुखत्व तथा चतुर्भुजत्व स्वरूप ही ध्येय है, किन्तु पारतन्त्र्य अर्चन के प्रकरण में इन सभी वस्त्र, माला एवं आभूषणों का द्विभुजत्व तथा एक मुखत्व स्वरूप समझना चाहिये ॥ १-३ ॥

३०६ सात्वतसंहिता किरीटध्यानकथनम् किरीटः सौम्यवदनः काञ्चनाभो महातनुः ॥ ३ ॥ भाभिराकृतियुक्ताभिर्नानारूपाभिरावृतः । स्थितो वैद्याधरीयेण स्थानकेनान्तरिक्षगः ॥ ४ ॥ किरीटध्यानमाह—किरीट इति सार्धेन ॥ ३-४ ॥ अब सर्वप्रथम किरीट का स्वरूप कहते हैं—किरीट का मुख सौम्य है, कान्ति कनक की आभा के समान है, शरीर विशाल है, वे अपनी देदीप्यमान आभा युक्त आकृति से नाना रूप धारण करने वाले हैं । वे अपनी रुचि के अनुसार अकेले अन्तरिक्ष में निवास करते हैं ॥ ३-४ ॥ कौस्तुभध्यानकथनम् पद्मरागाचलाकारं कौस्तुभं रत्ननायकम् । दिशो दश द्योतयन्तं संलग्नाङ्घ्रिस्थितं स्मरेत् ॥ ५ ॥ वहन्तं वक्षसो मध्ये स्वहस्तकृतसम्पुटम् । सन्धारयन्तमपरं तथा वै शिरसोपरि ॥ ६ ॥ कौस्तुभध्यानमाह—पद्मरागेति द्वाभ्याम् ॥ ५-६ ॥ कौस्तुभ का लक्षण कहते हैं—रत्ननायक कौस्तुभ पद्मराग के पर्वत के समान दशों दिशाओं को प्रज्वलित करते हुए तथा भगवान् के पैर का स्पर्श करते हुए स्थित हैं इस प्रकार उनका ध्यान करना चाहिये ॥ ५ ॥ भगवान् स्वयं उस कौस्तुभ (मणि) को अपने हाथ के सम्पुट में स्थापित कर अपने वक्षस्थल के मध्य में धारण करते हैं तथा दूसरी कौस्तुभ की माला शिर के ऊपर धारण किये हुए हैं ॥ ६ ॥ श्रीवत्सध्यानकथनम् स्फटिकाद्रिप्रतीकाशं श्रीवत्समथ भावयेत् । बद्धपद्मासनासीनं न्यस्तहस्तं स्वपार्श्वयोः ॥ ७ ॥ श्रीवत्सध्यानमाह—स्फटिकेति सार्धेन । कूर्ममुद्रा अविद्यादलिनी मुद्रेत्यर्थः, “अविद्यादलिनीं मुद्रां कूर्माख्यां संस्मरेद् विभोः” (१७।८४) इति नृसिंहकल्पे वक्ष्यमाणत्वात् । तल्लक्षणमपि तत्रैव वक्ष्यमाणं ज्ञेयम् ॥ ७-८ ॥ श्रीवत्स का लक्षण—स्फटिकमणि के पर्वत के समान चमकीले श्रीवत्स का ध्यान करना चाहिये जो पद्मासन से बैठे हुए है और अपने दोनों पार्श्वभाग पर हाथ रखे हुए हैं ॥ ७ ॥

त्रयोदशः परिच्छेदः ३०७ वनमालाध्यानकथनम् वहन्तं कूर्ममुद्रां च मुख्यहस्तद्वयेन तु । ध्येया भगवती माला चित्ररूपा मनोहरा ॥ ८ ॥ सर्वगन्धान्विता सौम्या ईषद्विकसितानना । वनमालाध्यानमाह—ध्येयेति ॥ ८-९ ॥ वनमाला का ध्यान—अपने दोनों हाथों से अविद्या दलिनी कूर्ममुद्रा धारण किये हुए, चित्ररूपा एवं मनोहरा वनमाला का ध्यान करना चाहिये जो विग्रह सर्वगन्धान्विता एवं सौम्या है जिसका मुख ईषद् विकसित है ॥ ८ ॥ चक्रादिसप्तदशायुधानं ध्यानकथनम् स्वरश्मिमण्डलान्तःस्थं वलान्तं हेतिपं स्मरेत् ॥ ९ ॥ विभोराज्ञां प्रतीक्षन्तं ह्रस्वाङ्गं रक्तलोचनम् । कुन्दावदातकमलं सौम्यमीषत्स्मिताननम् ॥ १० ॥ रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् । गदां हेमाद्रिसंकाशां तन्वीं कुवलयेक्षणाम् ॥ ११ ॥ स्वोत्थेन रश्मिजालेन भासयन्तीं नभःस्थलम् । तुहिनाचलसंकाशं शङ्खं कमललोचनम् ॥ १२ ॥ सदागमादिसारं तमुद्गिरन्तं स्वकैर्मुखैः । सन्ध्याजलदसंकाशं लाङ्गलं भीमलोचनम् ॥ १३ ॥ क्षामाङ्गमुन्नतांसं च वज्रकायं बलोत्कटम् । कृशोदरं च मुसलं रश्मिज्वालावलीवृतम् ॥ १४ ॥ अङ्गारराशिसदृशं प्रलम्बमतिनिष्ठुरम् । नीलोत्पलदलश्याममिष्वस्त्रं बाणविग्रहम् ॥ १५ ॥ नानारूपं च निशितं दीर्घदृक्चण्डविक्रमम् । कार्मुकं हेमगौरं च किङ्किणीजालमण्डितम् ॥ १६ ॥ आस्फोटयन्तं स्वकरं महाजलदनिस्वनम् । स्वरश्मिखचितं ध्यायेन्नृत्यमानं च नन्दकम् ॥ १७ ॥ शरदाकाशसंकाशं दशन्तं दशनावलिम् । सूर्यमण्डलसंकाशं खेटकं सौम्यमूर्तिकम् ॥ १८ ॥ ग्रसन्तमस्त्रपूगानि स्ववक्त्रेणानिशं बलात् । बद्धमुष्टिं स्मरेद् दण्डं रक्ताङ्गं रक्तलोचनम् ॥ १९ ॥ क्रोधमूर्तिं स्वदशकैर्दशन्तमधरं स्वकम् ।

३०८ सात्वतसंहिता शक्रकार्मुकवर्णं च परशुं भीमविक्रमम् ॥ २० ॥ द्रवतकनकनेत्रं च ज्वलज्ज्वालाजटाधरम् । पाशं फणिगणाकीर्णं विद्युज्जिह्वं भयानकम् ॥ २१ ॥ हेमालिपाण्डराभं च घोरास्यं रक्तलोचनम् । कृशाङ्गं दीर्घबाहुं च पिङ्गलाक्षं तु चाङ्कुशम् ॥ २२ ॥ विकरालमुखं रौद्रं भिन्नाञ्जनगिरिप्रभम् । मुद्गरं शतधामाभं पीनांसं पृथुविग्रहम् ॥ २३ ॥ जटाकलापधृक् सौम्यं पुण्डरीकनिभेक्षणम् । वज्रं वज्रोपलाभं तु सितदीर्घनखाङ्कितम् ॥ २४ ॥ दंष्ट्राकरालवदनं ज्वलत्कनकलोचनम् । सौदामिनीं प्रभाशक्तिं शान्ताग्निवदनेक्षणाम् ॥ २५ ॥ घनघर्घरनिर्घोषमुद्गिरन्तीं मुहुर्मुहुः । चक्रादिशक्त्यन्तानां सप्तदशायुधानामेकैकस्यैकश्लोकक्रमेण ध्यानमाह—स्व- रश्मिमण्डलान्तःस्थमित्यादिभिः सप्तदशभिः ॥ ९-२६ ॥ चक्रादि सत्रह आयुधों का ध्यान—अब चक्रादि सप्तदश आयुधों का क्रमश एक-एक श्लोक में लक्षण कहते हैं। १. हेतिप (= चक्र) का ध्यान—अपने अन्तःस्थित रश्मिमण्डल से समस्त दिशाओं को प्रकाशित करते हुए चक्र का ध्यान करना चाहिये, जो सर्वदा भगवान् की आज्ञा की प्रतीक्षा में निरत है, जिनका अङ्ग अत्यन्त ह्रस्व है तथा नेत्र रक्त वर्ण के हैं ॥ ९ ॥ २. कमल का ध्यान—जो कुन्द के समान अत्यन्त धवल है, सौम्य है, जिसका मुख मण्डल ईषात्सित है जो श्रोत्रेन्द्रिय को सुख देने वाले मधुर शब्द करने वाला है, ऐसे कमल का स्मरण करे ॥ १० ॥ ३. गदा का ध्यान—हेमाद्रि के समान स्वच्छ वर्ण वाली, कुवलय के समान नेत्रों वाली, अत्यन्त तन्वी गदा का स्मरण करे जो अपने में उत्पन्न प्रकाश से समस्त आकाश मण्डल को देदीप्यमान कर रही है ॥ ११ ॥ ४. शङ्ख का ध्यान—हिमालय के समान स्वच्छ शङ्ख हैं, जिसके कमल के समान नेत्र हैं तथा जो समस्त उत्तम शास्त्रों के सार को अपने मुख से उगलते रहते हैं ॥ १२ ॥ ५. हल का ध्यान—सन्ध्याकालीन बादल के समान भयानक नेत्रों वाला जिन भगवान् का लाङ्गल (हल) है, जिनका शरीर तो अत्यन्त कृश है किन्तु नासिका उन्नत है । शरीर वज्र जैसा दृढ़ एवं बलवान् है ॥ १३ ॥

त्रयोदशः परिच्छेदः ३०९ ६. मुशल का ध्यान—जो मुशल उदर से कृश है तथा रश्मिज्वाला से चमकीला है । अङ्गार राशि के समान है और अत्यन्त लम्बा तथा महानिष्ठुर (निर्दयी) है ॥ १४ ॥ ७. इषु का ध्यान—जो इषु नीले कमल के समान श्यामवर्ण वाला है, जिसकी आकृति बाण के समान है, उसके अनेक रूप हैं । वह बड़ा तीक्ष्ण है, भुजायें विशाल हैं तथा जो प्रचण्ड पराक्रम से युक्त है ॥ १५ ॥ ८. धनुष का ध्यान—जो कार्मुक सुवर्ण के समान गोरा है, जिसमें अनेक किङ्किणियाँ जड़ी हुई हैं, जो महान् जलद के समान अपने हाथों को स्फोटित कर शब्द करता रहता है ॥ १६ ॥ ९. नन्दक का ध्यान—प्रकाश समूह के व्याप्त नृत्यमान भगवान् के नन्दक का ध्यान करे, जिसकी कान्ति शारदीय आकाश के समान अत्यन्त स्वच्छ है तथा जो क्रोध से उत्कृष्ट होकर अपने दाँतों को पीस रहे हैं ॥ १७ ॥ १०. खेटक का ध्यान—सूर्यमण्डल के समान अत्यन्त तेजस्वी सौम्य स्वरूप खेटक का ध्यान करे जो निरन्तर बलपूर्वक अपने मुख से अस्त्र समूहों को ग्रसते रहते हैं ॥ १८ ॥ ११. दण्ड का ध्यान—लाल वर्ण वाले रक्त एवं नेत्रों वाले मुट्ठी बाँधे हुए भगवान् के उस दण्ड का ध्यान करे जो क्रोध की साक्षात् मूर्ति हैं और अपने दाँतों से अपने ही अधर को चबाते रहते हैं ॥ १९ ॥ १२. परशु का ध्यान—इन्द्र के धनुष के समान वर्ण वाले एवं प्रचण्ड विक्रमयुक्त भगवान् के परशु का ध्यान करना चाहिये, जिनके कनकरूपी नेत्र सदा द्रवीभूत रहते हैं तथा जो जलती हुई ज्वालायुक्त जटा धारण किये हुए हैं ॥ २० ॥ १३. पाश का ध्यान—बिजली के समान देदीप्यमान जिह्वा वाला, महा- भयानक साँप के फणों से सर्वत्र व्याप्त, भगवान् के पाश का स्मरण करे, जो सर्प पङ्क्ति के समान पाण्डर (= पीत) वर्ण का है, जिसका मुख महाभयानक तथा नेत्र अत्यन्त रक्त है ॥ २१ ॥ १४. अङ्कुश का ध्यान—विशीर्ण कज्जल गिरि के समान खण्डित, महा- रौद्र, विकराल मुख वाले, कुशाङ्ग, दीर्घबाहु तथा पीले मुख वाले भगवान् के अङ्कुश का स्मरण करे ॥ २२ ॥ १५. मुद्गर का ध्यान—मोटे-मोटे कन्धों वाले, स्थूल शरीर से युक्त एवं शतधाम (सुवर्ण) के समान आभा वाले भगवान् के मुद्गर का स्मरण करे, जो जटा कलाप धारण किये हुए हैं, सौम्य है तथा जिनके नेत्र कमल के समान दीर्घ है ॥ २३ ॥

३१० सात्वतसंहिता १६. वज्र का ध्यान—वज्रोपल के समान आभा वाले, लम्बे किन्तु श्वेत वर्ण के नखों वाले वज्र का स्मरण करे, जिसका मुख तीक्ष्ण, महाभयानक और दाँतों से महाभयङ्कर है ॥ २४ ॥ १७. सौदामिनी का ध्यान—जिसकी प्रभाशक्ति सौदामिनी है, जिसके मुख और नेत्र शान्ताग्नि के समान लाल हैं उस सौदामिनी का स्मरण करे, जो प्रतिक्षण घन के समान घर्घर निर्घोष करती रहती है ॥ २५-२६ ॥ एतेऽस्त्रनायका सर्वे विभोराज्ञाप्रतीक्षकाः ॥ २६ ॥ प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः । श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ॥ २७ ॥ सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम् । तर्जयन्तं च दुष्टौघमन्येषां दक्षिणं करम् ॥ २८ ॥ स्मर्त्तव्यं ध्यानकाले तु सर्वेषामथ मस्तके । ध्येयं स्वकं स्वकं चिह्नं सुप्रसिद्धं निराकृति ॥ २९ ॥ सर्वेषां सामान्यलक्षणमाह—एतेऽस्त्रनायका इति सार्द्धैस्त्रिभिः । एते किरीटादय इत्यर्थः । अस्त्रनायकाश्चक्रादय इत्यर्थः । श्रोणीतटार्पितकराः श्रोणीतटन्यस्तवामहस्ता इत्यर्थः । चामरव्यजनोद्यताः सचामरव्यजनदक्षिणहस्ता इत्यर्थः । आयुधानां भूष- णानां च किञ्चित् तारतम्यमुक्तम्—सपद्ममित्यादिना । सपद्मं पद्मसहितम्, किरीटाद्यं चतुष्टयं किरीटकौस्तुभश्रीवत्सवनमालाचतुष्टयम्, वर्जयित्वाऽन्येषां चक्रादीनां दक्षिणं करं दुष्टौघं तर्जयन्तं च ध्यायेदिति योजना । चक्रादीनां चामरव्यजनसमर्पणकैङ्कर्य- मात्रोद्योगे दुष्टानामसुर आदीनां यथेच्छं दुष्कृत्येष्ववकाशो भवतीति भिया चामरादि- समर्पणसमयेऽपि दुष्टौघतर्जनमुक्तम् । यद्वा तर्जयन्तं चेत्यत्र चकारो विकल्पनार्थः । चक्रादीनां दक्षिणं करं चामरव्यजनोद्यतं तर्जनीमुद्रान्वितं वा स्मरेदित्यर्थः । चामर- व्यजनोद्यतमिति पाठे तु नैतावान् क्रमः । सपद्मकिरीटादिचतुष्टयस्यैव चामरोद्यत- दक्षिणकरत्वम्, अन्येषां तर्जनीमुद्रान्वितत्वमेवेत्यर्थः सरसो भवति । कस्मिंश्चित् पारमेश्वरप्रयोगे चक्राद्यायुधानामेव चामरव्यजनोद्यतत्वं सपद्मकिरीटादिचतुष्टयस्य तर्जनीमुद्रान्वितत्वमुक्तम् । तदसङ्गतम्, तर्जयन्तमित्यस्य चतुष्टयमित्यस्य चाविभिन्न- लिङ्गकत्वात्, आयुधानामेव दुष्टौघतर्जनसामर्थ्यात्, भूषणानां तदसंभवाच्च । अत एव पद्मस्यायुधकोटिपरिगणितत्वेऽपि तस्य लीलाकमलत्वात् सौम्यत्वाच्च दुष्टौघतर्जनं (न) संभवतीत्यभिप्रायेण सपद्ममिति भूषणैः सह वर्णनं कृतमिति च ज्ञायते । ननु पूर्वं कौस्तुभश्रीवत्सयोर्दण्डयोश्च कार्यान्तरविनियुक्तहस्तत्वमुक्तम्, इदानीं पुनस्तेषामपि श्रोणीतटनिविष्टहस्तत्वं चामरपाणित्वतर्जनीमुद्रान्वितत्वयोरन्यतरत्वं च कथं संभवतीति चेन्न, पूर्वमुक्तस्य लक्षणस्य चतुर्भुजविषयत्वादिदानीमुक्तस्य द्विभुज- विषयत्वात् ॥ २६-२९ ॥

त्रयोदशः परिच्छेदः ३११ सभी आयुधों के सामान्य लक्षण कहते हैं—ये १७ अस्त्र आयुध शिरोमणि कहे जाते हैं, जो भगवान् की आज्ञा की निरन्तर प्रतीक्षा करते रहते हैं ॥ २६ ॥ ये सभी खड़े रहते हैं, चलते भी रहते हैं । सम स्थान में बैठे भी रहते हैं । अपना हाथ नितम्ब स्थल पर रखे रहते हैं तथा हाथ से चामर का व्यजन (= पंखा) डुलाते रहते हैं ॥ २७ ॥ जब चामर व्यजन दाहिने हाथ से डुलाते हैं तब अपना बायाँ हाथ नितम्ब स्थल पर रखते हैं । जब दाहिने हाथ में कमल धारण करते हैं, तब लीला के लिये किरीट, कौस्तुभ, श्रीवत्स और वनमाला का त्याग करते हैं, इस प्रकार इनका ध्यान करे । इसी प्रकार दुष्ट जनों को भयभीत करते समय चक्र के दाहिने हाथ को अपने मस्तक पर ध्यान करे । किन्तु निराकार अवस्था में उनका अपना- अपना केवल चिह्न ही ध्यान करे ॥ २८-२९ ॥ किरीटादीनाम् अधिष्ठातृन् कथनम् किरीटो हुतभुग् वेद्यः कौस्तुभस्तु प्रभाकरः । स्वयं शशाङ्कं श्रीवत्सो माला षण्माधवादयः ॥ ३० ॥ प्राणं पतत्त्रिराड् विद्धि कालचक्रं महामते । अपाम्पतिर्वै कमलं गदा देवी सरस्वती ॥ ३१ ॥ खं शङ्खः सीरमोषध्यो मुसलं नागनायकः । शब्दादयः सायकास्तु धनुर्विद्धि समीकरम् ॥ ३२ ॥ नन्दकं सर्वशास्त्राणि खेटकं वसुधा स्मृता । ज्ञेयो हि दण्डो नियतिर्वैराग्यं परशुः स्मृतः ॥ ३३ ॥ पाशो मायाऽङ्कुशः कामोऽप्यहङ्कारस्तु मुद्गरः । विज्ञानममलं वज्रं समाधिः शक्तिरुच्यते ॥ ३४ ॥ अथ किरीटादीनामधिष्ठातृनाह—किरीट इत्यादिभिः । माधवादयः ... सन्ता ... प? इत्यर्थः । पारमेश्वरेऽपि— अपांपतिर्वै कमलं गदा देवी सरस्वती । चक्रं लोकप्रतिष्ठा वै शब्दब्रह्म तु शङ्खराट् ॥ —(६।२७८-२७९) इति गदापद्मयोरधिष्ठातृदेवौ सात्वतोक्तशब्दाभ्यामेव प्रतिपादितौ, चक्रशङ्खयोर- धिष्ठातारौ तु शब्दान्तराभ्यामुक्तौ । अतस्तत्रापि लोकप्रतिष्ठा काल इत्यर्थः, सर्वाधारः काल इति प्रसिद्धेः । शब्दो (बृ?बृं)हत्यस्मिन्निति शब्दब्रह्म आकाशमित्यर्थश्च बोध्यः । पारमेश्वरव्याख्याने तु लोकप्रतिष्ठा भूमिरित्युक्तम् । तद्विचारणीयम् ॥ ३०-३४ ॥ अब किरीटी इत्यादि के अधिष्ठातृ देवताओं को कहते हैं—किरीटी के अग्नि अधिष्ठातृ देवता हैं । कौस्तुभ के प्रभाकर अधिष्ठातृ देवता समझना

३१२ सात्वतसंहिता चाहिये। श्रीवत्स के शशाङ्क और माला के षण्माधवादि (= सन्ताप) अधिष्ठातृ देवता हैं ॥ ३०॥ पतत्त्रिराट् (गरुड़) के प्राण, चक्र के महाकाल, कमल के समुद्र तथा गदा की अधिष्ठातृ देवता स्वयं सरस्वती हैं ॥ ३१ ॥ शङ्ख के आकाश, हल की औषधियाँ, मुसल के नागनायक (अनन्त), सायक के शब्दादि तथा धनुष के समीकरण देवता हैं ॥ ३२ ॥ नन्दक के सर्वशास्त्र और खेटक की अधिष्ठात्री स्वयं वसुधा (पृथ्वी) देवी हैं। दण्ड के नियति और परशु स्वयं वैराग्य हैं ॥ ३३ ॥ पाश की अधिष्ठात्री माया, अङ्कुश के काम, मुद्गर के अहङ्कार, वज्र के निर्मल विज्ञान एवं शक्ति की समाधि अधिष्ठात्री कही गई हैं ॥ ३४ ॥ चिन्तादिदेवानां वर्णध्यानक्रमकथनम् भिन्नरूपस्य च विभोर्य उक्तः सुन्दरीगणः । साधारश्चाप्यनाधारस्तासां ध्यानं क्रमाच्छृणु ॥ ३५ ॥ चिन्ताऽऽखण्डलचापाभा लक्ष्मी रक्ताम्बुजप्रभा । पुष्टिः कनकगौरा च कीर्तिः कुमुदपाण्डरा ॥ ३६ ॥ जयाऽर्ककान्तिसदृशी मायाऽञ्जननिभा स्मृता । शुद्धिः किंशुकसंकाशा गुञ्जाभा तु निरञ्जना ॥ ३७ ॥ बन्धुजीवोज्ज्वला नित्या ज्ञानशक्तिः सिताऽरुणा । फुल्लेन्दीवरवर्णा च परिज्ञेयाऽपराजिता ॥ ३८ ॥ रक्तोत्पलाभा प्रकृतिः सितपीता सरस्वती । सर्वकामप्रदा सिद्धिस्त्विन्द्रनीलसमप्रभा ॥ ३९ ॥ सिन्दूरपुञ्जवर्णाभा विज्ञेया प्रीतिवर्धनी । यशस्करी च दुग्धाभा शान्तिदा विद्रुमोज्ज्वला ॥ ४० ॥ तुष्टिस्तुहिनसंकाशा दया वैदूर्यसन्निभा । निद्राऽयस्कान्तसदृशी क्षमा पीतारुणप्रभा ॥ ४१ ॥ कान्तिर्दर्पणसंकाशा धृतिर्गोरोचनोज्ज्वला । मैत्री बन्धूकपुष्पाभा रतिर्गैरिकसन्निभा ॥ ४२ ॥ मतिर्मरकताभा वै सर्वाः प्रमुदिताननाः । अथ पूर्वोक्तानां चिन्तादिदेवानां वर्णध्यानक्रममाह — भिन्नरूपस्येत्यादिभिः । चिन्ता नाम पातालशायिनो दक्षिणभागस्था पूर्वोक्ता देवीति ज्ञेया । श्रयादिद्विके श्रयादि-

त्रयोदशः परिच्छेदः ३१३ चतुष्टये शुद्ध्यादिषट्के लक्ष्याद्याष्टके लक्ष्यादिद्विषट्के च चिन्ताया अनन्तर्गतत्वात् प्रथमं तद्ध्यानमुक्तमिति सूक्ष्मदृष्ट्या बोध्यम्। नन्वेकार्णवशायिनः परितःस्थितदेवीचतुष्टयान्तर्गतप्रीतिविद्ययोरप्यत्र द्विका- दिसमूहेष्वनन्तर्गतत्वात् तयोरपि ध्यानं कुतो नोक्तमिति चेत्, पामरोऽसि, विद्या- सरस्वतीशब्दयोः पर्यायत्वं स्तनन्धयोऽपि जानीते ! "तुष्टिदापुष्टिदाष्टकम्" (१२।२१२) इत्यत्र तुष्टिदाशब्देनोक्तायाः "तुष्टिस्तुहिनसंकाशा" इति पुनस्तुष्टि- शब्देनैव ग्रहणाद् यथा तुष्टिदातुष्टिशब्दयोः पर्यायत्वं ज्ञायते, तथा प्रीतिप्रीति- वर्धनीशब्दयोः पुष्टिदापुष्टिशब्दयोः शान्तिदाशान्तिशब्दयोश्च पर्यायत्वं निरङ्कुशम्। अतः प्रीतिविद्ययोरपि द्विकादिसमूहान्तर्गतत्वादेव पृथग् ध्यानं नोक्तमिति सन्तोष- व्यमायुष्मता। लक्ष्मीध्यानस्य प्रथममेवोक्तत्वात् पुनर्द्विके चतुष्टयेऽष्टके द्विषट्के च तद्ध्यानं नोक्तम्। एवमष्टक एव तुष्टेः सरस्वत्याश्च ध्यानस्योक्तत्वात् पुनर्द्विषट्के नोक्तमिति ध्येयम् ॥ ३५-४३ ॥ भिन्न रूप उन परमात्मा विभु के साधार अथवा निराधार जो सुन्दरियाँ कही गई हैं। हे सङ्कर्षण! अब उनका ध्यान सुनिये ॥ ३५ ॥ चिन्ता इन्द्रधनुष के समान हैं, लक्ष्मी रक्त कमल की कान्ति से युक्त हैं, पुष्टि कनक के समान गौर वर्ण वाली हैं और कीर्ति कुमुद के समान स्वच्छ वर्ण वाली हैं ॥ ३६ ॥ जया का स्वरूप सूर्य के समान, माया अञ्जन के सदृश, शुद्धि पलाशपुष्प के समान, निरञ्जना (माया राहित्य) गुञ्जा के सदृश है। नित्या शक्ति बन्धुजीवपुष्प के समान उज्ज्वल हैं और ज्ञानशक्ति सिता और अरुणा है तथा अपराजिता को विकसित कमल के समान आभा वाली समझना चाहिये ॥ ३७-३८ ॥ प्रकृति रक्त कमल के समान कान्तिमती हैं, सरस्वती सितपीता हैं और सिद्धि सर्वकामप्रदा है, जिनका वर्ण इन्द्रनीलमणि के समान है ॥ ३९ ॥ प्रीतिवर्धनी को सिन्दूरपुञ्ज के वर्ण के समान समझना चाहिये। यशस्करी दुग्ध के समान आभा वाली हैं तथा शान्ति विद्रुम के समान उज्ज्वल हैं ॥ ४० ॥ तुष्टि बर्फ के समान उज्ज्वल हैं, दया वैदूर्य के समान है, निद्रा अयस्कान्त मणि के समान है, क्षमा पीत और अरुण कान्ति वाली है ॥ ४१ ॥ कान्ति दर्पण के समान निर्मल है, धृति गोरोचन के समान उज्ज्वल है, मैत्री बन्धूकपुष्प के समान हैं और रति गौरिक के समान हैं ॥ ४२ ॥ मति मरकत के समान कान्ति वाली है, ये सभी उक्त देवियाँ सर्वदा प्रसन्नमुख रहती हैं ॥ ४३ ॥ दिव्यमाल्याम्बरधरा नानालङ्कारभूषिताः ॥ ४३ ॥ दिव्यस्रग्वेष्टनोपेता वीक्षमाणाः स्वकं पतिम्। सा० सं० - 24