भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 217, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 217
२०२सुभाषितरत्नभाण्डागारम्[ ४ प्रकरणम्

समिति बलं निहन्ति शत्रु विष्णो. का मनसि मुदं सदा तनोति । तुच्छ सच्छरधिमुख निगद्यते किं पञ्चल्यै· सममपमान एव केषु ॥ ७६ ॥ कामरिरहितामिच्छति भूपः कामुद्धरयति शूकररूप । केनाकारि हि मन्मथजननं केन विभाति च तरुणीवदनम् ॥ ७७ ॥ हिमांशुखण्डं कुटिलोज्ज्वलप्रभं भवेद्धराहप्रवरस्य कीदृशम् । विहाय वर्णं पदमध्यसंस्थितं न कि करोत्येव जिन. करोति किम् ॥ ७८ ॥ वसन्तमासाय वनेषु कीदृशा. पिकेने राजन्ति रसालभूरुहाः । निरस्य वर्णद्वयमात्र मध्यगं तव द्विषा कान्ततमा तिथिश्च का ॥ ७९ ॥ उर स्थलं कोऽत्र विना पयोधरं बिभर्ति सबोधय मारुताशनम् । वदन्ति कं पत्तनसंभवं जना. फल च किं गोपवधूकचोपमम् ॥ ८० ॥ वसन्तमासाद्य वनेषु राजते विकासि कि वल्लभ पुष्पमुच्यताम् । विहंगमं कं च परिस्फुटाक्षर वदन्ति किं पङ्कजसंभवं विदु ॥ ८१ ॥ समुद्यते कुत्र न याति पांसुला समुद्यते कुत्र भय भवेज्जलात् । समुद्यते कुत्र तवापयात्यरौ. प्रहीणसंबोधनवाचि किं पदम् ॥ ८२ ॥ तपस्विनोऽत्यन्तमहासुखाङ्गया बनेषु कस्मै स्पृहयन्ति सत्तमा. । इहापि वर्णद्वितयं निरस्य भो. सदा स्थितं कुत्र च सत्त्वमुच्यताम् ॥ ८३ ॥ पदमनन्तरवाचि किमिष्यते कपिपतितॊर्विजयी ननु कीदृश । परगुणं गदितुं गतमत्सराः कुरुत किं सतत भुवि सज्जनाः ॥ ८४ ॥ वदति राममनुष्य जघन्यजो वसति कुत्र सदालसमानस. । अपि च शक्रसुतेन तिरस्कृतो रविसुतः किमसो विदधे त्वया ॥ ८५ ॥ मेघात्यये भवति कः समद सुभगं च किं कमधरन्मुरजित् । कुटुत्तैलमिश्रितगुडो नियतं विनिहन्ति कं त्रिगुणसप्तदिनै. ॥ ८६ ॥ वर्षासु का भवति निर्मेघु कीदृगब्जं शेषं बिभर्ति वसुधासहितं क एकः । आमन्त्रयस्व धरणीधरराजपुत्रीं को भूतिमन्ननिचिताञ्जनाश्रयः स्यात् ॥ ८७ ॥ कौ शंकरस्य वलयावपयोधरः कः कीदृक्परस्य नियतं वशमेति भूप. । सबोधयोरगपति विजयी च कीदृग्दुर्योधनो नहि भवेद्वद कीदृशश्च ॥ ८८ ॥ कासुज्जहार हरिरम्बुधिमध्यमग्ना कीदृक्श्रुतं भवति निर्मलमानसानाम् । आमन्त्रयस्व वनमग्निशिखावलीढ तच्चापि को दहति के मदयन्ति भृङ्गान् ॥ ८९ ॥ मेघाल्यये भवति किं सुभगावगाहं का वा विडम्बयति वारणमल्लवेश्या । दुर्वारवीर्यविभवस्य भवेद्रणे क काः खेरवक्रसुभगास्तरणप्रभाभिः ॥ ९० ॥ कल्याणवाक्त्वमिव किं पदमत्र कान्तं सद्भूततेस्त्वमिव कः परितोषकारी । क. सर्वदा वृषगतिस्त्वमिवातिमात्र भूत्याश्रितः कथय पालितसर्वभूतः ॥ ९१ ॥ सूर्यस्य का तिमिरकुञ्जरवृन्दसिंही सत्यस्य का सुकृतवारिधिचन्द्रलेखा । पार्थश्च कीदृगरिदावहुताशनोऽभूत्का मालतीकुसुमदाम हरस्य मूर्ध्नि ॥ ९२ ॥ मेघाल्यये भवति का सुभगावगाहा वृत्तं वसन्ततिलक कियदक्षराणाम् । भो भो कदर्यपुरुषा विषुवद्दिने च वित्तं च वः सुबहु तत्क्रियता किमेतत् ॥ ९३ ॥ प्राप्ते वसन्तसमये वद किं तरुणा किं क्षीयते विरहिणामुरगः किमेति । किं कुर्वते मधुलिहो मधुगानमत्ता कीदृग्वनं मृगगणास्त्वरित त्यजन्ति ॥ ९४ ॥ दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता श्यामा सपत्नहृदये सुपयोधरा च । तुष्टे


(७६) ‘अभिमानिषु’ अभि नास्ति भीर्भय यस्य तत् मा लक्ष्मी अनिषु न विद्यन्ते इषवो बाणा यस्मिंस्तत् अभिमानिषु गर्ववत्सु (७७) ‘कुंकुमेन’ कुं पृथ्वीम् कु धराम् एन कृष्णेन कुङ्कुमेन (७८) ‘दंष्ट्राभ्रम्’ दंष्ट्रा दाढा तद्वद् आभा शोभा यस्य तत् द्वितीयायामुदय प्राप्तश्चन्द्रो वक्रोञ्चवलगुणेन सूकरदष्टया सहोपमीयते दम्भ कपट जिन न करोति भद्र कल्याण जिन करोति (७९) ‘कान्तगिरा’ कान्तागिरा कान्ता मनोहरा गीर्वाणी यस्यासौ कान्तगीस्तेन कारा वन्दिगृहम् राका पूर्णमामी (८०) ‘नागरगम्’ ना पुमान् हे नाग हे सर्प नगर नगरे भवस्तम् नागरङ्ग नारङ्गीफलम् (८१) ‘किंशुकम्’ किंशुकु पलाशम् शुक कीरम् क ब्रह्माणम् (८२) ‘हिमकरे’ हिमकरे चन्द्रे उद्गते सति मकरे मत्स्ये उत्पन्ने सति करे हस्ते सायुधे ऊर्ध्वीकृते सति रे रे दास इति चामन्त्रणे (८३) ‘तपसे’ तपोगुणाय से सकारभाव- सकारे वर्तते (८४) ‘अनुसराम’ अनु पश्चाद्धाचि रामेण सह वर्तमान सराम अनुमराम वय परगुण प्रति अनुमरण कुर्म (८५) ‘अनुजगृहे’ हे अनुज भ्रात ! गृहे मया अनुजगृहे अनुगृहीत (८६) ‘श्वास्ररोगम्’ श्वा तेषु दिनेषु मैथुनेच्छो भवेत् सरमस्तडागम् अग गोवर्धनम् श्वास्ररोगम् (८७) ‘कालिकापालिकाकमठ’ कालिका श्यामता अपगता अल्यो भ्रमरा यस्यास्तदपपालि भ्रमररहितम् कमठ कच्छप हे कालि हे पार्वती ! कापालिको योगी तस्य मठ (८८) ‘अहीनाक्षतनय’ अही सर्पो ना पुमान् क्षतनय क्षत खण्डितो नयो न्यायो येन स अन्यायवान् हे अहीन सर्पाणा स्वामिन् ! अक्षतनय न क्षतो नयो न्यायो येन स अखण्डन्यायवान् हीने अक्षिणी यस्यासौ हीनाक्षोऽन्धस्तस्य तनय पुत्र न हीनाक्षतनयो अहीनाक्षतनय धृतराष्ट्रो हि हीनाक्षोऽन्ध इति पौराणिका तत्पुत्रो दुर्योधनोऽहीनाक्षतनयो न भवति, किंतु अन्धपुत्र इत्यर्थ (८९) ‘कुन्दमकरन्दविन्दव’ कु पृथ्वीम् दमकर उपशमक्षमायुक्त भवति इत्यर्थे हे दविन् दवो विद्यते यस्मिस्तत् दवि तत्सबोधनम् दव वनाग्नि कुन्दमकरन्दविन्दव कुन्दाना पुष्पविशेषाणा मकरन्द पुष्परसस्तस्य बिन्दव कणा (९०) ‘सरोजराजय’ सरस्तडागम् जरा वयोहानि जय सरोजराजय कमलश्रेणय (९१) ‘शंकर’ श सुखम् करो राजभाग शकरी महादेव (९२) ‘भागीरथी’ भा कान्ति गी वाणी रथी रथो विद्यते यस्य स भागीरथी गङ्गा (९३) ‘नदीयताम्’ नदी इयता एतावदक्षराणाम् न दीयताम् (९४) ‘दवविकलम्’ दलम् बलम् बिलम् कल अव्यक्तमधुरम् दवविकल दावाग्निना व्याकुलम्

१ श्यामवर्णा लोहमयत्वात्, पक्षे,-षोडशवार्षिकी २ सुष्ठु पयः जलं धरतीति सुपयोधरा लोहनिर्मिते शस्त्रे पानीय दीयते इति प्रसिद्धि, पक्षे,-सुस्तनी