सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
| २०२ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |

समिति बलं निहन्ति शत्रु विष्णो. का मनसि मुदं सदा तनोति । तुच्छ सच्छरधिमुख निगद्यते किं पञ्चल्यै· सममपमान एव केषु ॥ ७६ ॥ कामरिरहितामिच्छति भूपः कामुद्धरयति शूकररूप । केनाकारि हि मन्मथजननं केन विभाति च तरुणीवदनम् ॥ ७७ ॥ हिमांशुखण्डं कुटिलोज्ज्वलप्रभं भवेद्धराहप्रवरस्य कीदृशम् । विहाय वर्णं पदमध्यसंस्थितं न कि करोत्येव जिन. करोति किम् ॥ ७८ ॥ वसन्तमासाय वनेषु कीदृशा. पिकेने राजन्ति रसालभूरुहाः । निरस्य वर्णद्वयमात्र मध्यगं तव द्विषा कान्ततमा तिथिश्च का ॥ ७९ ॥ उर स्थलं कोऽत्र विना पयोधरं बिभर्ति सबोधय मारुताशनम् । वदन्ति कं पत्तनसंभवं जना. फल च किं गोपवधूकचोपमम् ॥ ८० ॥ वसन्तमासाद्य वनेषु राजते विकासि कि वल्लभ पुष्पमुच्यताम् । विहंगमं कं च परिस्फुटाक्षर वदन्ति किं पङ्कजसंभवं विदु ॥ ८१ ॥ समुद्यते कुत्र न याति पांसुला समुद्यते कुत्र भय भवेज्जलात् । समुद्यते कुत्र तवापयात्यरौ. प्रहीणसंबोधनवाचि किं पदम् ॥ ८२ ॥ तपस्विनोऽत्यन्तमहासुखाङ्गया बनेषु कस्मै स्पृहयन्ति सत्तमा. । इहापि वर्णद्वितयं निरस्य भो. सदा स्थितं कुत्र च सत्त्वमुच्यताम् ॥ ८३ ॥ पदमनन्तरवाचि किमिष्यते कपिपतितॊर्विजयी ननु कीदृश । परगुणं गदितुं गतमत्सराः कुरुत किं सतत भुवि सज्जनाः ॥ ८४ ॥ वदति राममनुष्य जघन्यजो वसति कुत्र सदालसमानस. । अपि च शक्रसुतेन तिरस्कृतो रविसुतः किमसो विदधे त्वया ॥ ८५ ॥ मेघात्यये भवति कः समद सुभगं च किं कमधरन्मुरजित् । कुटुत्तैलमिश्रितगुडो नियतं विनिहन्ति कं त्रिगुणसप्तदिनै. ॥ ८६ ॥ वर्षासु का भवति निर्मेघु कीदृगब्जं शेषं बिभर्ति वसुधासहितं क एकः । आमन्त्रयस्व धरणीधरराजपुत्रीं को भूतिमन्ननिचिताञ्जनाश्रयः स्यात् ॥ ८७ ॥ कौ शंकरस्य वलयावपयोधरः कः कीदृक्परस्य नियतं वशमेति भूप. । सबोधयोरगपति विजयी च कीदृग्दुर्योधनो नहि भवेद्वद कीदृशश्च ॥ ८८ ॥ कासुज्जहार हरिरम्बुधिमध्यमग्ना कीदृक्श्रुतं भवति निर्मलमानसानाम् । आमन्त्रयस्व वनमग्निशिखावलीढ तच्चापि को दहति के मदयन्ति भृङ्गान् ॥ ८९ ॥ मेघाल्यये भवति किं सुभगावगाहं का वा विडम्बयति वारणमल्लवेश्या । दुर्वारवीर्यविभवस्य भवेद्रणे क काः खेरवक्रसुभगास्तरणप्रभाभिः ॥ ९० ॥ कल्याणवाक्त्वमिव किं पदमत्र कान्तं सद्भूततेस्त्वमिव कः परितोषकारी । क. सर्वदा वृषगतिस्त्वमिवातिमात्र भूत्याश्रितः कथय पालितसर्वभूतः ॥ ९१ ॥ सूर्यस्य का तिमिरकुञ्जरवृन्दसिंही सत्यस्य का सुकृतवारिधिचन्द्रलेखा । पार्थश्च कीदृगरिदावहुताशनोऽभूत्का मालतीकुसुमदाम हरस्य मूर्ध्नि ॥ ९२ ॥ मेघाल्यये भवति का सुभगावगाहा वृत्तं वसन्ततिलक कियदक्षराणाम् । भो भो कदर्यपुरुषा विषुवद्दिने च वित्तं च वः सुबहु तत्क्रियता किमेतत् ॥ ९३ ॥ प्राप्ते वसन्तसमये वद किं तरुणा किं क्षीयते विरहिणामुरगः किमेति । किं कुर्वते मधुलिहो मधुगानमत्ता कीदृग्वनं मृगगणास्त्वरित त्यजन्ति ॥ ९४ ॥ दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता श्यामा सपत्नहृदये सुपयोधरा च । तुष्टे
(७६) ‘अभिमानिषु’ अभि नास्ति भीर्भय यस्य तत् मा लक्ष्मी अनिषु न विद्यन्ते इषवो बाणा यस्मिंस्तत् अभिमानिषु गर्ववत्सु (७७) ‘कुंकुमेन’ कुं पृथ्वीम् कु धराम् एन कृष्णेन कुङ्कुमेन (७८) ‘दंष्ट्राभ्रम्’ दंष्ट्रा दाढा तद्वद् आभा शोभा यस्य तत् द्वितीयायामुदय प्राप्तश्चन्द्रो वक्रोञ्चवलगुणेन सूकरदष्टया सहोपमीयते दम्भ कपट जिन न करोति भद्र कल्याण जिन करोति (७९) ‘कान्तगिरा’ कान्तागिरा कान्ता मनोहरा गीर्वाणी यस्यासौ कान्तगीस्तेन कारा वन्दिगृहम् राका पूर्णमामी (८०) ‘नागरगम्’ ना पुमान् हे नाग हे सर्प नगर नगरे भवस्तम् नागरङ्ग नारङ्गीफलम् (८१) ‘किंशुकम्’ किंशुकु पलाशम् शुक कीरम् क ब्रह्माणम् (८२) ‘हिमकरे’ हिमकरे चन्द्रे उद्गते सति मकरे मत्स्ये उत्पन्ने सति करे हस्ते सायुधे ऊर्ध्वीकृते सति रे रे दास इति चामन्त्रणे (८३) ‘तपसे’ तपोगुणाय से सकारभाव- सकारे वर्तते (८४) ‘अनुसराम’ अनु पश्चाद्धाचि रामेण सह वर्तमान सराम अनुमराम वय परगुण प्रति अनुमरण कुर्म (८५) ‘अनुजगृहे’ हे अनुज भ्रात ! गृहे मया अनुजगृहे अनुगृहीत (८६) ‘श्वास्ररोगम्’ श्वा तेषु दिनेषु मैथुनेच्छो भवेत् सरमस्तडागम् अग गोवर्धनम् श्वास्ररोगम् (८७) ‘कालिकापालिकाकमठ’ कालिका श्यामता अपगता अल्यो भ्रमरा यस्यास्तदपपालि भ्रमररहितम् कमठ कच्छप हे कालि हे पार्वती ! कापालिको योगी तस्य मठ (८८) ‘अहीनाक्षतनय’ अही सर्पो ना पुमान् क्षतनय क्षत खण्डितो नयो न्यायो येन स अन्यायवान् हे अहीन सर्पाणा स्वामिन् ! अक्षतनय न क्षतो नयो न्यायो येन स अखण्डन्यायवान् हीने अक्षिणी यस्यासौ हीनाक्षोऽन्धस्तस्य तनय पुत्र न हीनाक्षतनयो अहीनाक्षतनय धृतराष्ट्रो हि हीनाक्षोऽन्ध इति पौराणिका तत्पुत्रो दुर्योधनोऽहीनाक्षतनयो न भवति, किंतु अन्धपुत्र इत्यर्थ (८९) ‘कुन्दमकरन्दविन्दव’ कु पृथ्वीम् दमकर उपशमक्षमायुक्त भवति इत्यर्थे हे दविन् दवो विद्यते यस्मिस्तत् दवि तत्सबोधनम् दव वनाग्नि कुन्दमकरन्दविन्दव कुन्दाना पुष्पविशेषाणा मकरन्द पुष्परसस्तस्य बिन्दव कणा (९०) ‘सरोजराजय’ सरस्तडागम् जरा वयोहानि जय सरोजराजय कमलश्रेणय (९१) ‘शंकर’ श सुखम् करो राजभाग शकरी महादेव (९२) ‘भागीरथी’ भा कान्ति गी वाणी रथी रथो विद्यते यस्य स भागीरथी गङ्गा (९३) ‘नदीयताम्’ नदी इयता एतावदक्षराणाम् न दीयताम् (९४) ‘दवविकलम्’ दलम् बलम् बिलम् कल अव्यक्तमधुरम् दवविकल दावाग्निना व्याकुलम्
१ श्यामवर्णा लोहमयत्वात्, पक्षे,-षोडशवार्षिकी २ सुष्ठु पयः जलं धरतीति सुपयोधरा लोहनिर्मिते शस्त्रे पानीय दीयते इति प्रसिद्धि, पक्षे,-सुस्तनी
बहिरालापाः २०३
पुन प्रणतशत्रुसरोजसूर्ये सेवाद्यवर्णरहिता वद नाम का स्यात् ॥ ९५ ॥ उरसि मुरभिद. का गाढमालिङ्गितास्ते सरसिजमकरन्दामोदिता नन्दने का । गिरिसमेलघुवर्णैरण्वारव्यातित्वस्यैर्गुरुभिरपि कृता का छन्दसा वृत्तिरस्ति ॥ ९६ ॥ समरगिरिसि सैन्यं कीदृश दुर्निवार विगतघन-निशीथे कीदृशे व्योम्न्नि शोभा । कमपि विविधशेन प्राप्य योग्याभिमानं जगदखिलमनिन्द्वं दुर्जनः किं करोति ॥ ९७ ॥ भवति गमनयोग्या कीदृशी भू रथाना किमति-मधुरमम्लं भोजनान्ते प्रदेयम् । प्रियतम वद नीचायग्रणे किं पदं स्यात्कुमतिकृतविवादाश्चक्रिरे किं समर्थै ॥ ९८ ॥ भवति जथिनी काजौ सेनाद्यावरणभूषणं वहति किमहि पुष्पं कीटक्सुभम्समुद्भवम् । महति समरे वैरी वीर त्वया वद किं कृत कमलमुकुले भृङ्ग. कीदृक्विवन्मधु गजत् ॥ ९९ ॥ आह्वानं कि भवति हि तरो कस्यचित्प्रश्नविज्ञा. प्रायः कार्यं किमपि न कलौ कुर्वते के परेषाम् । पूर्णे चन्द्र वहति ननु का पृच्छति म्लानचक्षु. केनोदन्याज-नितमसमं कष्टमाप्नोति लोक. ॥ १०० ॥ का सबुद्धि सुभट भवतो ब्रूहि पृच्छामि सम्यक्प्रताप् कीदृग्भवति विपिनं सप्रबुद्धैर्विहंगै । लोक कस्मिन्रथयति मुदं का त्वदीया च जैत्री प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ १०१ ॥ गतक्लेशायासा विमलमनस कुत्र मुनयस्तपस्यन्ति स्वस्था. सुररिपुरिपोः का च दयिता । कैविप्रेया. कि स्यान्नवलघुयुतैरगुरुभिर्बुधा वृत्तं वर्णै. स्फुट-घटितबन्धं कथयत ॥ १०२ ॥ बिभर्ति वदनेन कि क इह सर्वपीडाकर कुलं भवति कीदृशं गलितयौवनं योषि-ताम् । वभार हरिरम्बुधेरुपरि का च केन स्तुतो हतः कथय कस्त्वया नगपतेर्भयं कीदृशात् ॥ १०३ ॥ हरिव्हति का तवास्त्यरिषु का गता कं च का कमर्चयति रोगवान्ध-नयती पुरी कीदृशी । हरि. कमधरद्वलिप्रभृतयो धरा किं व्यधु. कया सदसि कस्त्वया बुध जितोऽम्बुधिः कीदृशः ॥ १०४ ॥ पवित्रमतितृप्तिकल्किमिह कि भटामश्रणं ब्रवीति धरणीधरश्च किमजीर्णसबोधनम् । हरिवदति को जितो मदनवैरिणा सयुगे करोति ननु क शिखण्डिकुलताण्डवाड-म्बरम् ॥ १०५ ॥ को मोहाय दुगीश्वरस्य विदित सबो-वनीयो गुरु को धात्र्या विगल कलौ नयधन. किवन्न कीटग्द्विज. । कि लेखावचनं भवेदतिशयं दुःखाय कीट-खल को विन्नाधिपतिर्मनोभवसमो मूर्त्या पुमान्कीदृशः ॥ १०६ ॥ कामिन्या स्तनभारमन्थरगतेर्लीलाचलच्चक्षुषः कंदर्पकवलामिनत्यवसते. कीटक्पुमान्वल्लभ. । हेलाकृष्ट-कृपाणपाटितगजानीकात्क्षतस्तेऽरय. श्वासायासविशुष्ककण्ठ-कुहरा निर्यान्ति जीवार्थिन ॥ १०७ ॥ दैत्यारातिरसो वराहवपुषा कामुज्जहाराम्बुधे का रूपं विनिहन्ति को मधुवधूवैधव्यदीक्षागुरुः । स्वच्छन्दं नवसल्लकीकवलनैः पम्पासरोमज्जनै. के विन्ध्याद्रिवने वसन्त्यभिमतक्रीडाभि-रामस्थिता. ॥ १०८ ॥ का चक्रे हरिणा घने कृपणधी.
(९५) 'शखी' आद्यवर्णरहिता 'स्त्री' हे दुर्वारवीर्य ! त्वयि सवृषि सति सपत्नहृदये का प्रसुप्ता ? शखी, प्रणतशत्रुसरोजसूर्ये त्वयि तुष्टे सति सपत्नहृदये प्रसुप्ता नैवाद्यवर्णरहिता का? स्त्री (९६) 'मालिनी' मा लक्ष्मी नलिनी अमरी मालिनी नाम छन्दोवृत्तम् (९७) 'अभिभवति' अभि नास्ति भीर्यस्य तत् भयरहितम् भवति भानि नक्षत्राणि विद्यन्ते यस्मिंस्तत् भवन् तस्मिन्नक्षत्रयुक्ते अभिभवति पराभवति नीचो वृद्धि गतो दु खदायक एव भवेदिति भाव (९८) 'समादधिरे' समा अविषमा दधि क्षीरजम् रे इति नीचसबोधन दीयते समाहिता (९९) 'परागरजित' परा उत्कृष्टा हे राग आर-क्तत्व गर गरलम् रञ्जि रञ्जतीत्येवशील तत् जित परागरजित परागेण केमरेण रञ्जित प्रीणितमना (१००) 'नीरापकारेण' हे नीप वृक्षविशेष 'परे अन्ये आत्मन कार्याणि मर्वे कुर्वन्ति परकार्यकृत्तु विरल राका पूर्णिमा हे काण एकाक्ष ! नीरापकारेण नीरस्य जलस्य अपकार अभावस्तेन नीर विना वृथा कष्ट ददाति (१०१) 'वीहार सेविना' हे वीर ! रवि रव शब्दो विद्यते यस्मिन् तत् शब्दयुक्तम् हासे हास्ये सेना सैन्यम् वीहारसेविना वीहार उपवनादिषु खेलन सेवते इत्येवंशीलेन (१०२) 'शिखरिणी' शिखराणि विद्यन्ते यस्मि न्सौ शिखरी पर्वत तस्मिन् शिखारिणि ई लक्ष्मी, शिखरिणी छन्द
१ विष्णो २ अष्टाभिर्लघुभि सप्तभिश्च गुरुभिरित्यर्थ ३ कविप्रियम्
(१०३) 'विषमपादनिकुञ्जगतादित' विष गरलम् अपात् सर्पं अनि नास्ति इ कामो यस्मिन् तत् कदर्प॑रहितम् कु पृथ्वीम् जगता ससारेण अदित शत्रु विषमपादनिकुञ्जगतादित विषमाणा दुर्गमाणा पादाना प्रत्यन्तपर्वताना निकुञ्जेषु गहनस्थानेषु गता अद्ध्य सर्पा यस्मिन्स विषमपादनिकुञ्जगताहस्तिस्मात् यत्र पर्वते शिलाया अधस्तात्सर्पा निग्रेच्छन्ति तत पर्वताद्विभीयते (१०४) 'कुभीरमीन मकरागमदुर्गवारि' कु पृथ्वीम् भी भयम् अ विष्णुम् ई लक्ष्मी इन सूर्यम् अकरा नास्ति करो राजदण्डो यस्या सा अग गोवर्धन-पर्वतम् अदु ददति स गवा वाण्या वादेन कृत्वा अरि प्रति-वादी कुम्भीरमीनमकरागमदुर्गवारि कुम्भीरा नक्राश्च मीना मत्स्याश्च मकराश्च तेषा आगमौ आगमनगमने ताभ्या कृत्वा दुर्गे दुस्तर वारि जलं यस्यासौ ईदृश समुद्रो भवति (१०५) 'पयोधरसमय 'पयो जलम् हे योध ! हे धर पर्वत ! हे रस अजीर्णे ! हे सम 'मा लक्ष्मी स्त्या सहवर्तमान हारे मय मयनामा कश्चिद्दैत्यविशेषो हरेण हृत इति भावार्थे पयोधरसमय पयोधरस्य मेघस्य समय काल मेघा-गमे हि मयुरा विशेषेण नृत्यन्तीत्यर्थ (१०६) 'राजीवसन्निभवदन' रा द्रव्यम् हे जीव हे गुरो सन् सज्जन. इभवद् हस्तिवत. न विद्यते अ कृष्णोऽसित्क्रिति अन ब्राह्मणो हि कृष्णरहित कदाचिन्न स्यादित्यर्थ राजी पङ्कि वसन् निवास कुर्वन् इभवदन इभवत् हस्तिनुल्य वदन मुखं यस्यासौ गणेश इत्यर्थे राजीवैन कमलेन सन्निभ सदृश बदन मुख यस्यासौ राजीवसन्निभवदन (१०७) 'सम-रत 'सम तुल्य रत भोगक्रिया यस्य स समामात् (१०८) 'कुञ्जरा' कु पृथ्वीम् जरा वृद्धत्वम् अ. कृष्ण कुञ्जरा हस्तिनः
| २०४ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |

कीदृग्भुजंगोऽस्ति कि कीदृक्समुद्रस्वजं जठरं कीदृग्यियासुर्वधू । श्लोकः कीदृगभीप्सितः सुकृतिना कीदृङ्नभो निर्मलं क्षोणीमाह्वय सर्वग किमुदितं रात्रौ सरः कीदृशम् ॥ १०९ ॥ मुण्डः पृच्छति कि मुरारिशयनं का हन्ति रूपं नृणा कीदृग्विीरजनश्च कोऽतिगहनः संबोधयावञ्चितम् । का धात्री जगतो वृहस्पतिवधूः कीदृक्कविः काहतः कोऽर्थः किं भवता कृतं रिपुकुलं कीदृक्सरो वासरे ॥ ११० ॥ कस्मै यच्छति सज्जनो बहुधनं सृष्टं जगत्केन वा शंभोर्माति च को गले युवतभिर्वेण्या च का धार्यते । गौरीशः कमताडयच्चरणत का रक्षिता राक्षसैगारोहादवरोहतः कलयतामेकं द्वयोरुत्तरम् ॥ १११ ॥ कः स्यादम्बुदयाचको युवतय. किं कामयन्ते पतिं लज्जा केन निवार्यते निकट के दासे कथं यावनी । भाषा दर्शयतेति वस्तुषु महाराष्ट्रे कदा वा भवेदाद्यन्ताक्षरयोर्हि लोपरचनाचातुर्यतः पूर्णताम् ॥ ११२ ॥ का मेघादुपयाति कृष्णदयिता का वा सभा कीदृशी का रक्ष्यत्वहिहा शरद्विकचयेत्कं धैर्यहन्त्री च का । कं धत्ते गणनायक. करतले का चञ्चला कथ्यतामारोहादवरोहतश्च निपुणैरेकं द्वयोरुत्तरम् ॥ ११३ ॥ कुत्र श्रीः स्थिरतामुपैति भुवि को दुःखी किमीषत्पदं धर्मी- | दीन्विनिवारयन्ति पथि के पान्थस्य दीनस्य च । का सबुद्धिरिह श्रियश्च तममः कौ नाशकौ प्रोच्यता गच्छन्तं पथिक किमाह यवनः सङ्गाभिलाषान्वितः ॥ ११४ ॥ कः खे भाति हतो निशाचरपतिः केनाम्बुधौ मज्जति कः कीदृक्तरुणीविलासगमनं को नाम राज्ञा प्रियः । पत्रं कि नृपतेः किमप्सु ललितं को रामरामाहरो मन्प्रश्नोत्तरमध्यमाक्षरपदं यत्तच्चाशीर्वचः ॥ ११५ ॥ किं त्राणं जगतां न पश्यति च क. के देवताविद्विषः किं दातुः करभूषणं निरुदरः कः किं पिधानं दृशाम् । के खे खेलनमाचरन्ति सुदृशा किं चारुताभूषणं बुद्ध्या ब्रूहि विचार्य सूक्ष्ममतिर्मस्त्वेकं द्वयोरुत्तरम् ॥ ११६ ॥ कः कर्णारिपिता गिरीन्द्रतनया कस्य प्रिया कस्य नुक्रो जानाति परेङ्गितं विषमगु. कुत्रोद्भूतकामिनाम् । भार्या कस्य विदेहजा तुदति का भौमेऽह्नि निश्चश्च कस्तत्प्रत्युत्तरमध्यमाक्षरपदं सर्वार्थसत्पक-रम् ॥ ११७ ॥ लावण्यं क नु योषिता नमसि के सञ्चार-मातन्वते कासासुच्चतरा भवन्ति निनदाः क क्रीडतो दंपती । केषु श्रीः प्रकटीचकार भगवान्सीतापतिः पौरुषं मत्प्रश्नोत्तरमध्यवर्णघटितो देवो मुदे सोऽस्तु वः ॥ ११८ ॥ कः पूज्यः सृजनत्वमेति कतम. क स्थीयते पण्डितैः श्रीमत्या शिवया च केन भुवने युद्धं कृतं दारुणम् । किं वाञ्छन्ति सदा जना युवजना ध्यायन्ति किं मानसे मत्प्रश्नोत्तरमध्यमाक्षरपदं भूयात्तदाशीर्वचः ॥ ११९ ॥ क्षोणी कं सहते करोति दिवि का नृत्यं शिवायाः पतिर्भूताना कमयुद्ध जीवहरणे का रामशत्रोः पुरी । कं रक्षन्ति च साधवः पशुपते. किं वाहनं प्रोच्यतामालोमप्रतिलोमशाखचतुरैरेकं द्वयोरुत्तरम् ॥ १२० ॥
(१०९) 'कुमुदवनपरागराजिताम्भोविहितगमागमकोकसुग्मरेखम्' कुमुदै पृथ्व्या हर्षोऽकारि, पृथ्वी उद्धृता इत्यर्थ अवनपरा अवन रक्षण धनस्य गोपन तत्र परा सावधाना गर विषम् जितानि पीतानि अम्भासि जलानि येन तज्जिताम्भ विहितगमा विहित कृतो गमो गमन यया सा गमक अर्थाभिप्रायेण गम्यते प्राप्यते स गमक अकमूक क पानीय मुञ्चन्ति ते कमुचो मेघा न विद्यन्ते कमुचो यस्मिन् तत् अकमुकु, मेघै रहितमित्यर्थ हे धरे हे पृथ्वि ! ख आकाशम् कुमुदवनपरागराजिताम्भोविहितगमागमकोकसुग्मरेख कुमुदाना चन्द्रविकासीकमलाना वनानि तेषा परागेण रजसा रञ्जितं रङ्गयुक्तं कृतं अम्भो जल यस्मिन् तव ईदृश सर पुन. कीदृशम् ? विहितौ निष्पादितौ गमागमौ गमनागमने याभ्या तौ विहितगमागमौ तौ च तौ कोकौ च ताभ्या कृत्वा मुग्धा सुन्दरा रेखा पङ्क्तिर्यस्मिन् तत् यतस्तौ चक्रवाकीचक्रवाकौ अन्योन्य 'वियुक्तौ सन्तौ रात्रौ मिलनाय तीरात्तीर पर्यटत' तयोर्गमनागमनेन जलरेखाया-भवात् रात्रौ सर ईदृशं इति भाव (११०) 'विकचवारिजराजिसमुद्भवोच्छलितभूरिपरागविराजितम्' हे विकच विगता कचा केशा यस्य स तत्सबोधन हे वालरहित ! वारि जलम्, महाप्रलये हरि. शेषशय्याया समुद्रजले शेते जरा वृद्धत्वम्, आजिसमुद् आजौ सग्रामे समुद् सहर्ष, भव ससार, हे अच्छलित हे अवञ्चित ! भू पृथ्वो इपरा १. कामस्तेन परा उत्कृष्टा नित्ययौवनवती, गवि वाण्याम्, रा' द्रव्यम्, जितम् 'विकचवारिजराजिसमुद्भवोच्छलित-भूरिपरागविराजित' विकचाना प्रफुल्लाना वारिजाना कमलाना राजि-पङ्क्तिस्तया समुद्भवस्तेन उच्छलितो यो भूरि प्रचुर पराग तेन विराजितं शोभितम् (१११) साधवे-वेधसा, कालिमा-मालिका, काले-लका (११२, ११३) धारा-राधा वधा-धाव (अहिहा इन्द्र) काश-शका पाश-शपा (विबुध)
(११४) इमे उत्तरे अर्धस्फोरिते एवान्वेषा योजनासौकर्याय लिख्यते-ए विष्णो, भयी भीतियुक्त, आ खला (डल्योरभेदात् खडा) एव प्र भय्या खड। (११५) महेशः रामेण मैनाक मधरम् सचिव तुरग गज राजीवम् रावण एतन्मध्यमाक्षरघटिन्न वाक्य 'हे मे नाथ! चिर जीव' इति राजान प्रति आशीर्वचनम् (११६) अन्ध अत्र दृष्टिविहीनश्च दानवा दैत्या दानवारि च, दानोदकमित्यर्थ तम राहु• अन्धकारश्च वय पक्षिण तारुण्य च (११७) वासव हरस्य हस्वस्य तुगागमो 'ह्रस्वस्य पिति कृति तुक्' इति सूत्रेण मतिमान् नमसि रामस्य कुरुत्विति अन्यत्र एतन्मध्यमाक्षरघटितवाक्यं 'सरस्वति नमस्तुभ्यम्' इति विषमा पञ्च गावो बाणा यस्येति विषमगु काम (११८) नैपुण्ये, अण्डजा, पारीणा, एकान्ते, रक्ष सु, मध्यमवर्णोद्धारात्पुण्डरीकाक्ष इत्युत्तरम् पारीणामित्यस्य नदीपूर इत्यर्थ 'कर्करीपूरयो पारी पादरज्ज्वा च हस्तिन.' इति विश्व. (११९) भूदेव, खवश, संसदि, दुर्गेण (दैल) वैभव, युवति, मध्यमाक्षरोद्धरेण देव सर्गे भव इत्युत्तरम् उच्चकोटिस्य स्या. इति तात्पर्येम् (१२०) भार-रभा काल-लका दीने-नंदी
प्रश्नोत्तराणि, चित्रम् | २०५
| प्रश्नोत्तराणि | चित्रम् |

| भारतं चेक्षुदण्डं च सिन्धुमिन्दुं च वर्णय । पाठमेकं
प्रदास्यामि प्रतिपर्वप्रमोदय. ॥ १ ॥ कियन्मात्रं जलं विप्र
जानुदघ्नं नराधिप । तथापीयमवस्था ते नहि सर्वे भवा-
दृशाः ॥ २ ॥ अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥ ३ ॥ भूरि-
भारभराक्रान्तो बाधति स्कन्ध एष ते । न तथा बाधते
स्कन्धो यथा बाधति बाधते ॥ ४ ॥ निरर्थकं जन्म गतं
नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि
निष्फलैव कृता विनिद्रा नलिनी न येन ॥ ५ ॥ अङ्गं
तदिदमुन्मदद्विपश्रेणिशोणितविहारिणो हरे । उल्लसत्तरुण-
केलिपल्लवा सङ्ककीं त्यजति किं मातङ्गज. ॥ ६ ॥ इदमनु-
चितमक्रमश्च पुंसा यदिह जरास्वपि मन्मथा विकारा ।
इदमपि न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं
वा ॥ ७ ॥ यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे
लोकः शशक इति नो मा प्रति तथा । अह त्विन्दुं मन्ये
त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणकिणकलङ्काङ्कित-
तनुम् ॥ ८ ॥ भविन्त्री रम्भोरु त्रिदशवदनम्लानिरधुना
स रामो मे स्थाता न युधि पुरतो लक्ष्मणसख. । इयं यास्य-
त्युच्चैर्विपदमधुना वानरचमूर्गलिष्ठेदं षष्ठाक्षरपरविलोपात्पठ
पुनः ॥ ९ ॥ अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः
पञ्चाशन्मधुगन्धमत्तमधुपाः कोधोद्धताः सिन्धुराः । अश्वा-
नामयुतं प्रपञ्चचतुर पण्याङ्गनाना शत दण्डे पाण्ड्यनृपेण
ढौकितमिदं वैतालिकायार्पणम् ॥ १० ॥ | नमामि मामनोनुन्नमान मुनिममानिनम् । नानागमनमा
नाममॊनामानमसुमेनमुम् ॥ १ ॥ तागतारतंग्गेतैरुरुत्तरुत्तरोत्तरुत्तरो
रूतै. । रतार्र्ता तित्तिगी गैति तीरे तीरे तगे तरै ॥ २ ॥

तनुना तनुता नीता तेन ते नीतनीतिना । नाता नूतनता
तान्ति तनो तेनातनोति न० ॥ ३ ॥ या मौताममता माया
मा परोक्षकश्रोपमा । तागेने गगनेऽगे तामक्षगच्छेऽगक्षम्
॥ ४ ॥ सर स्वतिप्रमादं मे स्थितिं चित्तमरेम्वति । सग-
स्वति कुरु क्षेत्रकुरुक्षेत्रममस्वति ॥ ५ ॥ समार साक-
दर्पेण कंदर्पेण मसाग्मा । शर नवाना विश्राणा नाविश्राणा
शरन्नवा ॥ ६ ॥ मागारिशक्रगमेभमुखैरामाग्गरहमा । साग-
ग्वध्वस्ता नित्य तदतिहणक्षमा ॥ ७ ॥ माता नताना
सव्रट् श्रिया भावितसम्भ्रमा । मान्याथ सीमा राणाणा शं
मे दिश्यादुमादिजा ॥ ८ ॥ सरला बहलारम्भतरलालि- |
| (१) पूर्वार्धं भोजराजस्योक्ति उत्तरार्ध तु कालिदासस्य प्रत्युक्ति
(२) प्रथमपादस्तृतीयपादश्च नदीमुत्तितीर्षोर्भोजस्योक्ति द्वितीयपाद-
श्चतुर्थपादश्च राजदर्शनार्थं छद्मना काष्ठभारवाहपण्डितस्य प्रत्युक्ति
(३) पूर्वार्धं मानिनीमनुनयतां वल्लभस्योक्ति उत्तरार्धं तु तस्य
वक्रोक्ति (४) पूर्वार्धं मृगयाया गृहामागच्छत शिबिकारूढस्य मोन
राजस्योक्ति उत्तरार्धं च राजदर्शनार्थं गच्छत शिविकावाहकस्य
पण्डितस्य प्रत्युक्ति (५) पूर्वार्धं विदुषस्योक्ति उत्तरार्धं राजक-
न्याया (६) पूर्वार्ध तच्चित्तपरीक्षिक्राया राजकन्याया उक्ति उत्त-
रार्धं तदनुरक्तस्य विह्वणस्य प्रत्युक्ति (७) पूर्वार्धं सारक्रीडा कुर्वत्या
शीलाभट्टारिकाया उत्तरार्धं च भोजस्य (८) पूर्वार्धं रात्रौ चन्द्र
वर्णयतो भोजस्योक्ति उत्तरार्धं च राजदर्शनार्थं आगतस्य छद्मचौर-
पण्डितस्य (९) प्रतिचरणसप्तमाक्षरविलोपात् द्वितीयोऽर्थ उद्रवति
पूर्वचरणत्रय रावणस्योक्ति सीता प्रति चतुर्थचरणस्तु तस्या
प्रत्युत्तरम् (१०) निखिलमपि पद्य विज्ञापयतो भाण्डागारिकस्योक्ति
वैतालिकायार्पय इति च सप्ताक्षराणि वैतालिकगीतदत्तकर्णस्य विक्रमा
दित्यस्य प्रत्युक्ति

१ कुरा, पक्षे, -काष्ठेन | (१) द्वयक्षर पद्यम् नमामि नमस्करोमि कम् उ विष्णुम् न
केवल तमेव अपि तु उमेन पार्वतीनाथम्, हरिहरमित्यर्थे , किंभूतम् ?
मामनोनुन्नमान मा लक्ष्मीस्तस्या मनसो नुन्नोऽपहस्तो मानो येन स
तथा त लक्ष्मीचाञ्चल्यगर्वोपहारिणम् पु० किं० ? मुनि योगीश्वर
अमानिन मानरहितम् पु० किं० ? नानानन नानाविधानि आननानि
मुखानि यस्यासौ त दशावतारत्वान्नकेविधमुग्म् पु० किं० ? अमा-
नाम अमानमाकाशममति अतिक्रामतीत्यमानामानस्तम् पु० किं०
ओनामानं ब्रह्मस्वरूपम् एवविर्द उमेन हरं उ हरिं च नमामि

(२, ३) द्वयक्षर (४) उ इति संबोधनम् हे अक्षगच्छद्यगक्षम ! अक्षे
रिन्द्रियैर्गच्छन्ति प्रतिपद्यन्ते ते अक्षगच्छा विषया तेषां छत्र नाग
तत्र क्षम समर्थ तस्य संबोधनम् हे महायोगिन् ! गगने आकाशे
ता अर प्राप किंभूते गगने ? तारोने ताराभि ऊन तस्मिन् ता
काम् ? या माता अर्थात् विश्वस्य माता पु० की० ? या ममता मम-
तास्वरूपेण वर्तते या वैष्णवी माया पु० की० ? या मा लक्ष्मी
पु० की० ? या परोक्षक्षरोपमा परक्षाणी उक्षा च परोक्षा वृषभ तेन
क्षरति गच्छतीति स श्रीमहादेव तेन उपमीयतेति सा (५) स्वतिप्र-
साद सुन्दरातिप्रसन्नता मर प्रामुहि चित्तमरेम्वति चित्तसमुद्रे क्षेत्र
शरीरमेव कुरुक्षेत्रं तत्र मरस्वत्याख्यनदीरूपे नेधा- समुद्रस्थितेरी-
चिल्येन मम चित्तसमुद्रे स्थितिं कुरु इत्यर्थं (६) नवा शरत् कंदर्प-
रूपेण दर्पेण साक ससार किंभूता ? मसाग्मा मारसेन पक्षिविशेषेण
पश्रेण वा सहिता शर काण्डं बिभ्राणा पोषयन्ती- परिपाक प्रापय-
न्तीत्यर्थ नवाना नवमन शकट कर्दमभावेन पथि यस्या
सा न अविश्राणा वीना पक्षिणा आण शब्द न तेन रहिता च

(७, ८) खड्गबन्धोऽयम् उमा गौरी शं सुखं मे मद्य दिश्यादेयात्
कीदृशी आदिजा जगदादिभवा तथा मारारि शंभु , शक इन्द्र,
रामो जामदग्न्यो दाशरथिवीं, इभमुखो गणाधिपस्तैरामाररहसा वेग-
वर्षवेद्वेगेनादराद्वेशात्सर उत्कृष्ट आरब्ध प्रकव स्तव स्तुतिर्यस्या-
सा तथा नित्य सदा तेषा मारारिप्रभृतीनामार्तं पीडाया हरणेऽपन-
यने क्षमा समर्था तथा नताना मातेव माता वत्सलत्वात् तथा-
सघट समूह कामा? श्रियामृदीनाम् तथा बाधितो नाशितो
भक्ताना सभ्रमो भय यया सा तथाभूता तथा मान्या पूज्या. अथ
सीमा मर्यादा रामाणा स्त्रीणाम्, सर्वोत्तमेल्यर्थे |
२०६ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्
बलारवा । वारलवहलामन्दकरला बहलामला ॥ ९ ॥ भामते प्रतिमासारग्माभाताहताविता । भावितात्मा शुभा वादे देवाभा बत ते सभा ॥ १० ॥ मारमासुषमा चारु रुचा मारवधूतमा । मात्तधूर्ततमावामा सा वामा मेऽस्तु मारमा ॥ ११ ॥ रसा साररमा सार सायताक्ष क्षतायसा । सातावात तवातासा रक्षतस्वस्वतक्षर ॥ १२ ॥ यदानतोऽयदानतो नयात्ययं न यात्ययम् । शिवे हिता शिवेहिता स्मगमिता स्मरमि ताम् ॥ १३ ॥ आम्नायानामाहान्यावा गीतिर्नीतिर्भीति प्रीति । भोगो रोगो मोदो मोहो ध्येयेच्चेच्छेक्षेमे देशे ॥ १४ ॥ नागविशेषे शेषे शेषेऽशेषेऽपि सहते जगति । हंससिकालं कालं का लङ्काल्लङ्घने स्तुतिर्भवतः ॥ १५ ॥ विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना । महाजनोऽदीयंत मानसादर महाजनोदीयमानमादरम् ॥ १६ ॥ विश्वस्य हेतुर्मरैर्बहु गीयसे त्वं विश्वंभरे शिवशिवे त्रिगुणात्ममूर्ते । चिद्व्योमतलेऽपि परमा प्रथमा वदन्ति त्वा योगिन. स्तुतिपरा. प्रणिधानदृष्ट्या ॥ १७ ॥ पायाद्वः करणोऽरणो रणरणो रणो रणोवारणो दत्ता येन रमारमारमरमा शमारमा. सा रमा । स श्रीमानुदयोदयोऽदयदयो दायोदयोदेदयो विष्णुर्जिष्णु-रमीरभीरमिरभीराभीरभीमारभी. ॥ १८ ॥
भाषाचित्रम्
उत्सङ्गकलितोरुकटारीभाजिग उत गद्यंकरमाला । मन्नु पायकगणा जय तेम्व गामगोह्गमिळाव इलावी ॥ १ ॥ हरनयनहुतागन्वाल्या जो जलाया रतिनयन-
(९) मुरजबन्धोऽयम् शारदूर्नमेनन मरलोन्तीर्थे नामम तादृइने । प्रभूतेनारम्भेण तल्लाना यन्नलानारमन्विताना भ्रमरमैन्यानामाख शब्दो यस्या सा मरलावहलाग्मन्वरलालिबल्लारवा तथा वारलारिभिर्हसीभिर्बहुला समता यदि वा वारेण परिपाटया लावो लवन येषा तानि तथाविधानि हलानि हलकृष्टधान्यक्षेत्राणि यस्या सा तथाविधा तथा कर लान्ति गृह्णन्ति ये ते करला नृपा अमन्दा यात्रायो सोधमा करला यस्या सा तथाविधा तथा बहलानि प्रभूतान्यमलाम्यान्यमलानि फलानि यस्या सा तथाविधा यदि वा बहलमल्यममला निर्मला बहुलामला (१०,११) पद्मबन्ध (१२) सर्वतोभद्र हे सार उत्कृष्ट ! तवरक्षत पाल यत सत मा रमा पृथ्वी मरमा उत्कृष्टरसाऽस्तु भवतु हे आयताक्ष दीर्घ लोचन, तथा मा क्षतायमा चास्तु क्षतो नास्ति आयोधोगमो येस्ते क्षतायाश्रीरादयस्तानस्वलन्त नयतीति कृत्वा तथा मात सुगमननीति सातावा, श्रेयस्करीत्यर्थ अस्ति बति सर्वत्र योज्यम् हे अत, अतति नित्य मेवोधम भजत इत्यर्थ तथा अतासा अक्षया रसा भवद्विषयत्त्रापियोग तुनियमे रक्षत एव, न त्ववलिप्सस्य तहा हे अतक्षर ! तक्षण तक्षस्तनुक-रण त राति ददातीति तक्षर, न तक्षरोऽनक्षर, पुष्टिक इत्यर्थ (१३) यस्यामानतोऽथ जन नयात्यय नीतिविक्षेप न याति कुत अयदानत अर्थात् तथेवास्य शुभावहविधिदानात् शिवे मङ्गले हिता अनुकूलान् शिवेन महादेवेन ईहिता प्रार्थनीयाम् स्मरेण कन्दर्पेण अमिता मातु मयोग्याम् अनभिभूतामित्यर्थ (१४) चतुर्मात्रिको विष्णुमालाच्छन्द आम्नायाना वेदानामन्या वाक् उपनिषद् आह अकथयत् किम् ? ईति नीति भीति प्रीति भोग रोग मोद मोह क्षेमे शुभे देशे स्थाने आत्मपरात्मनो ध्येयेव् इच्छेच्च (१५) सानुप्रास हे राम ! त्वया अशेषे समस्तेऽपि जगति सहतेत्व नागविशेषे शेषनागे शेषे स्वपिषि तथा असि-बत् खङ्गवत् काल कृष्ण कालं हसि मारयसि अतो भवतस्तव लङ्काया लङ्घने पारगमने का स्तुति स्तवन ? न किमपीत्यर्थ (१६) मृत जटायुष दृष्ट्वा राम प्रति लक्ष्मणोक्तिरियम् अय विना पक्षिस्वरूप पुरुष जटायु यमेन यतमानसादर यतमानाना रक्षितुमद्यताना साद विषाद राते ददातीति तद् यथा स्यात्तथा अर शीघ्र मानसामानस चित्तमेव मानस मानससरस्तस्मात् अदीयंत अखण्डयत अथ किंभूत ? महाजन महात्या महाजनोदी च मह उत्सवमजन्ति क्षिपन्ति ये दुर्जनास्तन्नोदी तदपसा-रक यमेन किभूतेन ? एनो विना अपराधमृते नयता स्वपुर प्रापयता असुखादिना प्राणभक्षणेन सुग्वादिना ऊनयता च हीन कुर्वता च इत्यर्थे
(१७) अस्य वसन्ततिलकाच्छन्दसो दुर्गास्तुतिरूपस्य पद्यस्य चतुर्णा-मपि पादाना पञ्चमसप्ताष्टमाक्षरलोपेन इन्द्रवज्रावृत्त शिवस्तुतिश्च जायते (१८) म पुराणप्रसिद्ध वेवेष्टि व्याप्नोती ते विष्णुर्भगवान्वो युष्मान्पायादित्यर्थ ब इति वट्श्वचनेन मर्वममत्व सूचितम् मायया मृष्टस्य तस्य रूय रक्षक्त्व मघटित्यत आह-श्रीमानिति श्रीर्नित्य-नस्यास्तीति श्रीमान् माया विनाभूदित्यर्थ ननु बहूना रक्षणपरिप्र-न्थिना विद्यमानत्वात्कथमस्य रक्षकत्वमित्याह-विष्णुर्जिति जयन्शील इत्यर्थ तथा च रक्षणपरिपन्थीनोऽपि तद्वशगा इति भाव इदानी व इति बहुवचनोक्त सर्वममत्व द्रढयितुमवतारविशेषेषुसुखेनाह-करण दन्ति क जल रणति गच्छतीति करण मत्स्यकूर्मावतारवानिव्यर्थ पुन अरण न विद्यते रण समामो यस्य स तथा अनेन च ब्रह्मकर्म मात्रप्रणयी वामनावतार उक्तो भवति यस्येति शेष स क ? यस्य विष्णो रण रणस्थाय रण, रणसबन्धीत्यर्थ रणरण रणाच्छन्दा-जायमानो रण शब्दो रणरण प्रतिशब्दो रणोवारण रणस्य उ लक्ष्मण व्रणादिचिह्न येषा ते रणव वीरा तान् वारयतीति रणोवारण अभूत् उकारस्तिवह लक्षणम् अनेन नृसिंहावतार उक्तो भवति क म ? येन अर शीघ्रम अरीणा समूहो अर अरिवृन्द मिनोति हिन-स्तीति आरमा तेन आरमा अरिकुलनिहन्त्रा रमा लक्ष्मीर्विप्रेभ्यो विश्रानिना दत्ता तथा रमया रमते असौ रमारमो विष्णुस्तस्मिन्सर-मन्ते ते रमारमरमा ब्राह्मणास्तान् आरमयति आह्लादयति स, तथा आम बभूवेत्यर्थ अनेन क्षत्रियान्तकारिपरशुरामावतार उक्तो भवति पु० क० १ उदयोदय याति प्राप्नोतीति य न य अय अप्राप्त उदयो* येन तत् अयोदय भूधरादि उत्तु उद्धत अयोध्व अप्राप्तोदय जलनि-मग्न भूधरादि नये स तथा अनेन आदिवराह उक्तो भवति पु० क० १ अदद्यदय अदद्येषु दयते स तथा कूरुष्वपि दयावानित्यर्थे अनेन बौद्धावतार उक्तो भवति पु० क० ? दायोदयोदेदय दायार्थ विभागार्थ उदयन अयो लोहमय शस्त्र यैस्ते दायोदया धातैराढ्या तान्नयति खण्डयतीति तथाविधोऽर्जुन तस्मिन् दयते स तथा अनेन कृष्णावतार उक्तो भवति पु० क० १ अभीरमौरभि पराङ्नाहरणा-दिभ्यः कृत्येष्व्यो अमीरा निर्भया रावणादयस्तेषु भियै भयार्थ रमते रामस्त्येन वर्तते स तथा अनेन रामावतार उक्तो भवति पु० क०१ अमीराभीरभीसारभी अमीरा शूरा भीरा कातरा तेष्वपि कोव्या लोभादिबशात् भय सारयन्ति प्रयच्छन्ति ते दुष्टम्लेच्छास्तेषा भी यस्मात् स तथा अनेन कल्क्यवतार उक्तो भवति
(१) हे राजन् ! तव पायकगणा सेवकालोका उत्सङ्गकलितोरुकटारीभाजिग उत्सङ्गा मतिमुदिता कलितोरुकटा सज्जिनधुलक
भाषाचित्रम्, जातिवर्णनम् २०७
जलौघे खाक बाकी बहाया । तदपि दहति चित्तं माक-
क्या मै करोंगी मदनसरसि भूयः क्या बला आग लागी
॥ २ ॥ नूनं बादल्शाइ शोहपसरी निःसाणशब्द. खर.
शत्रुं पाडि लुटालितो विहणिसो एवं भणन्त्युद्धटा । रूढे
गर्दभरामधालि सहसा रे कं तमेरे कहे कण्ठे पापनिवेशि
याहि शरणं श्रीमल्लदेव प्रभुम् ॥ ३ ॥
जातिवर्णनम्
सिंह.
गर्जन्हरि साम्ससि शैलकुञ्जे प्रतिध्वनीनात्मकृतान्नि-
शम्य । पदं बबन्ध क्रमितुं सरोष. प्रतर्कयन्नन्यमृगेन्द्रनादम्
॥ १ ॥ लीढग्रस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं विन्य-
स्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः । एतत्सिन्मद-
गन्धवासितसट. सावज्ञतिर्यक्चलत्सृक्क्रान्ताहतिधूतलोलमधुपः
कुञ्जेषु शेते हरि ॥ २ ॥ पश्योदञ्चदवाञ्चदञ्चितवपु. पश्चार्ध-
पूर्वार्धभाक्स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गलभृत् ।
दंष्ट्राकोटिविशङ्कटास्रकुहर कुर्वन्सटामुत्कटामुकर्ण. कुरुते
क्रमं करिपतौ क्रूराकृतिः केसरी ॥ ३ ॥ उत्कर्णोऽयमकाण्डच-
ण्डिमपटुः स्फारस्फुरत्केसरः क्रूराकारकरालवक्त्रविकटस्तब्धो-
र्ध्वलाङ्गूलभृत् । चित्रेणापि न शक्यतेऽभिलिखितुं सर्वाङ्गसङ्को-
चनाच्चीत्कुर्वद्विरिकुञ्जकुञ्जरशिरःकुम्भस्थलस्थो हरि. ॥ ४ ॥
तरक्षुः
लाङ्गलेनाभिहत्य क्षितितलमसकृद्धारयन्नग्रपञ्चामात्मन्येवा-
वलीय द्रुतमथ गगन प्रोत्पतन्विक्रमेण । स्फूर्जहुत्कारघोष
प्रतिदिशमखिलान्द्रावयन्नेष जन्तूनूकोपाविष्ट. प्रविष्ट. प्रतिवन-
मरुणोच्छूनचक्षुस्तरक्षुः ॥ ५ ॥
करिणः
अम्भोमुचा सलिलमुद्वमता निशीथे तालीवनेषु निभृतं
स्थिरकर्णतालाः । आकर्णयन्ति करिणोऽर्धनिमीलिताक्षा
धारारवान्दशनकोटिनिषण्णहस्ता. ॥ ६ ॥
मृगः
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन
प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैरर्धावलीढै
श्रमविवृतमुखभ्रंशिभि. कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति
बहुतर स्तोकमुर्व्यां प्रयाति ॥ ७ ॥
भल्लुः
नयनपथनिरोधात्क्रोधनिर्धूतभालश्रमदविरलरोमस्तोमबद्धा-
न्धकार. । कृमिकवलनलोभोत्खातवल्मीकरन्ध्रोत्थितफणि-
फणघातैरूच्छलत्येष भल्लः ॥ ८ ॥
पोला ये अरीभा शत्रुगजास्तेषां योऽसौ आजि सग्राम त रान्ति
ददतीति ते सन्तु उत पुन भयङ्करभाला भृकुटीभीषणललाटा सन्तु
तै पायऋगणै इलाव पृथ्वीरक्षक इलावीजितकदर्पस्त्व अगोहर
अगोग्रह यथा स्यात्तथैव गा पृथ्वीं जह परदेशानात्मीयान्कुरु
हयः
यावच्छकलितो वायुरेकीभवितुर्महति । तावदेव तुरंगो-
ऽयमाजगाम जगाम च ॥ ९ ॥ मण्डले मण्डलाकारो रेखा
वाजीमयी जवे । सव्यापसव्ये द्विमुखो नकुलाधिष्ठितो हयः
॥१०॥ पुरो नुन्न. पश्चाद्ब्रजति विधुतश्रोच्छ्रिततनुः समुत्प-
त्योत्तान पतति पथि लोकान्विशति । हय. किंचिच्छेदयदि
नयति पत्ति क्वचिदहो कशाघाते तिष्ठत्यथ चरणघातेन
खनति ॥ ११ ॥ आकर्णन्निव गा वमन्निव खुरौ पश्चार्ध-
मुज्जृम्भिव स्वीकुर्वन्निव खं पिबन्निव दिशो वायूश्च मुष्णन्निव ।
साङ्गारप्रकरा स्पृशन्निव भुव छायाममृष्यन्निव प्रेङ्खच्चामर-
वीज्यमानवदन. श्रीमान्हयो धावति ॥ १२ ॥ पश्चादङ्गी
प्रसार्य त्रिकनतितवितं द्राघयित्वाऽङ्गमुच्चैरासज्याभुग्नकण्ठो
मुखमुरसि सटा धूलिधूम्रा विधूय । घासग्रासाभिलाषादनव-
रतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलिखति
शयनादुत्थित. क्ष्मा खुरेण ॥ १३ ॥
कपिः
यदक्रांशुक्रान्तस्फुरदरुणपुष्पोदरधिया प्रविष्टो नासान्तः
क्वणितमणिडिम्भः प्रकुरुते । कपि. स्थित्वा स्थित्वा
तदिदमसृग्वन्वन्विचकितो धुनोत्यास्य रौति प्रचलति
चलत्युच्छलति च ॥ १४ ॥
महोक्षः
गर्जित्वो मेघधीर प्रथममथ शनैर्मण्डलीकृत्य देहं
शृङ्गाभ्या भीषणन्तावभिमुखमवनी दारयन्तौ खुराग्रैः ।
मन्द मन्द समेत्य स्थिरनिहितपदं दत्तघातो सरोषं युध्येते
चालयन्तौ कुटिलितमसकृत्पुच्छमेतौ महोक्षौ ॥ १५ ॥
धेनुः
आहूत्याहल्य मूर्ध्नि द्रुतमनुपिवत. प्रस्रुत मातुरूध.
किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः । उत्कर्ण
तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्राविस्रंसत्क्षीरधाराप्लव-
शबलमुखस्याङ्गमातृप्ति लेढि ॥ १६ ॥
रासभः
आघ्रायोध्याय गन्ध विकटमुखपुटो दर्शयन्दन्तपङ्क्तिं
धावत्युन्मुक्तनादो मुहुरपि च रसाद्भूष्टया पृष्ठलग्न. ! गर्दभ्यांः
पादघाताद्विगुणितसुरतप्रीतिराकृष्टशिखो वेगादारुह्य मुग्धम्ब्रवं-
तरति खरः खण्डितेच्छश्चिरेण ॥ १७ ॥
अजः
घ्रात्वा श्रोणीमजाया विततमभिमुखं वक्त्रसङ्कोचभङ्गं
स्थित्वा सूर्यं निरीक्ष्य प्रविकसितसटो घट्टयन्क्ष्मा खुरेण ।
बोबोकारान्प्रकुर्वन्मणिशकलनिभं चालयन्नेत्रयुग्मं छागश्चादून-
नेकाश्रतुर इव विटो मन्मथान्धः करोति ॥ १८ ॥
मेषः
पार्श्वीस्फालावलेपाच्चदुलितचरणेलेखिताकाशदेशः सद्य-
ष्टाटोपकोपप्रसरितरसनापल्लवालीढसृक्कः । किंचित्साचीकृ-
तास्य. स्फुरदधरपुट. स्फारिताताम्रचक्षुर्घोणाघाताभिलाषा-
दपसरति रुषं दर्शयन्नेष मेषः ॥ १९ ॥
| २०८ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |

मयूरः
मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः
प्रनृत्यन्ति काले जीमूतमालिनि ॥ २० ॥
चातकः
दम्भोलिस्फूर्जदम्भोधरविपुलतडिद्दम्यगम्भीरनादैरम्भःसंभा-
रसभावनकुतुकिकुलं चातकानां प्रनृत्यत् । ऊर्ध्वं विन्यस्त-
चञ्चूपुटमुपरि परिभ्राम्यदुत्पातवातैरम्भोदोन्मुक्तमम्भःक्षणमपि
न चिरात्प्राप्य नम्रं मिथोऽभूत् ॥ २१ ॥
पारावतः
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः । पारावतः परावृत्य
रिरंसुश्चुम्बति प्रियाम् ॥ २२ ॥
बकः
नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् । जनयति
कुमुदभ्रान्तिं धृद्धबको बालमत्स्यानम् ॥ २३ ॥ स्थित्वा
धैर्योदुपाम्मः समजठरशिराश्चक्रमूर्तिर्मुहूर्तं धूर्तः सत्यक्ततीरः
कतिचिदपि पदान्युच्चकैः कुञ्चिताङ्घ्रिः । पश्चाद्ग्रीवा प्रसार्य
त्वरितगतिरपा मध्यमाविश्य चञ्च्वा चञ्चन्तीमूर्ध्वकण्ठः
कथमपि शफरी स्फारिताक्षो बकोऽत्ति ॥ २४ ॥
कुक्कुटः
न्यञ्चच्चञ्चलचञ्चुचुम्बनचलच्चूडाग्रसंपत्तचक्राकारकराल-
केसरसटारस्फारस्फुरत्कन्धरम् । वारंवारमुदञ्चिच्छ्लघनअश्य-
ञ्झक्खुष्णयोर्दृष्टा कुक्कुटयोर्द्वयोः स्थितिरिति क्रूरक्रमं युध्यतोः
॥ २५ ॥ पक्षावुत्क्षिप्य धुन्वन्सकलतनुरुहान् भोगविस्तारि-
तात्मा प्रागेवोड्डीननिद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य ।
प्रातः प्रोत्थाय नीडस्थितचपलतनुर्घर्घरध्वानमुच्चैरुद्ग्रीवं पूर्वका-
योन्नतविकटसटः कुक्कुटो रारटीति ॥ २६ ॥
गौरखर-कृकलासौ
ग्रीष्मादित्यकरप्रतप्तसिकतामध्योपविष्टः सुखं शेते गौर-
खरो मरुस्थलभुवि प्रोथ निधाय क्षितौ । गुञ्जाजाहककण्ट-
काहतमरूद्भूतोत्पतद्धूलिमिश्रिच्छाङ्गः कृकलासकोऽपि निभृतं
मार्तण्डमुद्रीक्षते ॥ २७ ॥
सर्पः
आलोकत्रस्तनारीकृतसमयमहानादधावज्जनौघव्याप्तद्वार-
प्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः । काष्ठं दण्डं गृहाणेत्य-
तिमुखरजनैस्ताडितो लोष्ठघातैर्भितः सर्पो गृहस्थानधिगत-
विवरः कोणतः कोणमेति ॥ २८ ॥
पुलिन्दः
वामस्कन्धनषण्णशाङ्गि्कुटिलप्रान्तापिताधोमुखस्सन्दच्छो-
णितलम्बमानशशकान्वेणीस्खलच्चामरान् । ज्यान्तप्रोतकपोत-
पोतनिपतद्रक्ताक्ततूणीरकान्सोऽपश्यत्करिकुम्भभेदजनिता-
स्कन्दान्युलिन्दान्पुरः ॥ २९ ॥
पथिकः
गायति हसति च नृत्यति हृदयेन धृता प्रिया विचिन्तयति । समविषमं न च विन्दति गृहगमनसमुत्सुकः
पथिकः ॥ ३० ॥ मातर्धर्मपरे दया कुरु मयि श्रान्तेऽद्य
वैदेशिके द्वारालिन्दककोणके सुनिभृतं यास्यामि सुप्त्वा
निशि । इत्युक्ते सहसा प्रचण्डगृहिणीवाक्येन निर्भत्सितः
स्कन्धन्यस्तपलालमुष्टिविभवः पान्थः पुन प्रस्थितः ॥ ३१ ॥
भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्घुष्यते स्थाने रूपमनु-
त्तमं सुकृतिना दानेन कर्णो जितः । इत्यालोक्य भृशं
दृशा करुणया शीतातुरेण स्तुतः पान्थेनैकपलालमुष्टिरुचिना
गर्व्यायते हालिकः ॥ ३२ ॥ देशैरन्तरिता शतैश्च सरितामु-
र्वीभृता काननैर्येलेनापि न याति लोचनपथं कान्तेति
जानन्नपि । उड्डीवश्वरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णे दृशौ
तामाशां पथिकस्तथापि किमपि ध्यायन्समुद्वीक्षते ॥ ३३ ॥
शूरः
खड्गहस्तोऽरिमालोक्य हर्षामर्षसमन्वितः । शूरः पुलकितो
रक्तनेत्रो हसति जृम्भते ॥ ३४ ॥
बालः
धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकरूपाः । कृत-
मुखवाद्यविकाराः क्रीडन्ति सुनिर्भरं बालाः ॥ ३५ ॥ आयातो
भवतः पितेति सहसा मातुर्निशम्योदितं धूलीधूसरितो
विहाय शिशुभिः क्रीडारसान्प्रस्तुतान् । दूरात्स्मेरमुखः
प्रसार्य ललितं बाहुद्वयं बालको नाधन्यस्य पुरः समेति
परया प्रीत्या रत्नघ्घरम् ॥ ३६ ॥
कुमारः
अकूर्चारम्भोऽपि प्रतिचुबुकदेशं करतल प्रतिछाया कुर्वन्
युवतिषु दृशं स्निग्धतरलाम् । कुमारोऽहंकारात्यरषिदि समा-
नानगणयन्भुजौ वक्षः पश्यन्नववयसि कान्तिं वितनुते ॥३७॥
नर्तकी
स्वेदक्लेदितकङ्कणा भुजलता कृत्वा मृदङ्गाश्रया चेटीहस्त-
समर्पितैकचरणा मञ्जीरसथिल्सया । सा भूयः कुचकम्पसूचि-
तरयं निःश्वासमामुञ्चती रङ्गस्थानमनङ्गसात्कृतवती तालाव नौ
तस्थुषी ॥ ३८ ॥
लेखनकत्री
उन्नमितैकभ्रूलतानमनमस्याः पदानि रचयन्त्याः । कण्ट-
कितेन प्रथयति मय्यनुरागं कपोलेन ॥ ३९ ॥ यल्लुलते
तर्गलिते यदुदङ्गुलीक. पाणिः पुरो यदपि चक्षुरलब्धलक्ष्यम् ।
उन्मुद्रिताधरदलं च यदास्यमस्यास्तत्काव्यकर्मणि निषिक्त-
मवैमि चेत. ॥ ४० ॥
कलमकण्डनीगीतयः
विलास मसृणोल्लसन्सुलललोकदो. कन्दलीपरस्परपरिस्खल-
द्दल्यनि. खनोऽन्धुराः । लसन्ति कलहुंकृतिप्रसमकम्पितोरः-
स्थलत्रुटद्रमकसकुलाः कलमकण्डनीगीतयः ॥ ४१ ॥
इति श्रीसुभाषितरत्नभाण्डागारे चतुर्थ प्रकरणं समाप्तम् ।
पञ्चममन्योक्तिप्रकरणम्
सूर्यान्योक्तयः
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥
खद्योतो द्योतते तावद्यावन्नोदयते शशी । उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ २ ॥
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति । विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३ ॥
निमीलनाय पद्मानामुदयायाल्पतेजसाम् । तमसांमवकाशाय भजत्यस्तमसौ रविः ॥ ४ ॥
करस्फोटोडम्बरत्यागस्तेजोहानिः सरागता । वारुणीसंगजावस्था भानुनाप्यनुभूयते ॥ ५ ॥
अजस्रं लसत्पद्मिनीवृन्दसङ्गं मधुनि प्रकाभं पिबन्तं मिलिन्दम् । रविर्मोचयत्यब्जकारागृहेभ्यो दयालुहिं नो दुष्टवदोषदर्शी ॥ ६ ॥
एतावत्सरसिजकुण्डलस्य कृत्यं भित्त्वाम्भोसरसि विनिर्गमो बहिर्यत् । आमोदो विकसनमिन्दिरानिवासस्तत्सर्वं दिनकरकृत्यमाममन्ति ॥ ७ ॥
देवो हरिवह्तु वक्षसि कौस्तुभं तन्मन्ये च काचन पुनर्भुगणेः प्रतिष्ठा । यत्पादसंगतिसमर्पितसौरभाणि धत्ते स एव शिरसा सरसीरुहाणि ॥ ८ ॥
उद्वन्वन्मूर्नि सुवहूनि महामहांसि चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय । सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः ॥ ९ ॥
विक्रीमितमोहितजगज्जनरञ्जनादि सर्वे भविष्यति रवेरिव चन्द्रतोऽपि । किं स्वस्तगामिनि रवौ भविता न जाने राजीवजीवनविधौ कतमः प्रकारः ॥ १० ॥
अधिगमनमनेकास्तारका राजमानाः प्रतिगृहमपि दीपाः प्राप्नुवन्ति प्रतिष्ठाम् । दिशि दिशि विकसन्तः सन्ति खद्योतपोताः सवितरि उदितेऽस्मिन्किं तु लोकैरालोकि ॥ ११ ॥
गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरहव्यथा चन्द्रो नेष्यत्यनुचितमितो नास्ति किमपि । इदं चेतस्तापं जनयतितरामत्र यदमी प्रदीपाः सजातास्तिमिरहतिबद्धोद्धुरशिखाः ॥ १२ ॥
पातः पूष्णो भवति महते नोपता पाय यस्मात्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये । एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ १३ ॥
पततु नभसो गच्छत्वस्तं निमज्जतु वारिधौ व्रजतु वरुणागारद्वार प्रभाभिरनाहतः । तदपि तरणिर्दत्त्वा पादं शिरःसु महीभृता दलिततिमिरव्रातः प्रातः पुनः सकृदेष्यति ॥ १४ ॥
येनोन्मथ्य तमांसि मासलघनस्पर्धीनि सर्वे जगच्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा । तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो यद्बध्नाति धृतिं शशाङ्कशकलोके प्रदीपेऽथवा ॥ १५ ॥
यत्पादाः शिरसा न केन विधृताः पृथ्विभृता मध्यस्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि । खद्योतैः स्फुरितं तमोभिरुदितं तारामिरुज्जृम्भितं धूकैरुत्थितमः किमत्र करवै किं किं न कैश्चेष्टितम् ॥ १६ ॥
पूर्वाङ्गे प्रतिबोध्य पङ्कजवनन्युत्सार्य नैशं तमः कृत्वा चन्द्रमस प्रकाशरहितं निस्तेजस तेजसा । मध्याह्ने सरिता पयः प्रविततैरापीय दीप्तैः करैः सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥ १७ ॥
दूर यान्तु निशाचराः शशिकराः क्लेशं लभन्तांतारासमुद्द्योतं कलयन्तु हन्त न चिर खद्योतका द्योतले । ध्वान्तं ध्वंसमुपैतु हंसनिवहः पद्माकरे शाम्यतु प्राचीपर्वतमौलिमण्डनमणिः सूर्य समुज्जृम्भते ॥ १८ ॥
चन्द्रान्योक्तयः
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलावानेव तु औंन्द्रावकर्मणि कर्मठः ॥ १ ॥
दैवादद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः । तथापि किं कैमोलानि तुला यान्ति कलानिधेः ॥ २ ॥
अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् । परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ३ ॥
व्यज्यमानकलङ्कस्य वृद्धौ सति कलानिधेः । आशास्महे वयं पूर्वो सर्वश्लाघ्या कृशा दशाम् ॥ ४ ॥
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरताम् । उपैति मित्राँचन्द्रो युक्तं तन्मलिनात्मनः ॥ ५ ॥
निशाचरोऽपि दीनोऽपि सकलङ्कोऽपि चन्द्रमाः । चकोरीनयनद्वन्द्वमानन्दयति सर्वदा ॥ ६ ॥
हरमुकुटे सुरतटिनीनिकटस्थितिलामतो
पादटिप्पण्यः (Footnotes)
[स्तम्भ १]: १ ज्योतिरिङ्गण २ सूर्ये ३ किरणा, पक्षे,-हस्ता ४ आकाश, पक्षे,-वस्त्रम् ५ वरुणदिक्, पक्षे,-मद्यविशेष. २७ सु. र भां.
[स्तम्भ २]: १ किरणा., पक्षे,-चरणा . २ शैलानाम्, पक्षे,-राज्ञाम् ३ सूर्ये ४ ग्रस्ते ५ दिवान्धे ६ उत्निद्राणि कृत्वा ७ निशासम्बन्धि ८ प्रकाशवन्तः ९ बहव १० पाषाण ११ समर्थ १२ कपालास्थीनि १३ सूर्यात्, पक्षे,-स्निग्धात् १४ कलङ्किन..
२१० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
द्विजेन्द्रेण । अपि गलं फणिफूत्कृतिरीक्षणतीक्ष्णांशुशुक्षणि क्षान्तः ॥ ७ ॥ निजकरनिकरप्रमृष्ट्या धवलय भुवनानि पार्वण शशाङ्क । सुचिर हन्त न सहते हतविधिरिह सुस्थितं कमपि ॥ ८ ॥ यद्यपि शिरोऽधिरोहसि रौद्रं कोवेन मिहिकातनय । त्यजति न शरण यात सागरसूनुर्मृगं तदपि ॥ ९ ॥ प्रोषितवति रजनिकरे बन्धुतया न खलु कैरवाण्यैव । म्लायन्ति किंतु सहसा भुवनान्यपि तमसि मज्जन्ति ॥ १० ॥ शंकरशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले । फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ११ ॥ या महेशशिरसो विभूषणं या त्रिलोकजनलोचनोत्सव । सेयमिन्दुकलिका दिनात्यये तापिता कमिह नातितापयेत् ॥ १२ ॥ रञ्जिता न ककुभो निवेशिता नार्चिषो वत चकोरचञ्चुषु । कष्टमिन्दुरुदये निपीयते दारुणेन तमसा बलीयसा ॥ १३ ॥ किरति प्रकरं गवां प्रकर्षं सुमनस्खच्छतर विधौ कलानाम् । कति चेत्कलयन्ति यद्वबोध कति चेन्नेति स तत्स्वभाव एव ॥ १४ ॥ विधेः कलानामपि रीतिरेषा मर्माणि मे सस्पृशतीव भूयः । कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु ॥ १५ ॥ निष्पीडितो यद्यपि दैवयोगान्निशाकरश्चापि विधुंतुदेन । तथापि पीयूषविशेषवर्षी सुधाकर कैरवकाननेषु ॥ १६ ॥ वक्रोऽस्तु बाल्ये तदनु प्रवृद्ध कलङ्कवानस्तु जडोऽस्तु चन्द्रः । महेशमौलौ च पदं दधातु जायेत वन्द्यो विविधोपकारात् ॥ १७ ॥ तारागणाश्चन्द्रमसं भजन्ते न जातु नाथं नलिनाकराणाम् । एतावता तस्य किमस्ति हानिर्ज्ञाता तयोरन्तरमेष लोक ॥ १८ ॥ यस्योदयेनैव दिशां प्रसादस्तापापनोदोऽपि जगत्त्रयस्य । चकोरचञ्चुपुटपारणे तु चन्द्रस्य तस्यास्ति कियान्प्रयास ॥ १९ ॥ प्रकुर्वता संगतिमिन्दुनाधुना किं किं च लब्धं जगदीश्वरेण वै । कलङ्कहानिः सुरसिन्धुसंगमः कलाक्षयित्वं च पदं तथोच्चकै ॥ २० ॥ नयनमसि जनार्दनस्य शंभोर्मुकुटमणिः सुदृशां त्वमादिदेवः । त्यजसि न मृगमात्रमेकमिन्दो चिरमिति येन कलङ्किनं वदन्ति ॥ २१ ॥ विरम तिमिर साँहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् । कलयसि न पुरो महोर्मिधाराद्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ २२ ॥ आस्ते विधुः परमनिवृत एव मौलौ शंभोरिति त्रिजगतीजनचित्तवृत्तिः । अन्तर्निर्गूढनयनाननदाहदुःखं जानाति कः परभृते बत शीतरश्मेः ॥ २३ ॥ एकैव सा मृतमयी सुतराममर्ध्या काप्यस्त्यसौ हिमकरस्य कला ययैव । आरोपितो गुणविदा परमेश्वरेण चूडामणौ न गणितोऽस्य कलङ्कदोषः ॥ २४ ॥ श्रेयान्विधोर्बहुहुलपक्षपरिक्षयोऽपि नो पूर्णतापि जलधेरिह वर्णनीया । यद्वारि न स्पृशति हन्त पृथग्जनोऽपि यस्यामृतेर्मखभुजोऽपि मुदं लभन्ते ॥ २५ ॥ मौरस्य मित्रमसि कि च सुधामयूरख शंभावपि प्रणयितां प्रकटीकरोषि । विश्वासपात्रमसि यद्विषतोस्तयोरप्येतत्तव प्रकृतिशुद्धतनोश्चरित्रम् ॥ २६ ॥ रत्नाकरो जनयिता सहजश्च वर्गः किं कथ्यताममृतकोस्तुभपारिजाताः । किं तैरचिन्त्यमिह तत्पुनरन्यदेव तत्त्वान्तरं कुमुदबन्धुरसौ यदिन्दु ॥ २७ ॥ नानन्दि कैरवमवर्धि न वाम्बुराशिरादीपि नाम्बरमहारि न वान्धकारः । धिग्दैवदुर्विलसितं यदसौ सुधाशुरभ्युद्यतश्च तमसा कवलीकृतश्च ॥ २८ ॥ चन्द्रं समाश्रयति नाम तिथिष्वनेका क्षीणस्तु बिम्बपरिपूरणमपूरणाय । एवं पुनः सकलमण्डलपूर्णवर्णं सा पूर्णिमैव खलु पूरयितुं समर्था ॥ २९ ॥ खैरा दिशः कुमुदमुन्निदुरं पिबन्ति ज्योत्स्नाकरम्भमुदरभरयश्चकोराः । आः कीदृगत्रिमुनिलोचनदूषिकाया पीयूषदीधितिरिति प्रथितोऽनुरागः ॥ ३० ॥ हिमकर परभागं भूषयिष्यन्सुमेरोर्व्रजसि यदि तदाहं न क्षमः संनिरोद्धुम् । इति तु बहुविधाभिः काकुभिः प्रार्थये त्वां पुनरपि कुमुदानामत्यान्तायो विषादः ॥ ३१ ॥ कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपतिर्धुतिस्तादृग्भूम्ना जनिरपि च रत्नाकरकुले । बहु ब्रूम किंवा पुरहगशिरोमण्डलमसि त्वदीयं तत्सर्वं शशधर कलङ्काद्विफलितम् ॥ ३२ ॥ पादन्यासं क्षितिधरगुरोर्मूध्निं कृत्वा सुमेरोः कान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः । सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूर्खेदूरारोहो भवति महतामप्यपभ्रंशहेतुः ॥ ३३ ॥ त्वं भोः शंभोर्निवाससि शिरोदेशमाश्रित्य निलयं तत्त्वां याचे जगदुपकृतिव्यापृतिक्यग्रमिन्दो । यः सद्भावस्तव परिणतः कैरवे वा चकोरे स्पृश्यस्तेन प्रतिनिशमसौ चक्रवाको वराकः ॥ ३४ ॥ यज्जातोऽसि पयोनिधौ हरजटाजूटे प्रसिद्धोऽसि यद्विश्वस्योद्रदीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः । भ्रातः शीतमयूरख सर्वमधुना म्लानीकृतं तत्त्वया राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ३५ ॥ पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः पुष्टं भानुकरैरिरं त्रिमुवनं ज्योत्स्नांभरेः सिञ्चति । सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ३६ ॥ उच्चैःस्थानकृतोदयैर्बहुविधेर्ज्यौतिर्मिरुद्यत्प्रभैः शुक्राद्यैः किममीभिरत्र वितथा प्रौढिं दधानैरपि । यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावच्चन्द्र कथं
पादटिप्पण्यः (Left Footnotes):
१ तृतीयनेत्रस्थितस्तीक्ष्णाग्नि
२ राहुणा
३ राहुणा
४ कुमुदवनेषु
५ सूर्यम्
६ अयथावलमारम्भात्
७ पश्यसि
८ गुप्त
पादटिप्पण्यः (Right Footnotes):
१ नदनस्य
२ प्रीतिम्
३ राहुणा
४ नक्षत्रै
चन्द्रान्योक्तयः, मेघान्योक्तयः | २११
प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ३७ ॥ जन्म क्षीरमहार्णवे सहभुवः श्रीपारिजातादयो बिम्बं यस्य सुधामयं त्रिभु- वनाधीशस्य मूर्ध्नि स्थितिः । इत्थं सर्वचराचरप्रियकरे यस्यो- दये चेद्भवेत्सङ्कोचः कमलस्य दुष्कृतिरसौ निन्द्यो न ताराधिपः ॥ ३८ ॥ इन्दुं निन्दतु नाम वाथ नलिनी निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य सुषमाहानिर्न वा दुर्यशः । एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते यच्च्योत्स्नासु चिरं चकोरपरिषच्चञ्चुपुटं न्यस्यति ॥ ३९ ॥ लक्ष्मीकेलिगृहे कुरेशयदशा पाणियुतिद्रोहिणि श्यामासूक्ति- सुधासहोदरमधुप्रस्यन्दसंदोहिनी । जीयातुस्त्रिदिवौकसां त्रिजगतामाप्यायनं चन्द्रमस्त्वं चेदम्बुरुहे न रज्यसि गुण- श्लाघा बतास्तं गता ॥ ४० ॥ यातेयं रजनी सहैव भवता भावी प्रकाशो दिशां सूर्येणापि चिरं चकोरनिचयैः स्थेयं क्वचित्कानने । उद्यद्दारुणचण्डभानुजदवज्वाले जग- न्मण्डले कस्मै चन्द्र समर्प्य कैरवकुलं व्योमान्तमाल- म्बसे ॥ ४१ ॥ नक्षत्राणि बहूनि सन्ति परितः पूर्णोदया- न्यम्बरे किं तैः शान्तिमुपैति दीर्घतिमिरं किं वारिधिरुज्जृ- म्भते । किं स्यादार्तचकोरपारणविधिस्त्रातः सुधादीधिते तन्नूनं भुवनैकतापशमनः श्लाघ्यस्त्वैवोदयः ॥ ४२ ॥ ध्माता भालतलानलैः कवलिता कण्ठस्थहालाहलैरालीढाथ जटा- टवीविलुठितैराशीविषाणां गणैः । छन्ना भस्मभिराहतास्थि- पटलैः क्लिन्नाद्रिचर्मोम्बरेः स्वीयां मुञ्चति माधुरीं हरशिरोरत्नं किमिन्दोः कला ॥ ४३ ॥ श्रीमाहेश्वरमौलिमण्डनमणि- र्वैश्वंभरं लोचनं त्वं रत्नाकरसम्भवः किमपरं भूदेवदेवो भवान् । यद्वालानलसङ्गदोषभ्रमाद्बध्नासे नोन्मोज्जातं तत्किमि- हास्ति ते सुमनसश्चित्रं कलानां निधे ॥ ४४ ॥ येनास- भ्युदितेन चन्द्र गमितः क्लान्तिं रवौ तत्र ते युज्येत प्रति- कर्तुमेव न पुनस्तस्यैव पादग्रहः । क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनागस्त्वेव जडधामता तु भवतो यद्द्योम्नि विस्फूर्जसे ॥ ४५ ॥ जन्म क्षीरनिधौ तथैव विपुलं पीयूषपूर्णं वपुः संतापार्तिहरं हरस्य शिरसि स्थानं सदा सुन्दरम् । तारानाथ निशामुखैकतिलक ख्यातौषधीना- पते चन्द्र त्वां वसनाञ्चलस्य दशया समावयामः कथम् ॥ ४६ ॥ इन्दुर्यद्युदयाद्रिमूर्ध्नि न भवत्यद्यापि तन्मा स्म भून्नासीरेऽपि तमःसमुच्चयसमूरून्मूलयन्ति त्विषः । अप्यक्ष्णोर्मुदमुद्वहन्ति कुमुदैरामोदयन्ते दिशः सप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यक्तं प्रकाशिष्यते ॥ ४७ ॥ पूर्णः पङ्कज- लोचनासुखतुलामायासिकलक्रमात्क्षीणोऽपि क्षणदापते पशुपतेरायासि भूषास्पदम् । एतस्मिन्नथ सैंहिकेयकवलक्लेशै र्मनाग्वर्तिनि त्वं साधारणवसुधाकर मुधा हा हन्त किं ताम्यसि ॥ ४८ ॥ भीतो वाडववासतो जननिधौ शम्भोः शिरः स्वीकृतं तत्र त्र्यम्बकमौलित्रासुकिविषज्वालावली- त्रासितः । तञ्चालोकमगाद्दिवं निपतितस्तत्रैव राहोर्मुखं प्रायो गच्छति यत्र भाग्यस्रहितस्तत्रैव यान्त्यापदः ॥ ४९ ॥
मेघान्योक्तयः
प्रावृषेण्यस्य मालिन्यं दोषः कोऽभीष्टवर्षिणः । शारदा- भ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ १ ॥ चातकः स्वानु- मानेन जलं प्रार्थयतेऽम्बुदात् । स चौदार्यतया सर्वां प्लावय- त्यम्बुना महीम् ॥ २ ॥ त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः । अस्माकमर्कवृक्षाणां पूर्वपत्रेऽपि संशयः ॥ ३ ॥ आसन्त्यावन्ति याच्ञासु चातकाश्रूणि चाम्बुद । तावन्तोऽपि त्वया मेघ न मुक्ता वारिविन्दवः ॥ ४ ॥ त्वमेव चातका- धार इति केषां न गोचरः । धिग्ममोधर तस्यापि कार्प- ण्योक्तिं प्रतीक्षसे ॥ ५ ॥ यदम्बुकणमादाय प्राप्तोऽसि जल- दोन्नतिम् । तस्योपर्यम्बुधेर्गर्जन् मलिनस्योचितैव ते ॥ ६ ॥ नोपेक्षा न च दाक्षिण्यं न प्रीतिर्न च संगतिः । तथापि हरते तापं लोकानामुद्यतो घनः ॥ ७ ॥ समागमिष्यतो- ऽम्मोद वेत्ति कः समयं तव । रौति नो यदि सारङ्गरतदोष्णैः खे पुरःसरः ॥ ८ ॥ आश्रयः कियतामेष तरु सन्मार्गमा- श्रितः । पाथोद सिञ्चता काले नोपेक्ष्यो दूरभावतः ॥ ९ ॥ सन्ति कूपा स्फुरत्कूपाः सागरः सरितस्तथा । तथापि चातकस्यैकं फलदो जलदोदयः ॥ १० ॥ नदेभ्योऽपि ह्रदे- भ्योऽपि पिबन्त्यन्ये सदा पयः । चातकस्य तु जीमूत भवानेवावलम्बनम् ॥ ११ ॥ एकस्य तस्य मन्ये धन्याम- भ्युन्नतिं जलधरस्य । विश्वं सशैलकाननमाननमवलोकते यस्य ॥ १२ ॥ सम्प्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः । जलद त्वयि विश्राम्यति सृष्टिरियं भुवन- लोकस्य ॥ १३ ॥ क्षणदृष्टनष्टदलितो निजसम्पत्तेः पयोद- निवहेन । ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ १४ ॥ जलधर जलभरनिकरैरपहर परितापमुद्धृतं जगतः । नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ १५ ॥ अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जल- कणिका । तदयमचिरेण भविता सलिलाञ्जलिदान- योग्यस्ते ॥ १६ ॥ नैताः स्वयमुपमोक्ष्यसि मोक्ष्यसि जलदो-
पादटिप्पण्यः (Footnotes): १ समुद्र २ तापिता ३ जटारूपा या अटवी अरण्यं तस्मिन्विलुठितै ४ सर्पाणाम् ५ छेदयुक्ता १ प्रावृट्कालिकस्य २ मलिनता ३ अखिलजनतायाः
| २१२ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

धरादिषु कापि । तत्किं तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः ॥ १७ ॥ धीरैर्ध्वनिभिरलं ते नीरद मे मासिको गर्भः । उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ॥ १८ ॥ जलद' समुद्रसेवामाचरति समग्रभुवनभरणाय । कुरुते तामपि हंतमतिर्लोभंभरेरनिशमौर्वाग्निः ॥१९॥ सर्वं वनं तृणाल्या पिहितं पीताः सितांशुखिताराः । प्रध्वस्ताः पंथानो मलिनेनोद्गम्य मेघेने ॥ २० ॥ प्रावृषि शैलश्रेणीनितम्बमुत्स्रङ्गिन्दगन्तर भ्रमसि । चपलान्तर घन किं तव वचनीयं पवनवश्योऽसि ॥ २१ ॥ यद्यपि सन्ति बहूनि सरांसि खादुसुशीतलसुरभिपयांसि । चातकपोतस्तदपि च तानि त्यक्त्वा याचति जलदजलानि ॥ २२ ॥ एतदत्र पथिकैकजीवितं पश्य शुष्यतितरां महत्सरः । धिङ् सुधाम्बुधर रुद्धमद्धतिर्वर्धिता किमिह तेऽद्रिवाहिनी ॥ २३ ॥ मुञ्च मुञ्च सलिलं दयानिधे नास्ति नास्ति समयो विलम्बने । अद्य चातककुले मृते पुनर्वारि वारिधर किं करिष्यसि ॥ २४ ॥ चातकस्य खलु चञ्चुसपुटे नो पतन्ति किल वारिबिन्दवः । सागरीकृतमहीतलस्य किं दोष एष जलदस्य दीयते ॥ २५ ॥ ऊषरेषु विवरेषु चाम्भसा वीचयोऽपि भवता विनिर्मिताः । क्षेत्रसीम्नि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ॥ २६ ॥ आपो विमुक्ताः क्वचिदाप एव क्वचिन्न किंचिद्दरलं क्वचिच्च । यस्मिन्विमुक्ताः प्रभवन्ति मुक्ताः पयोद तस्मिन्विमुखः कुतस्त्वम् ॥ २७ ॥ पानीयमानीय परिश्रमेण पाथोध पाथोनिधिमध्यतस्त्वम् । कल्पद्रुमे सीदति साभिलाषे महोषरे मुञ्चसि किंनिमित्तम् ॥ २८ ॥ पपात पाथःकणिका न भूमाववाप शान्तिं ककुभां न तापः । दृष्ट्वैव जीवातुख्यं तडित्वान्कृषीवलानां मुदमाततान ॥ २९ ॥ प्रथितोऽसि यतस्ततः पृथिव्यामपि जीमूत जनस्य जीवनेन । विषयानपि गच्छतः किमेतान्ध्वनिभिर्भीषयसीह राजहंसान् ॥ ३० ॥ गर्जितबधिरीकृतककुभा किमपि कृतं न घनेन । कियती चातकचञ्चुपुटी सापि भृता न जलेन ॥ ३१ ॥ गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् । दैवाद्दिष्ट यदि दक्षिणवातः क्व त्वं काहं क्व च जलपातः ॥३२॥ वितर वारिद वारि देवातुरे चिरपिपासितचातकपोतके । प्रचलिते मैरुति क्षणमन्यथा क्व च भवान्क्व पयः क्व च चातकः ॥ ३३ ॥ किसलयानि कुतः कुसुमानि वा क्व च फलानि तथा नववीरुधाम् । अयमकारणकारुणिको न चेद्वितरतीह पयांसि पयोधर ॥ ३४ ॥ पयोद हे वारि ददासि वा न वा त्वदेकचित्तः पुनरेष याचकः । वरं महत्या म्रियते पिपासया तथापि नान्यस्य करोत्युपासनाम् ॥ ३५ ॥ दीनानामिह परिहाय शुष्कसस्यान्यौदार्यं प्रकटयतो महीधरेषु । औन्नत्यं परममवाप्य दुर्मदस्य ज्ञातोऽयं जलधर तावको विवेकः ॥ ३६ ॥ अन्योऽपि चन्दनतरोर्महनीयमूर्तेः सेकार्थमुत्स्रहति तद्गुणबद्धतृष्णः । शाखोटकस्य पुनरस्य महाशयोऽयमम्भोद एव शरणं यदि निर्गुणस्य ॥ ३७ ॥ आश्वास्य पर्वतकुलं तपनोष्मतप्तं दुर्दाववह्निविधुराणि च काननानि । नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्त्तमा श्रीः ॥३८॥ एतेषु हा तरुणमारुतधूयमानदावानलैः कवलितेषु महीरुहेषु । अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥ ३९ ॥ शोषं गते सरसि शैवलमञ्जरीणामन्तस्तिमिर्लुठति तापविशीर्णदेहः । अत्रान्तरे यदि न वारिद वारिपूरैराप्लावयेस्तदनु किं मृतमण्डनेन ॥ ४० ॥ शृण्वन्पुरः पुरुषगर्जितमस्य हन्त रे पान्थ विह्वलमना न मनागपि स्याः । विश्वार्तिवारणसमर्पितजीवनोऽयं नाकर्णितः किमु सखे भवताम्बुवाहः ॥ ४१ ॥ यत्तादृशेषु सरलेषु न पक्षपातो जातो बत स्फुटमसौ कुटजेषु रागः । विश्वैकजीवनपटोरपि वारिवाह दुर्वारवायुवशगस्य न तद्विचित्रम् ॥ ४२ ॥ यत्पल्लवः समभवत्कुसुमं यदासीत्तत्सर्वमस्य भवतः पयसः प्रसादः । यद्ग्रूहे फलविधौ न ददासि वारि प्राचीनमम्बुद यशो मलिनीकरोषि ॥ ४३ ॥ नैवालवालवलयं भरितं द्रुमाणां नार्द्रीकृतापि बत चातकपोतचञ्चुः । दावानलाकुलतरुः शमितो न शीघ्रं भाराय वारिधर वारिपदं तवाभूत् ॥ ४४ ॥ के वा न सन्ति भुवि वारिरुहावतंसा हंसावलीवलयिनो जलसंनिवेशाः । किं चातकः फलमपेक्ष्य स वज्रपातान् पौरंदरीं कलयते नववारिधाराम् ॥ ४५ ॥ वातैर्विधून्वय विभीषय भीमनादैः संचूर्णय त्वमथवा करकाभिघातैः । त्वद्वारिबिन्दुपारिपालितजीवितस्य नान्या गतिर्भवति वारिद चातकस्य ॥ ४६ ॥ व्याजस्तुतिस्तव पयोद मयोदितेयं यज्जीवनाय जगतस्तव जीवनानि । स्तोत्रं तु ते महदिदं घन धर्मराजसाहाय्यमर्जयसि यत्पथिकान्निहत्य ॥ ४७ ॥ संपादिताः सपदि दर्दुरदीर्घनादा यत्कोकिलाकलरुतानि निराकृतानि । निष्पीतमम्बु लवणं न तु देवनद्याः पर्जन्य तेन भवता विहितो विवेकः ॥ ४८ ॥ यस्योदये गुरुमनोरथमन्थरेण संचिन्तितं किमपि चेतसि
१ गम्भीरशब्दैः २ मत्तहस्तिबुद्ध्या ३ उड्डयनं करोति ४ समुद्रसेवाम् ५ मन्दमति ६ स्वोदरपूरक ७ अहोरात्रम् ८ वाडवाग्नि ९ दावानलपीडिते. १० वायो
१ मत्स्यविशेष २ शोभया.
२१३
मेघान्योक्तयः
| चातकेन । आः कष्टमिष्टफलदानविधानहेतोरम्भोदराक्षतति
सम्प्रति वज्रवह्नि ॥ ४९ ॥ दैवदहनजटालज्वालजालाहताना
परिगलितलताना म्लायता भूरुहाणाम् । अयि जलधर
शैलश्रेणिशृङ्गेषु तोय वितरसि बहु कोऽयं श्रीमदस्तात्र-
कीन. ॥ ५० ॥ नमसि निरवलम्बे सीदता दीर्घकाल त्वद-
भिमुखनिषण्णोत्तामचञ्चूपुटेन। जलधर जलधारा दूरतस्ताव-
दास्ता ध्वनिपि मधुरस्ते न श्रुतश्चातकेन ॥ ५१ ॥ अये
हेलावेलालुलितकुलशैलै जलनिधौ कुतो वारामोघं बत जलद
मोघ वितरसि । समन्तादुत्तालज्वलदनलकीलावकलनह्र मोपे-
तानतानुपकुरु पयोभिर्विटपिन ॥ ५२ ॥ अमु कालक्षेप त्यज
अद गम्भीरैर्मधुरै विमेभिनिर्घोषैः सृज झटिति झाङ्कारि
वलिलम् । अये पश्चावश्यामकरुणममीरव्यतिकरज्ज्वलद्दाव-
ज्वालावलीजटितमूर्तेर्विटपिन ॥ ५३ ॥ अकृपागद्धारि
पचुरतरमादाय जलद म दानाध्यक्षोऽपि प्रकिरति जलं
नाद्भूतमिदम् । स मेघो धन्यो यत्परिकिरति मुक्ताफलतया
यदीयासौ कीर्तिर्नटति नृपनारीकुचतटे ॥ ५४ ॥ तवैव
प्रावीण जलद जगदानन्दकरणं यदम्भपालीराहरमि खल-
सत्त्वाजलनिधे । निसर्गात्क्षारास्ता नयसि च कथञ्चिन्मधु-
रतामथासारैस्तासा युगपदुपकर्तासि जगत ॥ ५५ ॥ विल-
पति तथा सारङ्गोऽय भवानयमुन्नतो जलमपि च ते सद्यो-
गोऽयं कथचिदुपस्थित । उपकुरु कुरु प्रह्वं चेतो न वेत्सि
यदग्रतो जलधर पुनः क्व त्व काय क ते जलबिन्दव.
॥ ५६ ॥ नीर दूर तदपि विरस जगमा नो लताद्यास्त-
स्छिन्दार्यपि जलनिधौ को लभेताम्बुबिन्दुम् । दानाध्यक्षे
त्वयि जलधर कापि कुत्रापि शैला. शालावन्तोऽमृतनिभजलै-
स्तर्पिता. सर्व एते ॥ ५७ ॥ तृप्त्या नद्य. कमलसरसी
राजहंसावतंसा पुण्याश्चेतो हिमगिरिसुवस्त्वत्कृते येन
मुक्ताः । सप्तासेऽस्मिञ्जलद दहनोचण्डदाहे निदाघे पर्जन्य
स्वीकुरु तमधुना चातक पातकं वा ॥ ५८ ॥ शैलेयेशु
शिलातलेषु च गिरेः शृङ्गेषु गर्तैषु च श्रीखण्डेषु बिभीतकेषु
च तथा पूर्णेपु रिक्तेषु च । स्निग्धेन ध्वनिनाखिलेऽपि
जगतीचक्रे सम वर्षतो वन्दे वारिद सार्वभौम भवतो विश्वो-
पकारि व्रतम् ॥ ५९ ॥ नीहाराकरसारसागरसरित्कासार-
नीरश्रियं त्यक्त्वा तोयद चातकेन महती सेवा समाल-
म्बिता । तस्यैतत्फलितं समुज्झसि शिलासंताडन मस्तके
गाढ गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥ ६० ॥
आरामाभरणस्य पल्लवचयैरापीततिग्मत्विष. पाथोद प्रशाम | नयागुरुतगोरेतस्य दावज्जरम् । ब्रूमस्त्वामुपकारकातर गत-
प्राया' पय सपदो दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वा-
सति ॥ ६१ ॥ यावत्तिष्ठति चातकोऽयमसुभिः कण्ठस्थल-
स्थायिभिस्तावद्देहि पय पयोद फलतु त्वद्द्वारि कल्पद्रुम. ।
नो चेदस्य तृषार्तपीडिततनो प्राणे प्रयाणे कृते कस्मै
दास्यसि को ग्रहीष्यति पुनस्तापस्तु ते स्थास्यति ॥ ६२ ॥
कूपे पानमधोमुख भवति मे नद्यो वराकय स्त्रियः सामान्य
बकटिट्टिभै सह सरस्येव समालोकयन् । शुष्यत्तालु-
गलोऽपि कम्पिततनु श्रुत्वा गभीरध्वनि धैर्यादुद्धतकन्धरो
जलधर त्वा याचते चातक ॥ ६३ ॥ मार्गे भूरि जलं
मरुस्थलभुवि स्वप्नेऽपि नो लभ्यते तीव्रो वाति समीरण
क्वचिदपि च्छायाभृतो न द्रुमा । अङ्गारप्रकरानिकारिनिव
गर्वैग्रीष्मे तपत्यम्बरे तद्भो पान्थहिताय पूरय धरा पाथोद
पाथोमर्म ॥ ६४ ॥ मैके कोटरशायिभिर्मृतमिव क्ष्मान्तर्गत
कच्छपै पाठीनै पृथुपङ्कपीठलुटिनैर्यत्सिन्धुवन्मूर्च्छितम् ।
तस्मिञ्छुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं यत्राकुम्भनि-
मग्नवन्यकरिणा यूथै पय. पीयते ॥ ६५ ॥ कालातिक्रमण
कुरुष्व तडिता विस्फूर्जितेत्रासय स्फारैर्भीषणगर्जितैग्तितरा
काश्यं मुखे दर्शय । अस्थानन्यगतेः पयोद मनसो जिज्ञा-
सया चातकस्यावेहि त्वमिहाखिलं तदपि न त्वत्तः पर
याचते ॥ ६६ ॥ भूयो गर्जितमम्बुद प्रकटिता विद्युल्लक्ष्मा-
पूरित दूरादग्रह तिष्ठ तिष्ठ तदल वृष्ट्या तवातः परम् ।
निर्दग्धाखिलशालिहालिकवधूसन्नद्धनेत्रै पर नैराश्यादिह
वर्षितव्यमधुना केदारपूर पय ॥ ६७ ॥ गर्जन्नम्बु ददाति
तच्च कणिकारूपेण यत्र क्वचिदर्घाकालमपेक्ष्य दानसमये
कौक्ष्यं विधत्ते मुखे । पश्चाल्लाण्डरतामुपैति लघुतामप्येति
भूयस्तत श्रीमद्राम नृपालशेखर विभो दाता कियान्वारिदः
॥ ६८ ॥ आसक्ता. प्रतिकोटैर विषधरा भानोः करा मूर्धनि
ज्वालाजालकरालदावदहन प्रत्यङ्गमलिङ्गित। सर्वानन्दन-
चारुचन्दनतरोरेतस्य जीवातवे रे जीमूत विमुञ्च वारि बहु-
शो युष्मद्यशो जृम्भताम् ॥ ६९ ॥ ते ते चातकपोतका
वितृषिता दावाग्निमग्न वनं सनिर्वापितमुष्णतापतमही निर्वा-
पिता सर्वत. । कौसाराः परिशूरिता पृथुपयोधाराभिरम्भो-
धर त्वय्येवायमहो महोजितमहादानावदानक्रमः ॥ ७० ॥
तापं लुम्पसि सर्वतो वितरसे मुक्ताफल शुक्तिषु क्षेत्रं सिञ्चसि
कि च पल्लवयसि श्रीखण्डमुरुस्यान्दमान् । क्षार क्षार-
मिदु जल जलनिधेरादाय जीमूत हे विश्व जीवयसि ब्रवीतु
जगति प्रौढोऽपि कस्ते गुणान् ॥ ७१ ॥ सतां जगत्तो |
पादटिप्पण्यः :
स्तम्भ १ :
१ दावाग्नि
२ ग्लानि प्राप्नुवताम्
३ व्योमोत्थितैर्मेघगर्जने
४ शीघ्रम्
५ व्याप्तदेहस्य
६ वृक्षस्य
७ उद्यानभूषणस्य
स्तम्भ २ :
१ कृप्पनाम्
२ प्रतिबिम्बम्
३ नराशना
२१४ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
विलुम्पसि धरा धाराभिगतिंक्षिपसि क्षेपाण्युङ्कुरयत्यमुन्मुकुल-
यत्यह्नाय नीपद्रुमान् । सारङ्गस्य नभोनिवेशितदृशश्चञ्चुपुटी-
पूरणे वैमुख्यं वहसि त्वमम्बुद यदि प्रत्येतु को नाम त-
न् ॥ ७२ ॥ कूपाम्भासि पिबन्तु कूपरसिका वापीषु वापीजुपो
नादेयाश्च पत्रत्रिणोऽपि मुदिता आस्वादयन्तामपः । मार-
ङ्गस्य नभोनिवेशितदृशः किं तेन यावन्महीमम्भोभिः क्षप-
यन्नसावुदयते न प्रावृषेण्यो घनः ॥ ७३ ॥ कर्तव्यो हृदि
वर्तते यदि तरोरस्योपकारस्तदा मा कालं गमयाम्बुवाह समये
सिञ्चैनमम्भोभरैः । शीर्णे पुष्पफले दले विगलिते मूले गते
शुष्कतां कन्थै किं हितमाचरिष्यति परीतापस्तु ते स्थास्यति
॥ ७४ ॥ नो चिन्तामणिभिर्न कल्पतरुभिर्नो कामधेन्वादिभिर्नो
देवैश्च परोपकारनिरतैः स्थूलैर्न सूक्ष्मैरपि । अम्भोदेह निर-
न्तरं जलभरैस्तामुनेरा सिञ्चता वार्येण धुरं त्वयाद्य वहता
मन्ये जगज्जीवितम् ॥ ७५ ॥ हे पाथोड यथोन्नतेन भनता
दिग्व्यावृता सर्वतो मन्ये वीर तथा करिष्यसि खलु क्षीराब्धि-
तुल्यं मरू । किं त्वेष क्षमते नहि क्षणमपि ग्रीष्मोष्मणा व्या-
कुलः पाटीनादिगणम्वदेकशरणम्तदर्प तावत्क्रियन् ॥ ७६ ॥
नाम्भो स्कंन्ध्नति. सर सु न मनो वापीपु नापीहितं कर्णे-
ऽप्यर्णवसंरूथा न च कृता नाद्यापि नद्या मनः । साङ्गेण
समुत्तरङ्गरसनादण्डेन चण्डातपक्लान्तेनापि निरन्तरं जलद
हे त्वय्येव दत्तं मनः ॥ ७७ ॥ नि.पद्मं शिशिरेण धीवरगणै-
र्निर्मत्स्यनिःकूर्भकं व्याधैर्निर्विरहगं निरम्बु रविणा निर्नालकं
दन्तिभिः । निःशालूकम्कारि शूकरगणैर्नामैकमात्रं सरो हे
जीमूत परोपकारक पयोदानेन मा पूरय ॥ ७८ ॥ कामा-
रेषु मरिन्सु सिन्धुषु तथा नीचेषु नीरग्ग्रहं विक्तत्रापि शिगे-
नतिः किमपरं हेयं भवेन्मानिनाम् । इत्यालोच्य विमुच्य चात-
कयुवा तेषु स्पृहामादरादुद्ग्रीवस्तव वारिवाह कुरुते धाग-
धरालोकनम् ॥ ७९ ॥ रे धाराधर धीर नीरनिकरैरेषा रसा
नीरमा शेषा पूपकरोत्करैस्तित्खैरैरापूरि भूरि त्वया । एकान्तेन
भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन्नाश्चर्य परिपीडितोऽभि
रमते यच्चातकस्तृष्णया ॥ ८० ॥ आरामाधिपतिर्विवेकविकलो
नूनं रसा नीरसा वात्याभिः परुषीकृता दश दिशश्चण्डात्तपो
दुःसहः । एव धन्वनि चम्पकस्य सकले संहारहेतावपि
त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥ ८१ ॥
ग्रीष्मे भीष्मतरेः करैर्दनकृता दग्धोऽपि यच्चातकस्त्वा
ध्यायन्घन वासरान्कथमपि द्राघीयसो नीतवान् । दैवाल्लो-
चनगोचरेण भवता तस्मिन्निदानीं यदि स्वीचक्रे करका-
निपातनकृपा तत्कं प्रति ब्रूमहे ॥ ८२ ॥ स क्षारे जलवि-
मगसि वितरन्यर्थ्यागतेभ्यो मितं गृह्णन्ते सरितः श्रमेण
परितोऽप्याधारबन्धं बलात् । प्राप्य कूपकतः कथञ्चन
क्रिमप्यारोप्य कण्ठे पदं तत्त्वा त्यागिनमेकमेव भगवन्वर्ज-
न्य मन्यामहे ॥ ८३ ॥ हर्षं वर्षन्विवधत्से चिरगमयतृषाशु-
प्यतां चातकानां भूमेस्तापोपशान्तिं वितरति तरसा लोक-
शोकं धुनोषि । अम्भोदैतत्त्वकैकं परममनुचितं यत्त्पिधत्से सुधांशुं
वाचामीशं कविं वा बुधमपि वहसि प्रेम खद्योतवर्गे ॥ ८४ ॥
वाय्वन्योक्त्यः
वायुगेव महाभूतं वदन्तु निखिला जनाः । आयुरेवैष
भूतानामिति मन्यामहे वयम् ॥ १ ॥ अलिपटलैरनुयातां
स्मृहद्यहृदयञ्चरं विलुम्पन्तीम् । मृगमदपरिमललहरीं
समीर किं पामरेषु रे किरसि ॥ २ ॥ परमो मरुत्सखामे-
स्तेजोवृद्धिं तनोतु तं जेतुम् । दीपं हरति तदस्य ज्ञानं प्रति-
पत्तिनिर्वहणम् ॥ ३ ॥ प्राथमिकी वनवृष्टिः प्रामा निक्खिनो
निदाघतप्रम्य । आकस्मिकेन मा पुनरुपनीता कापि पवनेन
॥ ४ ॥ वरतरुविघटनपटवः कटवश्चञ्चन्ति वायवो बहवः ।
तत्कुसुमबहुलपरिमलगुणविन्यासे कृती त्वेकः ॥ ५ ॥
गन्धवाह गहनानि गाहसे गन्वजातमिह सचिनोषि
च । नैपुणच्युतिरियं तु तावकी यत्र तत्र मदसद्विवेचनम्
॥ ६ ॥ अहह चण्डसमीरण दारुणं किमिदमाचरितं
चरितं त्वया । यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव
निवारितम् ॥ ७ ॥ अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं
मपदि च विनिमीलत्याकुलं त्वद्वियोगात् । वपुरसि परमेश-
स्योचितं नोचितं ते सुरभिमसुरभिं वा यत्समं स्वीकरोषि
॥ ८ ॥ राजीवनीविपिनसोरभसारगन्धियैऽभूद्धमन्तदिवसेषु
जनैकबन्धुः । रय्याग्जासि विकिर्णन्वरुजन्नगेन्द्रानुन्मत्तव-
द्धमति पश्यत सोऽद्य वायुः ॥ ९ ॥ ये जात्या लघवः
मदैव गणनां याता न ये कुत्रचित्पञ्चामेव विमर्दिता-
प्रतिदिनं भूमौ विलीनाशिरम् । उत्क्षिप्तश्चपलाशयेन मरुता
पश्यान्तरिक्षे सखे तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्व-
न्त्यमी पांसवः ॥ १० ॥ हंहो दग्धसमीर सर्पति भवत्यस्मि-
न्वने शाखिनां शाखाधर्षणजः स कोऽपि सुचिरं ज्ज्वल
दावानलः । येनादाहि पलायमानहरिणं भस्मीभवद्वरूहं शुष्य-
न्त्रिंशंग्सुत्पतत्त्वगकुलं चेष्टद्भुजंगं वनम् ॥ ११ ॥ हंहो धीर
समीर हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परि-
चयो गोदावरीवारिभिः । प्रत्यङ्गं दहतीह मे त्वमपि चेदु-
१ महाभूतमिति जना वदन्त्वित्यन्वयः २ वायुरित्यत्र वाग्गब्दस्यैकांगत्वादेप भूतानामायुरेवेति भावः ३ जीवति ४ मलयाचलात्
| वाय्वन्योक्तयः, पर्वतान्योक्तयः, समुद्रान्योक्तयः | २१५ |

द्दामदावाग्निवन्मत्तोऽयं मलिनात्मको वनचर. कि वक्ष्यते कोकिल ॥ १२ ॥ कोऽयं भ्रान्तिप्रकारस्तव पवन घनावस्करस्थानजात तेजस्त्रिखातसेव्ये नभसि नयसि यत्यासुपूरं प्रतिष्ठाम् । अस्मिन्नुत्थाप्यमाने जननयनपथोपरवस्तावदास्ता केनोपायेन सह्यो वपुषि कलुषतादोष एषस्तवैव ॥ १३ ॥
पर्वतान्योक्तयः
नाधन्याना निवास विदधति गिरय शेखरीभूतचन्द्रा शृङ्गैर्र्योत्स्नाप्रवाहं द्रुतमिव तुहिन दिक्मुखेषु क्षिपन्तः । येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पितानामाकाशे विप्रकीर्ण कुसुमचय इवाभाति ताराग्रहौघ ॥ १ ॥
हिमाचलः
तरुकुलसुषमापहरा जनयन्ती जगति जीवजातातम्ि । केन गुणेन भवानीतात हिमानीमिमा वहसि ॥ २ ॥ विन्ध्यमन्दरसुमेरुभूभृता यत्पतिस्तुहिनपर्वतोऽभवत् । ईश्वरश्वशुरताप्रभावतस्तद्भव जगति जृम्भते यश. ॥ ३ ॥ क्षोणी यस्य हिरण्मयी मणिमय. प्राकारशिल्पोच्चय कुञ्जा कल्पलतामया सुरधुनीधारामयो निर्झरः । कि चेन्द्रादिसमस्तदिक्पतिपुरीमय्यन्ति यत्पल्लवा. शैल. सोऽपि गिरिवयं च गिरयस्त्वय्येव मे का मतिः ॥ ४ ॥
मेरुः
ये सतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो येऽप्यन्ये धनलोभसकुलधियस्तेषा तु दूरे नृणाम् । इत्थ कस्य कृते कृत. स विधिना तादृक्पद सम्पदा खात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ ५ ॥
विन्ध्य.
आचक्ष्महे तव किमद्यतनीमवस्था तस्याद्य विन्ध्यशिखरस्य मनोहरस्य । यत्रैव सप्त मुनयस्तपसा निषेदु सोऽयं विलास-वसति. पिशिताशनानाम् ॥ ६ ॥
मलय.
कि तेन हेमगिरिणा रँजताद्रिणा वा यत्राश्रिता हि तरवस्तरवस्त एव । मन्यामहे मलयमेव यदाश्रयेण शाखोटनिम्बकुटजा अपि चन्दनानि ॥ ७ ॥ विद्योतन्ते कति नु गिरयस्तेषु कि नोद्यन्ते शाखावन्तः खदिरवदरीशालशाखोटकाया । धन्यस्तावन्मलयशिखरी यत्र जातास्त एव स्वैरामोदैस्त्रिभुवनमथ प्रीणयन्त स्फुरन्ति ॥ ८ ॥
मन्दर.
मुरारातिर्लक्ष्मी त्रिपुरविजयी शीतकिरणं करीन्द्रं पौलोमीपतिरपि च लेभे जलनिधे । त्वया कि वा लब्ध कथय मथितो मन्दरगिरे शरण्य शैलाना यदयमदय रत्ननिलय ॥ ९ ॥
मैनाक.
शक्रादरक्षि यदि पक्षयुग तथापि मैनाक सन्ति तव नेह गतागतानि । निःसत्त्वता च निरपत्रपता च किंतु पाथोनिधौ निवसता भवताजितात्र ॥ १० ॥ वर पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर्रुच्छद्दलदहनोद्गारगुरुभिः । तुषाराद्रे. सूनोरहह पितरि क्लेशविवशे न चासौ सपातः पयसि पयसा पत्युरुचित ॥ ११ ॥
लोकालोकः
एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमादस्त याति म्लानिविस्तुभयोरस्त प्रशस्तोऽञ्चल. । को नामोदयिनं करोति न शिरोमाणिक्यमस्त पुनर्यांत य कुरुते भवानिव स दु प्रापोऽस्ति पृथ्वतीतले ॥ १२ ॥
रोहणः
गेहणाचल शैलेषु कस्तुला तुलयेत्तव । यस पाषाणखण्डानि मण्डनानि महीभृताम् ॥ १३ ॥ रत्नाना न किमालयो जलनिधि कि न स्थिरा मेदिनी कि न व्योम महत्पदं सुकृतिना के नाम नैवोन्नतम् । हहो रोहण कि न याचकचमूनि शङ्कटङ्काहितक्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्द्यो भवान् ॥ १४ ॥ यामस्ते शिवमस्तु रोहणगिरे मत्त. स्थितिप्रच्युता वर्तिष्यन्त इमे कथ कथमिति स्वप्रेऽपि मैवं कृथा । भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्तत· कि शृङ्गारपरायणा. क्षितिमुजो नाङ्गीकरिष्यन्ति न. ॥ १५ ॥
पर्वतदरी
यस्या स केसरियुवा पदमाबवन्ध गन्धद्विपेन्द्ररुधिरारुणिताङ्गनायाम् । तामद्य पर्वतदरी धुतबुद्गलोमा गोमायुरेष वपुषा मलिनीकरोति ॥ १६ ॥
गिरिनिर्झर.
कल्लोलमचलदगाधजलैर्ललोलै कल्लोलिनीपरिवृढै· किमपेयतोयै । जीयात्स जर्जरतनुर्गिरिनिर्झरोऽयं यद्विप्रुषापि तृषिता वितृषीभवन्ति ॥ १७ ॥
समुद्रान्योक्तयः
नैवज्ञा नाप्यवैदग्ध्यमुदधेर्महिमैव स । यत्तीरपङ्कमग्नानि महारत्नानि शेरते ॥ १ ॥ यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् । तथापि जानुदघ्नोऽयमिति चेतसि मा कृथा ॥ २ ॥ रत्नेरापूरितमपि मदलेशोऽस्ति नाम्बुधे । मुक्ता कतिपया. प्राप्य मातङ्गा मदविह्वला ॥ ३ ॥ अध-करोषि रत्नानि मूर्ध्ना धारयसे तृणम् । दोषस्त्वेष जलधे रत्न रत्न तृण तृणम् ॥ ४ ॥ वातोल्लासितकल्लोल धिक्ते सागर गर्जितम् । यस्य तीरे तृषाक्रान्त पान्थ. पृच्छति वापिकाम् ॥ ५ ॥ अय रत्नाकराऽम्भोविरित्यसेवि धना-शया । धन दूरेऽस्तु वदनमपूरि क्षारवारिभिः ॥ ६ ॥ यद्यपि बद्ध. शैलैर्र्यद्यपि गिरिमंथनमुषितसर्वस्व. । तदपि
१ राक्षसानाम् २ मेरुणा ३ कूलासेन ४ निर्बलत्वम् ५ निर्लज्जत्वम्
१ जवमान २ अचुतुरत्वम् ३ जानुप्रमाण ४ वायुनोल्लासिना उत्पादिता कल्लोला महोर्मियो यस्य ५ गिरिनथनेन हृत सर्वस्व चतुर्दशरत्नात्मक वन यस्य
२१६ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
परमीतभूधररक्षया दीक्षितो जलधिः ॥ ७ ॥ कि खलु रत्नैरेतैः कि पुनरप्यायितेन वपुषा ते । सलिलमपि यन्न तावक- मर्णव वदनं प्रयाति तृषितानाम् ॥ ८ ॥ मा कुरु गुरुता- गर्व लघुरन्यो नास्ति सागर त्वत्तः । जलसंग्रहमन्य- स्मात्त्वयि सति कुर्वन्ति पोतंथा ॥ ९ ॥ किमधिकमस्य ब्रूमो महिमानं वाग्विधेरहरिर्यत्र । अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ॥ १० ॥ लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम् । सर्वमलञ्जाकरमिह यत्कुर्वन्तीह परिपूणां ॥ ११ ॥ तृषा धराया शमयत्यशेषा यः सोऽम्बुदो गर्जति गर्जतूच्चै । यस्त्वेषा कस्यापि न हन्ति तृष्णा स किं वृथा गर्जति निष्कृपोऽब्धिः ॥ १२ ॥ त्वमद्य सिन्धो जगदेकबन्धो रत्नानि दातुं विमुखोऽसि कस्मात् । कि वा सुतः कल्पमहीरुहस्ते दानं कृतार्थी- कुरुते जगन्ति ॥ १३ ॥ अयि रोषमुरीकरोषि नो चेत्किमपि त्वा प्रति वारिधे वदामः । जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान्न हा जहासि ॥ १४ ॥ तोयानामधिपतिराकरो मणीना शैलानामभयपदं महान्महद्ध्य । अग्राह्यो भवसि यदि त्वमेव तावत्को नु स्याज्जगति तदा जनावलम्ब ॥ १५ ॥ स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया सकलमेव फलं पयोघे यद्दारुणैर्जलचरैर्न विदारितोऽस्मि ॥ १६ ॥ आदाय वारि परितः सरिता मुखेभ्य कि तावदर्जितमनेन दुरर्णवेन । क्षारीकृतं च वडवादहने हुत च पातालकुक्षिकुहरे विनिवेशितं च ॥ १७ ॥ निःपीतपीन- तिमिराणि मनोहराणि रत्नानि सन्ति न कियन्ति तवा- न्तिकेषु । एतस्य कौस्तुभमणेर्व्रजतः परतु पाथोनिधे स्मरणमान्तरमावहेथाः ॥ १८ ॥ कल्लोलवेल्लितदृषत्सुप्रप्रहारै रत्नान्यमूनि मकरालय माऽवमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ १९ ॥ लज्जामहे वयमहो वचनेऽपि हन्त सार्थ्यात्रिका सलिल- राशिममी विशन्ति । असाधिरोपिततदीयतटोपकण्ठ- कौपेयकाम्बुदतयो यदुदीर्णतृष्णाः ॥ २० ॥ चपलतरतरंगै- दूरमुत्सारितोऽपि प्रथयति तव कीर्तिं दक्षिणावर्तशङ्खः । परिगणय पयोधे पद्मनाभार्ध्ययोग्यस्तव निकटनिषण्ण शूँल्लकैः श्लाघ्यता का ॥ २१ ॥ यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूल रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरि- त्रीम् । धिक् सर्वं तत्तव जलनिधे यद्विमुच्याश्वधारास्तीरे नीरग्रहणरसिकैरुध्वंगैरूज्झितोऽसि ॥ २२ ॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनो- भिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनि ॥ २३ ॥ अये वारांगश कुलिशकरकोपप्रतिभयादयं पक्षप्रेम्णा गिरिवर- सुतस्त्वामुपगतः । त्वदन्तर्वास्तव्यो यदि पुनरय वाडवशिखी प्रदीप्त प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ २४ ॥ इत. स्वपिति केशव कुलमितस्तदीयद्विषामितश्च शरणार्थिनः शिखरिपत्रिण शेरते। इतोऽपि वडवानलः सह सँमस्त- संवर्तकैरहो विततमूर्जितं भरसह च सिन्धोर्वपुः ॥ २५ ॥ ग्रावाणो मणयो हरिजंलचरो लक्ष्मीः पयोमानुषी मुक्तांघाः सिकताः प्रवाललतिकाः शैवालमम्भ सुधा । तीरे कल्पमहीरुहाः किमपर नाम्नापि रत्नाकरो दूरे कर्णमरायनं निकटतस्तृष्णापि नो शाम्यति ॥ २६ ॥ एतस्मादमृत सुरैः शतमुखेनोच्चैःश्रवाः सङ्गुणः कृष्णेनाद्भुतविभ्रमैक- वसतीर्लक्ष्मीः समासादिता । इत्यादि प्रचुग पुरातनकथाः सर्वम्य एव श्रुता अस्माभिर्न च दृष्टमत्र जलधौ मृष्ट पयोऽपि क्वचित् ॥ २७ ॥ सख्येया न भवन्ति ते युगशतै- र्गाम्भीर्यमुख्या गुणाः सत्य वारिनिधे तथापि तदिद चिन्ते विधत्ते व्यथाम् । स्वच्छन्देन तिमिगिलान्द्विजकुलग्रास सुहृ- कुर्वतो यत्ते वारयितु निजेऽपि विषये न स्वामिता विद्यते ॥ २८ ॥ कल्लोलै स्थगयन्मुखानि ककुभामन्नलिहेरम्भसा क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि । एतत्ते यदि घोरनक्रनिलय स्वादु व्यधास्यद्विधि कि कर्तासि तदा न वेद्मि तरलै. खैरव दुश्चेष्टितैः ॥ २९ ॥ धामारोहति वाञ्छति स्थग- यितु तेजोऽपि तेजस्विनामुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिर- म्भोधरः । काश्चिद्रागुपजीव्य तोयचुलुकान्सिन्धौ भवत्सन्निधौ पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ ३०॥ किं वाच्यो महिमा तवात्र जलधे यस्येन्द्रवज्राहतित्रस्तक्ष्माभृ- दमजदम्वुनिचये मज्जत्कलङ्कीकृतिः । मैनाकोऽपि गभीरनीर- विलसत्पाठीनपृष्ठोल्लसच्छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ३१ ॥ आस्ता तावदहो समुद्रमहिमा दूरेऽपि कर्णप्रियत्सीर यस्य पिपासयैव मरणं प्राप्नोति शीघ्रं जन । तस्मादम्बुनिधेर्वरं लँघुरसरः कूपोऽथवा वापिका यत्र स्वीय- करद्वयेन सलिलं पेपीयते स्वेच्छया ॥ ३२ ॥ देवैर्द्यद्यपि तक्रवद्विमथित. केदारवद्वानरैर्बद्धः सिद्धवदञ्जनाविजुनुषा
१ नौकास्थिताः, नाविका इत्यथ २ नौकया व्यापार कुर्वाणा ३ दक्षिणभागे आवर्तो यस्यैतादृश शङ्ख ४ जानीहि ५ विष्णुपूजायोग्य ६ क्षुद्रशङ्खै
१ जलानाम् २ स्थानम् ३ पिपासा, पक्षे, -अर्थाभिलाष ४ अगस्त्य ५ शिखरिण पर्वतास्त एव पत्रिण पक्षिण ६ सवर्तकसंज्ञकैर्मेधै ७ ह्रस्वजलाशय
समुद्रान्योक्तयः २१७
कुल्यावदुल्लङ्घितः । किं चासीच्चुलुकेऽम्बुबिन्दुवदयं द्राक्कु-
म्भयोनेर्मुनेर्नातारोऽयमिति प्रथा जलनिधेरासीत्तथापि श्लथा
॥ ३३ ॥ पीयूषेण सुराः श्रिया मुररिपुर्मर्यादया मेदिनी
शक्रः कल्पद्रुहा शशाङ्ककलया श्रीशङ्करस्तोषितः । मैनाका-
हिनगा निजोदरगता सस्थानतः स्थापितास्त्वच्चूलीकरणे
घटोद्भवमुनिः केनापि नो वारितः ॥ ३४ ॥ हे हेलाजित-
बोधिसत्त्व वचसा किं विस्तरैस्तोयधे नास्ति त्वत्सदृश-
परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघट-
नावैमुख्याल्लब्धायशोभारप्रोहने करोषि कृपया साहायकं
यन्मरोः ॥ ३५ ॥ पीयूषेण कृतार्थिता दिविषदो लक्ष्म्या
हरिः प्रीणितश्चन्द्रार्धेन विभूषितः पशुपतिः कल्पद्रुमैर्वासवः ।
आत्मानं परिपन्थिनोप्युदधिना किं किं न तेषा कृतं
तस्यागस्त्यमुनिप्रपीतपयसो नोच्चैः कृतैकाङ्गुलिः ॥ ३६ ॥
लक्ष्म्या श्रीपुरुषोत्तमो हिमरुचा गौरीप्रियोऽलंकृतो देवेन्द्रो-
ऽपि विमानवारणहयस्त्रीरत्नकल्पद्रुमैः । पीयूषैरमितैस्त्वया
दिविषदश्चान्ये कृतार्थीकृता श्रीमन्वारिनिधे त्वदीय महिमा
नूनं न वाग्गोचरः ॥ ३७ ॥ हहो वारिनिधे विधे समुचितं
येनासि रत्नाकरो रत्नाश्चेदवमन्यसे वद विभो नैतत्पदं
विन्दसि । पश्यालंकरणं पुरंदरपुरे चिन्तामणिः कौस्तुभो
विष्णोर्वक्षसि मीनकेतनरिपोः शीर्षे कलाना निधिः ॥ ३८ ॥
पीत्वा गर्जन्त्यपस्ते दिशि दिशि जलदास्तव शरण्यो गिरीणां
सुत्रामत्रासभाजां त्रिदशविटपिना जन्मभूमिस्त्वमेव ।
गाम्भीर्यं तच्च तादृक्त्वयि सलिलनिधे किंतु विज्ञाप्यमेतत्सं-
वॉपायेन मैत्रावरुणिमुनिकृपादृष्टयः काङ्क्षणीयाः ॥ ३९ ॥
क्षीरसागरः
दिशि दिशि गिरिग्रावाणः स्वा वमन्तु सरस्वतीं तुलयतु
मिथस्तामापातस्फुरद्धनिडम्बरान् । स परमपरः क्षीरोदन्वान्
यदीयमुदीर्यते मथितुरमृत खैदैच्छेदि प्रभोरनुमोदनम्
॥ ४० ॥ साकं ग्रावगणैर्लुठन्ति मणयो बालार्कबिम्बोपमा
नीरे नीरचरैः समं स भगवान्निद्राति नारायणः । एव वीक्ष्य
तवाविवेकम् च प्रौढि परासुम्नते किम निन्दाम्यथवा
स्तवीमि कथय क्षीरार्णव त्वामहम् ॥ ४१ ॥
अगस्त्यः
मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैक-
चुलुके दत्तौ दिव्यौ तौ मत्स्यकच्छपौ ॥ ४२ ॥ अखर्व-
पर्वगर्तैषु विच्छिन्नो यस वारिधिः । हा स एव मुनेः
घाणिरधस्ताद्द्गिन्यभूभृतः ॥ ४३ ॥ अहपीयसैव पयसा
यत्कुम्भः पूर्पते प्रसिद्ध तत् । ब्राह्मं तेजः पश्यत कुम्भो-
द्भूतः पपौ वारिधिम् ॥ ४४ ॥ गतोऽस्मि तीर जलधेः पिपा-
सया स चापि शुष्कश्चुलुकीकृतो मया । न लक्ष्यते दोष-
लवोऽपि तोयवेर्ममैव तत्कर्मफलं विजृम्भते ॥ ४५ ॥
कम्पन्ते गिरयः पुरंदरभिया मैनाकमुख्याः पुनः क्रन्दन्त्यम्बु-
धराः स्फुरन्ति वडवावक्रोद्गता वह्नयः । भो कुम्भोद्भव
मुच्यता जलनिधिः स्वस्त्यस्तु ते सांप्रत निद्रालुश्लथबाहुवल्लि-
कमलाश्लेषो हरिः सीदति ॥ ४६ ॥
रत्नानि
मणिलुंठति पादेषु काचः शिरसि धार्यते । यथै-
वास्ते तथैवास्तां काच काचो मणिर्मणिः ॥ ४७ ॥
अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता । जातरूपेण कल्याणि
नहि संयोगमर्हति ॥ ४८ ॥ अनस्तमितसारस्य तेजसस्त-
द्विजृम्भितम् । येन पात्राणखण्डस्य मूल्यमल्पं वसुंधरा
॥ ४९ ॥ धन्योऽयं मणिरकरिच्छन्नो भिन्नश्च चक्रनिघृष्टः ।
युक्तस्तेजोनिचयैर्धन्यो दुःखेऽपि योऽधिकाभास ॥ ५० ॥
अष्ट नृपतिकिरीटाङ्गमौ पतितं तिरोहितं रजमा । विधि-
विलसितेन रव जनचरणविडम्बना सहते ॥ ५१ ॥ वपुः-
परीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति ।
तथापि चूडासु महीपतीना त एव खेलन्ति न गण्डशैलाः
॥ ५२ ॥ सिन्धुस्तरङ्गैरुपकल्प्य फेनान्तर्र्तानि पङ्केर्मलिनी-
करोति । तथापि तान्येव महीपतीना किरीटकोटीषु पदं
लभन्ते ॥ ५३ ॥ विरम रत्न सुधा तरलायसे तव न कश्चि-
दिहास्ति परीक्षकः । विविधशेन परिच्युतमाकरात्त्वमपि काच-
मणीकृतमीश्वरैः ॥ ५४ ॥ अनिभालित एव केवल खनि-
गर्भे निधिरेष जीर्यतु । न तु सीदतु मूल्यहानितो वणिजा-
लोकनगोचरीकृतः ॥ ५५ ॥ समुद्रेणान्तःस्थस्तटमुवि तरङ्गै-
रकरुणैः समुत्क्षिप्तोऽसीति त्वमिह परिताप त्यज मणे ।
अवश्यं कापि त्वद्गुणपरिचयाकृष्टहृदयो नरेन्द्रस्त्वा कुर्या-
न्निजमुकुटकोटिप्रणयिनम् ॥ ५६ ॥ पयोधेः सर्वस्व शिरसि
धृतवान् य नृपगण पणो यस्य क्षोणी चतुरुदधिसीमावधि-
रभूत् । स एवायं दैवाच्छबरवनितापार्णिपतितो मणिर्र्भव-
ग्रीवाद्धिगुणगुणबद्धो विहरति ॥ ५७ ॥ आघ्रात पैरलीढ-
मुग्रनखरै क्षुण्ण च यच्चर्वितं क्षिप्त यद्भूत नीरसत्त्वकुपिते-
नेति व्यथा मा कृथा । हे सद्रत्न तवैतदेव कुशलं यद्वा-
नरेणायहादन्तःसारविचारणव्यसनिना चूर्णीकृतं नाँश्मना
॥ ५८ ॥ उत्तसेषु न नर्तितः क्षितिभुजां न प्रेक्षकैर्लङ्घित
साकाङ्क्ष लुठितो न च स्तनतटे लीलावतीना क्वचित् ।
कष्ट भोशिरमन्तरेण जलधेर्देवाङ्गिर्शीर्णोऽभवत्खेल्बव्याल-
कुलाङ्घर्षेणपरीक्षणप्रमाणो मणिः ॥ ५९ ॥ ये गृह्णन्ति
हठात्तृणानि मणयो ये चाप्ययःखण्डकं ते दृष्टाः प्रतिधाम
१ भ्रमदरि २ पाषाणसमूहे ३ ब्राह्ममनेज प्रभाव ४ समुद्रम् | १ इन्द्रभयेन २ छादितम् ३ दैवदुविर्पाकेन ४ विशालता ५ आस्वादितम् ६ तत्परेण. ७ पाषाणेन ८ तेजोरहित.. | ५ आस्वादितम् ६ तत्परेण. ७ पाषाणेन ८ तेजोरहित.
२८ सु. र. भा.
| २१८ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

दग्धमण्ययो विच्छिन्नसख्याश्रियम् । नो जाने किमभावतः किमथवा दैवादहो श्रूयते नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ ६० ॥ यन्मुक्तामणयोऽम्बुधेरुदरतः क्षिप्ता महावीचिभिः पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव । तत्तस्यैव परिक्षयो जलनिधेर्दोपान्तरालम्बिनो रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सौयात्रिकाः ॥ ६१ ॥ यत्रानुल्लिखितास्यमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुल्लङ्घ्य यत्सत्पदस्तस्याभासमणीकृतावसमसु मणेरश्मत्वमेवोचितम् ॥ ६२ ॥ काचाः काञ्चनभूषिताः कति न वा मुष्णन्ति रत्नश्रियं मौलौ वा कति नोद्वहन्त्युपधियस्तानेव रत्नभ्रमात् । अक्ष्णा ये पुनरुन्मृजन्ति तिमिरं यैर्नाम रत्नाकरः सिन्धुस्ते पृथगेव हन्त मणयस्तेभ्यस्त्वभिज्ञाः पृथक् ॥ ६३ ॥
वज्रमणिः यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः । करोति तत्र किं नाम नारीनखविलेखनम् ॥ ६४ ॥
कौस्तुभमणिः न श्वेताशुवदन्धकारदलनादुद्द्योतिते रोदसी नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः । नो चिन्तामणिरत्नवत्त्रिभुवने छिन्ना विपदर्थिनां भूत्वा तस्य हरेरुरःप्रणयिना किं कौस्तुभेनाजितम् ॥ ६५ ॥
चन्द्रकान्त-सूर्यकान्तौ सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् । उद्गारे तु विशेषोऽस्ति तयोरमृतवह्नयोः ॥ ६६ ॥
चन्द्रकान्तः सुधाकरकरस्पर्शाद्वहिर्द्रवति सर्वतः । चन्द्रकान्तमणेस्तेन मृदुत्वं लोकविश्रुतम् ॥ ६७ ॥
स्फटिकः स्फटिकस्य गुणे योऽसौ स एवायाति दोषताम् । धत्ते स्वच्छतया छायां यस्तां मलवतामपि ॥ ६८ ॥
मरकतः त्यज निजगुणाभिमानं मरकत पतितोऽसि पामरे वणिजि । काचमणेरपि मौल्यं लभसे यत्तदपि ते श्रेयः ॥ ६९ ॥ केनासीनः सुखमकरुणेनाकरादुद्धृतस्त्वं विक्रेतुं वा समभिलषितः केन वाऽस्मिन्कुदेशे । यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥ ७० ॥ आसीत्पूर्वं विमलजलधौ मण्डनं भूपतीनां नारीणां च प्रबलमुकुटे काञ्चनेन प्रसङ्गात् । तन्नीबद्धः कथमिदमहो काचखण्डेन सार्धं मिलीकण्ठे मरकतमणे कामवस्थां गतोऽसि ॥ ७१ ॥
माणिक्यम् पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्र पाश्चात्यसङ्घैरौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि माणिक्यमेकम् । यद्येतत्किन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्ये प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ७२ ॥
काचः अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम् । नृपतिर्वहते शिरसा तेनासौ न ह्यनर्घ्यमणिः ॥ ७३ ॥
शङ्खः अन्तःकुटिलता बिभ्रच्छङ्खः स खलु निष्ठुरः । हुंकरोति यदा ध्मातस्तदैव बहु गण्यते ॥ ७४ ॥ उच्चैरुच्चरति चिरं झिल्ली वर्त्मनि तरुं समारुह्य । दिग्द्यापिनि शब्दगुणे शङ्खः समावनाभूमिः ॥ ७५ ॥ कीटगृहं कुटिलोऽन्तःकठिनः क्षाराम्बुसंभवः शून्यः । शङ्खः श्रीपतिनिकटे केन गुणेन स्थितिं लेभे ॥ ७६ ॥ जलनिधौ जननं धवलं वपुसुररिपोरपि पाणितले स्थितिः । इति समस्तगुणान्वित शङ्ख भो कुटिलता हृदये न निवारिता ॥ ७७ ॥ ध्वनिरतिमधुरः शुचित्वमुच्चैर्जनिरपि शङ्ख नदीनतस्तवाभूत् । अवगतमखिलं बहिरस्त्वेदं कुटिलतरं पुनरन्तरं न विज्ञम् ॥ ७८ ॥ क्व वाऽम्भोथौ जन्म क्व च वपुरिदं कुन्दधवलं क्व चावासस्थानं कृतमहह विष्णोः करतलम् । क्व नीचानामास्ये परिणतिरियं चुम्बनविधावितीवायं शङ्खः करुणकरुणं रोदिति मुहुः ॥ ७९ ॥ तातः क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि । धिक्कर्माणि स एव कम्बुरधुना पाखण्डकान्तारे विश्रान्तः प्रतिवासरं प्रतिगृहं भैक्ष्येण कुक्षिभरिः ॥ ८० ॥
पाञ्चजन्यः सर्वाशापरिपूरिहुंकृतिमदो जन्मापि दुग्धोदधेर्गोविन्दाननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्वपुः । श्रीरेशा सहजा गुणाः किमपरं मन्यन्त एते हि यत्कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे ॥ ८१ ॥ शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः । एकः कोऽपि स पाञ्चजन्य उदभूदाश्चर्यधामा सतां यः सर्वर्तुभरक्षमैरधुरिपोः श्वासानिलैः पूर्यते ॥ ८२ ॥
नद्यन्योक्तयः
तटिनि चिराय विचार्य विन्ध्यभुवस्तव पवित्रायाः । शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम् ॥ १ ॥
कतिपयदि वसस्थायी पूरो दूरोन्नतोऽपि भविता ते । तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ २ ॥
यास्यति जलधरसमयस्तव च समृद्धिर्लघीयँसी भविता । तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ३ ॥
कुरु गम्भीराशयता
पादटिप्पण्यः (Footnotes):
१ नौकाव्यापारिणः २ हीरकमणे ३ नीचे ४ भूषणम् ५ काचमणिना ६ सह
१ अमूल्यं २ कौटिल्यम् ३ नदीनः सरित्पतिस्तस्मात् ४ कुन्दपुष्पवच्छुभ्रम् ५ भगिनी ६ लक्ष्मीः ७ अल्पतरा.
नद्यन्योक्तयः, तडागान्योक्तयः २१९
कल्लोलैर्जनय लोकविश्रान्तिम् । वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घ्यासि ॥ ४ ॥ मलयस्य गिरेरपत्यमादौ तदनु आत्तवती पटीरवृक्षैः । किमु चित्रमपाम्निधेः कलत्रं तटिनी कांचन मौक्तिकानि सूते ॥ ५ ॥ नावतों न च तरलास्तरंगमाला नेदानीं जलरयजा रवाः करालाः । सैव त्वं तटिनि तटद्रुमान्विपात्य प्रौढानामपयशसामिवासि पात्रम् ॥ ६ ॥ छायां प्रकुर्वन्ति नमन्ति पुष्पैः फलानि यच्छन्ति तटद्रुमा ये । उन्मूल्य तानेव नदी प्रयाति तरंगिणा कः प्रतिपन्नमस्ति ॥ ७ ॥ न वारयामो भवतीं विशन्तीं वर्षानदि स्रोतसि जाहुजायाः । न युक्तमेतत् पुरो यदस्यास्तरंगभङ्गानप्रकटीकरोषि ॥ ८ ॥
गङ्गा
यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति । तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ ९ ॥ स किमु सहेत सुधांशुः खरहरभालानलज्वाला । शिशिरैः शीकरनिवहैः सिञ्चति सुरनिम्नगा नो चेत् ॥ १० ॥
शोणः
आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुरा पुनरमी नीताः परामुन्नतिम् । अन्तर्गृहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदां विप्लवान् ॥ ११ ॥
तडागान्योक्तयः
आगच्छतामपूर्णानां पूर्णानामपि गच्छताम् । यद्ध्वनिर्न सघट्टा घटानां किं सरोवरम् ॥ १ ॥ अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमतिसुलभं चाम्भो भवति पुरा जलधराभ्युदये ॥ २ ॥ कस्य तृषं न क्षपयति पिबति न कस्तव पयः प्रविख्यान्तं । यदि सन्मार्गसरोवर नक्रो न क्रोडमधिवसति ॥ ३ ॥ तानि तानि कमलानि तज्जलं तानि षट्पदकुलानि ते खगाः । सर्वमेकपद् एव विच्युतं पङ्कशेषमचिरादभूत्सरः ॥ ४ ॥ विहगैर्गतं मधुकैरैश्चलितं प्रकरैः प्रयातर्गाप पद्मदृशाम् । विभवे गते सकलमेव गतं ध्रुवमेकमन्वति यशः सरसः ॥ ५ ॥ आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ति । सङ्कोचमृर्छति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ ६ ॥ इयत्या संपत्तावति च सलितानां त्वमधुना न तृष्णमार्तानां हरसि यदि काँसार सहसा । निदाघे चैण्डांशौ किरति परितोऽङ्गारनिकरं कृशीभूतः केषामहह परिहृतासि खलु ताम् ॥ ७ ॥ क्रोञ्चः क्रीडतु कूंर्दता च कुर्गः कङ्कः परिश्चव्यता मँदुमीद्यतु सारसश्च रमतु प्रोड्डीयता टिट्टिभः । भेकाः सन्तु बका वसन्तु चरतु स्वच्छन्दमाटिस्तटे हंसः पद्मस्रः कुतः कतिपयैह॒मैर्विना श्रीस्तव ॥ ८ ॥ एतस्मिन्रमण्डले परिचलत्कल्लोलकोलाहलक्रीडत्कङ्कमपङ्कमङ्कविलसञ्चि शङ्कमत्स्यव्रजम् । केनेदं विकमत्कुशेशयकुटीकोणक्वणत्पदपदं ख्रैणश्रीणितपान्थमुज्ज्वलजलं चक्रे विगाले सरः ॥ ९ ॥ स्लोकाम्मःपरिवर्तिताङ्गशफरीग्रासार्थिनः सर्वतो लप्स्यन्ते बकटिट्टिभप्रभृतयः खल्पेषु साधु स्थितिम् । सद्यः शोषमुपागतेञ्च सरसि श्रीमद्यपद्माकरे तस्मिन्यङ्कजिनीविलासहरुचयो हंसाः क्व यास्यन्त्यमी ॥ १० ॥ माद्यद्दिग्गजदानलिप्तकटप्रक्षालनक्षोभिता व्योम्नः सीम्नि विचैरुग्ग्रतिहता यस्योर्मयो निर्मलाः । कष्टं भाग्यविपर्ययेण सरसः कल्पान्तरस्थायिनस्तस्याप्येकबकप्रचारकलुषं कालेन जातं जलम् ॥ ११ ॥ रे पद्माकर यावदस्ति भवतो मध्ये पयः पूरितं तावच्चकचकोरकङ्ककुररश्रेणीं समुल्लासय । पश्चाच्च समटद्वकोटचटुलत्रोटीपुटव्याहतिश्रुत्यर्कर्कटकपरव्यतिकरैर्निन्दास्पदं यास्यसि ॥ १२ ॥ याते मय्यचिरान्निदाघमिहिरैर्ज्यालाशर्तैः शुष्कतां गैन्ता कं प्रति पान्थसततिरसो संतापमालाकुला । एव यस्य निरन्तरौधिपटलैर्नित्यं वपुः क्षीयते धन्यं जीवनमस्य मार्गसरसो धिग्द्वारिधीनां जडुः ॥ १३ ॥ सोपानानि तिरोहितानि पदवी छन्ना तृणैर्नूतनैः कालुष्यं पयसा विलोक्य शनकैरूड्डीय हंसा गताः । माधुर्यं न मधुर्रतोदितगिरां पद्मानि मम्रानि के मेकानामिह गर्जितं पग्महो बुद्ध्वैव नष्टं सरः ॥ १४ ॥ आपूयेंत पुनः स्फुरच्छफरिकासारोंर्मिभिर्वारिभिर्भूयोऽपि प्रविजृम्भमाणनलिनं पश्येम तोयाशयम् । इत्याशाशततन्तुबद्धहृदयो नक्तंदिवं दीनधीः शुष्यत्तातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ १५ ॥ उद्दानाम्बुदवर्धमानशिखिनीकेकातिरेकाकुले संप्राप्यं सलिलं स्थलेष्वपि सदा निस्तर्षवर्षार्गमे । भीष्मग्रीष्मभटे परस्परभयादालोच्यमानं सुहृद्दीनं मीनकुलं न पालयसि चेत्कासार का सारता ॥ १६ ॥ सौवर्णः कमलाकरः शशिशिलासोपानबन्धक्रमो वारि क्षीरसहोदरं तटतरुश्रेणीसुखाः क्षोणयः । सर्वं ते रुचिरं सरोवर परं निन्द्यः कुतोऽयं विधिः कूटग्राहमयात्मयान्ति विमुखाः पान्था निदाघेऽप्यमी ॥ १७ ॥ उड्डीतं विहगैर्मृतं जलचरैः क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठनाथक्सिर्मुहुर्मूच्छितम् । तस्मिन्नेव
पादटिप्पण्यः (Footnotes)
वामभागः (Left Column): १ पुष्पैः सह फलानि ददतीत्यर्थः २ तरंगवच्चपलत्वभावानाम् ३ अङ्गीकृतम् ४ इन्द्रस्त्रीणां रम्भोर्वश्यादीनां समागमसुखदात्री ५ आकाशमार्गम् ६ प्राप्नुवति सति ७ हे सर ८ ग्रीष्मे ९ सूर्ये
दक्षिणभागः (Right Column): १ खेलतु २ जलकाकः ३ सूर्यः ४ गमिष्यति ५ मनोव्यथापरम्पराभिः ६ मार्गे यत्सरोवरं तस्य
| २२० | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

सरस्यकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नमग्न्यकरिणा यूथैः पय पीयते ॥ १८ ॥ हंसैर्लब्धप्रशंमस्तरलिकतमलसस्तरङ्गैरस्तरगैर्नीरैरन्तर्गभीरैश्चपलवककुलत्रासलीनैश्च मीनै । पालीस्रुद्धमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतैर्भाति प्रक्रीडदातिस्तवलसिलचलच्चक्रवाकस्तडागः ॥ १९ ॥
मानसम्
नो वा कियन्त. परित स्फुरन्ति जलाशया निर्मलभूरितोया । सदावदात परमेकमेव हंसस विश्रामपदं वदन्ति ॥ २० ॥
कूपान्योक्तयः
हे कूप त्वं चिर जीव स्वल्पतोये बहुव्यय । गुणवद्रिक्तपात्राणि प्राप्नुवन्ति हि पूर्णताम् ॥ १ ॥ रे कूप जीवनागार यदि दातृत्वमिच्छसि । तदा त्व गुणवत्पात्रमेक वा सनिधौ कुरु ॥ २ ॥ अमुना मरुकूपेन के के नाम न वञ्चिता । रुदत्पथिकनेत्राम्बुपिच्छिलप्रान्तभूमिना ॥ ३ ॥ संगुणे सेवितोपान्तो विनते प्राप्तदर्शन । नीचोऽपि कूप. सत्पात्रैर्जीवैनार्थ समाश्रित ॥ ४ ॥ यद्यपि बहुगुणगम्य जीवनमेतस्य कूपमुख्यस्य । जयति तथापि विवेको दान पात्रानुमानेन ॥ ५ ॥ नितरां नीचोऽस्मीति त्व खेदं कूप मा कदापि कृथाः । अत्यन्तसरसहृदयो यत. परेषा गुणग्रहीतासि ॥ ६ ॥ चित्र न तद्यदयमम्बुधिरम्बुधौघसिन्धुप्रवाहपरिपूरणया महीयान् । त्व त्वर्थिनामुपकरोषि यदल्पकूप निष्पीड्य कुक्षिकुहर हि महत्त्वमेतत् ॥ ७ ॥ दिनमवसित विश्रान्ता. म्व त्वया मरुकूप हे परमुपकृतं शेष वक्तुं वयं न पुन: क्षमा. । भवति सुकृतैरध्वन्यानामशेषजलो भवानियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ८ ॥ भीर्मश्यामप्रतनुवदन कूपपातालकुक्षिक्रोडप्रान्तोपहितविभवत्साथ कि ते ब्रवीमि । येन् त्वत्त समभिलषितं वाञ्छनः क्षुद्र कूप क्राम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ९ ॥
मरुस्थलान्योक्तयः
मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते । तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १ ॥ सत्पादपान्विपुलपल्लवपुष्पभारसत्पत्रीतवपुष. फलभारनम्रान् । यो मञ्जुसिञ्जितशकुन्तशताश्रितो रुशाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ २ ॥ पायं पाय पिब पिब पय. सिञ्च सिञ्चाङ्गमङ्गं भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि । एषोऽशेष-
श्रमशमपटुर्दु खिताध्वन्यबन्धु. सिन्धुर्दुरीभवतु भवतो मारवः पान्थ पन्था. ॥ ३ ॥ कल्याण नः किमधिकमितो जीवनार्थ यतस्त्वं छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार । नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलानामध्वन्यानामशरण मरुप्रान्त रे कोऽभ्युपायः ॥ ४ ॥ किमसि विमतिः किं चोन्मादी क्षणादमिलक्ष्यसे पुनरपि सखे प्रेक्षापूर्वा न काचन ते क्रिया । स्वयमजलदा जानानोऽपि प्रविश्य मरुस्थली शिशिरमधुर वारि प्रातुं यदध्वग वाञ्छसि ॥ ५ ॥ भो भोः किं किमर्कोऽण्ड एव पतितस्त्वं पान्थ कान्व्या गतिस्तत्तादृक्तृषितस्य मे खलमतिः सोऽयं जल गृह्णते । अस्थानोपगतामकालसुलभा तृष्णा प्रति क्रुध्य हे त्रैलोक्यप्रथितप्रभावमहिमा मार्गोऽस्त्यसौ मारव. ॥ ६ ॥
दावानलान्योक्तयः
हे दावानल शैलाग्रवासिन साधुशाखिन. । मुग्ध व्यर्थे त्वया दग्धा प्रेरितेन प्रेमञ्जनैः ॥ १ ॥ यस्या महत्त्वभाजो भवन्ति गुणिनोऽमिता धनुर्दण्डा । दहतस्ता वंशांलि को वनवह्ने विवेकस्ते ॥ २ ॥ दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्षस्तम् । यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति ॥ ३ ॥ अभ्युन्नतेऽपि जलदे जगदेकसारसाधारणप्रणयहारिणि हा यदेते । उल्लासलास्यललितं तरवो न यान्ति हे दावपावक स तावक एव दोषः ॥ ४ ॥ छाया फलानि मुकुलानि च यस्य विश्वमाह्लादयन्ति सहकारमहीरुहस्य । आमृष्य तस्स शिखया नवपल्लवानि मक्ष्नासि रे दवहुताश हताश कथम् ॥ ५ ॥ दुर्दैवप्रभवप्रभञ्जनभयादुद्भूत भूमीरुहानेतान्सत्त्वगुणाश्रयानकरुणः शुष्यन्किमुन्माद्यसि । ब्रूमस्त्वा वैनहव्यवाह यदमी दग्धार्धदग्धा अपि द्रष्टव्यास्तव तत्क्षणाद्द्विलयिनो नामापि न ज्ञायते ॥ ६ ॥ विध्वस्ता मृगपक्षिणो विधुरता नीता. स्थलीदेवता धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता । मसीकृत्य सपुष्पपल्लवफलैर्नाम्नान्महान्पादपान्दुष्टेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ ७ ॥ दिक्कचक्र तृणभक्षना कवलितं मूलान्यपि क्ष्मारुहा निर्दग्धानि न चार्मकोऽपि हरिणीयूथस्य शेषीकृतः । आ. कष्टं विपिनौकसोऽपि मुनयः पुष्टाः कृतान्तक्रिया कृत्वेत्थं वनवह्निना किमथुना शान्तेन दीसेन वा ॥ ८ ॥
वडवानलः
तेजांसि यस्य प्रथमं प्रयान्ति वारा प्रवाहेण स वह्निरन्यः । अयं पुनर्वादवनामधेयः समुद्रमापीय बिभर्ति तेजः ॥ ९ ॥
पादटिप्पण्यः (Left Column): १ रज्जुसहितं, पक्षे,-गुणयुक्तै २ उदकार्थम् ३ अत्यन्तम् ४ निम्न ५ रमयुक्तं हृदयं यस्य ६ भीम भयकर श्यामं अन्धकारयुक्तत्वान् प्रतनु सकुचित मुख यस्य
पादटिप्पण्यः (Right Column): १ अनचित्त्याने २ वायुभि ३ असख्या ४ वेणु पङ्किम् ५ वनानले
व्योमचरान्योक्तयः २२१
व्योमचरान्योक्तयः
गरुडः
दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः ।
कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १ ॥ अहि-
रहिरिति संभ्रमपदमितरजनः किमपि कातरो भवतु ।
विहँगपतेराहारे स तु सरलमृणालदलरुचिर ॥ २ ॥
हंसः
कंमारिचरणोद्गतसिन्धुकलोललालितम् । मन्ये हंस
मनो नीर कुल्याना रमते न ते ॥ ३ ॥ अस्ति यद्यपि
सर्वत्र नीर नीरजमण्डितम् । रमते न मरालस्य मानसं
मानसं विना ॥ ४ ॥ एकेन राजहंसेन या शोभा सरसो
भवेत् । न सा बकसहस्रेण परितस्तीरवासिना ॥ ५ ॥
हंस श्वेतो बक श्वेत को भेदो बकहंसयोः । नीरक्षीर-
विभागे तु हंसो हंसो बको बकः ॥ ६ ॥ बककोयष्टिभिर्जुष्टे
पल्वले मानस कुत । मोदते हि मरालस्य सन्मानसविहा-
रिण ॥ ७ ॥ अपसरणमेव शरणं मौन वा तत्र गज-
हसस्य । कटु रटति निकटवर्ती वाचाटट्टिट्टिभो यत्र ॥ ८ ॥
यदि नाम दैवगत्या जगदसरोज कदाचिदपि जातम् ।
अँचकरनिकर विकिरति तत्किं कृकवाकुरिव हंसः ॥ ९ ॥
नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वस्मिन्न-
धुनान्य कुलव्रतं पालयिष्यति क ॥ १० ॥ सैव सैव
सरसी रमणीया यत्र यत्र वलते तव राग । राजहंस
रसिक स्मरणीया श्रीमत्तो तदपि मानसकेलिः ॥ ११ ॥
गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जत ।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥ १२ ॥
कचिदेव समय समागतं त्वा न विस्मरति शश्वदम्बुजम् ।
मानसे विहर हस मानसे मा विमुञ्च पुनरस्म मौढ्यम्
॥ १३ ॥ यत्रापि कुत्रापि भवन्ति हंसा हंसा महीमण्डल-
मण्डनानि । हानिस्तु तेषा हि सरोवराणां येषां मरालै सह
विप्रयोग ॥ १४ ॥ अम्भोजिनीवनविलासमनमेव हन्त
हंसस्य हन्तु नितरां कुपितो विधाता । न त्वस्य दुग्धजल-
भेदविधिप्रसिद्धा वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १५ ॥
भृङ्गाङ्गनाजनमनोहरहारिगीत राजीवरेणुकणकीर्णपिशङ्गस्तो-
याम् । रम्या हिमाचलसदीं प्रविहाय हंस हे हे हताश वद
का दिशमुत्सुकोऽसि ॥ १६ ॥ स्थित्वा क्षण विततपक्षति-
नान्तरिक्षे मातङ्गसङ्गकलुषा नलिनी विलोक्य । उत्पन्नमन्यु-
परिघर्घरनिःस्वनेन हंसेन साक्ष परिवृत्य गतं नलिन्याः
॥ १७ ॥ रे राजहंस किमिति त्वमिहागतोऽसि योऽसौ बक.
स इह हंस इति प्रतीतः । तद्गम्यतामनुपदेन पुनः स्वभूमी
यावद्वदन्ति न बक खलु मूढलोकः ॥ १८ ॥ ये वर्धिताः
कनकपङ्कजरेणुमध्ये मन्दाकिनीविमलनीरत गङ्गे । ते
सांप्रतं विधिवशात्खलु राजहंसा शेवालजालजटिल जल-
माश्रयन्ते ॥ १९ ॥ हा हन्त मानससर मलिनावतंस रे
राजहंस पयसो प्रविवेचनाय । चेच्छक्तिमान्खलु भवान्न
तदा किमु स्यात्किवा करोतु उन या कृतवेडूयोत ॥ २० ॥
नेद सर मग्स्वति न वारिज वा नैतन्मधूनि मधुपो मह-
न्नामिनो वा । हेमाविंदुवन्दन गिल्लाममजो र हंस मान-
सजुषम्भव मानसेऽपि ॥ २१ ॥ हंस प्रयाति शनकैर्यदि
यातु तस्य नैसर्गिकी गतिरिय नहि तत्र चित्रम् । गत्या
तया जिगमिषुर्बक एव मूढश्चेतो दुनोति सकलस्य जनस्य
नूनम् ॥ २२ ॥ मुक्ता मृणालपटली भवत। निपीतान्य-
म्बूनेि यत्र नलिनानि निषेवितानि । रे गजहस वद तस्य
सरोवरस्य कृत्येन केन भवितासि कृतोपकार ॥ २३ ॥ तरौ
तीरोद्भूते कचिदपि कलच्छादिततनु पतद्भागसार। गमय
विषमा प्रावृषमिमाम । निवृत्याया तस्या मनि मरसोत्फु-
ल्लनलिने स एव त्व हंस पुनरपि मिलामास्त इह ते
॥ २४ ॥ गतं तद्गाम्भीर्य नटमपि चिन जालिकशनैः सखे
हंसोत्तिष्ठ त्वारेतममुतो गच्छ सग्स ! न यावत्पङ्कान्त कलु-
षिततनुर्भूरिवेलमद्दूकोऽसौ वाचालश्चरणयुगलं मूर्ध्नि कुरुते
॥ २५ ॥ पुग सरसि मानसे विकचमारसालिखलत्पराग-
सुरमीकृते पयसि यस्य यातं वय । स पल्वलजलेऽधुना
मिलदनेकमैकाकुले मरालकुलनायक कथय रे कथ वर्ते-
ताम ॥ २६ ॥ वातान्दोलितपङ्कजम्थितरजःपुञ्जाङ्गरागो-
ज्ज्वलो यः शृण्वन्कलकूजितं मधुलिहा सजातहर्षः पुरा ।
कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेऽप्यक्षम सोऽयं संप्रति
हसको मरुगत काँप पयो याचते ॥ २७ ॥ यो दिव्या-
म्बुजलोलमत्तमधुपप्रोद्गीतरम्य सरस्त्यक्त्वा मानससल्पवा-
रिणि रति बध्नाति कैदारिके । तस्यालीकखुखाशया परिभव-
क्रोडीकृतस्साधुना हससोपरि टिट्टिभो यदि पदं धत्तेऽत्र
को विस्मयः ॥ २८ ॥ अन्या सा सरसी मराल मुनिभिर्य-
त्सीरसोपानिकाविन्यस्तास्तिततण्डुलानकवलयन्नेष्टोऽसि हृष्टै-
र्मुखैः । एषा पक्वणवापिका कमलिनीखण्डेन गुप्तात्म-
भिर्व्याधैस्त्वाद्विधमुग्धबन्धनविधौ कं नाम नो सूच्यते
॥ २९ ॥ कस्त्व लोहितलोचनाखचरणो हंसः कुतो
मानसात्किं तत्रास्ति सुवर्णपङ्कजवनन्वान्यम्भ. सुधासंनि-
भम् । रत्नाना निचया प्रवालमणयो वैडूर्यरोगहाः कचिव्छै-
म्बूका अपि सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥ ३० ॥
य संतापमपाकरोति जगता यश्चोपकारक्षम. सर्वेषाममृता-
पादटिप्पण्यः (Footnotes)
| वामभागः | दक्षिणभागः |

| १ उदरे आहित स्थापित भुवन ब्रह्माण्ड येन | १ अल्पलाशयजले |
| २ श्रान्त | २ दर्दुरवासे |
| ३ गरुडस्य | ३ रक्तम् |
| ४ विष्णु | ४ जलशुक्तय |
| ५ कृत्रिमसरिताम् | |
| ६ मानससरोवरम् | |
| ७ सुकरसचयम् | |
| ८ ताम्रचूड | |
| ९ चातुर्यम् |