सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 313, कुल 516 में से
संदर्भ में पढ़ें२९८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
ध्वान्तं समुज्जृम्भते ॥ ३३ ॥ नाकाशं न दिशो न भूधर-
कुलं नाम्भोधयो न क्षितिर्न द्यौर्नाम्बुधरा न तीव्रकिरणा
नेन्दुर्न तारागण । एतै षट्पदकायकान्तिपटलीपाण्डित्य-
वैतण्डिकै कल्लोलैस्तमसामसाम्प्रतमयं विश्वव्ययः कल्यते
॥ ३४ ॥ एतद्व्योमवनीवराहवलयं विश्वैकवीरस्मरस्कन्धा-
वारमदान्धसिन्धुरकुलं श्यामावधूकैशिकम् । चक्षुष्यञ्जन-
वस्तु धूकमदमा विश्लिष्टचक्राद्वयस्तोमान्तर्गतधूमकेतन-
महाधूम्या तमस्तार्यते ॥ ३५ ॥ सर्वे ध्वान्तमिदं वदन्तु
बहुधा सिद्धान्त एव तु न स्वाधारेषु करेषु पुष्करमणे स्तेषु
नून शनै । अस्तालम्बतयाम्वरेण पतता ग्रस्ते समस्ते
जगत्युन्मीलत्करकन्दलैरपि विधोस्तावत्कदुत्तार्यते ॥ ३६ ॥
विश्वं चाक्षुषमस्तमस्ति हि तमःकैवल्यमौपाविकञ्चाद्यादिव्य-
वहारवीजविरहाद्द्विञ्जात्रमेव स्थितम् । गृह्लन्ते भयहेतव.
पटुभिरप्यक्षान्तर्गैरैर्भाति च ध्वान्तेनातिघनेन वस्तु वचसा
ज्ञात खरेणामुक. ॥ ३७ ॥ व्योम्नि प्राङ्गणसीम्नि साध्य-
किरण विस्तार्य चेलाञ्चल ध्वान्तै. कार्भणपासुमिश्र जगता
द्राङ् मोहयित्वा दृशौ । ताराशौक्तिकमौक्तिकानि विहग-
श्रेणीरवच्छद्मना जिजिकृत्य च मायिक खरनटो वक्राद्वहि-
र्वर्षति ॥ ३८ ॥ उत्खातच्छिन्नसध्यारुणकमलवनो व्योम-
कासारमध्य मन्ये मत्तो निशीथाद्वयवनमहिषो मङ्क्षुविक्षिप्य
निमग्न. । तत्कालोद्विद्यमान सह तनुपृथुमिस्तारकाबुद्बु-
दौघैस्तस्मादेवोज्जिहीते कलुषितभुवन भीषणो ध्वान्तपङ्क
॥ ३९ ॥ चूडारत्नै. स्फुरद्विर्षिवधरविवरण्युज्जवलानुज्जवलानि
प्रेद्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानु. । कि
चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिस्रासघट्टो-
त्पिष्टसध्यारुणनिकरपरिसर्पिनो भान्ति दीपा. ॥ ४० ॥
अभिसारिकासंचारकथनम्
मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा । गणयन्ति न
शीतोष्णं रमणाभिमुखा स्त्रियः ॥ १ ॥ मल्लिकामाल्य-
धारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्यो-
त्स्नायामभिसारिकाः ॥ २ ॥ मल्लिकाचितधम्मिल्लाश्चारुच-
न्दनचर्चिता । अविभाव्या सुख यान्ति चन्द्रिकास्वभिसा-
रिकाः ॥ ३ ॥ गर्ज वा वर्ष वा मेघ मुञ्च वा शतशोऽ-
शनिम् । न शक्या हि स्त्रियो रोद्धं प्रस्थिता दयित प्रति
॥ ४ ॥ प्राणेशमभिसरन्ती पथि स्खलन्ती सुपिच्छिले
मुग्धा । अवलम्बनाय वारा धारासु कर प्रसारयति ॥ ५ ॥
अधियामिनि गजगामिनि कामिनि सौदामिनीव य ब्रजसि ।
जलदेनेव न जाने कति कति सुकृतानि तेन विहितानि
॥ ६ ॥ जलधर निर्लज्जस्त्वं यन्मा दयितस वेश्म गच्छ
न्तीम् । स्तनितैन भीषयित्वा धाराहस्तैः परामृशसि ॥ ७ ॥
यद्वदहल्याहेतोर्मृषा वदसि शक्र गौतमोऽस्मीति । तद्वन्म-
मापि दुःखं निरवेक्ष्य निवार्यता जलद. ॥ ८ ॥ यदि गर्जति
वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषा । अयि विद्युतप्रमदाना
त्वमपि च दुख न जानासि ॥ ९ ॥ रभसादभिसर्तुमुद्यताना
वनिताना सखि वारिदो विवस्वान् । रजनी दिवसोऽन्ध-
कारमर्चिर्विपिन वेश्म विमार्ग एव मार्ग. ॥ १० ॥ चन्द्रोदये
चन्दनमङ्गकेषु विहस्य विन्यस्य विनिर्गताया । मनो निहन्तुं
मदनोऽपि वाणान्करेण कौन्दान्विमराबभूव ॥ ११ ॥
स्फुरदुरसिजभारभङ्गुराङ्गी किसलयकोमलकान्तिना पदेन ।
अथ कथय कथं सहेत गन्तु यदि न निशासु मनोरथो
रथः स्यात् ॥ १२ ॥ सचरन्ति मृगनाभिचर्चिता मेचका-
म्बरकृतावगुण्ठनाः । प्राणनाथमभिसर्तुमुद्यता सुध्रुवस्ति-
मिरदेवता इव ॥ १३ ॥ क प्रस्थितासि करभोरु घने
निशीथे प्राणाधिपो वसति यत्र मन प्रियो मे । एकाकिनी
वद कथं न बिभेषि बाले नन्वस्ति पुँङ्खितशरो मदन.
सहायः ॥ १४ ॥ मन्दं निवेहि चरणौ परिधेहि वासो नीलं
पिधेहि वलयावलिमञ्चलेन । मा जल्प साहसिनी शारद-
चन्द्रकान्तदन्ताशवस्तव तमासि समापयन्ति ॥ १५ ॥ मूढे
निरन्तरपयोधरया मयैव कान्त. सहारमते यदि कि
तवात्र । मा गर्जितैरिति मुहुर्विनिवारयन्ती मार्गं रुणद्धि
कुपितेव निशा सपत्नी ॥ १६ ॥ उरसि निहितस्तारो हार
कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहृतडिण्डिमा यदि किमपर
त्रासोत्कम्प दिशः समुदीक्षसे ॥ १७ ॥ न जल्प दशन-
त्विषा भवति ते तमिस्रक्षतिस्तरङ्गोय दृगञ्चलं भवतु तेन
गाढ तम. । अपीह सखि साध्वस पथि जहीहि निम्नोन्नते
खर समदसिन्दुर समधिरुह्य निर्गच्छसि ॥ १८ ॥ वातो-
द्धूतमुखी प्रनष्टतिलका तोयार्द्रलीनांशुका मेघाना निनदेन
भीतहृदया गत्वा प्रियस्यालयम् । द्वार नेच्छति लज्जया
प्रलपितु देहीति वर्षाहता पादौ नूपुरकर्दमप्रतिहतौ सशब्द-
यन्ती स्थिता ॥ १९ ॥ मुक्त मौक्तिकदाम हेमवलयश्रेणी
समुत्सारिता वासो नीलमूरीकृत नियमितो मञ्जीरकोलाहलः ।
गच्छन्त्यास्तव साहस न सहते तन्वङ्गि सगोपनं धम्मि-
ल्लोच्युतमल्लिकापरिमलग्रोंढो निशीथानिलः ॥ २० ॥ जाताः
प्रासादपालीकनकवलभिकान्वस्तमाणिक्यदीपच्छायाविच्छर्द-
तुच्छीकृतविरलतमा ये निशीथान्धकाराः । तेऽमी स्फारीक्रि-
यन्ते प्रतिविगिष्खमितः कान्तसकेतधावद्रामभ्रूमूक्तनेत्रोत्प-
१ दुकूलधारिण्य २ पङ्कयुक्ते
१ निबिडे २ अर्धरात्रे ३ पुङ्खिता शरा येन