भारतकोश
सूर्यसिद्धान्त (प्राचीन भारतीय खगोल गणित - सानुवाद सटीक)

सूर्यसिद्धान्त (प्राचीन भारतीय खगोल गणित - सानुवाद सटीक)

Surya Siddhanta with Hindi Mathematical Commentary

भगवान् सूर्य / मय दानव / प्रो. रामचन्द्र पाण्डेय द्वारा

DevanagariHindipublished838 पृष्ठ

पृष्ठ 832, कुल 838 में से

संदर्भ में पढ़ें
पृष्ठ 832

मानाध्याय ८०७

व्रजेतामन्धतामिस्रं गुरु शिष्यौ सुदारुणम् । ततः शान्ताय शुचये ब्राह्मणायैव दापयेत् ॥४॥ चक्रानुपातजो मध्यो मध्यवृत्तांशजः स्फुटः । कालेन दृक्समो न स्यात् ततो बीजक्रियोच्यते ॥५॥ राश्यादिरिन्दुरङ्कघ्नो भक्तो नक्षत्रकक्षया । शेषं नक्षत्रकक्षायास्त्यजेच्छेषकयोस्तयोः ॥६॥ यदल्पं तद्भूजेद्धानां कक्षया तिथिनिघ्नया । बीजं भागादिकं तत् स्यात् कारयेत् तद्धनं रवौ ॥७॥ त्रिगुणं शोधयेदिन्दौ जिनघ्नं भूमिजे क्षिपेत् । दृग्यमघ्नन्नृणं ज्ञोच्चे खरा मघ्नं गुरावृणम् ॥८॥ ऋणं व्योमनवघ्नं स्याद्दानवेज्यचलोच्चके । धनं सप्ताहतं मन्दे परिधीनामथोच्यते ॥६॥ युग्मान्तोक्ताः परिधयो ये ते नित्यं परिस्फुटाः । ओजान्तोक्तास्तु ते ज्ञेयाः परबीजेन संस्कृताः ॥१०॥ वच्मि निर्बीजकानोजपदान्ते वृत्त भागकान् । सूर्येन्द्रोर्मनवॊ दन्ता धृतितत्वकलोनिताः ॥११॥ बाणतर्का महीजस्य सौम्यस्याचल बाहवः । वाक्पतेरष्टनेत्राणि व्योमशीतांशवो भृगोः ॥१२॥ शून्यर्त्तवोऽर्कं पुत्रस्य बीजमेतेषु कारयेत् । बीजं खान्युद्धृतं शोध्यं परिध्यंशेषु भास्वतः ॥१३॥ इनाप्तं योजयेदिन्दोः कुजस्याश्वहृतं क्षिपेत् । विदश्चन्द्रहृतं योज्यं सूरेरिन्द्रहृतं धनम् ॥१४॥ धनं भृगोर्भुवा निघ्नं रविघ्नं शोधयेच्छने । एवं मान्दाः परिध्यंशाः स्फुटाः स्युर्वच्मि शीघ्रकान् ॥१५॥ भौमस्याभ्रगुणाक्षीणि बुधस्याब्धि गुणेन्दवः । बाणाक्षा देव पूज्यस्य भार्गवस्येन्दु षड्यमाः ॥१६॥ शनिश्चन्द्राब्धयः शीघ्रा ओजान्ते वीजवर्जिताः । द्विघ्नं स्वं कुज भागेषु बीजं द्विघ्नमृणं विदः ॥१७॥ अत्यष्टिघ्नं धनं सूरेरिन्दुघ्नं शोधयेत्कवेः । चन्द्रघ्नंमृणमार्कस्य स्यूरेभिर्दृक्समा ग्रहाः ॥१८॥ ‘एतद्द्रोजं मया ख्यातं प्रीत्या परमया तव । गोपनीयमिदं नित्यं नोपदेश्यं यतस्ततः ॥१९॥