तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 143, कुल 940 में से
संदर्भ में पढ़ें१३८ तैत्तिरीये आरण्यके
(१४)एतद्ध॑ स्म॒ वा आ॑हुः शाण्डि॒लाः । कम॒ग्निं चि॑नुते । स॒त्रिय॑म॒ग्निं चि॑न्वा॒नः । सं॑वत्स॒रं प्र॒त्यक्षे॑ण(१५) । (१६)कम॒ग्निं चि॑नुते । सा॒वि॒त्रम॒ग्निं चि॑न्वा॒नः । अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण(१६) । (१७)कम॒ग्निं चि॑नुते ॥ १० ॥ ना॒चि॒के॒तम॒ग्निं चि॑न्वा॒नः । प्रा॒णान् प्र॒त्यक्षे॑ण(१७) ।
अथ प्रश्नोत्तरपर्यायैः सप्तभिरारुणकेतुकस्याग्नेरधिकफलत्वं वक्तुं प्रथमं प्रश्नोत्तरपर्यायं दर्शयति । (१४)एतद्ध स्म ० प्रत्यक्षेण(१५) इति । शाण्डिलो नाम कश्चिन्महर्षिः तस्य वंशे समुत्पन्नाः सर्वे ‘शाण्डिलाः’, ते वै तदारुणकेतुकफलं निश्चितुं परस्परमेवं ‘आहुः’, ‘ह स्म वै’ इति निपातत्रयस्याप्येक एवार्थः । तत्र कैश्चिदेवं पृच्छयते । ‘सत्रियं’ सत्रे भवमग्निं, यः ‘चिनुते’, सोऽयं ‘कमग्निं’ किम्फलमग्निं, ‘चिनुते’, इति । तत्राभिज्ञैरुत्तरमुच्यते । ‘प्रत्यक्षेण’ मुख्यया वृत्त्या, ‘संवत्सरं’ संवत्सरप्राप्तिफलकमग्निं, चिनुत इत्युत्तरं ॥
अथ द्वितीयं पर्यायं दर्शयति । (१६)“कमग्निं ० अमुमादित्यं प्रत्यक्षेण”(१६) इति । अनुपचारेणादित्यप्राप्तिफलकः ‘सावित्रोऽग्निः’ ॥
तृतीयं पर्यायं दर्शयति । (१७)“कमग्निं चिनुते ० प्राणान् प्रत्यक्षेण”(१७) इति । यथा सावित्रस्यादित्यरूपत्वम् एष वाव सावित्रो य एष तपति इति श्रुत्या अवगतं । एवम्, अयं वायवः पवते, सोऽग्निर्नाचिकेत इति श्रुत्या नाचिकेतस्य वायुरूपत्वावगमात् तच्चयनेन वायुरूपप्राणप्राप्तिः ॥