तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 451, कुल 940 में से
संदर्भ में पढ़ें४१६ तैत्तिरीये आरण्यके
ग्निर॒ग्निना॑गतः॑। सं दे॒वेन॑ सवि॒त्रा। संꣳ॒सूर्य्ये॑ण रोच- ते(२) ॥ १ ॥
यति" इति। (५ प्र०। ६ अनु०। १६ म०)। 'अस्मै' यजमानार्थं, वसन्तसम्बन्धिनावृतववयवौ चैत्रवैशाखमासौ खोचितभोगप्रदा- नसमर्थौ करोति ॥
अथ ग्रीष्मर्त्तुरूपेण स्तावकं मन्त्रमाह। (२)"समग्निरग्निना- गत • संꣳसूर्य्येण रोचते"(२) इति। अग्निशब्दाभ्यामत्युष्णौ ग्रीष्मावयवौ ज्येष्ठाषाढमासौ विवक्षितौ। तत्रैक 'अग्निः' ज्येष्ठ- मासरूपः, द्वितीयेन 'अग्निना' आषाढमासरूपेण, 'सं' 'गतः' अभूत्, तदुभयमासवर्त्तिनावादित्यो सवितृसूर्य्यशब्दाभ्यां विव- क्ष्येते। अयं महावीराख्यो देवो ज्येष्ठमासे 'सवित्रा' 'सं' 'गतः' आषाढमासे 'सूर्य्येण' 'सं'-गत्य 'रोचते' ॥
अस्य मन्त्रस्य ग्रीष्मर्त्तुपरतां दर्शयति। "समग्निरग्निनाग- तेत्याह ॥ ५ ॥ ग्रैष्मावेवास्मा ऋतू कल्पयति" इति। (५ प्र०। ६ अनु०। १७ म०)। वसन्तवाक्यवद्व्याख्येयं ॥
तस्यैव* मन्त्रस्यार्थान्तरं दर्शयति। "समग्निरग्निनागतेत्याह। अग्निर्ह्यैवैषोऽग्निना सङ्गच्छते" इति। (५ प्र०। ६ अनु०। १८ म०)। 'एषः' महावीररूपः, 'अग्निः' आदित्यरूपेण 'अग्निना' सङ्ग- च्छते, इत्ययमर्थः प्रसिद्धः ॥
* अस्यैव इति तै० पु० पाठः