तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 913, कुल 940 में से
संदर्भ में पढ़ें६०२ तैत्तिरीये आरण्यके
त्यजतैव हि तज् ज्ञेयं त्यक्तुः प्रत्यक् परं पदं ॥
मुक्तेश्च बिभ्यतो देवा मोहेनापि दधुर्नरात्।
ततस्ते कर्मसुद्युक्ताः प्रावर्त्तन्ते विचक्षणाः॥
अतः मन्यस्य सर्व्वाणि कर्म्माण्यात्मावबोधतः ।
हत्वाऽविद्यां* धियैवेयात्तद्विष्णोः परमं पदं"॥
इति भालविशाखायामामनन्ति ।
"सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ।
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्युच्यते विद्वानेतरे केशधारिणः" ॥
इति आथर्व्वणिका आमनन्ति ।
"कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः ।
यज्ञं यज्ञोपवीतञ्च त्यक्त्वा गूढश्चरेन्मुनिः"॥
इति वाष्कलशाखीया आमनन्ति । सशिखान् केशान्निराकृत्य
विसृज्य यज्ञोपवीतं भूः स्वाहेति अप्सु जुहुयात् ॥
"त्रिदण्डं कुण्डिकां शिक्यं त्रिविष्टपमुपानहौ ।
शीतोपघातिनीं कन्थां कौपीनाच्छादनन्तथा † ॥
पवित्रं स्नानशाटीञ्च उत्तरासङ्गमेव च ।
यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः" ॥
* हित्वा विद्यामिति Q चिह्नितपुस्तकपाठः ।
† कौपीनस्य तु च्छादनमिति F चिह्नितपुस्तकपाठः ।