तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
६०२ तैत्तिरीये आरण्यके
त्यजतैव हि तज् ज्ञेयं त्यक्तुः प्रत्यक् परं पदं ॥
मुक्तेश्च बिभ्यतो देवा मोहेनापि दधुर्नरात्।
ततस्ते कर्मसुद्युक्ताः प्रावर्त्तन्ते विचक्षणाः॥
अतः मन्यस्य सर्व्वाणि कर्म्माण्यात्मावबोधतः ।
हत्वाऽविद्यां* धियैवेयात्तद्विष्णोः परमं पदं"॥
इति भालविशाखायामामनन्ति ।
"सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ।
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्युच्यते विद्वानेतरे केशधारिणः" ॥
इति आथर्व्वणिका आमनन्ति ।
"कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः ।
यज्ञं यज्ञोपवीतञ्च त्यक्त्वा गूढश्चरेन्मुनिः"॥
इति वाष्कलशाखीया आमनन्ति । सशिखान् केशान्निराकृत्य
विसृज्य यज्ञोपवीतं भूः स्वाहेति अप्सु जुहुयात् ॥
"त्रिदण्डं कुण्डिकां शिक्यं त्रिविष्टपमुपानहौ ।
शीतोपघातिनीं कन्थां कौपीनाच्छादनन्तथा † ॥
पवित्रं स्नानशाटीञ्च उत्तरासङ्गमेव च ।
यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः" ॥
* हित्वा विद्यामिति Q चिह्नितपुस्तकपाठः ।
† कौपीनस्य तु च्छादनमिति F चिह्नितपुस्तकपाठः ।
१० प्रपाठके ६३ अनुवाकः। ६०३
इति सन्न्यासोपनिषद्यधीयते । “अथ परिव्राड् विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति” इति जाबाला आमनन्ति । “अथ परिव्राडेकशाटीपरिवृतो मुण्डोदर-पात्रचरणनित्यो भिक्षार्थी ग्रामं प्रविशेदामयं प्रदक्षिणेना-विचिकित्सन् सार्ववर्णिकं भैक्षचरणमभिशस्तं पतितवर्जमथज्ञोप-वीतो शौचनिष्ठः काममेकं वैणवं दण्डमाददीत” इति मैत्रा-यणशाखायामभिहितं । “कन्थाकौपीनोत्तरासङ्गादीनानत्यागिनो यथा जातरूपधरा निर्ग्रन्था निष्परिग्रहाः” इति संवर्तश्रुतिः । गृहस्थो ब्रह्मचारी वानप्रस्थो वा लौकिकाग्नीनुदराग्नौ समारो-पयेत्, गायत्रीं च स्ववाचाग्नौ समारोपयेदुपवीतं भूमौ वाप्सु वा विसृजेत्” इत्यादिवारुणी श्रुतिः ॥
“यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासेन यत्नवान् ॥
एतद् द्विजन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥
यदा तु विदितं तत्त्वं परं ब्रह्म सनातनं ।
तदैकदण्डं सङ्गृह्य उपवीतं शिखान्त्यजेत्” ॥
इत्यादयः स्मृतय उदाहार्याः ।
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-रण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-मुपनिषदि त्रिषष्टितमोऽनुवाकः ॥ ६ ३ ॥
5 s
६०६ तैत्तिरीये आरण्यके
स्या॒नि य ऋ॒तव॒स्ते प॑शु॒बन्धा ये सं॑वत्स॒राश्च॑ परिवत्स॒राश्च॒ तेऽह॑र्ग॒णाः स॑र्ववेद॒सं वा ए॒तत्त्स॒त्रं यन्म॑र॒णन्तद॑वभृ॒थः^(३)। । ^(४)ए॒तद्वै ज॑रामर्यम॒ग्निहो॒त्रꣳ स॒त्रं य ए॒वं वि॒द्वानु॑दगय॑ने प्रमीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वा-
'संवत्सरपरिवत्सरेदावत्सरानुवत्सरेद्वत्सरसञ्ज्ञका द्रष्टव्याः। तथाच कालनिर्णये सङ्ग्रहकारेणोदाहृतं,
“चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे।
सम्परीदान्विदिव्येतच्छब्दपूर्वास्तु वत्सराः” इति ॥
'अहर्गणाः' द्विरात्रत्रिरात्रादयः, 'सर्ववेदसं' सर्वस्वदक्षिणकं। अत्र 'एतच्छब्देन प्रकृताहोरात्रादिपरिवत्सरान्तसर्वकालसमुपलक्षितं योगिन आयुर्विवक्ष्यते। 'यत्' आयुः, तत्सर्वदक्षिणेापेतं, 'सत्रं', इत्यर्थः॥
अस्थानुवाकस्य चतुर्थभागेन सर्वयज्ञात्मकं* योगिन उपासीनस्य कर्ममुक्तिलक्षणं† फलमाह। ^(४)“एतद्वै जरामर्यमग्निहोत्रꣳ ० महिमानमित्युपनिषत्”^(४) इति। जननमरणावधिकं यद्योगिचरितमस्ति तत् 'एतत्', वेदोक्ताग्निहोत्रादिसंवत्सरसत्रान्तकर्मस्वरूपं, इति 'एवं', 'यः' पुमान्, 'विद्वान्' उपासीनः, उत्तरायणे
* सर्वयज्ञात्मकमिति Q, चिह्नितपुस्तकपाठः।
† क्रममुक्तिलक्षणमिति F चिह्नितपुस्तकपाठः।
१० प्रपाठके ६४ अनुवाकः। ६०७
ऽऽदित्य॒स्य सायु॑ज्यङ्गच्छत्यथ॒ यो दक्षि॑णे प्रमीय॑ते पितॄणा॑मे॒व म॑हिमान॑ङ्गत्वा च॒न्द्रम॑सः सायु॑ज्यꣳ स-
म्रियते, स उपासकः 'देवानां' इन्द्रादीनां, 'महिमानं' ऐश्वर्यं, प्राप्य तदूर्ध्वम् 'आदित्यस्य', 'सायुज्यं' सहवासं, तादात्म्यं वा, भावनातारतम्येन प्राप्नोति । 'अथ' पूर्वोक्तवैलक्षण्येन, 'यः' उपासकः, 'दक्षिणायने म्रियते, स उपासकः 'पितॄणां' अग्निष्वा- त्तादीनाम्, ऐश्वर्यं प्राप्य 'चन्द्रमसः सायुज्यं', पूर्ववत् प्राप्नोति' । य एवं 'एतौ' 'सूर्याचन्द्रमसोः', 'महिमानौ', अनुभवन् 'ब्राह्मणः', तत्र सगुणब्रह्मरूपं हिरण्यगर्भं 'विद्वान्', तल्लोकवासिनामुपदेशि- नामुपासकान् 'अभिजयति' हिरण्यगर्भसाक्षात्काररूपं प्राप्नो- ति । 'तस्मात्' साक्षात्कारात्, तल्लोकवासिदेहपातादूर्ध्वं हिरण्य- गर्भलोकं गत्वा तत्र 'ब्रह्मणः' हिरण्यगर्भस्य, 'महिमानं' ऐश्वर्यं, 'प्राप्नोति' । तत्रोत्पन्नब्रह्मतत्त्वसाक्षात्कारः 'तस्मात्' ज्ञानाद् ब्रह्मलोकविनाशादूर्ध्वं, सत्यज्ञानादिलक्षणस्य 'ब्रह्मणः', 'महि- मानं' महत्त्वञ्च, प्राप्नोति । 'इत्युपनिषत्', इतिवाक्येन यथोक्त- विद्यायास्तत्प्रतिपादकग्रन्थस्य चोपसंहारः क्रियते ॥
अथ मीमांसायां तृतीयाध्यायस्य तृतीयपादे चिन्तितं, “द्वयं विद्यैका भिन्ना वा तैत्तिरीयकताण्डिनोः । मरणावभृथत्वादिमाम्यादेकेति गम्यते ॥ बहूनां रूपभेदेऽपि किञ्चित्साम्यस्य बाधनात् ।
६०८ तैत्तिरीये आरण्यके
लो॒कृता॑मा॒प्नोत्ये॒तौ वै सूर्या॑चन्द्र॒मसौ॑र्म॒हिमा॑नौ ब्रा॑-
ह्म॒णे वि॒द्वान॒भिज॑यति॒ तस्मा॑द्ब्रह्म॒णो म॑हि॒मान॑मा-
न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात् ॥
अस्ति तैत्तिरीये पुरुषविद्या, “तस्यैवं विदुषो यज्ञस्यात्मा यजमानः” इति। तथा ताण्डिनां शाखायामपि श्रूयते, “पुरुषो वाव यज्ञः” इति। सेयमेकैव* पुरुषविद्या, यन्मरणन्तदवभृथः, मरणमेवावभृथः इत्युभयत्र समानधर्मश्रवणात्, प्रातःसवनादीनाञ्च समानत्वादिति प्राप्ते ब्रूमः। वेद्यस्वरूपस्य भूयानभेद उपलभ्यते। तथाहि विदुषो यो यज्ञः तस्य यज्ञस्यात्मेति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ। अन्यथा आत्मा यजमान इति व्याघातात्। विद्वानैव यज्ञः स एव यजमान इति कथन्न व्याहन्येत। ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतं, इत्येको रूपभेदः। आत्मयजमानादिकञ्च सर्वत्र श्रुतन्ताण्डिशाखायान्नोपलभ्यते। यत्तु ताण्डिनामुपलभ्यते, त्रेधाविभक्तस्यायुषः सवनत्रयत्वम् इत्यादि, न तत् किञ्चिदपि तैत्तिरीयके पश्यामः। अतो मरणावभृथत्वाद्यल्पसाम्यबाधाद्विद्ययोर्भेद उचितः। अपिच न तैत्तिरीयाणामुपासनमिदं, किन्तर्हि ब्रह्मविद्या—प्रशंसा। तस्यैवंविदुष इति ब्रह्मविदोऽनुकर्षणात्†।
* पुरुषो वाव यज्ञ इत्येवमेकैवेति १, चिह्नितपुस्तकपाठः।
† ब्रह्मविदोऽनुक्रमणादि इति ५ चिह्नितपुस्तकपाठः।
१० प्रपाठके ६४ अनुवाकः। ६०६
प्राति॒. तस्मा॑द् ब्रह्म॑णो महिमान॑मित्युपनिषत्^(४) ॥
अनु० ६४ ॥
तस्मान्न विद्यैक्यशङ्कायामप्यवकाशोऽस्ति। एतस्मिन्ननुवाके तत्त्व-
ज्ञानिसेवानिमित्ताभिचितेत्यशेषमतिमङ्गलं ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति नारायणीये चतुःषष्टितमोऽनुवाकः ॥ ६४ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्क-
भूपालसाम्राज्यधुरन्धरेण मायणाचार्येण विरचिते माधवीये वे-
दार्थप्रकाशनामकतैत्तिरीययजुरारण्यकभाष्यं सम्पूर्णम् ॥ ० ॥
६१० तैत्तिरीये आरण्यके
[ एतदुपनिषदः प्रारम्भे भाष्यकारेण लिखितमेतत्, यदस्याः शाखाभेदेन अनुवाकसङ्ख्याभेदो वर्त्तते । तत्र द्राविडैरस्याश्चतुःषष्टिसङ्ख्याकानुवाकाः पठ्यन्ते । आन्ध्रैरस्या अशीत्यनुवाकाः, कर्णाटकैस्तुःसप्तत्यनुवाकाः, अन्यैरेकोननवत्यनुवाकाः परिपठ्यन्ते । परन्तु अस्मत्सङ्घे विभिन्नदेशसमानीते भाष्यपुस्तकत्रये चतुःषष्ट्यनुवाकपर्यन्तमेव व्याख्यानं दृश्यते । एतदेव सम्पूर्णतया वर्णितं प्रत्यक्षमुपलभ्यते । अथास्मत्सङ्घे मूलपुस्तकचतुष्टये तु अशीत्यनुवाका विन्यस्ताः । अनुवाकसङ्ग्रहेऽपि तेषामशीत्यनुवाकानामेव प्रतीकानि लिखितानि । पुनरेतेषामनुवाकानां ये अनुवाका भाष्यकारेण व्याख्याताः, न तेषु कतिपयेषु मूलपुस्तकधृतपाठक्रमस्ता जायते । कुत्रचिदनुवाकद्वयस्यैकत्वमपि प्रतिपादितम् । कुत्रचिच्चानुवाकांशीभूतकण्डिकैकाप्यनुवाकत्वेन परिगृहीता । एतदवलोक्य व्याख्यानानुरोधेनास्माभिर्भाष्यपुस्तकत्रयानुसारिणी सभाष्या निखिलापीयं मुद्रापिताऽभूत् । अथ इदानीं भाष्यकारपरित्यक्ताः कतिपयमूलानुवाका मुद्रापिता भवन्ति । मूलभाष्ययोः परस्परमनुवाकसङ्ख्याभेदज्ञानार्थं तयोरनुवाकसमन्वयतालिका मुद्रापिता भवन्ति ॥ ]
( ६११ )
| भाष्यसम्मतनानुवाकाङ्काः । | मूलपुस्तकसंम्मतानानुवाकाङ्काः । | मूलपुस्तकसंम्मतानुवाकाङ्काः । | भाष्यसम्मतनानुवाकाङ्काः । |
|---|---|---|---|
| १ . . . . . . . . . | १-२ | १ . . . . . . . . | १-१५ दशतिपर्यन्तः |
| २ . . . . . . . . . | ४ | २ . . . . . . . . | १ जातवेदसं इत्यारभ्य [शेषपर्यन्तः |
| ३ . . . . . . . . . | ३ | ३ . . . . . . . . | ३ |
| ४ . . . . . . . . . | ५ | ४ . . . . . . . . | २ |
| ५ . . . . . . . . . | ६,७ | ५ . . . . . . . . | ४ |
| ६ . . . . . . . . . | ८ | ६ . . . . . . . . | ५ कियदंशः |
| ७ . . . . . . . . . | ६ | ७ . . . . . . . . | ५ कियदंशः |
| ८ . . . . . . . . . | १० | ८ . . . . . . . . | ६ |
| ९ . . . . . . . . . | ११ | ९ . . . . . . . . | ७ |
| १० . . . . . . . . . | १२ | १० . . . . . . . . | ८ |
| ११ . . . . . . . . . | १३ | ११ . . . . . . . . | ६ |
| १२ . . . . . . . . . | २३ | १२ . . . . . . . . | १० |
| १३ . . . . . . . . . | १४ | १३ . . . . . . . . | ११ |
| १४ . . . . . . . . . | १५ | १४ . . . . . . . . | १२ |
| १५ . . . . . . . . . | ३७ | १५ . . . . . . . . | १४ |
| १६ . . . . . . . . . | २४ | १६ . . . . . . | भाष्यधृतमूले नास्ति । |
| १७ . . . . . . . . . | २५ | १७ . . . . . . . . | ४३ |
| १८ . . . . . . . . . | २२ | १८ . . . . . . . . | ४४ |
| १९ . . . . . . . . . | २६ | १९ . . . . . . . . | १५ |
| २० . . . . . . . . . | २७ | २० . . . . . . . . | १६ |
| २१ . . . . . . . . . | २८ | २१ . . . . . . . . | ४१ |
| २२ . . . . . . . . . | २६ | २२ . . . . . . . . | १८ |
| २३ . . . . . . . . . | ३० | २३ . . . . . . . . | १२ |
| २४ . . . . . . . . . | ३१ | २४ . . . . . . . . | १६ |
| २५ . . . . . . . . . | ३२ | २५ . . . . . . . . | १७ |
| २६ . . . . . . . . . | ३४,३५ कियदंशः | २६ . . . . . . . . | १६ |
| २७ . . . . . . . . . | ३५ कियदंशः | २७ . . . . . . . . | २० |
| २८ . . . . . . . . . | मूलपुस्तके नास्ति | २८ . . . . . . . . | २१ |
| २९ . . . . . . . . . | ३८ कियदंशः | २९ . . . . . . . . | २२ |
5 T
( ६१२ )
| भाष्यसम्मतनुवाकाङ्काः | मूलपुस्तक सम्मतानूवाकाङ्काः | मूलपुस्तकसंमंतानूवाकाङ्कः | भाष्यसम्मतनुवाकाङ्काः |
|---|---|---|---|
| ३० | ३६ कियदंशः | ३० | २३ |
| ३१ | ३८ कियदंशः | ३१ | २४ |
| ३२ | ३६ कियदंशः | ३२ | २५ |
| ३३ | ६६ कियदंशः | ३३ | भाष्यधृतमूले नास्ति |
| ३४ | ६६ कियदंशः | ३४ | २६ कियदंशः |
| ३५ | ६६ कियदंशः | ३५ | २६, २७ कियदंशः |
| ३६ | ७० * | ३६ | ३० कियदंशः |
| ३७ | ७४ | ३७ | १५ |
| ३८ | ७१ | ३८ | ४८ |
| ३६ | ४१ | ३६ | ४६ |
| ४० | ४२ कियदंशः | ४० | ५० कियदंशः |
| ४१ | ४२ कियदंशः | ४१ | ३६ |
| ४२ | ४३ | ४२ | ४०–४१ |
| ४३ | १७ | ४३ | ४२ |
| ४४ | १८ | ४४–६४ | भाष्यधृतमूले न सन्ति |
| ४५ | १६ | ६५ | ५१, ५२, ५३, ५४ |
| ४६ | २० | ६६ | ५५, ५६, ५७, ५८, ५६ कियदंशः |
| ४७ | २१ | ६७ | भाष्यधृतमूले नास्ति |
| ४८ | ३८ | ६८ | २६ कियदंशः |
| ४६ | ३८ | ६६ | ३२, ३३, ३४, ३५ त्यक्तातिरिक्तपदाः |
| ५० | ४० कियदंशः | ७० | ३६ * |
| ५१ | ६५ कियदंशः | ७१ | ३८ |
| ५२ | ६५ कियदंशः | ७२, ७३ | भाष्यधृतमूले न स्तः |
| ५३ | ६५ कियदंशः | ७४ | ३७ |
| ५४ | ६५ कियदंशः | ७५–७७ | भाष्यधृतमूले न सन्ति |
| ५५ | ६६ कियदंशः | ||
| ५६ | ६६ कियदंशः |
* भाष्यकारधृतं ब्रह्माणि म आत्मामृतलयेति वाक्यं मूलपुस्तके न दृश्यते ।
( ६१३ )
| भाष्यसम्मतानुवाकाङ्काः । | मूलपुस्तकसम्मतानुवाकाङ्काः । | मूलपुस्तकसम्मतानुवाकाङ्काः । | भाष्यसम्मतानुवाकाङ्काः । |
|---|---|---|---|
| ५७ . . . . . . . . . . | ६६ कियदंशः | ७८ . . . . . . . . . . | ६२ |
| ५८ . . . . . . . . . . | ६६ कियदंशः | ७९ . . . . . . . . . . | ६३ |
| ५९ . . . . . . . . . . | ६६ कियदंशः | ८० . . . . . . . . . . | ६४ |
| ६० . . . . . . . . . . | ६५ कियदंशः | ||
| ६१ . . . . . . . . . . | मूलपुस्तके नास्ति | ||
| ६२ . . . . . . . . . . | ७८ | ||
| ६३ . . . . . . . . . . | ७९ | ||
| ६४ . . . . . . . . . . | ८० |
मूलस्य पञ्चदशानुवाकात्परं योऽनुवाको वर्त्तते नैष भाष्यकारेण धृतः । तद्यथा—
निध॑नपतये॒ नम॑: । निध॑नप॒तान्ति॑काय॒ नम॑: । ऊ॒र्ध्वाय॒ नम॑: । ऊ॒र्ध्वलि॑ङ्गाय॒ नम॑: । हिर॑ण्याय॒ नम॑: । हिर॑ण्यलिङ्गाय॒ नम॑: । सु॒वर्णा॑य॒ नम॑: । सु॒वर्ण॑लिङ्गाय॒ नम॑: । दि॒व्याय॒ नम॑: । दि॒व्यलि॑ङ्गाय॒ नम॑: । भ॒वाय॒ नम॑: । भ॒वलि॑ङ्गाय॒ नम॑: । श॒र्वाय॒ नम॑: । श॒र्वलि॑ङ्गाय॒ नम॑: । शि॒वाय॒ नम॑: । शि॒वलि॑ङ्गाय॒ नम॑: । ज्व॒लाय॒ नम॑: । ज्व॒ललि॑ङ्गाय॒ नम॑: । आ॒त्माय॒ नम॑: । आ॒त्मलि॑ङ्गाय॒ नम॑: । प॒र॒माय॒ नम॑: । प॒र॒मलि॑ङ्गाय॒ नम॑: । ए॒तत् सो॑मस्य॑ सूर्य्य॑स्य॒ सर्व॑लिङ्गँ॑ स्था॒पय॑ति॒ पा॒णिमन्त्रँ॑ प॒वित्र॑म् ॥ अनु० १६ ॥
5 T 2
६१४ तैत्तिरीये आरण्यके
मूलस्य द्वात्रिंशदनुवाकात्परम् ओमित्येकाक्षरं ब्रह्मेत्यादि सायुज्यं विनियोगमित्यन्तस्त्रयस्त्रिंशदनुवाको भाष्यकारेण न धृतः। तद्यथा—
ओमित्येका॒क्षरं॒ ब्रह्म॑ । अ॒ग्निर्देवता॒ ब्रह्म॑ इत्या॒र्षम् । गाय॒त्रच्छन्दं॑ परमा॒त्मं स॒रूपं॑ । सायु॒ज्यं वि॑नि॒योगं॑ ॥ अनु० ३३ ॥
भाष्यकारस्य षड्विंशोऽनुवाको मूले चतुस्त्रिंशदनुवाकांशत्वेन पञ्चत्रिंशदनुवाकांशत्वेन च सम्पादितः। पञ्चत्रिंशानुवाकस्य ॐ भूरित्यादि शेषभागो भाष्यकारेण सप्तविंशानुवाकत्वेन निष्पादितः। तदेतदनुवाकौ पूर्णौ यथा—
आया॑तु॒ वर॑दा दे॒वी॒ अक्ष॑रं ब्रह्म॒ सम्मि॑तं । गाय॒त्री छन्द॑सां मा॒तेदं ब्रह्म॑ जु॒षस्व॑ मे । यदह्ना॑त् कुरु॑ते पा॒पं॒ तदह्ना॑त् प्रति॒मुच्य॑ते । यद्रात्र्या॑त् कुरु॑ते पा॒पं॒ तद्रात्र्या॑त् प्रति॒मुच्य॑ते । सर्व॑वर्णे म॑हादे॒वि॒ सन्ध्या॑विद्ये स॒रस्व॑ति ॥ अनु० ३४ ॥
ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि सर्वा॒युर॒भिभूरों गाय॒त्रीमावा॑हयामि सावि॒त्रीमावा॑हयामि
१० प्रपाठके ३६ अनुवाकः। ६१५
सरस्वतीमावा॑हया॒मि॒ छन्द॒र्षीनावा॑हया॒मि॒ श्रियमा- वा॑हया॒मि॒ गायत्रिया गायत्रीच्छन्दो विश्वामित्र ऋषिः स॑विता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयꣳ रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदानसमानाः सप्राणा श्वेतवर्णा साङ्ख्यायनसगोत्रा गायत्री चतुर्विꣳ- शत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः पञ्चशीर्षोपनयने वि॑नि- यो॒गः॒ ॐ॒ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यं । ॐ तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् । ओमापो॒ ज्योति॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुवरोम् ॥ अनु० ३५ ।
मूलस्य षट्त्रिंशदनुवाके, गच्छ देवि यथासुखं इति कण्डि- कायाः परम् स्तुता मयेत्यादि ब्रह्मलोकमित्यन्त एतदनुवाक- शेषद्विकण्डिकात्मकः पाठो भाष्यकारेण न धृतः । तद्यथा—
स्तु॒ता मया वरदा वेद॒माता॒ प्र॒चो॒दय॑न्ती पव॒ने द्वि- जाता । आयुः पृथिव्यां द्रविणं ब्रह्म॑व॒र्चसं॒ मह्यं दत्वा प्रजातुं ब्रह्म॑लो॒कं ॥ अनु० ३६ ॥
६१६ तैत्तिरीये आरण्यके
भाष्यस्य पञ्चाशानुवाके, अद्रिजा ऋतं बृहत् इति कण्डि- कायाः परम् ऋचे त्वेत्यादि अमृतस्य धारामित्यन्तस्तदनुवा- कान्तर्गतपाठो मूलग्रन्थस्य चत्वारिंशानुवाकान्तर्गतः । स च भाष्य- कारेण न धृतः । तद्यथा—
ऋचे त्वा॑ रुचे त्वा॒ समि॒त् स्रव॑न्ति स॒रिता॒ न धेना॑: । अ॒न्तर्हृदा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भि- चा॑कशीमि । हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसां । तस्मि॑न्- त्सुप॒र्णो मधुकृत्कुला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता॑भ्यः । तस्या॑सते॒ हर॑यः स॒प्त ती॒रे स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा॑ ।
मूलस्य त्रिचत्वारिंशदनुवाकानन्तरं चतुश्चत्वारिंशानुवाकात् चतुःषष्ट्यनुवाकपर्यन्तमेकविंशत्यनुवाकाः भाष्यकारेण न भाषि- ताः । तद्यथा—
मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ अनु० ४४ ॥
अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आग॑न् वैवस्व॒तो नो॒ अभ॑यं कृणोतु । प॒र्णं वन॒स्पते॑रि॒वाभि॑नः शीयता॒ꣳ र॒यिः सच॑तान्नः शची॒पति॑: ॥ अनु० ४५ ॥
१० प्रपाठके ५१ अनुवाकः । ९१७
परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् ॥ अनु० ४६ ॥
वातं॑ प्रा॒णं मन॑सान्वा॑रभामहे प्र॒जाप॑तिं॒ यो भुव॑नस्य गो॒पाः । स नो॑ मृ॒त्योस्त्राय॑तां पा॒त्वꣳह॑सो॒ ज्योग्जी॒वा ज॒राम॑शीमहि ॥ अनु० ४७ ॥
अमु॑त्र भूया॒दध॒ यद्यमस्य॒ बृह॑स्पते अ॒भिश॑स्तेरमु॑ञ्चः । प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॒स्मद्देवानामग्ने॑ भिष॒जा शची॑भिः ॥ अनु० ४८ ॥
हरिँ॑ꣳ हर॑न्त॒मनु॑यन्ति दे॒वा विश्व॑स्येशा॒नं वृ॑ष॒भं म॑ती॒नाम् । ब्रह्म॑ स॒रूप॒मनु॒मेद॒मागा॒दय॑नं॒ मा विव॑धी॒र्वि क्र॑मस्व ॥ अनु० ४९ ॥
शल्कै॑र॒ग्निमि॑न्धा॒न उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयो॒र्लोकयो॒र्ऋद्ध्वाति॑मृ॒त्युन्त॑राम्य॒हम् ॥ अनु० ५० ॥
मा च्छि॑दो मृत्यो॒ मा ब॑धी॒र्मा मे॒ बलं॒ विवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्रनु॒चक्ष॑सन्त्वा ह॒विर्षा॑ विधेम ॥ अनु० ५१ ॥
६१८ तैत्तिरीये आरण्यके
मा नौ॑ म॒हान्त॑मु॒त मा नौ॑ अ॒र्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तं । मा नौ॑ बधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ अनु० ५२ ॥
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मानो॑ रुद्रभामि॒तो ब॑धीर्ह॒वि- ष्म॑न्तो नम॑सा विधेम ते ॥ अनु० ५३ ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव । यत्का॑मास्ते जु॒हुमस्तन्नो॑ अस्तु व॒यᳵ स्या॑म॒- पत॑यो रयी॒णां ॥ अनु० ५४ ॥
स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्॑रः पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः ॥ अनु० ५५ ॥
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्धन॑म् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥ अनु० ५६ ॥
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ॥ अनु० ५७ ॥
१० प्रपाठके ६१ अनुवाकः । १९६
मृ॒त्यवे॒ स्वाहा॑ ऽमृ॒त्यवे॒ स्वाहा॑ ॥ अनु० ५८ ॥
दे॒वकृ॑तस्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑ । म॒नु॒ष्य॑कृ- त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑ । पि॒तृकृ॑तस्यैन॑सोऽव॒- यज॑नमसि॒ स्वाहा॑ । आ॒त्मकृ॑तस्यैन॑सोऽवयज॑नमसि॒ स्वाहा॑। अ॒न्यकृ॑तस्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑ । अ॒- स्मत्कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑। यद्दि॒वा च॒ नक्त॒ञ्चै- न॑श्चकृ॒म तस्या॑वयज॑नमसि॒ स्वाहा॑ । यत्स्व॒पन्त॑श्च॒ जा- ग्र॑तश्चैन॑श्चकृ॒म तस्या॑वयज॑नमसि॒ स्वाहा॑ । यत्सु॒षुप्त॑श्च॒ जाग्र॑तश्चैन॑श्चकृ॒म तस्या॑वयज॑नमसि॒ स्वाहा॑ । यद्विद्वाँ॒- सश्चाविद्वाँ॒सश्चैन॑श्चकृ॒म तस्या॑वयज॑नमसि॒ स्वाहा॑ । एन॑स एनसोऽवयज॑नम॑सि॒ स्वाहा॑ ॥ अनु० ५९ ॥
यदौ दे॒वाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा प्रयु॑ती दे॒वहेड॑नम् । अरा॑ वा॒यो नो॑ अ॒भिदु॑च्छुनाय ते॒ तस्मि॑- न्त्दे॒नौ वस॑वो निधै॒तन॒ स्वाहा॑ ॥ अनु० ६० ॥
कामो कार्षी॒न्नमो॒ नमः। कामो कार्षीत्कामः करो- ति नाहं करोमि कामः कर्त्ता नाहं कर्त्ता कामः कार- यिता नाहं कारयिता एष ते काम कामाय स्वाहा ॥ अनु० ६१ ॥
5 *
६२० तैत्तिरीये आरण्यके
मन्युरकार्षी॒न्नमो॒ नमः॑ । मन्युरकार्षीन्मन्युः॑ करो-
ति॒ नाहं करो॑मि मन्युः॑ कर्त्ता॒ नाहं कर्त्ता मन्युः॑ कार-
यि॒ता नाहं॑ कारयिता एष ते मन्यो॒ मन्य॑वे॒ स्वाहा॑ ॥
॥ अनु० ६२ ॥
तिला॒न् जुहो॑मि सरसाꣳ सपिष्टान् गन्धार मम चित्ते
रम॑न्तु स्वाहा॑ । गावो॒ हिर॑ण्यं धनमन्नपानꣳ सर्वेषाꣳ
श्रियै॒ स्वाहा॑ । श्रियञ्च॒ लक्ष्मीञ्च॒ पुष्टिञ्च॒ कीर्त्तिञ्चानृ॒-
ण्यतां ब्रह्म॒ण्यं बहु॑पु॒त्रतां । श्रद्धा॒मेधे प्र॒जाः सन्द॑दातु
स्वाहा॑ ॥ अनु० ६३ ॥
तिलाः कृष्णास्ति॑लाः श्वे॒तास्तिलाः सौम्या व॑शानु॒गाः ।
तिलाः पु॒नन्तु॑ मे पा॒पं यत्किञ्चिद्दुरितं म॑यि स्वाहा॑ ।
चो॒र॒स्यान्नं॑ नव॒श्राद्धं॑ ब्रह्म॒हा गु॑रुत॒ल्पगः । गोस्तेयꣳ
सु॑रा॒पानं॑ भ्रू॒णह॑त्या तिला शान्तिꣳ शमय॑न्तु स्वाहा॑ ।
श्रीश्च॒ लक्ष्मीश्च॒ पुष्टीश्च॒ कीर्त्तिञ्चानृ॒ण्यतां । ब्रह्म॒ण्यं
बहु॑पु॒त्रतां । श्रद्धा॒मेधे प्र॒ज्ञा तु जा॒तवेदः सन्द॑दातु
स्वाहा॑ ॥ अनु० ६४ ॥
१० प्रपाठके ६६ अनुवाकः। ६२१
मूलपुस्तकस्य पञ्चषष्टितमानुवाको भाष्यकारेण ५१, ५२, ५३, ५४, ६० इति पञ्चानुवाकत्वेन परिगणितः। तत्पाठक्रमोऽपि परिवर्तित्तः। अतएव स मूलपुस्तकस्य पाठक्रमेणात्र पुनर्मुद्रापितः।
प्रा॒णा॒पा॒न॒व्या॒नो॒दा॒नस॑मा॒ना मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। वाङ्मन॑श्चक्षुः॒श्रोत्र॑जि॒ह्वाघ्रा॑ण॒रेतो॒बुध्याकू॑तिः सङ्क॒ल्पा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। त्वक्च॒र्ममां॒ꣳसरु॑धिर॒मेदो॑म॒ज्जास्ना॑यवो॒ऽस्थीनि॑ मे॒ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। शिरः॑पाणिपादपा॒र्श्वपृ॒ष्ठो॒रू॒द॒रज॒ङ्घश्शि॑श्नोपस्थपायवो मे॑ शु॒ध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। उत्ति॑ष्ठ पुरुष हरित पिङ्गललोहिताक्षि दे॒हि दे॒हि द॒दाप॑यिता मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑ ॥ अनु० ६५ ॥
मूलपुस्तकस्य षट्षष्ट्यनुवाकस्य भूय्यंशो भाष्यकारेण ५५, ५६, ५७, ५८, ५९ इति पञ्चानुवाकत्वेन परिगणितः। तत्पाठक्रमोऽपि परिवर्तित्तः। अतएव स मूलपुस्तकक्रमेणात्र पुनर्मुद्रापितो भवति।
पृ॒थि॒व्याप॒स्तेजो॑वा॒युराका॑शा मे॑ शु॒ध्यन्तां॒। ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। श॒ब्दस्प॑र्शरू॒पर॑स- 5 s 2
६२२ तैत्तिरीये आरण्यके
ग॒न्धा मे॑ शुध्यन्तां॒ । ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । मनोवाक्कायक॑र्माणि मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । अव्यक्तभा॒वै॑रहङ्कारै॒र्ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । आत्मा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । अन्तरात्मा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । परमात्मा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । क्षु॒धे स्वाहा॑ । क्षुत्पि॑पासा॒य स्वाहा॑ । वि॒वित्क्यै॒ स्वाहा॑ । ऋ॒त्विग्विधानाय॒ स्वाहा॑ । क॒षोत्का॑य॒ स्वाहा॑ । क्षुत्पि॒पा॒साम॑लं ज्येष्ठाम॒लक्ष्मीं ना॑शया॒म्यहं॑ । अभू॑ति॒मसंमृ॑द्धिञ्च॒ सर्वां निर्णु॑द मे पा॒प्मानग्ँ स्वाहा॑ । अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा* मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ ॥ अनु० ६६ ॥
मूलपुस्तकस्य षट्षष्टितमानुवाकात्परम् सम्पूर्णसप्तषष्टितमोऽनुवाको भाष्यकारेण न व्याख्यातः । तद्यथा,
अ॒ग्नये॒ स्वाहा॑ । विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॑ । ध्रुवाय
* विज्ञानमयानन्दमया इति F, Q चिह्नितपुस्तकपाठः ।
१० प्रपाठके ६७ अनुवादः। १२३
भूमा॑य॒ स्वाहा॑ । ध्रु॒वक्षि॑तये॒ स्वाहा॑ । अ॒च्युत॑क्षितये॒ स्वाहा॑ । अ॒ग्नये॑ स्वि॒ष्टकृते॒ स्वाहा॑ । धर्मा॑य॒ स्वाहा॑ । अध॑र्माय॒ स्वाहा॑ । अद्भ्यः॒ स्वाहा॑ । ओष॑धिवनस्प॒तिभ्यः॒ स्वाहा॑ ॥ १ ॥
रक्षो॑देवजनेभ्यः॒ स्वाहा॑ गृ॒ह्याभ्यः॒ स्वाहा॑ । अव॑साने॑भ्यः॒ स्वाहा॑ । अव॑सानपतिभ्यः॒ स्वाहा॑ । सर्व॑भूतेभ्यः॒ स्वाहा॑ । कामा॑य॒ स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा॑ । यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नमो॑ भा॒गे यन्नाम्ने॒ स्वाहा॑ । पृथि॒व्यै स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा॑ । दि॒वे स्वाहा॑ । सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्यः॒ स्वाहा॑ । इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑ । स्व॒धा पि॒तृभ्यः॒ स्वाहा॑ । नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑ । दे॒वेभ्यः॒ स्वाहा॑ । पि॒तृभ्यः॑ स्व॒धास्तु॑ । भू॒तेभ्यो॒ नमः॑ । म॒नु॒ष्ये॑भ्यो॒ हन्ता॑ । प्र॒जाप॑तये॒ स्वाहा॑ । प॒रमे॒ष्ठिने॒ स्वाहा॑ । यथा॒ कूपः॑ श॒तधा॑रः स॒हस्र॑धारो॒ अक्षि॑तः । ए॒वामे॑ अस्तु । धान्य॑ग्ं स॒हस्र॑धारमक्षि॒तं । धने॑धा॒न्यै स्वाहा॑ । ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒ नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ । तेभ्यो॑ ब॒लिं पु॑ष्टिका॒मो ह॑रामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा॑ ॥ अनु० ६७ ॥