तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)
Taittiriya Upanishad with Shankara Bhashya
आदि शङ्कराचार्य द्वारा
स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)
२४६ तैत्तिरीयोपनिषद् [ वल्ली ३
२४६ तैत्तिरीयोपनिषद् [ वल्ली ३ चेतनावान् । अन्नस्यैव वा परा- | चेतनावान् कर्ता हूँ । अथवा परार्थ र्थस्यान्नादार्थस्य सतोऽनेकात्म- | यानी अन्नादके लिये होनेवाले अन्नका कस्य परार्थ्येन हेतुना संघात- | जो परार्थ्यरूप हेतुके कारण ही अनेकात्मक है, मैं संघात करनेवाला कृत् । त्रिरुक्तिर्विस्मयत्वख्याप- | हूँ । मूलमें जो तीन बार कहा गया है नार्था । | वह विस्मयत्व प्रकट करनेके लिये है । अहमस्मि भवामि । प्रथमजाः | मैं इस ऋत—सत्य यानी मूर्त्ता- प्रथमजः प्रथमोत्पन्न ऋतस्य | मूर्त्तरूप जगत्का 'प्रथमजा'—प्रथम सत्यस्य मूर्त्तामूर्त्तस्यास्य जगतः । | उत्पन्न होनेवाला (हिरण्यगर्भ) हूँ। देवेभ्यश्च पूर्वम् । अमृतस्य नाभि- | मैं देवताओंसे पहले होनेवाला और रमृतत्वस्य नाभिम्र्मध्यं मत्संस्र्थ- | अमृतका नाभि यानी अमरत्वका मममृतत्वं प्राणिनामित्यर्थः । | मध्य (केन्द्रस्थान) हूँ; अर्थात् प्राणियोंका अमृतत्व मेरेमें स्थित है । यः कश्चिन्मा मामन्नमन्नार्थि- | जो कोई अन्नरूप मुझे अन्नार्थियों- भ्यो ददाति प्रयच्छत्यन्नात्मना | को दान करता है अर्थात् अन्नात्म- ब्रवीति स इदित्यमेवमविनष्टं | भावसे मेरा वर्णन करता है वह इस प्रकार अविनष्ट और यथार्थ यथाभूतमावा अवतीत्यर्थः । यः | अन्नस्वरूप मेरी रक्षा करता है। पुनरन्यो मामदत्त्वार्थिभ्यः काले | किन्तु जो समय उपस्थित होनेपर प्राप्तेऽन्नमत्ति तमन्नमदन्तं भक्ष- | अन्नार्थियोंको मेरा दान न कर स्वयं ही अन्न भक्षण करता है उस यन्तं पुरुषमहमन्नमेव संप्रत्यद्मि | अन्न भक्षण करनेवाले पुरुषको मैं भक्षयामि । | अन्न ही खा जाता हूँ। अत्राहैवं तर्हि बिभेमि सर्वा- | इसपर कोई वादी कहता है— यदि ऐसी बात है तब तो मैं सर्वात्मत्वप्राप्तिरूप मोक्षसे डरता हूँ; त्मत्वप्राप्तेर्मोक्षादस्तु संसार एव | इससे तो मुझे संसारहीकी प्राप्ति CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
अनु० १० ] शाङ्करभाष्यार्थ २४७
[वाम भाग / संस्कृत मूल एवं भाष्य]
यतो मुक्तोऽप्यहमन्नभूत आद्यः स्यामन्नस्य । एवं मा भैषीः संव्यवहार- विषयत्वात्सर्वकामाशनस्य अती- त्यायं संव्यवहारविषयमन्नान्ना- दादिलक्षणमविद्याकृतं विद्यया ब्रह्मत्वमापन्नो विद्वांस्तस्य नैव द्वितीयं वस्त्वन्तरमस्ति यतो बिभेत्यतो न भेतव्यं मोक्षात् । एवं तर्हि किमिदमाह-अह- मन्नमहमन्नाद इति ? उच्यते-यो- ऽयमन्नान्नादादिलक्षणः संव्यव- हारः कार्यभूतः स संव्यवहार- मात्रमेव न परमार्थवस्तु । स एवंभूतोऽपि ब्रह्मनिमित्तो ब्रह्म- व्यतिरेकेणासन्निति कृत्वा ब्रह्म- विद्याकार्यस्य ब्रह्मभावस्य स्तुत्य- र्थमुच्यते । अहमन्नमहमन्नमह- मन्नम् । अहमन्नादोऽहमन्नादो- ऽहमन्नाद इत्यादि । अतो भया-
[दक्षिण भाग / हिन्दी अनुवाद]
हो [ यही अच्छा है ]; क्योंकि मुक्त होनेपर मैं भी अन्नभूत होकर अन्नका भक्ष्य होऊँगा । सिद्धान्ती—ऐसे मत डरो, क्योंकि सब प्रकारके भोगोंको भोगना यह तो व्यावहारिक ही है । विद्वान् तो ब्रह्मविद्याके द्वारा इस अविद्याकृत अन्न-अन्नादरूप व्यावहारिक विषय- का उल्लङ्घन कर ब्रह्मत्वको प्राप्त हो जाता है । उसके लिये कोई दूसरी वस्तु ही नहीं रहती, जिससे कि उसे भय हो । इसलिये तुझे मोक्षसे नहीं डरना चाहिये । यदि ऐसी बात है तो 'मैं अन्न हूँ, मैं अन्नाद हूँ' ऐसा क्यों कहा है--ऐसा प्रश्न होनेपर कहा जाता है-यह जो अन्न और अन्नादरूप कार्यभूत व्यवहार है वह व्यवहार- मात्र ही है—परमार्थवस्तु नहीं है । वह ऐसा होनेपर भी ब्रह्मका कार्य होनेके कारण ब्रह्मसे पृथक् असत् ही है—इस आशयको लेकर ही ब्रह्मविद्याके कार्यभूत ब्रह्मभावकी स्तुतिके लिये 'मैं अन्न हूँ, मैं अन्न हूँ, मैं अन्न हूँ; मैं अन्नाद हूँ, मैं अन्नाद हूँ, मैं अन्नाद हूँ' इत्यादि कहा जाता है । इस प्रकार अविद्याका नाश हो जानेके कारण ब्रह्मभूत
२४८ तैत्तिरीयोपनिषद् [ वल्ली ३
२४८ तैत्तिरीयोपनिषद् [ वल्ली ३
[वाम स्तम्भ / संस्कृत भाष्य]
दिदोषगन्धोऽप्यविद्यानिमित्तो- ऽविद्योच्छेदाद्ब्रह्मभूतस्य नास्तीति । अहं विश्वं समस्तं भुवनं भूतैः संभजनीयं ब्रह्मादिभिर्भवन्तीति वास्मिन्भूतानीति भुवनमभ्यभवा- मभिभवामि परेणेश्वरेण स्वरू- पेण । सुवर्न ज्योतिः सुवरा- दित्यो नकार उपमार्थे । आदित्य इव सकृद्विभातमस्मदीयं ज्योति- र्ज्योतिः प्रकाश इत्यर्थः । इति वल्लीद्वयविहितोपनिष- त्परमात्मज्ञानं तामेतां यथोक्ता- मुपनिषदं शान्तो दान्त उपरत- स्तितिक्षुः समाहितो भूत्वा भृगु- वत्तपो महदास्थाय य एवं वेद तस्येदं फलं यथोक्तमोक्ष इति ॥ ६ ॥
[दक्षिण स्तम्भ / हिन्दी अनुवाद]
विद्वान्को अविद्याके कारण होनेवाले भय आदि दोषका गन्ध भी नहीं होता । मैं अपने श्रेष्ठ ईश्वररूपसे विश्व यानी सम्पूर्ण भुवनका पराभव ( उपसंहार ) करता हूँ । जो ब्रह्मादि भूतों (प्राणियों) के द्वारा संभजनीय (भोगे जाने योग्य) है अथवा जिसमें भूत (प्राणी) होते हैं उसका नाम भुवन है। 'सुवर्न ज्योतिः'—'सुवः' आदित्यका नाम है और 'न' उपमाके लिये है; अर्थात् हमारी ज्योति—हमारा प्रकाश आदित्यके समान प्रकाशमान है। इस प्रकार इन दो वल्लियोंमें कही हुई उपनिषत् परमात्माका ज्ञान है। इस उपर्युक्त उपनिषत्को जो भृगु- के समान शान्त, दान्त, उपरत, तितिक्षु और समाहित होकर महान् तपस्या करके इस प्रकार जानता है उसे यह उपर्युक्त मोक्षरूप फल प्राप्त होता है ॥ ६ ॥
इति भृगुवल्ल्यां दशमोऽनुवाकः ॥ १० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्कर- भगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये भृगुवल्ली समाप्ता ॥ समाप्तेयं कृष्णयजुर्वेदीया तैत्तिरीयोपनिषत् ॥
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
ॐ शान्तिपाठ ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् ॥ ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥ हरिः ॐ तत्सत् ॥ तै० उ० ३२— CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
मन्त्राणां वर्णानुक्रमणिका
श्रीहरिः मन्त्राणां वर्णानुक्रमणिका मन्त्रप्रतीकानि वल्ली अनु० मं० पृ० अथाध्यात्मम् १ ३ ४ २७ अन्तेवास्युत्तररूपम् १ ३ ३ २७ अन्नं न निन्द्यात् ३ ७ १ २२६ अन्नं न परिचक्षीत ३ ८ १ २२८ अन्नं बहु कुर्वीत ३ ९ १ २२९ अन्नं ब्रह्मेति व्यजानात् ३ २ १ २१८ अन्नाद्वै प्रजाः प्रजायन्ते २ २ १ १२४ असद्वा इदमग्र आसीत् २ ७ १ १७३ असन्नेव स भवति २ ६ १ १५० अहं वृक्षस्य रेरिवा १ १० १ ६५ अहमन्नमहमन्नम् ३ १० ६ २४५ आनन्दो ब्रह्मेति व्यजानात् ३ ६ १ २२३ ऋतं च स्वाध्यायप्रवचने च १ ९ १ ६१ ओमिति ब्रह्म १ ८ १ ५७ ॐ शं नो मित्रः १ १ १ २१ कुर्वाणाचीरमात्मनः १ ४ २ ३३ तन्नम इत्युपासीत ३ १० ४ २३० देवपितृकार्याभ्याम् १ ११ २ ७० न कञ्चन वसतौ ३ १० १ २३० नो इतराणि १ ११ ३ ७० पृथिव्यन्तरिक्षम् १ ७ १ ५४ प्राणं देवा अनु प्राणन्ति २ ३ १ १३० प्राणो ब्रह्मेति व्यजानात् ३ ३ १ २२० ब्रह्मविदाप्नोति परम् २ १ १ ९७ भीषास्माद्वातः पवते २ ८ १ १८२ भूर्भुवः सुवरिति १ ५ १ ४१ CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
( २५१ ) भृगुर्वै वारुणिः ३ १ १ २१४ मनो ब्रह्मेति व्यजानात् ३ ४ १ २२१ मह इति ब्रह्म १ ५ ३ ४२ मह इत्यादित्यः १ ५ २ ४१ य एवं वेद ३ १० २ २३० यतो वाचो निवर्तन्ते २ ९ १ २०८ यतो वाचो निवर्तन्ते २ ४ १ १३८ यश इति पशुषु ३ १० ३ २३० यशो जनेऽसानि स्वाहा १ ४ ३ ३८ यच्छन्दसामृषभो विश्वरूपः १ ४ १ ३३ ये तत्र ब्राह्मणाः संमर्शिनः १ ११ ४ ७० वायुः संधानम् १ ३ २ २७ विज्ञानं ब्रह्मेति व्यजानात् ३ ५ १ २२२ विज्ञानं यज्ञं तनुते २ ५ १ १४१ वेदमनूच्याचार्यो १ ११ १ ७० शं नो मित्रः १ १२ १ ९३ शीक्षां व्याख्यास्यामः १ २ १ २५ श्रोत्रियस्य चाकामहतस्य २ ८ ३ १८२ ” ” २ ८ ४ १८३ स एको मनुष्यगन्धर्वाणाम् २ ८ २ १८२ स य एवंवित् ३ १० ५ २४१ स य एषोऽन्तर्हृदये १ ६ १ ४८ स यश्चायं पुरुषे २ ८ ५ १९१ सह नौ यशः १ ३ १ २७ सुवरित्यादित्ये १ ६ २ ४८
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
मिलनेका पता- गीताप्रेस, गोरखपुर
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri