भारतकोश
संग्रह पर लौटें

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

सहिन्दीपदकृत्यसहितः १७९ आत्ममात्रवृत्तिः । अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थिति- स्थापकः, कटादिपृथिवीवृत्तिः । इति गुणाः । पदकृत्यम् गादिवारणाय आत्मविशेषगुणोभयवृत्तिरिति । १ज्ञानादिवारणाय सामा- न्येति । द्वितीयादिपतनासमवायिकारणं वेगः । २रूपादिवारणाय द्वितीया- दिपतनेति । कालादिवारणाय असमवायीति । भावनां लक्षयति-अनुभवेति । आत्मादिवारणाय प्रथमदलम् । अनुभव- ध्वंसवारणाय द्वितीयदलम् । स्थितिस्थापकमाह-अन्यथेति । पृथिवीमात्रममवेतसंस्कारत्वव्याप्येति । भावनात्वमादाय भावनावारणाय पृथवीसमेवेतेति । ३स्थितिस्थापकरूपान्य- तरत्वमादाय रूपवारणाय जातीति । इति गुणा इति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः । द्रव्यकर्मणो- रतिव्याप्तिवारणाय विशेषणदलम् । सामान्यादावतिव्याप्तिवारणाय विशेष्यदलम् इति गुणाः । हिन्दी १. सामान्यपद न दिया जाय तो आत्मविशेषगुणवृत्ति ज्ञानत्वजातिको लेकर ज्ञानमें अतिव्याप्ति हो जायगी । इसके निवारणार्थ सामान्यपद दिया । क्योंकि सामान्य- गुण और आत्माका विशेषगुण दोनोंमें रहनेवाली एकमात्र संस्कारत्व ही जाति है, ज्ञानत्व आदि नहीं । २ केवल असमवायिकारण रूपादि भी है, उसके वारणके लिये "द्वितीयादिपतन" इतनेका निवेश किया । ३. स्थितिस्थापकका लक्षण है- पृथिवीमात्रमें समवायसम्बन्धसे रहता हुआ संस्कारत्वव्याप्यजाति (स्थितिस्थापकत्व) मान् जो हो, उसे स्थितिस्थापक संस्कार कहते हैं । इस लक्षणमें "संस्कारत्वव्याप्य" न कहा जाय तो गन्धमें अतिव्याप्ति हो जायगी । क्योंकि गन्ध पृथिवीमात्रमें समवेत भी है और गन्धत्वजातिमान् भी हैं । उक्त विशेषण देनेसे अतिव्याप्ति नहीं हुई । क्योंकि गन्धत्वजाति संस्कारत्वव्याप्य नही है । आत्मामें समवेत भावनामें अतिव्याप्तिवारणार्थ 'पृथिवीसमवेत' पद दिया । एवं स्थितिस्थापक तथा रूपगत अन्यतरत्वधर्म भी संस्कारत्वव्याप्य है, अतः अन्यतरत्वधर्मवाले रूपमें भी स्थितिस्थापकका लक्षण चला जायगा, अतः इसे वारण करनेके लिये जाति पद दिया । यहाँ अन्यतरत्व जाति नहीं है। यहाँ व्याप्यत्वका अभि- प्रेत अर्थ है - न्यूनवृत्तित्व । क्योंकि अतिरिक्तवृत्तित्वरूप संस्कारत्वव्याप्यत्व उक्त

१८० तर्कसंग्रहः [ अवशिष्टपरिच्छेदः अथ कर्मादिलक्षणप्रकरणम्— कर्मणः किं लक्षणम् ?— चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदे- शसंयोगहेतुरपक्षेपणम् । शरीरस्य सन्निकृष्टसंयोगहेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् । सामान्यस्य किं लक्षणम् ?— नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । परं सत्ता, अपरं द्रव्यत्वादि । विशेषाणां किं लक्षणम् ?— नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः । पदकृत्यम् चलनेति । संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म । १हस्त- पुस्तकसंयोगवारणाय सत्यन्तम् । घटादिवारणाय विशेष्यदलम् । ऊर्ध्वेति । अपक्षेपणवारणाय ऊर्ध्वेति । कालादिवारणाय असाधारणेत्यपि बोध्यम् । अधोदेशेति । उत्क्षेपणवारणाय अधोदेशेति । कालादिवारणाय असाधारणे- त्यपि देयम् । शरीरेति । प्रसारणादिवारणाय सन्निकृष्टेति । कालादि- वारणाय असाधारणपदमप्यावश्यकम् । नित्यमिति । संयोगादिवारणाय नित्यमिति । कालादिपरिमाणवारणाय अनेकेति । अनेकानुगतत्वम् च समवायेन बोध्यम्, तेन नात्यन्ताभावेऽति- व्याप्तिः । नित्यद्रव्यवृत्तय इति । घटत्वादिवारणाय नित्यद्रव्यवृत्तय इति । २आत्मत्वमनस्त्ववारणाय आत्मत्वमनस्त्वभिन्ना इत्यपि बोध्यम् । हिन्दी अन्यतरत्वमें नहीं जायगा । कारण, संस्कारत्वसे शून्य रूपमें रहनेवाला अन्यतरत्वधर्म अतिरिक्तवृत्ति होनेसे व्याप्य नही बन सकेगा तथा इसे लेकर अतिव्याप्ति देना असंगत हो जायगा । १. हस्तपुस्तकसंयोग भी शरीरपुस्तकसंयोगके प्रति असमवायिकारण है । इसमें कर्मलक्षण न जाय, इसके लिये 'संयोगभिन्नत्वे सति' विशेषण दिया । २. आत्मत्व-मनस्त्व भी नित्यद्रव्यवृत्ति है, अतः इनमें विशेषका लक्षण न जाय, इसलिये "आत्मत्व-मनस्त्वभिन्नाः" यह भी विशेषके लक्षणमें जोड़ देना चाहिये ।

सहिन्दीपदकृत्यसहितः १८१ समवायस्य किं लक्षणम् ? — नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथा- अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति। प्रागभावस्य किं लक्षणम् ? — अनादिः सान्तः प्रागभावः, उत्पत्तेः पूर्वं कार्यस्य। प्रध्वंसस्य किं लक्षणम् ? — सादिरनन्तः प्रध्वंसः, उत्पत्त्यनन्तरं कार्यस्य। अत्यन्ताभावस्य किं लक्षणम् ? — त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा- भूतले घटो नास्तीति। पदकृत्यम् नित्येति। आकाशादिवारणाय सम्बन्ध इति। संयोगवारणाय नित्येति। स्वरूपसम्बन्धवारणाय तद्भिन्न इत्यपि बोध्यम्। प्रागभावं लक्षयति —अनादिरिति। घटादिवारणाय प्रथमदलम्। परमाणुवारणाय द्वितीयदलम्। पुनः प्रागभावः कस्मिन्कालेऽस्तीत्यत आह- उत्पत्तेरिति। १कार्यस्योत्पत्तेः प्राक् स्वप्रतियोगिसमवायिकारणे वर्तते इत्यर्थः। ध्वंसं लक्षयति—सादिरिति। घटादिवारणाय अनन्त इति। आत्मादि- वारणाय सादिरिति। उत्पत्तीति। २कार्यस्योत्पत्त्यनन्तरं स्वप्रतियोगिसम- वायिकारणवृत्तिरित्यर्थः। स च 'ध्वस्तः' इति प्रत्ययविषयः। अत्यन्ताभावं लक्षयति—त्रैकालिकेति। त्रैकालिकत्वे सति संसर्गा- वच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। ध्वंसप्रागभाववारणाय त्रैकालिकेति। भेदवारणाय ३संसर्गेत्यादि। हिन्दी १. घटरूपकार्यका प्रागभाव घटोत्पत्तिक पूर्व स्वप्रतियोगीभूत जो घट, उसके समवायिकरणमें अर्थात् कपाल में रहता है। २. घटध्वंस भी घटोत्पत्ति के अनन्तर होता है और स्वप्रतियोगीभूत घटके समवायिकरण कपाल में रहता है। ३. यहाँ संसर्गपद तादात्म्यसे अतिरिक्त सम्बन्धपरक होने से तादात्म्यसम्बन्धाव- च्छिन्नप्रतियोगिताकभेदका वारण हो गया। ध्वंस और प्रागभावकी प्रतियोगिता

१८४ तर्कसंग्रहः [ अवशिष्टपरिच्छेदः सगुणोपासना एवं काशीमरणादिको मुक्तिका हेतु कहा गया है, किन्तु वह भी तत्त्व- ज्ञानके द्वारा ही मुक्तिका हेतु है, साक्षात् नहीं । इसीलिए काशीमें परमेश्वर तारक- मन्त्रका उपदेश देते हैं । वह तारकमन्त्र तत्त्वज्ञान ही है । इति शिवम् । टिप्पणी पदकृत्यस्य गूढभावावबोधिनी । मया संयोजिता नूनं छात्राणां हितमावहेत् ॥ इति न्यायवेदान्तसांख्ययोगाचार्यश्रीकेदारनाथत्रिपाठिविरचिता तर्कसंग्रहपदकृत्यस्य हिन्दीटिप्पणी समाप्ता । —:०:—