वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 122, कुल 192 में से
संदर्भ में पढ़ेंकैश्चित् यथा जपाकुसुमरूपानुरक्त एव स्फटिकादिर्गृह्यते तथा ध्वनिरूपानु- रक्त एव स्फोटो गृह्यते इति स्फोटरूपाविभागेन ताल्यादिकरणाभिघातजन्यध्वन्य- भिव्यङ्ग्यस्फोटस्वरूपाभेदेन ध्वनेः प्राकृतध्वनेः ग्रहणं प्रतिपत्तिः इष्यते स्वीक्रियते । कुछ लोगों का मत है कि—स्फोट और प्राकृतध्वनि का ज्ञान एक रूप (अभेद रूप) से होता है। तेषामिदमाकूतम्—यथा प्रभाकरादिकारणजन्यालोकाभिव्यङ्ग्यस्तम्भरूपावि- भागेन आलोकस्य प्रतिपत्तिर्भवति नालोको न वा स्तम्भः परस्परं विभागेन ग्रहीतुं शक्यते तथापि प्रभाकरजन्य आलोकः काष्ठादिजन्यस्तु स्तम्भादिरिति तयोर्भेदो व्यवस्थाप्यते । तथा ताल्यादिकारणजन्यध्वन्यभिव्यङ्ग्यस्फोटरूपाविभागेन ध्वने- र्प्रतिपत्तिर्भवति न ध्वनिनीपि स्फोटः परस्परं विभागेन ग्रहीतुं शक्यते तथापि ताल्वा- दिकारणजन्यो ध्वनिः नित्यत्वादकार्य