वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
कैश्चित् यथा जपाकुसुमरूपानुरक्त एव स्फटिकादिर्गृह्यते तथा ध्वनिरूपानु- रक्त एव स्फोटो गृह्यते इति स्फोटरूपाविभागेन ताल्यादिकरणाभिघातजन्यध्वन्य- भिव्यङ्ग्यस्फोटस्वरूपाभेदेन ध्वनेः प्राकृतध्वनेः ग्रहणं प्रतिपत्तिः इष्यते स्वीक्रियते । कुछ लोगों का मत है कि—स्फोट और प्राकृतध्वनि का ज्ञान एक रूप (अभेद रूप) से होता है। तेषामिदमाकूतम्—यथा प्रभाकरादिकारणजन्यालोकाभिव्यङ्ग्यस्तम्भरूपावि- भागेन आलोकस्य प्रतिपत्तिर्भवति नालोको न वा स्तम्भः परस्परं विभागेन ग्रहीतुं शक्यते तथापि प्रभाकरजन्य आलोकः काष्ठादिजन्यस्तु स्तम्भादिरिति तयोर्भेदो व्यवस्थाप्यते । तथा ताल्यादिकारणजन्यध्वन्यभिव्यङ्ग्यस्फोटरूपाविभागेन ध्वने- र्प्रतिपत्तिर्भवति न ध्वनिनीपि स्फोटः परस्परं विभागेन ग्रहीतुं शक्यते तथापि ताल्वा- दिकारणजन्यो ध्वनिः नित्यत्वादकार्य
६४ वाक्यपदीयम् अन्यैः दूरादुपलब्धौ स्वतन्त्रः शुद्धः स्फोटामिश्रितः ध्वनिः १ प्रकल्पितः इष्यते केवलॊ ध्वनिरेव गृह्यते वैयाकरणैः शब्दविशेषो ध्वनिर्न वायवो वायुसंयोगा वा इत्यभ्युपगमेन ध्वनेः श्रोत्रत्वात्। तदुक्तं श्लोकवार्तिके ‘ननु यस्य द्वयं श्रोत्रं तस्य बुद्धिद्वयं भवेत्’ इति। यस्य-वैयाकरणस्य, द्वयं ध्वनिः स्फोटश्च, श्रोत्रं व्यङ्ग्यं व्यञ्जकं च श्रोत्रग्राह्यम् इत्यर्थः ॥ दूसरे लोगों का मत है कि—ध्वनि असंवेद्य है (अर्थात् अज्ञेय है) और उसकी अनुमान द्वारा प्रतीति होती है और तीसरा मत है कि स्फोट से अमिश्रित (अर्थात् पृथक्) ध्वनि का स्वतन्त्र रूप से ग्रहण होता है। स्पष्टश्चायं पक्षः तपरसूत्रे ‘ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते। अल्पो महांश्च केषांचिदुभयं तत्स्वभावतः॥’ इति ग्रन्थेन भाष्ये। ध्वनिः स्फोटश्चेति = व्यञ्ज- को व्यङ्ग्यश्चेत्यर्थः। शब्दानां व्यङ्ग्यानां संबन्धी व्यञ्जकत्वेन यो ध्वनिः स एव महानल्पश्च लक्ष्यते व्यङ्ग्यस्त्वभिन्नकाल एवेत्यर्थः। उभयमिति। व्यङ्ग्यो व्यञ्जकश्च प्रमाणेन स्व- भावतः सिद्धावित्यर्थः। केषांचिदिति। व्यक्तानामुभयं गृह्यते अव्यक्तानां तु ध्वनिरेव इति प्रदीपः। अत्रोद्योतः ‘उभयमित्यावृत्त्या २ योजनीयम् उभयं गृह्णत इति शेषः। तेन व्यक्तवाचामुभयम् ३ अव्यक्तवाचां वर्णधर्मानाक्रान्तध्वनिरेवेत्यर्थः। ध्व- निपदेन प्राकृतवैकृतानुभावपि उच्येते। ग्रहणकर्मभूतमुभयं तु प्राकृतध्वनिस्फोटरूपम्। वैकृतस्याल्पत्वादि चिराचिरोपलब्ध्यनुमेयमिति बोध्यम्’ इति॥ तदयं निष्कर्षः—ध्वनिः केवलमगृह्यमाणोऽपि स्फोटोपश्लिष्टः गृह्यते इत्येके। ध्वनिर्न गृह्यते तद्रूपरूपितं स्फोटमात्रं तु गृह्यते इत्यपरे। अव्यक्तानां ध्वनिरेव व्यक्तानां तूभयम् गृह्यते इत्यन्ये। केचित्तु ‘स्वतन्त्रोऽन्यैः प्रकाशक’ इति पाठमभिप्रेत्य तस्य दूरत्वदोषात्स्फोट- स्वरूपानवधारणे केवलॊ ध्वनिरुपलभ्यते तत्रापि स्फोटो भासत एव किन्तु दूरत्वदोषा- दस्फुटः यथा दूरत्वदोषात् प्रकाश्यमानस्यापि चन्द्रमसोऽल्पपरिमाणतया ग्रहणमित्यर्थं संगिरन्ते ॥ ८१ ॥ इनमें दूसरे मत का तात्पर्य यह है कि जैसे इन्द्रियों से विषय का ज्ञान होता है किन्तु इन्द्रियों का प्रत्यक्ष नहीं होता और विषय प्रतीति किससे होती है इस जिज्ञासा की निवृत्ति के लिए इन्द्रिय का अनुमान करना पड़ता है, वैसे स्फोट की प्रतीति के कारण की कल्पना में अन्यथाऽनुपपत्ति से अपरोक्ष ध्वनि का अनुमान करते हैं। १. स्याद्वादरत्नाकरकारास्तु—यदा केवलरणरणायितादिकरणेनाकारादिविशेषावगमः तदा स्वतन्त्रो ध्वनिः प्रतीयते ककारादिषु व्यक्तवर्णप्रतीतौ तु स्फोटे संसृष्टः प्रतीयते इति व्याचक्षते। २. एकस्य उभयं वर्त्तते इत्यर्थः अपरस्य उभयं गृह्णत इत्यर्थः। ३. वायुगुणो ध्वनिः वायो कर्णविवरं प्राप्ते समुत्पन्नभवादेन श्रोत्रं संस्कृत्य तेन गृह्यमाणः कदाचिद्वर्णरहितः केवलॊ गृह्यते कदाचिद्वर्णानभिव्यञ्जन् तदुपश्लिष्टः प्रतीयते प्रभास्वरूपवत् अस्ति हि वर्णोच्चारणे ध्वन्युपलब्धिः दूरादिमित्रेषु वर्णरहितध्वन्युपलब्धिदर्शनात्।
ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ६५ तीसरे मत का तात्पर्य यह है कि अव्यक्त शब्दों की ध्वनि ही गृहीत होती है और व्यक्त की ध्वनि के साथ स्फोट भी गृहीत होता है ॥ ८१ ॥ ननु एको ध्वनिर्न स्फोटाभिव्यक्तिसमर्थः द्वितीयध्वन्युच्चारणानर्थक्यापातात् न ध्वनिसमुदायः ध्वनीनामुत्पन्नप्रध्वंसितया समुदायाभावात् किन्तु पूर्वपूर्वध्वनिजनि- ताभिः स्वजन्यसंस्कारद्वारा करणभूताभिर्बुद्धिभिः सहकृतेनान्त्यध्वनिना स्फोटः स्फुटं प्रकाशत इत्यत्र दृष्टान्तमाह— एक ही ध्वनि स्फोट को व्यक्त करने में समर्थ नहीं हो सकती क्यों कि दूसरी ध्वनियों व्यर्थ हो जायगी । ध्वनि समुदाय भी स्फोट को व्यक्त नहीं कर सकता क्यों कि ध्वनियाँ उत्पन्न और नष्ट होती हैं फिर समुदाय मिल नहीं सकता फिर भी ध्वनि से स्फोट का ग्रहण होता है ? यथाऽनुवाकः श्लोको वा सोढत्वमुपगच्छति । आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ ८२ ॥ यथा अनुवाकः मन्त्रसमूहः श्लोको वा आवृत्त्या चरमावृत्त्या पुनः पुनराव- र्त्तनेनेति वा अस्मिन्पक्षे आवृत्त्येति जातावेकवचनम् सोढत्वं सोढुं शक्यत्वं स्वीकार्य- त्वं गुरूच्चारणानुच्चारणमन्तरापि स्वेच्छया पठनयोग्यताम् उपगच्छति प्रत्यावृत्ति तु सः अनुवाकरूपः श्लोकरूपो वा ग्रन्थः न निरूप्यते न बुद्धिविषयो भवति न सोढत्वं यातीति यावत् प्रथमाद्यावर्त्तने श्लोकस्य स्फुटावभासाभावेऽपि अने- कावृत्तौ स्फुटावभासो भवति । एवं प्रत्येकं ध्वनिभिः स्फोटस्य स्फुटावभासाभावेऽपि चरमवर्णध्वनिना स्फुटावभासो भवतीति भावः ॥ ८२ ॥ जैसे मन्त्रों का समूह या एक श्लोक बार बार पढ़ने के बाद ( बिना किसी सहायता के ) पढ़ने योग्य हो जाता है । किन्तु प्रत्येक आवृत्ति में वह बुद्धि का विषय या पढ़ने योग्य नहीं बनता ॥ ८२ ॥ दार्ष्टान्तिकमाह— प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा । ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥ ८३ ॥ तथा अनुपाख्येयैः प्रत्येकं स्फुटं स्फोटाप्रकाशतया इदं तदित्यव्यपदेश्यैः तथापि ग्रहणानुगुणैः अन्त्यध्वनिजन्यव्यक्तस्फोटग्रहणोन्मुखैः प्रत्ययैः पूर्व- पूर्वध्वनिजनितबुद्धिभिः सह ध्वनिप्रकाशिते अन्त्यध्वनिना प्रकाशिते शब्दे स्वरूपं स्वाभाविकं रूपम् अक्रमस्फोटस्वरूपम् अवधार्यते स्फुटं निश्चीयते ॥ जैसे प्रत्येक ध्वनि स्पष्ट रूप से स्फोट की प्रकाशिका नहीं है किन्तु स्फोट के ग्रहण के लिए उन्मुख पूर्व पूर्व ध्वनियों से जन्य बुद्धि के साथ अन्त्य ध्वनि से प्रकाशित शब्द में जब स्फोट का स्पष्ट स्वरूप प्रकाशित होता है तब स्फोट का रूप हम समझ लेते हैं । एतदुक्तं भवति-यथा प्रत्येकमावृत्तिभिः श्लोकः स्फुटनवभास्यमानोऽपि चर-
विकलं (कृत्स्नं) स्फोटमभिव्यञ्जन्ति न चेतरध्वनिवैयर्थ्यम् अभिव्यक्तिभेदात्।" Wait, look at the footnote callout: "तथाहि¹" -> footnote 1 is on तथाहि! Let's check line 11: "तथाहि¹ सर्वान्तिमात्प्राग्भाविनो ध्वनयोऽनुपजातसंस्कारविशेषस्य प्रतिपत्तुर्व्यक्त-"
Line 12: "पदग्रहणसमर्थाः सर्वान्तिमध्वनिजनिप्यमाणव्यक्तरपदग्रहणानुगुणसंस्कारोत्पादिकाः" Wait, "जनिप्यमाण"? No, 'ष': "जनिष्यमाण"! Wait, look at "व्यक्तरपद" or "व्यक्ततरपद"? In line 12: "...ध्वनिजनिष्यमाणव्यक्ततरपदग्रहणानुगुण..." Wait, is there a 'त'? Let's check: "जनिष्यमाणव्यक्ततरपदग्रहणानुगुणसंस्कारोत्पादिकाः" or "जनिष्यमाणव्यक्तरपद..."? Look at line 12: "सर्वान्तिमध्वनिजनिष्यमाणव्यक्ततरपदग्रहणानुगुणसंस्कारोत्पादिकाः" -> wait, 'व्यक्त' then 'तर': Look at 'व्य' 'क्' 'त' 'त' 'र' - yes, 'व्यक्ततर'!
Line 13: "बु
ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ६७ पूर्वोक्तं शब्दस्वरूपावधारणं स्पष्टयति— इसे ही स्पष्ट करते हैं— नादैराहितबीजायामन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ ८४ ॥ नादैः पूर्वपूर्वध्वनिभिः आहितबीजायाम् आहितं समर्पितं बीजं भावना य- स्यां सा तस्याम् आवृत्तपरिपाकायाम् आवृत्तोऽभ्यस्तः परिपाको यस्याः सा तस्यां आवृत्तोऽवधारणविषयभूतस्य गवादिकवाक्यस्य परिपाकः परिपाचनं यस्यामिति वा प्रथमेन ध्वनिना किञ्चिद्भावनाबीजमाहितं तेन च कश्चित् परिपाकः कार्यजननशक्तिविशेषः आ- हितः पुनर्द्वितीयेन एवं तृतीयेन ध्वनिना ततः उद्बुद्धसंस्कारायां बुद्धौ अन्तःकरणे अन्त्येन ध्वनिना सह अन्त्यध्वन्यवधारणसमकालं शब्दोऽवधार्यते यदाऽन्त्यो- ध्वनिरवधार्यते तदा गौरित्येवं शब्दोऽप्यवधार्यत इत्यर्थः । उत्तरोत्तरवर्णोपलब्धिवेला- यामपि पूर्वपूर्ववर्णाः स्मृत्याऽनुसंधीयन्ते तेनाश्रुतदर्शनोपलक्षणेऽपि पूर्वे स्मर्यन्ते तेन चेयं सद्भूतावस्थवर्णविषये प्रत्यक्षा पूर्वेषु चातीतेषु स्मृतिरूपा इति प्रत्यक्षस्मरणात्मिकाचित्र- रूपा बुद्धिः सा च 'चित्ररूपां च तां बुद्धिमाश्रितानेकगोचराम्' इति श्लोकवार्त्तिके उक्ता तया बुद्ध्या गौरित्येवं गकारादिविलक्षणं शब्दाख्यं तत्त्वं प्रत्यक्षमवगम्यते इति भावः । इसी प्रकार नाद (पूर्व पूर्वध्वनि) से ध्वनि में एक प्रकार की भावना उत्पन्न होती है फिर आवृत्ति से उनमें कार्य उत्पन्न करने की शक्ति आती है इस प्रकार उद्बुद्ध संस्कार वाली बुद्धि में अन्त्यध्वनि के साथ शब्द का ज्ञान ठीक रूप से होता है ॥ तात्पर्य यह है कि किसी वाक्य के उच्चारण में जब तक अन्तिम वर्ण नहीं उच्चरित होता तब तक वाक्यार्थ बोध नहीं हो सकता किन्तु अन्तिम वर्ण तक पूर्वपूर्व ध्वनियों का अदर्शन हो जाता है। अतः शब्द का अवधारण करने के लिये मानना पड़ता है कि नाद (पूर्वपूर्व ध्वनि) से एक भावना बीज सन्नद्ध होता है इससे एक प्रकार का परिपाक (कार्यजनन शक्ति विशेष) उत्पन्न होता है इसी प्रकार द्वितीय और तृतीय ध्वनि से भी भावना बीज और परिपाक की उत्पत्ति होती है फिर संस्कार के उद्बुद्ध हो जाने पर अन्तःकरण में अन्तिम ध्वनि के अव- धारण के साथ साथ शब्द का भी अवधारण हो जाता है। इस प्रकार उत्तर उत्तर के वर्णों की अवधारण वेला में भी पूर्वपूर्व वर्णों की स्मृति का अनुसंधान बना रहता है इसलिये अन्तिम वर्ण के उपलब्धि काल में पूर्व पूर्व ध्वनियों स्मृति में बनी रहती है। जिससे यह अन्तिम वर्ण के विषय में प्रत्यक्ष और पूर्वपूर्व वर्णों के विषय में स्मृतिरूप है। अतः प्रत्यक्ष और स्मरणा- त्मक होने से चित्ररूपा बुद्धि से गौः इस प्रकार का गकार, औकार और विसर्ग से विलक्षण शब्दान्तर का प्रत्यक्ष हो जाता है ॥ ८४ ॥ यद्वा अन्त्येन ध्वनिना सह नादैः पूर्वपूर्वध्वनिभिः आहितबीजायां बुद्धौ पश्चिमव्यङ्ग्यनन्तरं शब्दः 'गौः इत्येकं पदम्' इति अवधार्यते इत्यर्थः । इदं चावधा- रणं समस्तवर्णविषयं स्मरणरूपम् । यदाहुः श्लोकवार्त्तिककारा — 'अन्त्यवर्णोऽपि विज्ञाते पूर्वसंस्कारकारितम् । स्मरणं यौगपद्येन सर्वेष्वप्येव प्रवृत्तते । गौरित्येवं-
६८ वाक्यपदीयम् र्थेषु मानसं सर्ववादिनाम् । इति परमार्थस्तु प्रत्यक्षज्ञानमेवेदं न स्मरणं ध्वनिसंस्कृ- तश्रोत्रेन्द्रियजन्यत्वात् अन्यथा शब्दस्य स्फुटप्रकाशो नोपपद्येतेति मन्तव्यम् ॥ यद्यपि पूर्वं क्रमेण ज्ञानं जातं तथापि अन्तिमध्वनिज्ञानानन्तरं समुदायात्मकं सर्व- वस्तुविषयं ज्ञानं भवति। न चैवं सरो रस इत्यादावविशेषप्रसङ्गः; उपलब्धिक्रमारोपेण क्रमवन्तो ध्वनयः प्रतीताः पश्चाद्युगपत्स्मर्यमाणा अपि तत्क्रमेण स्मृताः स्फोटमव- बोधयन्तीति । अथवा—अन्तिमध्वनि के साथ नाद ( पूर्व पूर्वध्वनि ) से उत्पन्न भावना वाली बुद्धि में अन्तिमध्वनि के बाद 'गो' इस शब्द का निर्णय होता है। इस मत में केवल स्मरण के द्वारा ही शब्द का अवधारण होता है । नादो नाम वर्णानतिरिक्तो वर्णव्यञ्जको वायवीयाः संयोगविभागाः संयोगविभाग- विशिष्टा वायवो वा 'वायवीयाः संयोगविभागाः
ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ६६ त्येतदेकं पदमिति तया पदं गृह्यते' इति वाचस्पतिमिश्रलेखात् 'शब्दार्थप्रत्या- यानाम्' इति योगसूत्रव्याख्यावसरे 'स च वर्णरूपोऽप्यवाचकत्वाद् ध्वनिरित्युच्यते' इति 'नादाख्यगकारादिवर्णान्' इति च नागेशभट्टलेखात् 'शब्दश्च वायुगुणो ना- काशगुणः अत एव भाष्ये आकाशदेशः शब्द इत्युक्तमिति' मञ्जूषायां निरूपितत्वा- श्चावगम्यते। ध्वनिः शब्दरूपता च 'अथ वा प्रतीतपदार्थको लोके ध्वनिः शब्द इत्युच्यते' इति महाभाष्ये उक्ता। 'बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्य- ञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृत' इति काव्यप्रकाशकृता। 'ननु यस्य द्वयं श्रोत्रं तस्य बुद्धिद्वयं भवेत्' इति भर्तृशारिकारिकाव्याख्यावसरे तत्त्वसंग्रहटीकायां पञ्जि- काख्यायां 'यस्य-वैयाकरणादेर्घोषात्मको ध्वनिर्व्यञ्जको नतु वायवीयसंयोगविभागा- त्मक' इति कमलशीलेन चानूदिता ॥ ८४ ॥ ननु यदि ध्वनिभागाः प्रत्येकं कृत्स्नमेव शब्दं व्यञ्जयन्ति तर्हि वर्णेषु वर्णावय- वाः पदे वर्णा वाक्ये पदानि च कथमवभासन्ते तत्र तेषां तदभिव्यञ्जकध्वनीनां चा- भावादत आह— यद्यपि ध्वनियाँ पूर्ण शब्द को व्यक्त करती हैं तथापि वर्णों में वर्णावयव, पदों में वर्ण और वाक्य में पदों की प्रतीति होती है, क्योंकि— असतश्चान्तराले याञ्छब्दानस्तीति मन्यते । प्रतिपत्तुराशक्तिः सा ग्रहणोपाय एव सः ॥ ८५ ॥ अन्तराले—ध्वन्युत्पत्तिस्फुटशब्दग्रहणयोर्मध्ये निर्भागेषु अक्रमेषु वर्णपदवाक्येषु ध्वनिभिरभिव्यज्यमानेषु वर्णे वर्णावयवरूपाः पदे वर्णरूपाः वाक्ये पदमुरूपाः बुद्धयो जायन्ते ताभिश्च बुद्धिभिः प्रतिपत्ता भागभूतान् असतः वर्णे पदे वाक्ये च अविद्यमानान् तान् शब्दान् वर्णावयवान् पदानि च अस्तीति मन्यते सा प्रति- पत्तुराशक्तिः असामर्थ्यम् तैः शब्दैरनेकांशस्फोटग्रहणाक्षमता तादृशाश्चान्तराले शब्दा- भिमानाः। न च ते वस्तुतः सन्ति किन्तु सः अन्तराले शब्दग्रहणरूपो भ्रमः अक्रमस्य सत्यस्य स्फोटस्य ग्रहणोपाय एव । यथा आराद्वनस्पतौ मिथ्याभूतहस्तिप्रत्यय- प्रवाहः सत्यवनस्पतितत्त्वप्रतिपत्तिहेतुस्तथा भागापभासिन्यो वर्णपदविषया मिथ्या- बुद्धयः सत्यस्फोटप्रतिपत्तिहेतव इति सत्त्वम् ॥ ८५ ॥ ध्वनि की उत्पत्ति और शब्द के स्पष्ट ग्रहण के बीच के काल में जो अवयव वर्ण, पद और वाक्य में नहीं हैं किन्तु वर्णावयव, वर्ण और पद के रूप में प्रतीत होते हैं। वह समझने वाले की अशक्ति है। जिससे वह निरंशस्फोट का ग्रहण नहीं कर पाता। वास्तव में वे वर्णावयव आदि शब्द में नहीं हैं। किन्तु यह बीच में जो शब्द भ्रम होता है वह स्फोट के ग्रहण में सहायक बनता है और स्फोट के ग्रहण का उपाय है। जैसे दूर के पेड़ को भ्रम से हाथी समझ लिया जाय फिर उसके ठीक रूप समझने के प्रयत्न करने पर यह पता चल जाता है कि वह पेड़ है। जैसे वर्णादिकों में जो विभाग की प्रतीति होती है वह असत्य है उसी असत्य से सत्य स्फोट की प्रतीति होती है ॥ ८५ ॥
१०० वा. १ । ८ ननु स्फोटस्यैकत्वे पदानां वाक्यानां च भेदः किंनिबन्धन इत्यत आह— स्फोट एक है फिर भी वर्ण, पद, वाक्य आदि भेद उचित है। क्योंकि— भेदानुकारः ज्ञानस्य वाचश्चोपप्लवो ध्रुवः । क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् ॥ ८६ ॥ यतः अभिन्नमपि ज्ञानं ज्ञेयव्यपाश्रयं किञ्चन ज्ञेयंविषयीकृत्यैव व्यवहारावि- षयः यतश्च अक्रमापि स्फोटरूपा वाक् क्रमेण घटः पटः इत्यादिध्वनिगतभागक्रमेण- उपसृष्टं संसृष्टं रूपं यस्याः सा क्रमोपसृष्टरूपा व्यञ्जकध्वनिविशेषगतक्रमेणैवोप- लब्धियोग्या अतः घटज्ञानं पटज्ञानमिति ज्ञेयरूपोपग्राहितया ज्ञानस्य घट इति पट इति व्यञ्जकध्वनिगतक्रमोपग्राहितया वाचश्च भेदानुकारः भेदरूपानुगमरूपः ज्ञाने विषयावभासरूपः स्फोटे वर्णपदावभासरूप उपप्लवः उपसर्गः कल्पना ध्रुवो नियत इत्यर्थः ॥ अत्र अप्रकृतज्ञानभेदनिरूपणस्यासम्बद्धत्वं माभूदिति 'ज्ञान- स्येव वाचो भेदानुकाररूप उपप्लव' इति उपमालङ्कारो व्यङ्ग्य इति ध्येयम् । जैसे ज्ञान एक है किन्तु व्यवहार में किसी ज्ञेय में नियत है। वैसे अक्रमस्फोट रूपी वाक् भी व्यञ्जक ध्वनिक्रम से प्रतीत होती है अतः ज्ञेयरूपता स्वीकार करने वाले ज्ञान का और घट पट आदि व्यञ्जक ध्वनि गत क्रम वाली वाणी का भेदानुकार (अर्थात् ज्ञान में विषयावभास- रूप और स्फोट में वर्णपदावभासरूप ) उपसर्ग की कल्पना भी नियत है। एतदुक्तं भवति—यथा विवादाध्यासिता संवित्स्वाभाविकभेदशून्या उपाधि- परामर्शमन्तरेणाविभाव्यमानभेदत्वाद्गगनवदिति अनुमानेन एकस्या एव संविदो गग- नस्येवोपाधिभेदेन घटज्ञानं
आद्यसंख्याग्रहणम् एकत्वादीनां संख्यानां ग्रहणम् ज्ञानं प्रतिपत्तये शतत्वादीनां उपायः तथा वाक्यस्फोटप्रतिपत्तये शब्दान्तरश्रुतिः अवान्तरदेवदत्तादिपदश्रवणमु- पाय इत्यर्थः। शतत्वादिसंख्याया अयमेकः अयमेक इत्येवंरूपापेक्षाबुद्धिजन्यत्वेन प्रका- रान्तरेण ग्रहीतुमशक्यतया तद्ग्रहणेच्छायामेकत्वादिसंख्याग्रहणं तद्ग्रहणोपायः प्रथमं गृह्यते शतत्वरमैकत्वप्रत्ययेन ततोऽत्यन्तविलक्षणायाः शतत्वादिसंख्यायाः प्रत्ययम् एवं वाक्यस्फोटस्य वर्णपद्भिन्नत्वेऽपि वर्णपदग्रहणं अखण्डवाक्यप्रत्ययोपाय इति भावः ॥ ८७ ॥ जैसे सौ संख्या और एक संख्या परस्पर भिन्न है फिर एक संख्या का ज्ञान सौ संख्या के ज्ञान में सहायक है। वैसे वाक्य स्फोट और वर्ण तथा पद परस्पर भिन्न हैं फिर भी वाक्य के बीच के पदों की प्रतीति वाक्य स्फोट की प्रतीति में उपाय है ॥ ८७ ॥ इदानीं वाक्ये पदाभावे पदे वर्णाभावे वर्णे वर्णावयवाभावे च सति वाक्यादि
ष?
Wait, look at दो:
In संविदोऽन्य (line 10), look at दो:
It has a top stroke, a curve, and an 'o' matra.
In the footnote, look at the letter with the 'o' matra:
It has an 'o' matra! That's दो!
And after दो, there is ष!
Wait, is the word चाक्षुषदोषरहिते?
Wait, let's check:
चा (1) क्षु (2) ष (3) दो (4) ष (5) र (6) हि (7) ते (8)
Wait, why did I think earlier it might be चाक्षुषत्वराहिते?
Because चा + क्षु + ष + दो?
Wait, does दोष have ष? Yes!
So चाक्षुषदोषरहिते!
Wait, let's look at whether ष is repeated:
चा-क्षु-ष-दो-ष-र-हि-ते
Look at the image:
१. प्रकृतिस्थे-चाक्षुषदोषरहिते ।
Wait, is it चाक्षुषदोषरहिते or चाक्षुषत्वराहिते?
Wait, look at the characters:
चा - vertical line with matra.
ब्रह्मकाण्डम् ] संस्कृत हिन्दी-व्याख्योपेतम् १०३ तथा वाक्ये निर्भागे वाक्ये व्यज्यमाने व्यञ्जनीये वाक्याभिव्यक्तिहेतुभिः निर्भागवाक्याभिव्यक्तिविषयकप्रयत्नविशेषोत्पद्यमानैर्ध्वनिभिः पूर्वं प्रथमं भागावग्र- हरूपेण वर्णपदाभिव्यञ्जकध्वनिभिस्तैरपि सादृश्यात्तद्वृत्तिसंकार्यमिवापन्नैः वर्णपद- प्रत्यवभासरूपभागावग्रहविषया बुद्धिः प्रवर्त्तते जायते। ततः प्रणिधानादिना वास्त- वमखण्डं स्फोटं बुद्ध्या विषयीकुर्वन्ति तादृशप्रणिधानासमर्थास्त्वस्मदादयः साव- यवत्वमेव सत्यतया मन्यन्ते इति तात्पर्यम् । जैसे जब अखण्ड वाक्य की अभिव्यक्ति के प्रयत्नों से उत्पन्न ध्वनियों के द्वारा अखण्ड वाक्य व्यक्त करना है तब पहले वर्ण, पद के भाग वाली बुद्धि प्रवृत्त होती है। पुनः प्रणिधानादिवस वास्तविक अखण्ड स्फोट का ज्ञान होता है ॥ ९० ॥ ननु स्फोटाभिव्यञ्जकैर्ध्वनिभिः कथं वर्णपदप्रत्यवभासरूपभागावगाहिमिथ्या- बुद्धिरिति चेत् कथं शुक्तिप्रमाजनकेन चक्षुषा रजतावभासा मिथ्याबुद्धिरिति पश्य । यदाहुर्मण्डनमिश्राः-‘ध्वनयः सदृशात्मानो विपर्यासस्य हेतवः । उपलम्भ्रमेवेदं विपर्यासस्य कारणम् ।' इति । उपलम्भकमेवेति । यथा दूराद्वनस्पतौ इन्द्रिय- सन्निकर्षो विपर्यासस्य निमित्तं स एव प्रणिधानसहायो वृक्षोपलब्धेर्निमित्तमेवं निमित्तमेवेदृशं शब्दतत्त्वोपलब्धेः यद्विपर्यासयदेव शब्दतत्त्वमुपलम्भयति । नहि शब्दान्तरविलक्षणध्वनयोऽन्ये तस्याभिव्यक्तौ सन्ति येन कदाचिद्विपर्यासो भवेत् तद् एव च तुल्यरूपः सर्वप्रतिपत्तॄणां तन्निमित्तस्य समानत्वादिति भावः ॥ ९० ॥ ननु यदि वाक्ये असत्त्वान्नैव वर्णाः पदानि च कल्प्यन्ते तर्हि दूरस्थवृक्षादौ पूर्वं कस्यचिन्मेघ इति कस्यचिद्रपर्वत इति कस्यचिद्धस्तीति कल्पना दृश्यते न तु क्रमनि- यमः इह तु पूर्वं वर्णावग्रहा बुद्धिः ततः पदावग्रहा ततो वाक्यावग्रहा इति क्रमनि- यमः किंकृत इत्यत आह— दूरस्थवृक्ष में किसी को मेघ, कही को हाथी, किसी को पर्वत का अनियत भ्रम होता है किन्तु शब्द में पहिले वर्ण उसके बाद पद उसके बाद वाक्य रूप में नियतक्रम प्रतीत होने में क्या कारण है इस प्रश्न का उत्तर कहते हैं— यथानुपूर्वीनियमो विकारे क्षीरबीजयोः । तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥ ९१ ॥ पदार्थानां नियतशक्तिकत्वात् यथा क्षीरबीजयोः विकारे दधिवृक्षभावेन परिणामे आनुपूर्वीनियमः क्रमनियमः तथैव प्रतिपत्तॄणाम् अर्वाग्दृशामस्म- दादीनां स्फोटविषयासु बुद्धिषु पूर्वं वर्णविषया ततः पदविषया ततो वाक्यविषया बुद्धिरिति क्रमो नियतो वर्तते नियतक्रमत्वाद्रूढस्य चाद्रूढस्यापि क्रमनियम इत्यर्थः ॥ जैसे दूध और बीज का विकार दही और वृक्ष है और इन विकारों का क्रम भी नियत है (अर्थात् दूध कुछ गाढ़ा होता है तब दही बनता है । बीज में अंकुर निकलता है तब धीरे धीरे वृक्ष बनता है इस प्रकार कम बँधा हुआ है ) वैसे ज्ञान प्राप्त करने वाले हम लोगों की
बुद्धि स्फोट को क्रम से ग्रहण करती है ( उसमें भी पहले, वर्ण फिर पद फिर वाक्य विषयक बुद्धि ) इस तरह क्रम नियत है । अयं भावः— यथा क्षीरस्य विकारे दध्नि जननीये प्रथमं क्षीरं किञ्चित्कठिनं ततोऽधिकं कठिनं ततो दधि भवतीति आनुपूर्वीनियमः, यथा वा बीजस्य विकारे वृक्षे जननीये पूर्वं बीजं द्विधीभवति ततोऽङ्कुरः ततो द्विपत्रितः ततः पल्लवितः वृक्षो भवतीति आनुपूर्वीनियमः । तत्र च राज्ञापि प्रथमावस्था द्वितीया, द्वितीया च प्रथमा कर्तुं न पार्यते इति तयोर्विकारे नियतैवानुपूर्वी एवं प्रतिपत्तॄणां स्फोटप्रतिपत्तौ व्यञ्जक- बुद्धिक्रममन्तरेण अशक्यतया बुद्धिषु नियतः क्रम इति ॥ ९१ ॥ तात्पर्य यह है कि जैसे दूध से दही बनने में पहले दूध कुछ गाढ़ा होता है फिर धीरे धीरे गाढ़ता बढ़ती जाती है और अन्त में क्रम से सुन्दर सजाव दही तैयार हो जाता है अथवा जैसे बीज विकृत हो कर जब वृक्ष बनता है तब
: ग then a loop: could it be "गणे"? "गणि"? Wait, look at "गणगौर्गौरित्यादौ": Could it be "गणे"? Wait, could it be "गजगौर्गौरित्यादौ"? "गज" (elephant) and "गो" (cow)? Wait, why would "गज" have "गत्व"? Both start with 'ग'! Elephant is 'गज', cow is 'गो'! "गजगौर्गौरित्यादौ गत्वेन सह-" ! Wait, let's look at that letter: Is it 'ज'? In 'गज': ग + ज = गज! Wait, look at 'ज' in 'व्यञ्जकै': it has the horizontal stroke and curve. The letter after 'ग' is: round curve on left, vertical bar on right: that is 'ण'! Wait, "गण"? "गण" also starts with 'ग'! Wait, does it say "गणगौर्गौरित्यादौ"? Yes, "गण" (gana) or "गज"? It really looks like "गण"! Wait, what about "गां गौर्गौः"? Look at the image: ग then ण. It is definitely "गणगौर्गौरित्यादौ"!
Wait, line 23-24: "गत्वेन सह-" Line 24: "द्वैरेकोऽप्यनेक इवानवयवोपि सावयव इव
Wait, "उत्पत्तिमत्यः": उ - त्प - त्ति - म - त्यः Yes, "उत्पत्तिमत्यः". "शब्दव्यक्तय एव प्रकल्पिताः स्वीकृताः ।" Yes!
Line 25: "वर्णा एव ध्वनयः वर्णानां ध्वनिनैयत्येनाभेदोपचारात् । अत एव पस्पशायाम्" Yes!
Line 26: "'अथ गौरित्यत्र कः शब्द' इति प्रश्ने लोकेऽर्थबोधकत्वेन गृहीतो ध्वनिः वर्णात्मक-" Yes!
Line 27: "शब्दसमूहः इत्यर्थकम् 'अथवा प्रतीतपदार्थको लोके ध्वनिः शब्द' इत्युक्तम् । अत" Yes!
Line 28: "एव च काव्यप्रकाशे 'बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य" Wait, in line 28, look at 'काव्यप्रकाशे': Does it have a dot? "क.व्यप्रकाशे"? Look closely at line 28: "एव च क,व्यप्रकाशे" or "काव्यप्रकाशे"? Ah! The 'ा' matra of 'का' is broken or printed like a dot/comma: "क.व्यप्रकाशे" or "कव्यप्रकाशे"? Wait, look at the letter: 'क', then a
३. कारिका १०१-१५६: पश्यन्ती, मध्यमा व वैखरी वाक् एवं ब्रह्मकाण्ड उपसंहार
ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् [ १०३ व्यक्तिस्फोटवादिना हि अकारादिजातिर्नाभ्युपेयते अकारादिव्यक्तेरेकत्वं नित्यत्वं चाभ्युपगम्यते तच्च न युक्तम् अकारादिव्यक्तेरेकत्वे दण्ड अग्रम् इत्यत्र कालव्यत्यासः, दण्ड इत्यत्र शाब्दव्यत्यासः; अर्थः, अर्कः, वर्च इत्यत्र युगपद्देशपृथक्त्वेनोपलब्धिश्च नोपपद्येतेति अकारादीनां नानात्वमभ्युपेयम् ततश्च तद्रूपत्वाच्चैव सोऽयमकार इति प्रत्यभिज्ञोप- पत्तौ नाकारादिव्यक्तीनां नित्यत्वमास्थेयम् इति जातिस्फोटवादिन आकृतम् ॥ ९३ ॥ घटपदत्वादिकां जातिमनङ्गीकुर्वतामेके नित्यं शब्दतत्त्वमङ्गीकुर्वतां सिद्धान्तिनां मतमाह— जो लोग घटपदत्व रूपा जाति नहीं मानते किन्तु नित्य और एक शब्दतत्त्व मानते हैं उन सिद्धान्तवादियों का मत है कि— अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः । उपलब्ध
१८८ वाक्यपदीयम् घटत्व आदि जातियों के आश्रय अनित्य घट आदि पदों से नित्य घटत्व जाति की अभिव्यक्ति होती है। इसलिए यह नहीं कहा जा सकता कि 'अभिव्यक्ति अनित्य की ही होती है' ॥९५॥ ननु समानदेशस्था एव घटादयः समानदेशस्थैर्दीपादिभिरभिव्यज्यन्ते न गृहा- न्तरस्था गृहान्तरस्थैरिति दर्शनात्। समानदेशस्थयोरेव व्यङ्ग्यव्यञ्जकभाव एष्टव्य इति ताल्वोष्ठादि व्यापारजन्यैः शब्दजशब्दन्यायेन श्रोत्रदेशस्थितैर्ध्वनिभिः कथमा- न्तरस्य स्फोटस्याभिव्यङ्ग्यता तदभावे चागतं शब्दानित्यत्वमत आह— यद्यपि जैसे समानदेशस्थ दीप समान देशस्थ घट का प्रकाशक है किन्तु गृहान्तरस्थ दीप गृहान्तरस्थ घटका प्रकाशक नहीं होता। वैसे ओष्ठ तालु आदि स्थानों में उत्पन्न और शब्दजशब्द न्याय से श्रोत्र देश तक आई हुई ध्वनि आन्तरस्फोट को व्यक्त नहीं कर सकती क्योंकि दोनों का देश समान नहीं है। तथापि— देशादिभिश्च सम्बन्धो दृष्टः कायवतामिह । देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः ॥ ९६ ॥ इह लोके कायवतां मूर्तानां परिच्छिन्नपरिमाणवतां घटादीनां देशादिभिः सम्ब- न्धः अयमेतद्देशस्थः अयमेतद्देशस्थः इत्येवंरूपो दृष्टः नामूर्तस्य शब्दस्य तस्य व्यापक- त्वेन सर्वदेशस्थत्वेन देशदेशिव्यवहाराभावात्। एवं च शब्दो नाभिव्यङ्ग्यः व्यञ्जकभिन्न- देशस्थत्वादिति स्वरूपासिद्धो हेतुरिति भावः। तुष्यतु दुर्जनन्यायेन ध्वनिशब्दयोः देश- भेदव्यवहारमभ्युपेत्याह—देशभेदविकल्पेऽपीति। ध्वनिशब्दयोः देशभेदवि- कल्पेऽपि देशयोः श्रोत्रहृदयाकाशरूपयोः औपाधिकभेदवत्त्वेऽपि वस्तुत आकाशस्य एकत्वेन न देशभेदः। अथ च औपाधिको भेद आश्रीयते तर्हि सा भेदप्रतीतिर्वस्तुशून्यतया विकल्पः तस्मिन् आश्रितेऽपि न भेदः नाधिकरणदेशभेदः ध्वनेः श्रोत्रद्वारा हृदयदेश- गमनेन¹ उभयोरेकदेशस्थत्वादिति भावः॥ तदुक्तं भाष्ये 'श्रोत्रोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलितः आकाशदेशः शब्दः एकं च पुनराकाशम्' इति। कायवताम- पीति पाठे कायवतां परिच्छिन्नपरिमाणवतामपि सूर्यादीनामेकदेशस्थानामनेकदेशे प्रतिपात्रं प्रतिबिम्बानामभिव्यक्तिर्दृश्यते। यदाहुः—'एकेन बिम्बितेन प्रतिपात्रं पृथक् पृथक्। भिन्नानि प्रतिबिम्बानि जायन्ते युगपन्नृणाम्' इति किं पुनर्ब्रूमः शब्दस्य सर्वगतत्वेन ध्वनिदेशस्थत्वादिति भावः॥ ९६॥ इस श्लोक में मूर्त या देहवालों (घट आदिकों के ही देश-आदि सम्बन्ध होते हैं, अर्थात् ऊपर लिखा नियम मूर्तों के लिये है) अमूर्त ध्वनि और शब्द तो भिन्न भिन्न (जैसे ध्वनि का १. तदुक्तं परमलघुमञ्जूषायाम् 'अत्रेदं बोध्यम्—केनचिदुच्चार्यमाणे तु वैखरीनादः प्रयुक्तः स केनचिच्छ्रोत्रेन्द्रियेण गृहीतः। स नाद इन्द्रियद्वारा बुद्धिहृद्गतः (बुद्ध्यन्तःकरणेन हृदयदेशं गतः) सन्नयं बोधकं शब्दं स्वनिरूपकत्वादिना व्यञ्जयति तस्मादयं बोधः। स्फुटत्यर्थोऽस्मादिति व्युत्प- त्त्या स्फोटः। उच्चारयितुस्तु युगपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते। तत्र वैखरीनादो वह्नेः फूत्कारवन्मध्यमनादप्रोत्साहकः मध्यमनादः स्फोटं व्यञ्जयतीति शीघ्रमेव ततोऽर्थबोधः। परस्य विलम्बेन मुखबधिरत्वात्' इति।
Here is the line-by-line transcription of the text in Devanagari Markdown:
ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् १०६ श्रोत्राकाश और शब्द हृदयाकाश) देश में रहता है फिर भी स्थान भेद नहीं है। क्योंकि आकाश एक है और ध्वनि भी श्रोत्र द्वारा हृदयाकाश में पहुँचती है ॥ ९६ ॥ ननु जन्यजनकयोरेव नियतत्वं दृश्यते यथा तन्तुभिरेव पटः कपालाभ्यामेव घट इत्यादिः। न तु व्यङ्ग्यव्यञ्जकयोः घटव्यञ्जकेनापि दीपेन पटादेरभिव्यक्तेः । किञ्च नाभिव्यङ्ग्यभेदेऽभिव्यञ्जकनियमः मणिप्रदीपौषधिभिरपि घटाद्यभिव्यक्तेः । एवं च यदि ध्वनिशब्दयोर्व्यङ्ग्यव्यञ्जकभावः स्यात् तदा कण्ठाभिघातजेन ध्वनिना अकार एव तालव्यभिघातजेन चकार एवेति नियमो न स्यात् दृश्यते तु नियमः अतो ध्वनिशब्दयोर्जन्यजनकभाव एव न व्यङ्ग्यव्यञ्जकभाव इत्याशङ्कायामाह— यद्यपि जन्य और जनक (घट और कपाल,
११० वाक्यपदीयम् इन्द्रियाँ दो प्रकार की होती हैं। एक तो स्वसजातीय द्रव्य मात्र में समवेत गुण का ग्रहण करती हैं। जैसे घ्राण और श्रोत्र । और दूसरी सजातीय तथा स्वविजातीय द्रव्य समवेत गुण का ग्रहण करती हैं। जैसे चक्षु, रसना और त्वक् । तैजस आँख सजातीय तेज के और विजातीय पृथिवी के भी रूप का, रसना सजातीय जल और विजातीय पृथिवी के रस का और त्वक् सजातीय वायु और विजातीय पृथिवीके स्पर्श का ग्रहण करती है। घ्राण और श्रोत्र तो स्वसजातीय पृथिवी और आकाश में समवेत गन्ध तथा शब्द गुणों के ग्राहक हैं। 'इस प्रकार सदृशेन्द्रियग्राह्य गन्ध में जब अभिव्यञ्जक का नियम नहीं है तब सदृशेन्द्रिय ग्राह्य शब्द में भी अभिव्यञ्जक नियम नहीं होगा। किन्तु जन्यजनक भाव ही मानना चाहिये।' यह कहना ठीक नहीं, क्योंकि सदृशग्रहणानां च गन्धादीनां प्रकाशकम् । निमित्तं नियतं लोके प्रतिद्रव्यमवस्थितम् ॥ ९८ ॥ सदृशं स्वाश्रयसदृशमिन्द्रियं ग्रहणं ग्राहकं येषां ते
स्फोटस्य घट इति पट इति भेदश्चानुभूयते इति अभिव्यङ्ग्यधर्माभावात् स्फोटो ना- भिव्यज्यते किन्तूत्पद्यते एवेति न स्फोटस्य नित्यत्ता स्यादत आह— जो लोग स्फोट की अभिव्यक्ति का खण्डन करने के लिए कहते हैं कि जैसे अभिव्यञ्जक दीपक के वृद्धि और ह्रास से घट में वृद्धि और ह्रास नहीं होता तथा सैकड़ों दीपकों से देखा गया घट भी अनेक नहीं होता। वैसे अभिव्यञ्जक प्राकृतध्वनि के वृद्धि और ह्रास से अभिव्यङ्ग्य स्फोट में वृद्धि और ह्रास और अनेक प्राकृत ध्वनियों से घट पट आदि अनेक स्फोटों की अभिव्यक्ति नहीं होनी चाहिए किन्तु होती है। अतः स्फोट व्यङ्ग्य नहीं है' यह कहना असङ्गत है। क्योंकि— प्रकाशकानां भेदाँश्च प्रकाश्योऽर्थोऽनुवर्तते । तैलोदकादिभेदे तत्प्रत्यक्षं प्रतिबिम्बके ॥ ९९ ॥ प्रकाशकानाम् अभिव्यञ्जकानां भेदान् संख्याः चाङ् वृद्धिह्रासांश्च प्रकाश्यः अभिव्यङ्ग्यः अर्थः अनुवर्तते अभिव्यञ्जकभेदेऽभिव्यङ्ग्यभेदः अभिव्यञ्जकवृद्धौ अभि- व्यक्तवृद्धिः अभिव्यञ्जकहासे अभिव्यङ्ग्यह्रासश्च दृश्यते, क्व दृश्यते इत्याह—तदिति । तत् अभिव्यङ्ग्यस्य भेदः नानार्थं तैलोदकादिभेदे प्रतिबिम्बके प्रत्यक्षं तथा तैले श्यामं जले रक्ते, वज्रमणी लघु ततो दीर्घे दर्पणे ततो दीर्घे जले, खड्गे दीर्घं मुकुरे वर्त्तुलमि- ति अभिव्यञ्जकवृद्धिह्रासयोः अभिव्यङ्ग्यस्य मुखस्य वृद्धिह्रासौ अभिव्यञ्जकस्य दर्पण- जलपात्रादेश्च नानात्वे अभिव्यङ्ग्यस्य मुखप्रतिबिम्बस्य सूर्यचन्द्रप्रतिबिम्बस्य च नाना- त्वं एकस्यैव चैतन्यस्य अन्तःकरणोपाधिभेदेन नानात्वं च दृश्यते इति अभिव्यञ्जक- वृद्धौ अभिव्यङ्ग्यवृद्धेः अभिव्यञ्जकभेदे अभिव्यङ्ग्यभेदस्य च दृष्टत्वादभिव्यञ्जक- ध्वनेर्भेदे वृद्धौ चाभिव्यङ्ग्यस्य स्फोटस्य भेदो वृद्धिश्च न स्फोटाभिव्यङ्ग्यताविघातकौ इति भावः । तथा च 'यथा ह्येको ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुग- च्छन्' इति श्रुतिः 'एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इति स्मृतिश्च ॥ ९९ ॥ अभिव्यञ्जक के भेद (संख्या, वृद्धि और ह्रास) से अभिव्यङ्ग्य का भेद (संख्या, वृद्धि और ह्रास) भी होता है। इसका प्रत्यक्ष तैल और जल आदि के प्रतिबिम्ब में किया जा सकता है। जैसे एक ही व्यक्ति के मुख का प्रतिबिम्ब तैल में श्याम, जल में गौर, वज्रमणि में छोटा, दर्पण में बड़ा, जल में उससे भी बड़ा, तलवार में लम्बा, दर्पण में गोला दिखाई पड़ता है इससे यह सिद्ध होता है कि अभिव्यञ्जक के वृद्धि और ह्रास से अभिव्यङ्ग्य का वृद्धि और ह्रास तथा अभिव्यञ्जक के भेद में अभिव्यङ्ग्य का भेद भी होता है। इसलिए अभिव्यङ्ग्य में भेद, वृद्धि और ह्रास नहीं होता यह कहना अनुचित है ॥ ९९ ॥ ननु चन्द्रादिभ्योऽन्यत् प्रतिबिम्बं दर्पणाद्युत्पद्यते तच्च नानेव इति नाभिव्य- ञ्जकभेदेनाभिव्यङ्ग्यभेदः प्रतिबिम्बस्थले इति दृष्टान्तासङ्गतिरत आह— जो लोग कहते हैं कि चन्द्र और चन्द्र के प्रतिबिम्ब में भेद है। प्रतिबिम्ब अनेक है वह ही दर्पण आदि में दिखाई पड़ता है। अतः प्रतिबिम्ब को दृष्टान्त मानकर अभिव्यङ्ग्य और अभिव्यञ्जक भेद नहीं बन सकता। उनका कहना भी असङ्गत है। क्योंकि—
११२ वाक्यपदीयम् विरुद्धपरिमाणेषु वज्रादर्शजलादिषु । पर्वतादिसरूपाणां भावानां नास्ति सम्भवः ॥ १०० ॥ पर्वतपरिमाणापेक्षया विरुद्धं भिन्नमल्पं परिमाणं येषां तेषु विरुद्धपरि- माणेषु वज्रादर्शजलादिषु लघुपरिमाणेषु पर्वतादिसरूपाणां महापरिमाणां भावानां पर्वतादीनां चन्द्रादीनां च सम्भवः उत्पत्तिसम्भवः नास्ति । अयं भावः यन्महापरिमाणानां पर्वतहस्त्यादीनां लघुपरिमाणेषु दर्पणादिषु समावेशाभावेन तदारम्भकाणां तदवयवानां भानाभावेन तत्र नोत्पत्तिसम्भवः किन्तु दर्पणादिसम्बन्धे तेषामेव पर्वतादीनां तथावभासो जायते इति न दृष्टान्तासंगतिः ॥ १०० ॥ पर्वत के परिमाण की अपेक्षा अल्पपरिमाण वाले वज्र और दर्पण आदि छोटी वस्तुओं में महापरिणाम वाले पर्वत और चन्द्र आदि की उत्पत्ति नहीं हो सकती । इसलिए मानना पड़ेगा कि बड़े परिमाण वाले पर्वत आदि अल्पपरिमाण वाले दर्पण में समाविष्ट नहीं हो सकते फिर भी उनकी दर्पण में उत्पत्ति नहीं होती किन्तु बड़े परिमाण वाले पर्वत ही दर्पण में अभिव्यक्त होते हैं ॥ १०० ॥ एवं व्यञ्जकध्वनिकालकृतं स्फोटे कालभेदमुपपाद्योपसंहरति— तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु । वृत्तिकालः स्वकालश्च नादभेदाद्विभाव्यते ॥ १०१ ॥ तस्मात् व्यङ्ग्ये व्यञ्जकधर्मानुगमदर्शनात् अभिन्नकालेषु स्वतः कालभेद- रहितेषु वर्णवाक्यपदादिषु तदाख्यस्फोटेषु नादभेदात् प्राकृतवैकृतध्वनिभेदात् वृत्तिकालः द्रुतादिवृत्तिकालः स्वकालः स्वीयस्य-स्वाभिव्यञ्जकस्य प्राकृतध्वने- र्मात्रादिकालश्च विभाव्यते प्रतीयते न तु तत्र वास्तवतादृशकालसम्बन्धोऽस्तीति भावः ॥ इयांस्तु विशेषः यत् प्राकृतः स्फोटेऽध्यस्यमानः ह्रस्वदीर्घप्लुतभेदव्यवहा- रकारणं वैकृतस्तु शब्देऽवधारिते भवन् गृहीतभेदत्वात् नाध्यारोपनिमित्तं किन्तु शब्दाद्द्रुतादिकालव्यवस्थानिमित्तम् तावत्कालं स्फोटोपलब्धिवारणमिति यावत् । तेन च न स्फोटभेद इति ह्रस्वत्वदीर्घत्वादिकं च ध्वनिधर्म एवेति स्फुटमुक्तं श्लोकवार्त्तिके— ‘स्वतॊ ह्रस्वादिभेदस्तु नित्यवादे विरुध्यते । सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयम् ॥ तस्मादुच्चारणं तस्य मात्रं कालं प्रतीयताम् । द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम् ॥’ इति ॥ १०१ ॥ इसलिए व्यङ्ग्य में व्यञ्जक धर्मों को देखकर यह मानना पड़ता है कि कालभेद रहित वर्ण, पद और वाक्य स्फोटों में नाद के (प्राकृत और वैकृतध्वनि के) भेद से द्रुतादि वृत्तियों का तथा वर्ण आदि का अभिव्यञ्जक प्राकृति ध्वनि का काल प्रतीत होता है । ~ ३