भारतकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

एते सर्वे महाभागाः प्राज्ञाः स्वानुष्ठिताः स्थिताः । मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥ ३३

[अ० १० श्लो० ३२-५९]
वायुपुराणम्
३७

( मन्वन्तरवर्णनम् )
ऊर्जां ददौ वसिष्ठाय स्वाहां वै हव्यये ददौ । स्वधां चैव पितृभ्यस्तु तास्वपत्यानि वक्ष्यते (?) ॥ ३२
एते सर्वे महाभागाः प्राज्ञाः स्वानुष्ठिताः स्थिताः । मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥ ३३
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ ३४
पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा । क्रियायास्तु नयः प्रोक्तो दण्डः समय एव च ॥ ३५
बुद्धेर्बोध सुतश्चापि अप्रमादश्च तावुभौ । लज्जाया विनयः पुत्रो व्यवसायो वयोः सुतः ॥ ३६
क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत । यशः कीर्तेः सुतश्चापि इत्येते धर्मसूनवः ॥ ३७
कामस्य हर्षः पुत्रो वै देव्यां रत्यां व्यजायत । इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ॥ ३८
जज्ञे हिंसा त्वधर्मार्द्धे निकृतिश्चानृतावुभौ । निकृत्यनृतयोर्जज्ञे भयं नरक एव च ॥ ३९
माया च वेदना चापि मिथुनद्वयमेतयोः । भयाज्जज्ञेऽथ सा माया मृत्युं भूतापहारिणम् ॥ ४०
वेदनायास्ततश्चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिर्जरा शोकः क्रोधोऽसूया च जज्ञिरे ॥ ४१
दुःखान्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां भार्याऽस्ति पुत्रो वा सर्वे ह्यनिधनाः स्मृताः ॥ ४२
इत्येष तामसः सर्गो जज्ञे धर्मनियामकः । प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीलोहितः ॥ ४३
सोऽभिध्याय सतीं भार्यां निर्ममे ह्यात्मसंभवान् । नाधिकान्न च हीनांस्तान्मानसानात्मनः समान् ॥ ४४
सहस्रं हि सहस्राणामसृजत्क्वातिवाससाम् । तुल्यांश्चैवाऽऽत्मनः सर्वे रूपतेजोबलश्रुतैः ॥ ४५
पिङ्गलांस्संनिषङ्गानां सकपर्दान्विलोहितान् । विवासान्हरिकेशांश्च दृष्टिघ्नांश्च कपालिनः ॥ ४६
बहुरूपान्विरूपांश्च विश्वरूपांश्च रूपिणः । रथिनो वर्मिणश्चैव चर्मिणश्च वरूथिनः ॥ ४७
सहस्रशतबाहूंश्च दिव्यान्भौमान्तरिक्षगान् । स्थूलशीर्षान्ह्रषदंष्ट्रान्विजह्वांस्त्रिलोचनान् ॥ ४८
अन्नादान्पिशितादांश्च आज्यपांन्सोमपांस्तथां । मेढ्रांश्चार्तिकायांश्च शितिकण्ठोग्रमन्यवः ॥ ४९
सोपासङ्गत्वलत्रांश्च धन्विनो ह्यपवर्मिणः । आसीनान्धावतश्चैव जृम्भिनश्चैव धिष्ठितान् । ५०
अध्यापिनोऽथ जपतो युञ्जतो ध्यायतरस्तथा । ज्वलतो वर्षतश्चैव द्योतमानानधूपितान् ॥ ५१
बुद्धान्बुद्ध्यतमांश्चैव बलिष्ठाञ्शुभदर्शनान् । नीलग्रीवान्सहस्राक्षान्सर्वाश्चाथ क्षपाचरान् ॥ ५२
अदृश्यान्सर्वभूतानां महायोगान्महौजसः । रुदतो द्रवतश्चैव एवं युक्तान्सहस्रशः ॥ ५३
अयातयामानसृजद्रूपान्सुरोत्तमान् । ब्रह्मा दृष्ट्वाऽब्रवीदेतान्मा साक्षीरीदृशीः प्रजाः ॥ ५४
स्रष्टव्या नाऽऽत्मनस्तुल्या प्रजा नैवाधिकास्त्वया । अन्याःसृज त्वं भद्रं ते (*प्रजा वै मृत्युसंयुताः
नाऽऽरप्स्यन्ते हि कर्माणि प्रजा विगतमृत्यवः । एवमुक्तोऽब्रवीदेनं नाहं मृत्युसमन्विताः ॥ ५६
प्रजाः स्रक्ष्यामि भद्रं ते ) स्थितोऽहं त्वं सृज प्रजाः । एते ये वै मया सृष्टा विरूपा नीलोहिताः
सहस्राणां सहस्रं तु आत्मनोपमानिश्चिताः । एते देवा भविष्यन्ति रुद्रा नाम महाबलाः ॥ ५८
पृथिव्यामन्तरिक्षे च रुद्रनाम्ना प्रतिश्रुताः । शतरुद्रसमाम्नाता भविष्यन्तहि यज्ञियाः ॥ ५९


* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।

३८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १० श्लो० ६०-८५]
( मन्वन्तरवर्णनम् )

यज्ञभाजो भविष्यन्ति सर्वे देवयुगैः सह । मन्वन्तरेषु ये देवा भविष्यन्तीह च्छन्दजाः ॥ ६०
तैः सार्धमिज्यमानास्ते स्थास्यन्तीह(हा) युगक्षयात् । एवमुक्तस्तदा ब्रह्मा महादेवेन धीमता ॥ ६१
प्रत्युवाच तदा भीमं हृष्यमाणः प्रजापतिः । एवं भवतु भद्रं ते यथा ते व्याहृतं प्रभो ॥ ६२
ब्रह्मणा समनुज्ञाते सदा सर्वभूतिकृत् । ततः प्रभृति देवेशो न प्रासूत वै प्रजाः ॥ ६३
ऊर्ध्वरेताः स्थितः स्थाणुर्यावद्भूतसंप्लवम् । यस्माच्चोक्तं स्थितोऽस्मीति ततः स्थाणुरिति स्मृतः
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । स्रष्टृत्वमात्मसंबोधस्त्वधिष्ठातृत्वमेव च ॥ ६५
अथ यानि दशैतानि नित्यं तिष्ठन्ति शंकरे । सर्वान्देवानृषींश्चैव समेतानसुरैःसह ॥ ६६
अत्येति तेजसा देवो महादेवस्ततः स्मृतः । अत्येति दैवानैश्वर्याद्बलेन च महासुरान् ॥
ज्ञानेन च मुनीन्सर्वान्योमाद्भूतानि सर्वशः ॥ । ६७

ऋषय ऊचुः—
योगं तपश्च सत्यं च धर्मं चापि महामुने । माहेश्वरस्य ज्ञानस्य साधनं च प्रचक्ष्व नः ॥ ६८
येन येन च धर्मेण गतिं प्राप्स्यन्ति वै द्विजाः । तत्सर्वं श्रोतुमिच्छामि योगं माहेश्वरं प्रभो ॥ ६९

वायुरुवाच—
पञ्च धर्माः पुराणे तु रुद्रेण समुदाहृताः । माहैश्वर्यं यथा प्रोक्तं रुद्रैरक्लिष्टकर्मभिः ॥ ७०
आदित्यैर्वसुभिः साध्यैरश्विभ्यां चैव सर्वशः । मरुद्भिर्भृगुभिश्चैव ये चान्ये विबुधालयाः ॥ ७१
यमशुकपुरोगैश्च पितृकालान्तकैस्तथा । एतैश्चान्यैश्च बहुभिस्ते धर्मा पर्युपासिताः ॥ ७२
ते वै प्रक्षीणकर्माणः शारदाम्बरनिर्मलाः । उपासते मुनिगणाः संधायाऽऽत्मानमात्मनि ॥ ७३
गुरुप्रियहिते युक्ता गुरूणां वै प्रियेप्सवः । विमुच्य मानुषं जन्म विरहन्ति च देववत् ॥ ७४
महेश्वरेण ये प्रोक्ताः पञ्च धर्माः सनातनाः । तान्सर्वान्क्रमयोगेन( ण ) उच्यमानान्निबोधत ॥ ७५
प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा । स्मरणं चैव योगेऽस्मिन्पञ्च धर्माः प्रकीर्तिताः ॥ ७६
तेषां क्रमविशेषेण लक्षणं कारणं तथा । प्रवक्ष्यामि तथा तत्त्वं यथा रुद्रेण भाषितम् ॥ ७७
प्राणायामगतिश्चापि प्राणस्याऽऽयाम उच्यते । स चापि त्रिविधः प्रोक्तो मन्दो मध्योत्तमस्तथा ॥ ७८
प्राणानां च निरोधस्तु स प्राणायामसंज्ञितः । प्राणायामप्रमाणं तु मात्रा वै द्वादश स्मृताः ॥ ७९
मन्दो द्वादशमात्रस्तु उद्घाता द्वादश स्मृताः । मध्यमश्च द्विरुद्घातश्चतुर्विंशतिमात्रिकः ॥ ८०
उत्तमस्त्रिरुद्घातो मात्राः षट्त्रिंशदुच्यते । स्वेदकम्पविषादानां जननो ह्युत्तमः स्मृतः ॥ ८१
इत्येतात्त्रिविधं प्रोक्तं प्राणायामस्य लक्षणम् । प्रमाणं स समासेन लक्षणं च निबोधत ॥ ८२
सिंहो वा कुञ्जरो वापि तथाऽन्यो वा मृगो वने । गृहीतः सेव्यमानस्तु मृदुः समुपजायते ॥ ८३
( * तथा प्राणो दुराधर्षः सर्वेषामकृतात्मनाम् । योगतः सेव्यमानस्तु स एवाभ्यासतो व्रजेत् ॥ ८४
स चैव हि यथा सिंहः कुञ्जरो वापि दुर्बलः । कालान्तरवशाद्योगाद्गम्यते परिमर्दनात् ॥ ८५


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

[अ०११श्लो० १-१४] वायुपुराणम् । ३९ ( पाशुपतयोगः )

परिधाय मनो मन्दं वश्यत्वं चाधिगच्छति । परिधाय मनोदेवं तथा जीवति मारुतः ॥ ८६ वश्यत्वं हि यथा वायुर्गच्छते योगमास्थितः । तदा स्वच्छन्दतः प्राण नयते यत्र चेच्छति ॥ ८७ यथा सिंहो गजो वाऽपि वश्यत्वादवतिष्ठते । अभयाय मनुष्याणां मृगेभ्यः संप्रवर्तते ॥ ८८ यथा परिचितश्चायं वायुर्वे विश्वतोमुखः । परिध्यायमानः संरुद्धः शरीरे किल्विषं दहेत् ॥ ८९ प्राणायामेन युक्तस्य विप्रस्य नियमात्मनः । सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ॥ ९० तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये । सर्वयज्ञफलं चैव प्राणायामश्च तत्समः ॥ ९१ अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्रुते । संवत्सरशतं साग्रं प्राणायामं च तत्समम् ॥ ९२ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । प्रत्याहारेण विषयान्ध्यानेनानीश्वरान्गुणान् ॥ ९३ तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ॥ ९४ इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगे मन्वन्तरादिवर्णनं नाम दशमोऽध्यायः ॥ १० ॥ आदितः श्लोकानां समष्ट्यङ्काः- १००२

अथैकादशोऽध्यायः ।

पाशुपतयोगः ।

+वायुरुवाच-- एकं महान्तं दिवसमहोरात्रमथापि वा । अर्धमासं तथा मासमयनाद्द्वयुगानि च ॥ १ महायुगसहस्राणि ऋशयस्तपसि स्थिताः । उपासते महात्मानः प्राणं दिव्येन चक्षुषा ॥ २ अत ऊर्ध्वं प्रवक्ष्यामि प्राणायामप्रयोजनम् । फलं चैव विशेषेण यथाऽऽह भगवान्प्रभुः ॥ ३ प्रयोजनानि चत्वारि प्राणायामस्य विद्धि वै । शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च चतुष्टयम् ॥ ४ घोराकाराशिवानां तु कर्मणां फलसंभवम् । स्वयंकृतानि कालेन इहामुत्र च देहिनाम् ॥ ५ पितृमातृप्रदुष्टानां ज्ञातिसंबन्धिसंकरैः । क्षपणं हि कषायाणां पापानां शान्तिरुच्यते ॥ ६ लोभमानात्मकानां हि पापानामपि संयमः । इहामुत्र हितार्थाय प्रशान्तिस्तप उच्यते ॥ ७ सूर्येन्दुग्रहताराणां तुल्यस्तु विषयो भवेत् । ऋषीणां च प्रसिद्धानां ज्ञानविज्ञानसंपदाम् ॥ ८ अतीतानागतानां च दर्शनं सांप्रतस्य च । बुद्धस्य समतां यान्ति दीप्तिः स्मान्तप उच्यते ॥ ९ *इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च च मारुतान् । प्रसादयति येनासौ प्रसाद इति संज्ञितः ॥ १० इत्येष धर्मः प्रथमः प्राणायामश्चतुर्विधः । (÷सांनिकृष्टफलो ज्ञेयः सद्यःकालप्रसादजः ॥ ११ अत ऊर्ध्वं प्रवक्ष्यामि प्राणायामस्य लक्षणम् । आसनं च यथा तत्त्वं युञ्जतो योगमेव च ॥ १२ ओंकारं प्रथमं कृत्वा चन्द्रसूर्यो नमस्य च । आसनं स्वस्तिकं कृत्वा पद्ममर्धासनं तथा ॥ १३ समजानुरेकजानुरुत्तानः सुस्थितोऽपि च । समो दृढासनो भूत्वा संहृत्य चरणावुभौ ॥ १४


+ख. पुस्तके सूत उवांचेति पाठः । *इदमर्धं नास्ति घ. पुस्तके । ÷धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।

४० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०११श्लो०१५-४५] ( पाशुपतयोगः)

संवृतास्योऽववद्धाक्ष उरो विष्टभ्य चायतः । पार्ष्णिभ्यां वृषणौ छाद्य तथा प्रजननं यतः ॥ १५
किंचिदुन्नामितशिराः शिरो ग्रीवां तथैव च । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १६
तमः प्रच्छाद्य रजसा रजः सत्त्वेन च्छादयेत् । ततः सत्त्वस्थितो भूत्वा योगं युञ्जन्समाहितः ॥ १७
इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च समारुतान् । निगृह्य समवायेन ) प्रत्याहारमुपक्रमेत् ॥ १८
यस्तु प्रत्याहरेत्कामान्कूर्मो ज्ञानीव सर्वतः । तथाऽऽत्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ॥ १९
पूरयित्वा शरीरं तु सबाह्याभ्यन्तरं शुचिः । आकण्ठनाभियोगेन प्रत्याहारमुपक्रमेत् ॥ २०
कलामात्रस्तु विज्ञेयो निमेषोन्मेष एव च । तथा द्वादशमात्रस्तु प्राणायामो विधीयते ॥ २१
धारणाद्वादशायामो योगो वै धारणाद्वयम् । तथा वै योगयुक्तश्च ऐश्वर्यं प्रतिपद्यते ॥ २२
वीक्षते परमात्मानं दीप्यमानं स्वतेजसा । प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः ॥ २३
सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते । एवं वै नियताहारः प्राणायामपरायणः ॥ २४
जित्वा जित्वा सदा भूमिमारोहेत्तु सदा मुनिः । अजिता हि महाभूमिर्दोषानाुत्पादयेद्बहून् ॥ २५
विवर्धयति संमोहं न रोहेदजितां ततः । नालेन तु यथा तोयं यन्त्रेणैव बलान्वितः ॥ २६
आपिबेत् प्रयत्नेन तथा वायुं जितश्रमः । नाभ्यां च हृदये चैवै कण्ठे उरसि चाऽऽनने ॥ २७
नासाग्रे तु तथा नेत्रे भ्रुवोर्मध्येऽथ मूर्धनि । किंचिदूर्ध्वं परास्मिंश्च धारणा परमा स्मृता ॥ २८
प्राणायामंसमारोधात्प्राणायामः स कथ्यते । मनसो धारणा चैव धारणेति प्रकीर्तिता ॥ २९
निवृत्तिर्विषयाणां तु प्रत्याहारस्तु संज्ञितः । सर्वेषां समवाये तु सिद्धिः स्याद्योगलक्षणा ॥ ३०
तयोत्पन्नस्य योगस्य ध्यानं वै सिद्धिलक्षणम् । ध्यानयुक्तः सदा पश्येदात्मानं सूर्यचन्द्रवत् ॥ ३१
सत्त्वस्यानुपपत्तौ तु दर्शनं तु न विद्यते । अदेशकालयोर्गस्य दर्शनं तु न विद्यते ॥ ३२
अग्न्यभ्यासे वने वाऽपि शुष्कपर्णचये दथा । जन्तुव्याप्ते श्मशाने वा जीर्णगोष्ठे चतुष्पथे ॥ ३३
सशब्दे सभये वाऽपि चैत्यवल्मीकसंचये । उदपाने तथा नद्यां न चाऽऽध्मातः कदाचन ॥ ३४
क्षुधाविष्टास्तथाऽप्रीता न च व्याकुलचेतसः । युञ्जीत परमं ध्यानं योगी ध्यानपरः सदा ॥ ३५
एतान्दोषान्विनिश्चित्य प्रमादाद्यो युनक्ति वै । तस्य दोषाः प्रकुप्यन्ति शरीरे विघ्नकारकाः ॥ ३६
जडत्वं बधिरत्वं च मूकत्वं चाधिगच्छति । अन्धत्वं स्मृतिलोपश्च जरा रोगस्तथैव च ॥ ३७
एते दोषाः प्रकुप्यन्ति अज्ञानाद्यो युनक्ति वै । तस्माज्ज्ञानेन शुद्धेन योगी युञ्जीतसमाहितः ॥ ३८
अप्रमत्तः सदा चैव न देषान्प्राप्नुयात्क्वचित् । तेषां चिकित्सां वक्ष्यामि दोषाणां च यथाक्रमम् । ३९
यथा गच्छन्ति ते दोषाः प्राणायामसमुत्थिताः । स्निग्धां यवागूमृत्युष्णां भुक्त्वा तत्रावधारयेत् ॥ ४०
एतेन क्रमयोगेन(ण) वातगुल्मं प्रशाम्यति । गु(उ)दावर्तप्रतीकारमिदं कुर्याच्चिकित्सितम् ॥ ४१
भुक्त्वा दधि यवागूं वा वायुरूर्ध्वं ततो व्रजेत् । वायुग्रन्थिं ततो भित्त्वा वायुदेशे प्रयोजयेत् ॥ ४२
तथाऽपि न विशेषः स्याद्धारणां मूर्ध्नि धारयेत् । युञ्जानस्य तनुं तस्य सत्त्वस्थस्यैव देहिनः ॥ ४३
गु(उ)दावर्तप्रतीवाते एतत्कुर्याच्चिकित्सितम् । सर्वगात्रप्रकंपेन(ण) समारब्धस्य योगिनः ॥ ४४
इमां चिकित्सां कुर्वीत तया संपद्यते सुखी । मनसा पर्वतं किंचिद्विष्टम्भाकृत्य धारयेत् ॥ ४५

[अ० १२ श्लो० १-५] वायुपुराणम् । ४१

( योगोपसर्गकथनम् )

उरोऽघात उरःस्थानं कण्ठदेशे च धारयेत् । त्वचोऽवघाते तां वाचि बाधिर्ये श्रोत्रयोस्तथा ॥ ४६ जिह्वास्थाने तृषार्तस्तु अग्नेः स्नेहांश्च तन्तुभिः । फलं वै चिन्तयेद्योगी ततः संपद्यते सुखी ॥ ४७ क्षये कुष्ठे सकीलासे धारयेत्सर्वसात्विकीम् । यस्मिन्यस्मिन्त्रजोदेशे तस्मिन्युक्तो विनिर्दिशेत् ॥ ४८ योगोत्पन्नस्य विप्र(घ्न)स्य इदं कुर्याच्चिकित्सितम् । वंशकीलेन मूर्धानं धारयान(ण)स्य ताडयेत्॥४९ मूर्धिन कीलं प्रतिष्ठाप्य काष्ठं काष्ठेन ताडयेत् । भयभीतस्य सा संज्ञा ततः प्रत्यागमिष्यति ॥ ५० अथ वा लुप्तसंज्ञस्य हस्ताभ्यां तत्र धारयेत् । प्रतिलभ्य ततः संज्ञां धारणां मूर्ध्नि धारयेत् ॥ ५१ स्निग्धमल्पं च भुञ्जीत ततः संपद्यते सुखी । अमानुषेण सत्त्वेन यदा बुध्यति योगवित् ॥ ५२ दिव्यं च पृथिवीं चैव वायुमग्निं च धारयेत् । प्राणायामेन तत्सर्वं दह्यमानं वशी भवेत् ॥ ५३ अथापि प्रविशेद्देहं ततस्तं प्रतिषेधयेत् । ततः संस्तभ्य योगेन धारयान( ण )स्य मूर्धनि ॥ ५४ प्राणायामाग्निना दग्धं तत्सर्वं विलयं व्रजेत् । कृष्णसर्पपराधं तु धायरेद्धृदयोदरे ॥ ५५ महो जनस्तपः सत्यं हृदि कृत्वा तु धारयेत् । विषस्य तु फलं पीत्वा विशल्यां धारयेत्ततः ॥ ५६ सर्वतः सनगां पृथ्वीं कृत्वा मनासि धारयेत् । हृदि कृत्वा समुद्रांश्च तथा सर्वाश्च देवताः ॥ ५७ सहस्रेण घटानां च युक्तः स्नायीत योगवित् । उदके कण्ठमात्रे तु धारणां मूर्ध्नि धारयेत् ॥ ५८ प्रतिस्रोतोविषाविष्टो धारयोत्सर्वंगावित्रीकीम् । शीर्णोऽर्कपत्रपुटकैः पिबेद्वल्मीकमृत्तिकाम् ॥ ५९ चिकित्सितविधिह्यैष विश्रुतो योगनिर्मितः । व्याख्यातस्तु समासेन योगदृष्टेन हेतुना ॥ ६० ब्रुवतो लक्षणं विद्धि विप्रस्य कथयेत्क्वचित् । अथापि कथयेन्मोहात्तद्विज्ञानं प्रलीयते ॥ ६१ तस्मात्प्रवृत्तियोगंस्य न वक्तव्या कथंचन ॥ ६२ सत्त्वं तथाऽऽरोग्यमलोल्पत्वं वर्णप्रभा सुस्वरसौम्यता च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिः प्रथमा शरीरे ॥ ६३ आत्मानं पृथिवीं चैव ज्वलन्तीं यदि पश्यति । कृत्वाऽन्यं विशते चैव विद्यासिद्धिमुपस्थिताम् ॥ ६४

इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगो नामैकादशोऽध्यायः ॥ ११ ॥

आदितः श्लोकानां समष्ट्यङ्काः-१०६६

अथ द्वादशोऽध्यायः ।

योगोपसर्गकथनम् ।

सूत उवाच-- अत ऊर्ध्वं प्रवक्ष्यापि उपसर्गा यथा तथा । प्रादुर्भवन्ति ये दोषा दृष्टतत्त्वस्य देहिनः ॥ १ मानुष्यान्विविधान्कामान्कामयेत ऋतुं स्त्रियः । विद्यादानफलं चैव अपसृष्टस्तु योगवित् ॥ २ अग्निहोत्रं हविर्यज्ञमेतमतपनं तथा । मायाकर्म धनं स्वर्गमुपसृष्टस्तु काङ्क्षति ॥ ३ एषु कर्मसु युक्तस्य सोऽविद्यावशमागतः । उपसृष्टं तु जानीयाद्बुद्ध्वा चैव विसर्जयेत् ॥ ४ नित्यं ब्रह्मपरो युक्त उपसर्गात्प्रमुच्यते । जितप्रत्युपसर्गस्य जितश्वासस्य देहिनः ॥ ५

४२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० १२ श्लो० ६-३२] ( योगोपसर्गकथनम् )

उपसर्गाः प्रवर्तन्ते सात्त्वराजसतामसाः । प्रतिभा श्रवणे चैव देवानां चैव दर्शनम् ॥ ६ भ्रमावर्तश्च इत्येते सिद्धिलक्षणसंज्ञिताः । विद्या काव्यं तथा शिल्पं सर्ववाचाकृतानि तु ॥ ७ विद्यार्थाश्चोपतिष्ठन्ति प्रभावस्यैव लक्षणम् । शृणोति शब्दाञ्श्रोतव्यान्योजनानां शतादपि ॥ ८ सर्वज्ञश्च विधिज्ञश्च योगी चोन्मत्तवद्भवेत् । यक्षराक्षसगन्धर्वांन्वीक्षते दिव्यमानुषान् ॥ ९ वेत्ति तांश्च महायोगी उपसर्गस्य लक्षणम् । देवदानवगन्धर्वानृषींश्चापि यथा पितॄन् ॥ १० प्रेक्षते सर्वतश्चैव उन्मत्तं तं विनिर्दिशेत् । भ्रमेण भ्राम्यते योगी चोद्यमानोऽन्तरात्मना ॥ ११ वर्तनाक्रान्तबुद्धेस्तु ज्ञानं सर्वं प्रणश्यति । (* वार्ता नाशयते चित्तं चोद्यमानोऽन्तरात्मना ॥ १२ वर्तनाक्रान्तबुद्धेस्तु सर्वं ज्ञानं पणश्यति ) । प्रावृत्य मनसा शुक्लं पटं वा कम्बलं तथा ॥ १३ ततस्तु परमं ब्रह्म क्षिप्रमेवानुचिन्तयेत् । तस्माच्चैवाऽऽत्मनो दोषांस्तूपसर्गानुपस्थितान् ॥ १४ परित्यजेत मेधावी यदीच्छेद्वित्सिद्धिमात्मनः । ऋषयो देवगन्धर्वा यक्षोरगमहासुराः ॥ १५ उपसर्गेषु संयुक्ता आवर्तन्ते पुनः पुनः । तस्माद्युक्तः सदा योगी लघ्वाहारो जितेन्द्रियः ॥ १६ तथा सुप्तः सुसूक्ष्मेषु धारणां मूर्ध्नि धारयेत् । ततस्तु योगयुक्तस्य जितनिद्रस्य योगिनः ॥ १७ उपसर्गाः पुनश्चान्ये जायन्ते प्राणसंज्ञकाः । पृथिवीं धारयेद्धर्वी ततश्चापो ह्यनन्तरम् ॥ १८ ततोऽग्निं चैव सर्वेषामाकाशं मन एव च । ततः परां पुनर्बुद्धिं धारयेद्यत्नतो यती ॥ १९ सिद्धीनां चैव लिङ्गानि दृष्ट्वा दृष्ट्वा परित्यजेत् । पृथिवीं धारयमाणस्य मही सूक्ष्मा प्रवर्तते ॥ २० +आत्मानं मन्यते नित्यं पृथवीगन्धश्च जायते । आपो धारयमाणस्य आपःसूक्ष्मा भवन्ति हि ॥ २१ शीता रसाः प्रवर्तन्ते सूक्ष्मा ह्यमृतसंनिभाः । तेजो धारयमाणस्य तेजः सूक्ष्मं प्रवर्तते ॥ २२ (×आत्मानं मन्यते तेजस्तद्भावमनुपश्यति । = वायुं धारयमाणस्य वायुः सूक्ष्मः प्रवर्तते ॥ २३ आत्मानं मन्यते वायुं वायुवन्मण्डलं भ्रमेत् । आकाशं धारयमाणस्य व्योम सूक्ष्मं प्रवर्तते ) ॥ २४ पश्यते मण्डलं सूक्ष्मं घोषश्चास्य प्रवर्तते । () आत्मानं मन्यते नित्यं वायुः सूक्ष्मः प्रवर्तते ॥ २५ तथा मनो धारयतो मनः सूक्ष्मं प्रवर्तते । मनसा सर्वभूतानां मनस्तु विशते हि सः ॥ २६ बुद्ध्या बुद्धिं यदा युञ्जेत्तदा विज्ञाय बुध्यते । एतानि सप्त सूक्ष्माणि विदित्वा यस्तु योगवित् ॥ २७ परित्यजति मेधावी स बुद्ध्या परमं व्रजेत् । यस्मिन्यस्मिंश्च संयुक्तो भूत ऐश्वर्यलक्षणे ॥ २८ तत्रैव सङ्गं भजते तेनैव प्रविनश्यति । तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् ॥ २९ परित्यजति यो बुद्ध्या स परं प्राप्नुयाद्विजः । दृश्यते हि महात्मान ऋषयो दिव्यचक्षुषः ॥ ३० संसक्ताः सूक्ष्मभावेषु ते दोषास्तेषु संज्ञिताः । तस्मान्न निश्चयः कार्यः सूक्ष्मेष्विह कदाचन ॥ ३१ ऐश्वर्याज्जायते रागो विरागं ब्रह्म चोच्यते । विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ॥ प्रधानं विनियोगज्ञः परं ब्रह्माधिगच्छति ॥ ३२


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + इदमर्धं नास्ति क. पुस्तके × धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । = इदमर्धं नास्ति क. पुस्तके । () इदमर्धं ख. ग. घ. ङ. पुस्तकेषु नास्ति ।

[अ० १३ श्लो० १-११] वायुपुराणम् । ४३

( योगैश्वर्यनिरूपणम् )

सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥ ३३
नित्यं ब्रह्मधनो युक्त उपसगैः प्रमुच्यते । जितश्वासोपसर्गस्य जितरागस्य योगिनः ॥ ३४
एका वहिः शरीरेऽस्मिन्धारणा सार्वकामिकी । विशेद्यदा द्विजो युक्तो यत्र यत्रार्पयेन्मनः ॥ ३५
भूतान्याविशते वाऽपि त्रैलोक्यं चापि कम्पयेत् । एतया प्रविशेद्देहं हित्वा देहं पुनस्त्विह ॥ ३६
मनो द्वारं हि योगानामादित्यं च विनिर्दिशेत् । आदानादिक्रियाणां तु आदित्य इति चोच्यते ॥ ३७
एतेन विधिना योगी विरक्तः सूक्ष्मवर्जितः । प्रकृतिं समातिक्रम्य रुद्रलोके महीयते ॥ ३८
(*ऐश्वर्यगुणसंप्राप्तं ब्रह्मभूतं तु तं प्रभुम् । देवस्थानेषु सर्वेषु सर्वतस्तु निवर्तते) ॥ ३९
पैशाचेन पिशाचांश्च राक्षसेन च राक्षसान् । गान्धर्वेण च गन्धर्वान्कौबेरेण कुबेरजान् ॥ ४०
इन्द्रमैन्द्रेण स्थानेन सौम्यं सौम्येन चैव हि । प्रजापतिं तथा चैव प्राजापत्येन साधयेत् ॥ ४१
ब्राह्मं ब्राह्मेन(ण)चाप्येवमुपामन्त्रयते प्रभुम् । तत्र सक्तस्तु उन्मत्तस्तस्मात्सर्वं प्रवर्तते ॥ ४२
नित्यं ब्रह्मपरो युक्तः स्थानान्येतानि वै त्यजेत् । असज्जमानः स्थानेषु द्विजः सर्वगतो भवेत् ॥ ४३

इति महापुराणे वायुप्रोक्ते योगोपसर्गनिरूपणं नाम द्वादशोऽध्यायः ॥ १२ ॥
आदितः श्लोकानां समष्ट्यङ्काः—११०९


अथ त्रयोदशोऽध्यायः ।

योगैश्वर्यनिरूपणम् ।

वायुरुवाच—
अत ऊर्ध्वं प्रवक्ष्यामि ऐश्वर्यगुणविस्तरम् । येन योगविशेषेण सर्वलोकानतिक्रमेत् ॥ १
तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम् । तत्सर्वं क्रमयोगेन(ण) उच्यमानं निबोधत ॥ २
अणिमा लघिमा चैव महिमा प्राप्तिरेव च । प्राकाम्यं चैव सर्वत्र ईशित्वं चैव सर्वतः ॥ ३
वशित्वमथ सर्वत्र यत्र कामावसायिता । तच्चापि विविधं ज्ञेयमैश्वर्यं सार्वकामिकम् ॥ ४
सावद्यं निरवद्यं च सूक्ष्मं चैव प्रवर्तते । सावद्यं नाम यत्तत्त्वं पञ्चभूतात्मकं स्मृतम् ॥ ५
निरवद्यं तथा नाम पञ्चभूतात्मकं स्मृतम् । इन्द्रियाणि पुनश्चैव अहंकारश्च वै स्मृतम् ॥ ६
तत्र सूक्ष्मप्रवृत्तस्तु पञ्चभूतात्मकं पुनः । इन्द्रियाणि मनश्चैव बुद्धयहंकारसंज्ञितः ॥ ७
तथा सर्वमयं चैव आत्मस्था ख्यातिरेव च । संयोग एवं त्रिविधः सूक्ष्मेष्वेव प्रवर्तते ॥ ८
पुनरष्टगुणस्यापि तेष्वेवाथ प्रवर्तते । तस्य रूपं प्रवक्ष्यामि यथाऽऽसह भगवान्प्रभुः ॥ ९
त्रैलोक्ये सर्वभूतेषु जीवस्यानियत: स्मृतः । अणिमा च यथायुक्तं सर्वं तत्र प्रतिष्ठितम् ॥ १०
त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम् । तच्चापि भवति प्राप्यं प्रथमं योगिनां बलात् ॥ ११


*धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

त्रैलोक्ये सर्वभूतानां सुखदुःखै प्रवर्तते । ईशो भवति सर्वत्र प्रविभागेन योगवित् ॥ १५

४४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १४ श्लो० १-७] (पाशुपतयोगनिरूपणम्)

लम्बनं प्लवनं योगे रूपमस्य सदा भवेत् । शीघ्रगं सर्वभूतेषु द्वितीयं तत्पदं स्मृतम् ॥ १२
त्रैलोक्ये सर्वभूतानां प्राप्तिः प्राकाम्यमेव च । महिमा चापि यो यस्मिंस्तृतीयो योग उच्यते ॥ १३
त्रैलोक्ये सर्वभूतेषु त्रैलोक्यमगमं स्मृतम् । प्रकामान्विषयान्भुङ्क्ते न च प्रतिहतः क्वचित् ॥ १४
त्रैलोक्ये सर्वभूतानां सुखदुःखै प्रवर्तते । ईशो भवति सर्वत्र प्रविभागेन योगवित् ॥ १५
वश्यानि चैव भूतानि त्रैलोक्ये सचराचरे । भवन्ति सर्वकार्येषु इच्छतो न भवन्ति च ॥ १६
*यत्र कामावसायित्वं त्रैलोक्ये सचराचरे । इच्छया चेन्द्रियाणि स्युर्भवन्ति न भवन्ति च ॥ १७
शब्दः स्पर्शो रसो गन्धो रूपं चैव मनस्तथा । प्रवर्ततेऽस्य चेच्छातो न भवन्ति तथेच्छया ॥ १८
न जायते न म्रियते भिद्यते न च छिद्यते । न दह्यते न मुह्येत हीयते न च लिप्यते ॥ १९
न क्षीयते न क्षरति न खिद्यति कदाचन । क्रियते चैव सर्वत्र तथा विक्रियते न च ॥ २०
अगन्धरसरूपस्तु स्पर्शशब्दविवर्जितः । अवर्णो ह्रस्वरश्चैव तथा वर्णस्य कार्हीचित् ॥ २१
भुङ्क्तेऽथ विषयांश्र्चैव विषयैर्न च युज्यते । ज्ञात्वा तु परमं सूक्ष्मं सूक्ष्मत्वाच्चापवर्गकः ॥ २२
व्यापकस्त्वपवर्गाच्च व्याप्तित्वात्पुरुषः स्मृतः । पुरुषः सूक्ष्मभावात्तु ऐश्वर्ये परतः स्थितः ॥ २३
गुणान्तरं तु ऐश्वर्ये सर्वतः सूक्ष्म उच्यते । ऐश्वर्यमप्रतीघाति प्राप्य योगमनुत्तमम् ॥
अपवर्गं ततो गच्छेत्सुसूक्ष्मं परमं पदम् ॥ २४

इति महापुराणे वायुप्रोक्ते योगैश्वर्यनिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-११३३

अथ चतुर्दशोऽध्यायः ।
पाशुपतयोगनिरूपणम् ।

वायुरुवाच--
न चैवमागतो ज्ञानादागात्कर्म समाचरेत् । राजसं तामसं वाऽपि भुक्त्वा तत्रैव युज्यते ॥ १
तथा सुकृतकर्मा तु फलं स्वर्गे समश्नुते । तस्मात्स्थानात्पुनर्भ्रष्टो मानुष्यमनुपद्यते ॥ २
तस्माद्ब्रह्म परं सूक्ष्मं ब्रह्म शाश्वतमुच्यते । ब्रह्म एव हि सेवेत ब्रह्मैव परमं सुखम् ॥ ३
परिश्रमस्तु यज्ञानां महताऽर्थेन वर्तते । भूयो मृत्युवशं याति तस्मान्मोक्षः परं सुखम् ॥ ४
अथ वै ध्यानसंयुक्त ब्रह्मयज्ञपरायणः । न च स्याद्व्यापितुं शक्यो मन्वन्तरशतैरपि ॥ ५
दृष्ट्वा तु पुरुषं दिव्यं विश्वारुख्यं विश्वरूपिणम् । विश्वपादाशिरोग्रीवं विश्वेशं विश्वभावनम् ॥
विश्वगन्धं विश्वमाल्यं विश्वाम्बरधरं प्रभुम् ॥ ६
गोभिर्महीं संयतते पतत्रिणं महात्मानं परममतिं वरेण्यम् ।
कविं पुराणमनुशासितारं सूक्ष्माच्च सूक्ष्मं महतो महान्तम् ॥ ७


* न दृश्यतेऽयं श्लोकः ख. घ. पुस्तकयोः।

[अ० १४ श्लो० ८-३२] वायुपुराणम् ४५ ( पाशुपतयोगनिरूपणम् )

योगेन पश्यन्ति न चक्षुषा तं निरिन्द्रियं पुरुषं रुक्मवर्णम् । अलिङ्गिनं पुरुषं रुक्मवर्णं सलिङ्गिनं निर्गुणं चेतनं च ॥ ८ नित्यं सदा सर्वगतं तु शौचं पश्यन्ति युक्त्या ह्यचलं प्रकाशम् । तद्भावितस्तेजसा दीप्यमानः अ( नो ह्य )पाणिपादोदरपार्श्वजिह्वः ॥ ९ अतीन्द्रियोऽद्यापि सुसूक्ष्म एकः पश्यत्यचक्षुः स शृणोत्यकर्णः । नास्यास्त्यबुद्धं न च बुद्धिरस्ति स वेद सर्वं न च वेदवेद्यः ॥ १० तमाहुरग्र्यं पुरुषं महान्तं सचेतनं सर्वगतं सुसूक्ष्मम् ॥ ११

तमाहुर्मुनयः सर्वे लोके प्रसवधर्मिणीम् । प्रकृतिं सर्वभूतानां युक्ताः पश्यन्ति चेतसा ॥ १२ सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ युक्ता योगेन चेशानं सर्वतश्च सनातनम् । पुरुषं सर्वभूतानां तस्माद्ध्याता न मुह्यति ॥ १४ ( +भूतात्मानं महात्मानं परमात्मानमव्ययम् । सर्वात्मानं परं ब्रह्म तद्वै ध्यात्वा न मुह्यति ) ॥ १५ पवनो हि यथा ग्राह्यो विचरन्सर्वमूर्तिषु । पुरि शेते तथाऽङ्गे च तस्मात्पुरुष उच्यते ॥ १६ अथ चेल्लुप्तधर्मात्तु सविशेषैश्च कर्मभिः । ततस्तु ब्रह्म योन्यां वै शुक्रशोणितसंयुतम् ॥ १७ स्त्रीपुमांस(पुंसयोः)प्रयोगेण जायते हि पुनः पुनः । ततस्तु गर्भकाले तु कललं नाम जायते ॥ १८ कालेन कलनं(लं) चापि बुद्बुदश्च प्रजायते । मृत्पिण्डस्तु यथा चक्रे चक्रावर्तेन पीडितः ॥ १९ हस्ताभ्यां क्रियमाणस्तु विश्वत्वमुपगच्छति । एवमात्मास्थिसंयुक्तो वायुना समुदीरितः ॥ २० जायते मानुषस्तत्र यथा रूपं तथा मनः । वायुः संभवते तेषां वातात्संजायते जलम् ॥ २१ जलात्संभवति प्राणः प्राणाच्छुक्रं विवर्धते । रक्तभागास्त्रयस्त्रिंशच्छुक्रभागाश्चतुर्दश ॥ २२ भागतोऽर्धपलं कृत्वा ततो गर्भे निषिच्यते । ततस्तु गर्भसंयुक्तः पञ्चभिर्वायुभिर्वृतः ॥ २३ पितुः शरीरात्प्रत्यङ्गं रूपमस्योपजायते । ततोऽस्य मातुराहारात्पीतलीढं प्रवेशितम् ॥ २४ नाभिः स्रोतःप्रवेशेन प्राणाधारो हि देहिनाम् । नव मासान्परिक्लिष्टः संवेष्टितशिरोधरः ॥ २५ वेष्टितः सर्वगात्रैश्च अपर्यायक्रमागतः । नवमासोषितश्चैव योनिच्छिद्रादवाङ्मुखः ॥ २६ ततस्तु कर्मभिः पापैर्निरयं प्रतिपद्यते । असिपत्रवनं चैव शाल्मलीच्छेदभेदयोः ॥ २७ तत्र निर्भर्त्सनं चैव तथा शोणितभोजनम् । एतास्तु यातना घोराः कुम्भीपाकसुदुःसहाः ॥ २८ यथा ह्यापस्तु विच्छिन्नाः स्वरूपमुपयान्ति वै । तस्माच्छिन्नाश्च भिन्नाश्च यातनास्थानमागताः ॥ एवं जीवस्तु तैः पापैस्तप्यमानः स्वयंकृतैः । प्राप्नुयात्कर्मभिः शेषं दुःखं वा यदि चेतरम्(त्) ॥ ३० एकेनैव तु गन्तव्यं सर्वमृत्युनिवेशनम् । एकेनैव च भोक्तव्यं तस्मात्सुकृतमाचरेत् ॥ ३१ न ह्येनं प्रस्थितं कश्चिद्गच्छन्तमनुगच्छति । वदनेन कृतं कर्म तदेनमनुगच्छति ॥ ३२


  • धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
४६श्रीमद्वैपायनमुनिप्रणीतम्-[अ १५ श्लो ० १-१२]
(पाशुपतयोगनिरूपणम्)

ते नित्यं यमविषये विभिन्नदेहाः क्रोशन्तः सततमनिष्टसंप्रयोगैः।
शुष्यन्ते परिगतवेदना शरीरा बह्वीभिः सुभृशमधर्मयातनाभिः॥ ३३
कर्मणा मनसा वाचा यद्भक्षिणं निषेव्यते। तत्प्रसह्य हरेत्पापं तस्मात्सुकृतमाचरेत्॥ ३४
यादृग्जातानि पापानि पूर्वं कर्माणि देहिनः। संसारं तामसं तादृक्षड्विधं प्रतिपद्यते॥ ३५
मानुष्यं पशुभावं च पशुभावान्मृगो भवेत्। मृगत्वात्पक्षिभावं तु तस्माच्चैव सरीसृपः॥ ३६
सरीसृप्त्वाद्गच्छेद्धि स्थावरत्वं न संशयः। स्थावरत्वं पुनः प्राप्तो यावदग्निपते नरः॥ ३७
कुलालचक्रवद्भ्रान्तस्तत्रैव परिकीर्तितः। इत्येवं हि मनुष्यादिः संसारे स्थावरान्तिके॥ ३८
विज्ञेयस्तामसो नाम तत्रैव परिवर्तते। सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्तितः॥ ३९
पिशाचान्तः स विज्ञेयः स्वर्गस्थानेषु देहिनाम्। ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः॥ ४०
चतुर्दशानां स्थानानां मध्ये विष्टम्भकं रजः। मर्मसु छिद्यमानेषु वेदनार्तस्य देहिनः॥ ४१
ततस्तु परमं ब्रह्म कथं विप्रः स्मरिष्यति। संस्कारात्पूर्वधर्मस्य भावनायां मनो(णो)दितः॥
मानुष्यं भजते नित्यं तस्मान्नित्यं समाधेत्॥ ४२

इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगनिरूपणं नाम चतुर्दशोऽध्यायः॥ १४॥
आदितः श्लोकानां समष्ट्यङ्काः—११७५


अथ पञ्चदशोऽध्यायः।

पाशुपतयोगनिरूपणम्।

वायुरुवाच—
चतुर्दशविधं ह्येतद्बुद्ध्वा संसारमण्डलम्। तथा समारभेत्कर्म संसारभयपीडितः॥ १
ततः स्मरति संसारं चक्रेण परिवर्तितः। तस्मात्तु सततं मुक्तो ध्यानतत्परयुञ्जकः॥ २
तथा समारभेद्योगं यथाऽऽत्मानं स पश्यति। एष आद्यः परं ज्योतिरेष सेतुरुत्तमः॥ ३
विवृद्धो ह्येष भूतानां न संभेदश्च शाश्वतः। तदेनं सेतुमात्मानमग्निं वै विश्वतोमुखम्॥ ४
हृदिस्थं सर्वभूतानामुपासीत विधानवित्। हुत्वाऽष्टावाहुतीः सम्यक्शुचिस्तद्गतमानसः॥ ५
वैश्वानरं हृदिस्थं तु यथावदनुपूर्वशः। अपः पूर्वं सकृत्प्राश्य तूष्णीं भूत्वा उपासते॥ ६
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता। अपानाय द्वितीया तु समानायेति चापरा॥ ७
उदानाय चतुर्थीति व्यानायेति च पञ्चमी। स्वाहाकारैः परं हुत्वा शेषं भुञ्जीत कामतः॥ ८
अपः पुनः सकृत्प्राश्य त्वाचम्य हृदयं स्पृशेत्। ॐ प्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः
स रुद्रो ह्यात्मनः प्राणा एवमाप्याययेत्स्वयम्। त्वं देवानामपि ज्येष्ठ उग्रस्त्वं चतुरो वृषा॥ १०
मृत्युध्नोऽसि त्वमस्मभ्यं भद्रमेतद्धुतं हविः। एवं हृदयमालभ्य पादाङ्गुष्ठे तु दक्षिणे॥ ११
विश्राव्य दक्षिणं पाणिं नाभिं वै पाणिना स्पृशेत्। ततः पुनरुपस्पृश्य चाऽऽत्मानमभिसंस्पृशेत्॥ १२

[अ० १६ श्लो० १-१९] वायुपुराणम् । ४७

( शौचाचारलक्षणनिरूपणम् ) *अक्षिणी नासिका श्रोत्रं हृदयं शिर एव च । द्वावात्मानावुभावैतौ प्राणापानावुदाहृतौ ॥ १३ तयोः प्राणोऽन्तरात्माऽस्य बाह्योऽपानोऽत उच्यते । अन्नं प्राणस्तथाऽपानं मृत्युर्जीवितमेव च ॥ १४ अन्नं ब्रह्म च विज्ञेयं प्रजानां प्रसवस्तथा । अन्नाद्भूतानि जायन्ते स्थितिरन्नेन चेष्यते ॥ १५ वर्धन्ते तेन भूतानि तस्मादन्नं तदुच्यते । तदेवाग्नौ हुतं सर्वं भुञ्जते देवदानवाः ॥ १६ गन्धर्वयक्षरक्षांसि पिशाचाश्चान्नमेव हि ॥ इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगनिरूपणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ आदितः श्लोकानां समष्ट्यङ्काः--११९२

अथ षोडशोऽध्यायः । शौचाचारलक्षणनिरूपणम् ।

वायुरुवाच-- अत ऊर्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम् । यदनुष्ठाय शुद्धात्मा प्रेत्य स्वर्गं हि चाऽश्नुयात् ॥ १ उदकार्थी तु शौचानां मुनीनामुत्तमं पदम् । यस्तु तेष्वप्रमत्तः स्यान्स मुनिर्नावसीदति ॥ २ मानावमानौ द्वावेतौ तावेवाऽऽहुर्विषामृते । अवमानं विषं तत्र मानस्त्वमृतमुच्यते ॥ ३ यस्तु तेष्वप्रमत्तः स्यात्स मुनिर्नावसीदति । गुरोः प्रियहिते युक्तः स तु संवत्सरं वसेत् ॥ ४ नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत् । प्राप्यानुज्ञां ततश्चैव ज्ञानागमनमुत्तमम् ॥ ५ अविरोधेन धर्मस्य विचरेत्पृथिवीमिमाम् । चक्षुपूतं व्रजेन्मार्गं वस्त्रपूतं जलं पिबेत् ॥ ६ सत्यपूतां वदेद्वाणीमिति धर्मानुशासनम् । आतिथ्यं श्राद्धयज्ञेषु न गच्छेदयोगवित्क्वचित् ॥ ७ एवं ह्यहिंसको योगी भवेदिति विचारणा । वह्नौ विधूमे व्यङ्गारे सर्वस्मिन्मुक्तवज्जने ॥ ८ विचरेन्मतिमान्योगी न तु तेष्वेव नित्यशः । यथैवमवमन्यन्ते यथा परिभवन्ति च ॥ ९ युक्तस्तथाऽऽचरेद्भैक्षं सतां धर्ममदूषयन् । भैक्षं चरेद्गृहस्थेषु यथाचारगृहेषु च ॥ १० श्रेष्ठा तु परमा चेयं वृत्तिरस्योपदिश्यते । अत ऊर्ध्वं गृहस्थेषु शालीनेषु चरेद्विजः ॥ ११ श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु । अत ऊर्ध्वं पुनश्चापि अदुष्टपतितेषु च ॥ १२ भैक्षचर्या त्रिवर्णेषु जघन्या वृत्तिरुच्यते । भैक्षं यवागूं तक्रं वा पयो यावकमेव च ॥ १३ फलमूलं विपक्वं वा पिण्याकं शक्तितोऽपि वा । इत्येते वै मया प्रोक्ता योगिनां सिद्धिवर्धना ॥ १४ आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्षमिति स्मृतम् । अब्बिन्दु यः कुशाग्रेण मासे मासे समश्नुते ॥ १५ न्यायतो यस्तु भिक्षेत स पूर्वोक्ताद्विशिष्यते । योगिनां चैव सर्वेषां श्रेष्ठं चान्द्रायणं स्मृतम् ॥ १६ एकं द्वे त्रीणि चत्वारि शक्तितो वा समाचरेत् । अस्तेयं ब्रह्मचर्यं च अलोभस्त्याग एव च ॥ १७ व्रतानि चैव भिक्षूणामहिंसा परमार्शिता । अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ॥ १८ नित्यं स्वाध्याय इत्येते नियमाः परिकीर्तिताः । बीजयानिनिर्गुणवपुर्वृद्धः कर्मभिरेव च ॥ १९


* इदमर्धं नास्ति ख. घ पुस्तकयोः ।

४८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७-१८-श्लो० १-८।१-२] ( परमाश्रमविधियतित्प्रायश्चित्तविध्योः कथनम् )

यथा द्विप इवारण्ये मनुष्याणां विधीयते । प्राप्यते वाऽचिरादेवाङ्कुशेनेव निवारितः ॥ २० एवं ज्ञानेन शुद्धेन दग्धबीजो ह्यकल्मषः । विमुक्तबन्धः शान्तोऽसौ मुक्त इत्यभिधीयते ॥ २१ वेदैस्तुल्याः सर्वयज्ञक्रियास्तु यज्ञे जप्यं ज्ञानिनामाहुरग्र्यम् । ज्ञानाद्ध्याने सङ्गरागव्यपेतं तस्मिन्प्राप्ते शाश्वतस्योपलब्धिः ॥ २२ दमः शमः सत्यमकल्मषत्वं मौनं च भूतेष्वखिलेष्वथाऽऽर्जवम् । अतीन्द्रियज्ञानमिदं तथाऽऽर्जवं प्राहुस्तथा ज्ञानविशुद्धसत्त्वाः ॥ २३ समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैवाऽऽत्मरतिर्जितेन्द्रियः । समाप्नुयुर्योगमिमं महाधियो महर्षयश्चैवमनिन्दितामलाः ॥ २४

इति श्रीमहापुराणे वायुप्रोक्ते शौचाचारलक्षणनिरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥ आदितः श्लोकानां समष्ट्यङ्काः--१२१६


अथ सप्तदशोऽध्यायः । परमाश्रमविधिकथनम् ।

वायुरुवाच-- आश्रमत्रयमुत्सृज्य प्राप्तस्तु परमाश्रमम् । अतः संवत्सरस्यान्ते प्राप्य ज्ञानमनुत्तमम् ॥ १ अनुज्ञाप्य गुरुं चैव विचरेत्पृथिवीमिमाम् । सारभूतमुपासीत ज्ञानं यज्ज्ञेयसाधकम् ॥ २ इदं ज्ञानमिदं ज्ञेयमिति यस्तृषितश्चरेत् । अपि कल्पसहस्रायुर्नैव ज्ञेयमवाप्नुयात् ॥ ३ त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः । विधाय बुद्ध्या द्वाराणि ध्याने ह्येव मनो दधेत् ॥ ४ शून्येष्वेवावकाशेषु गुहासु च वने तथा । नदीनां पुलिने चैव नित्यं युक्तः सदा भवेत् ॥ ५ वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः । यस्यैते नियता दण्डाः स त्रिदण्डी व्यमस्थितः ॥ ६ अवस्थितो ध्यानरतिर्जितेन्द्रियः शुभाशुभे हित्य च कर्मणी उभे ॥ ७ इदं शरीरं प्रविमुच्य शाश्वतो न जायते म्रियते वा कदाचित् ॥ ८

इति श्रीमहापुराणे वायुप्रोक्ते परमाश्रमविधिकथनं नाम सप्तदशोऽध्यायः ॥ १७ ॥ आदितः श्लोकानां समष्ट्यङ्काः--१२२४


अथाष्टादशोऽध्यायः । यतिप्रायश्चित्तविधिकथनम् ।

वायुरुवाच-- अत ऊर्ध्वं प्रवक्ष्यामि यतीनामिह निश्चयम् । प्रायश्चित्तानि तत्त्वेन यान्यकामकृतानि तु ॥ १ अथ कामकृतेऽप्याहुः सूक्ष्मधर्मविदो जनाः । पापं च त्रिविधं प्रोक्तं वाङ्मनःकायसंभवम् ॥ २

[अ० १९श्लो० १-३] वायुपुराणम् । ४९ ( अरिष्टनिरूपणम् )

सततं हि दिवा रात्रौ येनेदं बध्यते जगत् । न कर्माणि न चाप्येष तिष्ठतीति परा श्रुतिः ॥ ३ क्षणमेव प्रयोज्यं तु आयुषस्तु विधारणात् । भवेद्धीरोऽप्रमत्तस्तु योगो हि परमं बलम् ॥ ४ न हि योगात्परं किंचिज्जराणामिह दृश्यते । तस्माद्योगं प्रशंसन्ति धर्मयुक्ता मनीषिणः ॥ ५ अविद्यां विद्यया तीर्त्वा प्राप्यैश्वर्यमनुत्तमम् । दृष्ट्वा परापरं धीराः परं गच्छन्ति तत्पदम् ॥ ६ व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च । एकैकापक्रमे तेषां प्रायश्चित्तं विधीयते ॥ ७ उपेत्य तु स्त्रियं कामात्प्रायश्चित्तं विनिर्दिशेत् । प्राणायामसमायुक्तं कुर्यात्सांतपनं तथा ॥ ८ ततश्चरति निर्देशं कृच्छ्रस्यान्ते समाहितः । पुनराश्रममागम्य चरेद्भिक्षुरतन्द्रितः ॥ ९ न म(न)र्मयुक्तं वचनं हिनस्तीति मनीषिणः । तथाऽपि च न कर्तव्यः प्रसङ्गो ह्येष दारुणः ॥ १० अहोरात्राधिकः कश्चिन्नास्त्यधर्म इति श्रुतिः । हिंसा ह्येषा परा सृष्टा दैवतैर्मुनिभिस्तथा ॥ ११ यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः । स तस्य हरति प्राणान्यो यस्य हरते धनम् ॥ १२ एवं कृत्वा स दुष्टात्मा भिन्नवृत्तौ व्रताच्युतः । भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम् ॥ १३ विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः । ततः संवत्सरस्यान्ते भूयः प्रक्षीणकल्मषः ॥ १४ भूगे निर्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः । अहिंसा सर्वभूतानां कर्मणा मनसा गिरा ॥ १५ अकामादपि हिंसेत यदि भिक्षुः पशून्मृगान् । कृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथापि वा ॥ १६ स्कन्देदिन्द्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि । तेन धारयितव्या वै प्राणायामास्तु षोडश ॥ १७ दिवा स्कन्नस्य विप्रस्य प्रायश्चित्तं विधीयते । (*त्रिरात्रमुपवासश्च प्राणायामशतं तथा ॥ १८ रात्रौ स्कन्नः शुचिः स्नातो द्वादशैव तु धारणाः । प्राणायामेन शुद्धात्मा विरजा जायते द्विजः ॥ १९ एकान्नं मधु मांसं वा ह्यामश्राद्धं तथैव च । अभोज्यानि यतीनां च प्रत्यक्षलवणानि च ॥ २० एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ) । प्राजापत्येन कृच्छ्रेण ततः पापात्प्रमुच्यते ॥ २१ व्यतिक्रमाच्च ये केचिद्वाङ्मनःकायसंभवम् । सद्भिः सह विनिश्चित्य यद्ब्रूयुस्तत्समाचरेत् ॥ २२ विशुद्धबुद्धिः समलोष्टकाञ्चनः समस्तभूतेषू चरन्समाहितः ॥ स्थानं ध्रुवं शाश्वतमव्ययं सतां परं स गत्वा न पुनर्हि जायते ॥ २३ इति श्रीमहापुराणे वायुप्रोक्ते यतिप्रायश्चित्तविधिकथनं नामाष्टादशोऽध्यायः ॥ १८ ॥

आदितः श्लोकानां समष्ट्यङ्काः—१२४७


अथैकोनविंशोऽध्यायः ।

अरिष्टनिरूपणम् ।

वायुरुवाच— अत ऊर्ध्वं प्रवक्ष्यामि अरिष्टानि निबोधत । येन ज्ञानविशेषेण मृत्युं पश्यति चात्मनः ॥ १ अरुन्धती ध्रुवं चैव सोमच्छायां महापथम् । यो न पश्येत्स नो जीवेन्नरः संवत्सरात्परम् ॥ २ अरश्मिवन्तमादित्यं रश्मिवन्तं च पावकम् । यः पश्येन्न च जीवेत मासादेकादशात्परम् ॥ ३


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

अग्रतः पृष्ठतो वाऽपि खण्डं यस्य पदं भवेत् । पांशुले कईमे वाऽपि सप्त मासान्स जीवति ॥ ५

५०. श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०४-३३] ( अरिष्टनिरूपणम् )

वमेन्मूत्रं करीषं वा सुवर्णं रजतं तथा । प्रत्यक्षम्थ वा स्वप्ने दश मासान्स जीवति ॥ ४ अग्रतः पृष्ठतो वाऽपि खण्डं यस्य पदं भवेत् । पांशुले कईमे वाऽपि सप्त मासान्स जीवति ॥ ५ काकः कपोतो गृध्रो वा निलियेद्यस्य मूर्धनि । क्रव्यादो वा खगः कश्चित्षण्मासान्नातिवर्तते ॥ ६ बध्येद्यायसपङ्कीभिः पांशुवर्षेण वा पुनः । छायां वा विकृतां पश्येच्चतुः पञ्च स जीवति ॥ ७ अनभ्रे विद्युतं पश्येद्दक्षिणां दिशमाश्रिताम् । उदकेन्द्रधनुर्वाऽपि त्रयो द्वौ वा स जीवति ॥ ८ अप्सु वा यदि वाऽऽदर्श आत्मानं यो न पश्यति । आशिरस्कं तथाऽऽत्मानं मासादूर्ध्वं न जीवति ॥ ९ शवगन्धि भवेद्गात्रं वशा(सा)गन्धि व्यथापि वा । मृत्युह्युपस्थितस्तस्य अर्धमासं स जीवति ॥ १० (*यस्य वै स्नातमात्रस्य हृत्पादं वाऽवशुष्यति। धूमो(मं)वा मस्तकान्पश्ये(त्पश्ये)द्दशाहं न स जीवति) ॥ संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति । अद्भिः स्पृष्टो न हृष्येच्च तस्य मृत्युरुपस्थितः॥१२ - ऋक्षवानरयुक्तेन रथेनाऽऽशां तु दक्षिणाम् । गायन्नथ व्रजेत्स्वप्ने विद्यान्मृत्युरुपस्थितः ॥ १३ कृष्णाम्बरधरा श्यामा गायन्ती वाऽथ चाङ्गना । यन्नयेद्दक्षिणामाशां स्वप्ने सोऽपि न जीवति ॥ १४ छिद्रं वासश्च कृष्णं च स्वप्ने यो बिभृयान्नरः । भग्नं वा श्रवणं दृष्ट्वा विद्यान्मृत्युरुपस्थितः ॥ १५ आ मस्तकतलाद्यस्तु निमज्जेत्पङ्कसागरे । दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥ १६ भस्माङ्गारांश्च केशांश्च नदीं शुष्कां भुजंगमान् । पश्येद्यो दशरात्रं तु न स जीवेत तादृशः ॥ १७ कृष्णैश्च विकटैश्चैव पुरुषैरुद्यतायुधैः । पाषाणैस्ताडयते स्वप्ने सद्य एव न जीवति ॥ १८ सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवा । क्रोशन्ती संमुखाऽभ्येति स गतायुर्भवेन्नरः ॥ १९ यस्य वै स्नातमात्रस्य हृदयं पीड्यते भृशम् । जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥ २० भूयो भूयः श्वसेद्यस्तु रात्रौ वा यदि वा दिवा । दीपगन्धं च नो वेत्ति विद्यान्मृत्युमुपस्थितम् ॥ २१ रात्रौ चेन्द्रायुधं पश्येद्दिवा नक्षत्रमण्डलम् । परनेत्रेषु चाऽऽत्मानं न पश्येन्न स जीवति ॥ २२ नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः । नासा च वक्रा भवति स ज्ञेयो गतजीवितः ॥ २३ यस्य कृष्णा खरा जिह्वा पङ्कभासं च वै मुखम् । गण्डे चिपिटके रक्ते तस्य मृत्युरुपस्थितः॥ २४ मुक्तकेशो हसंश्चैव गायन्नृत्यंश्च यो नरः । याम्याशाभिमुखो गच्छेत्तदन्तं तस्य जीवितम् ॥ २५ यस्य स्वेदसमुद्भूताः श्वेतसर्षपसंनिभाः । स्वेदा भवन्ति ह्यसकृत्तस्य मृत्युरुपस्थितः ॥ २६ उष्ट्रा वा रासभा वाऽपि युक्ताः स्वप्ने रथेऽशुभाः । यस्य सोऽपि न जीवेत दक्षिणाभिमुखो गतः२७ द्वे चात्र परमे रिष्टे एतद्रूपं परं भवेत् । घोषं न शृणुयात्कर्णे ज्योतिर्नेत्रे न पश्यति ॥ २८ श्वभ्रे यो निपतेत्स्वप्ने द्वारं चास्य न विद्यते । न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥ २९ ऊर्ध्वां च दृष्टिं च संप्रतिष्ठा रक्ता पुनः संपरिवर्तमाना । मुखस्य चोष्मा शुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव ॥ ३० दिवा वा यदि वा रात्रौ प्रत्यक्षं योऽभिहन्यते । तं पश्येदथ हन्तारं स हतस्तु न जीवति ॥ ३१ अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः । स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम् ॥ ३२ यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः । रक्तं कृष्णमपि स्वप्ने तस्य मृत्युरुपस्थितः ॥ ३३


* धनुश्चिह्नान्तर्गतग्रन्थः क. घ. पुस्तकयोर्नास्ति ।

[अ० २० श्लो० १-१५] वायुपुराणम् ५१
( ओंकारप्राप्तिलक्षणनिरूपणम् )

अरिष्टसूचिते देहे तस्मिन्काल उपागते । त्यक्त्वा भयविषादं च उद्वच्छेद्वुद्धिमान्नरः ॥ ३४
प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्य वै शुचिः । समेऽतिस्थावरे देशे विविक्ते जनवर्जिते ॥ ३५
उदङ्मुखः प्राङ्मुखो वा स्वस्थः स्वाचान्त एव च । स्वस्तिकोपानिविष्टश्च नमस्कृत्या(त्य)महेश्वरम् ॥
सम(मं)कायशिरोग्रीवं धारयेन्नावलोकयेत् । यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ॥ ३७
प्रागुदक्प्रवणे देशे तस्माद्युञ्जीत यागवित् । ( +कामं वितर्कं प्रीतिं च सुखदुःखे उभे य(त)था ॥ ३८
निगृह्य मनसा सर्वं शुक्लध्यानमनुस्मरेत् ) । घ्राणे च रमते नित्यं चक्षुषोः स्पर्शने तथा ॥ ३९
श्रोत्रे मनसि बुद्धौ च तथा वक्षसि धारयेत् । कालधर्मं च विज्ञाय समूहं चैव सर्वशः ॥ ४०
द्वादशाध्यात्म इत्येवं योगधारणमुच्यते । शतमष्टशतं वापि धारणां मूर्ध्नि धारयेत् ॥ ४१
न तस्य धारणाद्योगाद्वायुः सर्वं प्रवर्तते । ततस्त्वपूर्यद्देहर्मोंकारेण समाहितः ॥ ४२
अथोंकारमयो योगी न चरेत्त्वक्षरी भवेत् ॥ ४३
इति महापुराणे वायुप्रोक्तेऽरिष्टनिरूपणं नामैकोनविंशोऽध्यायः ॥ १९ ॥
आदितः श्लोकानां समष्ट्यङ्काः—१२९०

अथ विंशोऽध्यायः ।

ओंकारप्राप्तिलक्षणनिरूपणम् ।

वायुरुवाच—
अत ऊर्ध्वं प्रवक्ष्यामि ओंकारप्राप्तिलक्षणम् । एष त्रिमात्रो विज्ञेयो व्यञ्जनं चात्र सस्वरम् ॥ १
प्रथमा वैद्युती मात्रा द्वितीया तामसी स्मृता । तृतीयां निर्गुणां विद्यान्मात्रामक्षरगामिनीम् ॥ २
ग(गा)न्धर्वीति च विज्ञेया गान्धारस्वरसंभवा । पिपीलिकासमस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते ॥ ३
तथा प्रयुक्तमोंकारं प्रति निर्वाति मूर्धान । तथोंकारमयो योगी ह्यक्षरे त्वक्षरी भवेत् ॥ ४
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ५
ओमित्येकाक्षरं ब्रह्म गुहायां निहितं पदम् । ओमित्येतेत्रयो वेदास्त्रयो लोकास्त्रयोऽग्नयः ॥ ६
विष्णुकमास्त्रयस्त्वेते ऋक्सामानि यजूंषि च । मात्राश्चास्य चतस्रस्तु विज्ञेयाः परमार्थतः ॥ ७
तत्र युक्तश्च यो योगी तस्य सालोक्यतां व्रजेत् । आकारस्त्वक्षरो ज्ञेय उकारः स्वरितः स्मृतः ॥ ८
मकारस्तु प्लुतो ज्ञेयस्त्रिमात्र इतिसंज्ञितः । अकारस्त्वथ भूर्लोक उकारो भुव उच्यते ॥ ९
सव्यञ्जनो मकारश्च स्वर्लोकश्च विधीयते । ओंकारस्तु त्रयो लोकाः शिरस्तस्य त्रिविष्टपम् ॥ १०
भुवनान्तं च तत्सर्वं ब्राह्मं तत्पद्मुच्यते । मात्रापदं रुद्रलोको ह्यमात्रस्तु शिवं पदम् ॥ ११
एवं ध्यानविशेषेण तत्पदं समुपासते । तस्माद्ध्यानरतोर्नित्यममात्रं हि तदक्षरम् ॥ १२
उपास्यं हि प्रयत्नेन शाश्वतं पदमिच्छता । ह्रस्वा तु प्रथमा मात्रा ततो दीर्घा त्वनन्तरम् ॥ १३
ततः प्लुतवती चैव तृतीया उपदिश्यते । एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः ॥ १४
यावच्चैव तु शक्यन्ते धार्यन्ते तावदेव हि । इन्द्रियाणि मनो बुद्धिं ध्यायन्नात्मानि यः सदा ॥ १५

+ धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।

५३ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०२०श्लो० १६-३२] ( ओंकारप्राप्तिलक्षणनिरूपणम् )

अत्राष्टमात्रमपि चेच्छृणुयात्फलमाप्नुयात् । मासे मासेऽश्वमेधेन यो यजेत शतं समाः ॥ १६ न स तत्प्राप्नुयात्पुण्यं मात्रया यदवाप्नुयात् । अब्बिन्दुं यः कुशाग्रेण मासे मासे पिबेन्नरः ॥ १७ संवत्सरशतं पूर्णं मात्रया तदवाप्नुयात् । इष्टापूर्तस्य यज्ञस्य सत्यवाक्ये च यत्फलम् ॥ १८ अब्भक्षणे च मां(मा)सस्य मात्रया तदवाप्नुयात् । स्वाम्यर्थे युध्यमानानां शूराणामनिवर्तिनाम् ॥ १९ यद्भवेत्तत्फलं दृष्टं मात्रया तदवाप्नुयात् । न तथा तपसोग्रेण न यज्ञैर्भूरिदक्षिणैः ॥ २० यत्फलं प्राप्नुयात्सम्यङ्मात्रया तदवाप्नुयात् । तत्र वै योऽर्धमात्रो यः प्लुतो नामोपदिष्यते ॥ २१ एषा एव भवेत्कार्या गृहस्थानां तु योगिनाम् । एषा चैव विशेषेण ऐश्वर्यसमलक्षणा ॥ २२ योगिनां तु विशेषेण ऐश्वर्ये ह्यष्टलक्षणे । अणिमाद्येतिविज्ञेया तस्माद्युञ्जीत तां द्विजः ॥ २३ एवं हि योगी संयुक्तः शुचिर्दान्तो जितेन्द्रियः । आत्मानं विन्दते यस्तु स सर्वं विन्दते द्विजः॥ २४ ऋचो यजूंषि सामानि वेदोपनिषदस्तथा । योगज्ञानादवाप्नोति ब्राह्मणो ध्यानचिन्तकः ॥ २५ सर्वभूतलयो भूत्वा अभूतः स तु जायते । योगिसंक्रमणं कृत्वा याति वै शाश्वतं पदम् ॥ २६ अपि चात्र चतुर्हस्तां ध्यायमानाञ्चतुर्मुखीम् । प्रकृतिं विश्वरूपाख्यां दृष्ट्वा दिव्येन चक्षुषा ॥ २७ अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां स्व(स)रूपां(पाः) । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ २८ अष्टाक्षरां षोडशपाणिपादां चतुर्मुखीं त्रिशिखामेकशृङ्गीम् । आद्यामजां विश्वसृजां स्वरूपां ज्ञात्वा बुधास्त्वमृतत्वं व्रजन्ति ॥ ये ब्राह्मणाः प्रणवं वेदयन्ति न ते पुनः संसरन्तीह भूयः ॥ २९ इत्येतदक्षरं ब्रह्म परमोकारसंज्ञितम् । यस्तु वेदयते सम्यक्तथा ध्यायति वा पुनः ॥ ३० संसारचक्रमुत्सृज्य मुक्तबन्धनबन्धनः । अचलं निर्गुणं स्थानं शिवं प्राप्नोत्यसंशयम् ॥ ३१ इत्येतद्वै मया प्रोक्तमोंकारप्राप्तिलक्षणम् ॥ ३२

नमो लोकेश्वराय संकल्पकल्पग्रहणाय महन्तमुपतिष्ठते तद्वो हितं यद्ब्रह्मणे नमः । सर्वत्रस्थानिने निर्गुणाय संभक्तयोगीश्वराय च । पुष्करपर्णमिवाद्भिर्विशुद्धाग्रिव ब्रह्ममुवतिष्ठेत्पवित्रं(?) पवित्राणां पवित्रं पवित्रेण परिपूरितेन पवित्रेण ह्रस्वं दीर्घप्लुतमिति तदेतमोंकारमशब्दमस्पर्शमरूपमरसमगन्धं पर्युपासे(सी)त, अविद्येशानाय विश्वरूपो न तस्य, अविद्येशानाय नमो योगीश्वरायेति च येन द्यौरुग्रा पृथिवी च दृढा येन स्वः स्ताभितं येन नाकस्तयोरन्तरिक्षमिमे वरीSingle parenthesis/variant readings as shown: वरीसो देवानां हृदयं विश्वरूपो न तस्य प्राणापानौपम्यं चास्ति ओंकारो विश्वविध्यो वै यज्ञो यज्ञो वै वेदो वेदो वै नमस्कारो नमस्कारो रुद्रो नमो रुद्राय योगेश्वराधिपतये नमः ॥

[अ० २१ श्लो० १-९] वायुपुराणम् । ५३

( कल्पनिरूपणम् )

इति सिद्धिप्रत्युपस्थानं सायं प्रातर्मध्याह्ने नम इति । सर्वकामफलो रुद्रः ॥ ३३ यथा वृन्तात्फलं पक्वं पवनेन समीरितम् । नमस्कारेण रुद्रस्य तथा पापं प्रणश्यति ॥ ३४ यथा रुद्रनमस्कारः सर्वधर्मफलो ध्रुवः । अन्यदेवनमस्कारो न तत्फलमवाप्नुयात् ॥ ३५ तस्मात्रिववणं योगी उपासीत महेश्वरम् । दशविस्तारकं ब्रह्म तथा च ब्रह्म विस्तरम् ॥ ३६ ओंकारं सर्वतः काले सर्वं विहितवान्प्रभुः । तेन तेन तु विष्णुत्वं नमस्कारं महायशाः ॥ ३७ नमस्कारस्तथा चैव प्रणवः स्तुवते प्रभुम् । प्रणवं स्तुवते यज्ञो यज्ञं संस्तुवते मनः ॥ ३८ मनः स्तुवति वै रुद्रं तस्माद्रुद्रपदं शिवम् । इत्येतानि रहस्यानि यतीनां वै यथाक्रमम् ॥ यस्तु वेदयते ध्यानं स परं प्राप्नुयात्पदम् ॥ ३९

इति श्रीमहापुराणे वायुप्रोक्ते ओंकारप्राप्तिलक्षणकथनं नाम विंशोऽध्यायः ॥ २० ॥

आदितः श्लोकानां समष्ट्यङ्काः—१३२९


अथैकविंशोऽध्यायः ।

कल्पनिरूपणम् ।

सूत उवाच— ऋषीणामग्निकल्पानां नैमिषारण्यवासिनाम् । ऋषिः श्रुतिधरः प्राज्ञः सावाणिर्नाम नामतः ॥ १ तेषां सो व्यग्रतो भूत्वा वायुं वाक्यविशारदः । सातत्यं तत्र कुर्वन्तं प्रियार्थे सत्रयाजिनाम् ॥ विनयेनोपसंगम्य पप्रच्छ स महाद्युतिम् ॥ २

सावर्णिरुवाच— विभो पुराणसंबद्धां कथां वै वेदसंमिताम् । श्रोतुमिच्छामहे सम्यक्प्रसादात्सर्वदर्शिनः ॥ ३ हिरण्यगर्भो भगवाँल्ललाटान्नीललोहितम् । कथं तत्तैजसं देवं लब्धवान्पुत्रमात्मन ॥ ४ कथं च भगवाञ्जज्ञे ब्रह्मा कमलसंभवः । रुद्रत्वं चैव शर्वस्य स्वात्मजस्य कथं पुनः ॥ ५ कथं च विष्णो रुद्रेण सार्धं प्रीतिरनुत्तमा । सर्वे विष्णुमया देवा सर्वे विष्णुमया गणाः ॥ ६ न च विष्णुसमा काचिद्गतिरन्या विधीयते । इत्येवं सततं देवा गायन्ते नात्र संशयः ॥ भवस्य स कथं नित्यं प्रणामं कुरुते हरिः ॥

सूत उवाच— एवमुक्तेऽथ भगवान्वायुः सावर्णिमब्रवीत् । अहो साधु त्वया साधो पृष्टः प्रश्नो ह्यनुत्तमः ॥ ८ भवस्य पुत्रजन्मत्वं ब्रह्मणः सोऽभवद्यथा । ब्रह्मणः पद्मयोनित्वं रुद्रत्वं शंकरस्य च ॥ ९

५४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०श्लो०२-३२]

( * द्वाभ्यामपि च संप्रीतिर्विष्णोश्चैव भवस्य च । यच्चापि कुरुते नित्यं प्रणामं शंकरस्य च ) ॥ ( कल्पनिरूपणम् )
विस्तरेणाऽऽनुपूर्व्या च शृणुत ब्रुवतो मम । मन्वन्तरस्य संहारे पश्चिमस्य महात्मनः ॥ ११
आसीत्तु सप्तमः कल्पः पद्मो नाम द्विजोत्तमाः । वराहः सांप्रतस्तेषां तस्य वक्ष्यामि विस्तरम् ॥ १२

सावर्णिरुवाच-
कियता चैव कालेन कल्पः संभवते कथम् । किं च प्रमाणं कल्पस्य तन्नः प्रब्रूहि पृच्छताम् ॥ १३

वायुरुवाच--
मन्वन्तराणां सप्तानां कालसंख्या(ख्यां) यथाक्रमम् । प्रवक्ष्यामि समासेन ब्रुवतो मे निबोधत ॥ १४
कोटीनां द्वे सहस्रे वै अष्टौ कोटिशतानि च । द्विषष्टिश्च तथा कोट्यो नियुतानि च सप्ततिः ॥ १५
कल्पार्धस्य तु संख्यायामेतत्सर्वमुदाहृतम् । पूर्वौकौ च गुणच्छेदौ वर्षाग्रं लब्धमादिशेत् ॥ १६
शतं चैव तु कोटीनां कोटीनामष्टसप्ततिः । द्वे च शतसहस्रे तु नवतिर्नियुतानि च ॥ १७
मानुषेण प्रमाणेन यावद्वैवस्वतान्तरम् । एष कल्पस्तु विज्ञेयः कल्पाधार्द्विगुणीकृतः ॥ १८
अनागतानां सप्तानामेतदेव यथाक्रमम् । प्रमाणं कालसंख्याया विज्ञेयं मतमैश्वरम् ॥ १९
नियुतान्यष्टपञ्चाशत्तथाऽशीतिशतानि च । चतुरशीति चा(श्चा)न्यानि प्रयुतानि प्रमाणतः ॥ २०
सप्तर्षयो मनुश्चैव देवाश्चेन्द्रपुरोगमाः । एतत्कालस्य विज्ञेयं मर्त्याग्रं तु प्रमाणतः ॥ २१
एष मन्वन्तरे तेषां मानुषाब्दः प्रकीर्तितः । प्रणवान्ताश्च ये देवाः साध्या देवगणाश्च ये ॥ २२
विश्वे देवाश्च ये नित्याः कल्पं जीवन्ति ते गणाः । अयं यो वर्तते कल्पो वाराहः स तु कीर्त्यते ॥
यस्मिन्स्वार्यंभुवाद्याश्च मनवश्च चतुर्दश ॥

ऋषय ऊचुः---
कस्माद्वाराहकल्पोऽयं नामतः परिकीर्तितः । कस्माच्च कारणाद्देवो वरा २ इति कीर्त्यते ॥ २४
को वा वराहो भगवान्कस्य योनिः किमात्मकः । वराहः कथमुत्पन्न एतदिच्छामि वेदितुम् ॥ २५

वायुरुवाचः--
वराहस्तु यथोत्पन्नो यस्मिन्नर्थे च कल्पितः । वाराहश्च यथा कल्पः कल्पत्वं कल्पना च या ॥ २६
कल्पयोरन्तरं यच्च तस्य चास्य च कल्पितम् । तत्सर्वं संप्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ॥ २७
भवस्तु प्रथमः कल्पो लोकादौ कथितः पुरा । ज्ञातव्यो भगवान्यत्र ह्यानन्दः सांपतः स्वयम् ॥ २८
ब्रह्मस्थानमिदं दिव्यं प्राप्तं वा दिव्यसंभवम् । द्वितीयस्तु भुवः कल्पस्तृतीयस्तप उच्यते ॥ २९
भवश्चतुर्थो विज्ञेयः पञ्चमो रम्भ एव च । ऋतुकल्पस्तथा षष्ठः सप्तमस्तु क्रतुः स्मृतः ॥ ३०
अष्टमस्तु भवेद्वह्निर्नवमो हव्यवाहनः । सावित्रो दशमः कल्पो भुवंस्त्वेकादशः स्मृतः ॥ ३१
उशिको द्वादशस्तत्र कुशिकस्तु त्रयोदशः । चतुर्दशस्तु गन्धर्वो गांधारो यत्र वै स्वरः ॥ ३२


* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. ङ. पुस्तकेषु नास्ति ।

५५

[अ० २१ श्लो ३३-६०] वायुपुराणम् । ( कल्पनिरूपणम् )

उत्पन्नस्तु यथा नादो गन्धर्वा यत्र चोत्थिताः । ऋषभस्तु ततः कल्पो ज्ञेयः पञ्चदशो द्विजाः ॥ ३३ ऋषभो यत्र संभूतः स्वरो लोकमनोहरः । षड्जस्तु षोडशः कल्पः षड्जना यत्र चर्षयः ॥ ३४ शिशिरश्च वसन्तश्च निदाघो वर्ष एव च । शरद्धेमन्त इत्येते मानसा ब्रह्मणः सुताः ॥ ३५ उत्पन्नाः षड्जसंसिद्धाः पुत्राः कल्पे तु षोडशे । यस्माज्जतैश्च तैः षड्भिः सद्योजातो महेश्वरः तस्मात्समुत्थितः षड्जः स्वरस्तूदधिसंनिभः । ततः सप्तदशः कल्पो मार्जालीय इति स्मृतः ॥ ३७ मार्जालीयं तु तत्कर्म यस्माद्ब्रह्मामकल्पयत् । ततस्तु मध्यमो नाम कल्पोऽष्टादश उच्यते ॥ ३८ यस्मिंस्तु मध्यमो नाम स्वरो वैवतपूजितः । उत्पन्नः सर्वभूतेषु मध्यमो वै स्वयंभुवः ॥ ३९ ततस्त्वेकोनविंशस्तु कल्पो वैराजकः स्मृतः । वैराजो यत्र भगवान्मनुर्वै ब्रह्मणः सुतः ॥ ४० तस्य पुत्रस्तु धर्मात्मा दधीचिर्नाम धार्मिकः । प्रजापतिर्महातेजा बभूव त्रिदशेश्वरः ॥ ४१ अकामयत गायत्री यजमानं प्रजापतिम् । तस्माज्जज्ञे स्वरः स्निग्धः पुत्रस्तस्य दधीचिनः ॥ ४२ ततो विंशतिमः कल्पो निषादः परिकीर्तितः । प्रजापतिस्तु तं दृष्ट्वा स्वयंभूप्रभवं तदा ॥ ४३ विरराम प्रजाः स्रष्टुं निषादस्तु तपोऽतपत् । दिव्यं वर्षसहस्रं तु निराहारो जितेन्द्रियः ॥ ४४ तमुवाच महातेजा ब्रह्मा लोकपितामहः । ऊर्ध्वबाहुं तपोग्लानं दुःखितं क्षुत्पिपासितम् ॥ ४५ निषीदेत्यब्रवीदेनं पुत्रं शान्तं पितामहः । तस्मान्निषादः संभूतः स्वरस्तु स निषादवान् ॥ ४६ एकविंशतिमः कल्पो विज्ञेयः पञ्चमो द्विजाः । प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ ४७ ब्रह्मणो मानसाः पुत्राः पञ्चैते ब्रह्मणः समाः । तैस्त्वर्थवादिभिर्युक्तैर्वाग्भिरिष्टो महेश्वरः ॥ ४८ यस्मात्पारिगतैर्गतिः पञ्चभिस्तैर्महात्मभिः । स्वरस्तु पञ्चमः स्निग्धस्तस्मात्कल्पस्तु पञ्चमः ॥ ४९ द्वाविंशस्तु तथा कल्पो विज्ञेयो मेघवाहनः यत्र विष्णुर्महाबाहुर्मेघो भूत्वा महेश्वरम् ॥ ५० दिव्यं वर्षसहस्रं तु अवहत्कृत्तिवाससम् । तस्य विध्वसमानस्य भाराक्रान्तस्य वै मुखात् ॥ ५१ निर्जगाम महाकायः कालो लोकप्रकालनः । यस्त्वयं पठ्यते विप्रैर्विष्णुर्वै कश्यपात्मजः ॥ ५२ त्रयोविंशतिमः कल्पो विज्ञेयश्चिन्तकतस्तथा । प्रजापतिसुतः श्रीमांस्थितिंश्च मिथुनं च तौ ॥ ५३ ध्यायतो ब्रह्मणश्चैव यस्माच्चिन्ता समुत्थिता । तस्मात्तु चिन्तकः सोवै (कोऽसौ) कल्पः प्रोक्तः स्वयंभुवा ॥ ५४ चतुर्विंशतिमश्चापि ह्याकृतिः कल्प उच्यते । आकृतिश्च तथा देवी मिथुनं संबभूव ह ॥ ५५ प्रजाः स्रष्टुं तथाऽऽकृतिं यस्मादाह प्रजापतिंः । तस्मात्स पुरुषो ज्ञेय आकृतिः कल्पसंज्ञितः ॥ ५६ पञ्चविंशतिमः कल्पो विज्ञातिः परिकीर्तितः । विज्ञातिश्च तथा देवी मिथुनं संप(सम)सूयत ॥ ५७ ध्यायततः पुत्रकामस्य मनस्यध्यात्मसंज्ञितम् । विज्ञातं वै समासेन विज्ञातिस्तु ततः स्मृतः ॥ ५८ षड्विंशस्तु ततः कल्पो मन इत्यभिधीयते । देवी च शंकरी नाम मिथुनं संप्रसूयते ॥ ५९ प्रजा वै चिन्तमानस्य स्रष्टुकामस्य वै तदा । यस्मात्प्रजासंभवनादुत्पन्नस्तु स्वयंभुवा ॥ ६०

५६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०२२श्लो०१-२] ( कल्पसंख्यानिरूपणम् )

तस्मात्प्रजासंभवनाद्भावनासंभवः स्मृतः । सप्तविंशातितमः कल्पो भावो वै कल्पसंज्ञितः ॥ ६१
पौर्णमासी तथा देवी मिथुनं समपद्यत । प्रजा वै स्रष्टुकामस्य ब्रह्मणः परमेष्ठिनः ॥ ६२
ध्यायतरतु परं ध्यानं परमात्मानमीश्वरम् । अग्निस्तु मण्डली भूत्वा रश्मिजालसमावृतः ॥ ६३
भुवं दिवं च विष्टभ्य दीप्यते स महावपुः । ततो वर्षसहस्रान्ते संपूर्णे ज्योतिर्मण्डले ॥ ६४
आविश्या सहोत्पन्नमपश्यत्सूर्यमण्डलम् । यस्माद्दृश्यो भूतानां ब्रह्मणा परमेष्ठिना ॥ ६५
दृष्टस्तु भगवान्देवः सूर्यः संपूर्णमण्डलः । सर्वे योगाश्च मन्त्राश्च मण्डलेन सहोत्थिताः ॥ ६६
यस्मात्कल्पो ह्ययं दृष्टस्तमात्रं दर्शमुच्यते(?) । यस्मान्मनसि संपूर्णो ब्रह्मणः परमेष्ठिनः ॥ ६७
पुरा वै भगवान्सोमः पौर्णमासी ततः स्मृता । तस्मात्तु पर्वदर्शं वै पौर्णमासं च योगिभिः ॥ ६८
उभयोः पक्षयोर्योज्यमात्मनो हितकाम्यया । दर्शं च पौर्णमासं च ये यजन्ति द्विजातयः ॥ ६९
न तेषां पुनरावृत्तिर्ब्रह्मलोकात्कदाचन । योऽऽनाहिताग्निः प्रयतो वीराध्वानं गतोऽपि वा ॥ ७०
समाधाय मनस्तीव्रं मन्त्रमुच्चारयेच्छनैः । त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे
त्वं पाशगन्धर्वाशपं पूषा विधत्तपासिनो । इत्येव मन्त्र मनसा सम्यगुच्चारयेद्द्विजः ॥ ७२
अग्निं प्रविशते यस्तु रुद्रलोकं स गच्छति । सोमश्चाग्निरतु भगवान्कालो रुद्र इति श्रुतिः ॥ ७३
तस्माद्यः प्रविशेद्वाग्नं स रुद्रान्न निवर्तते । अष्टाविंशतिमः कल्पो वृहदित्यभिसंज्ञितः ॥ ७४
ब्रह्मणः पुत्रकामस्य स्रष्टुकामस्य वै प्रजाः । ध्यायमानस्य मनसा बृहत्साम रथंतरम् ॥ ७५
यस्मान्नत्र समुत्पन्नो बृहतः सर्वतोमुखः । तस्मातु बृहतः कल्पो विज्ञेयस्तत्त्वचिन्तकैः ॥ ७६
अष्टाशीतिसहस्राणां योजनानां प्रमाणतः । रथंतरं तु विज्ञेयं परमं सूर्यमण्डलम् ॥ ७७
तस्मादण्डं तु विज्ञेयमभेद्यं सूर्यमण्डलम् । यत्सूर्यमण्डलं चापि बृहत्साम तु भिद्यते ॥ ७८
भित्त्वा चैनं द्विजा यान्ति योगात्मानो दृढव्रताः । संघातमुपनीताश्च अन्ये कल्पा रथंतरे ॥ ७९
इत्येतत्तु मया प्रोक्तं चित्रमध्यात्मदर्शनम् । अतः परं प्रवक्ष्यामि कल्पानां विस्तरं शुभम् ॥ ८०
*जिह्वे स्तुहि(?) जगत्त्रितयैकनाथं नारायणं परमक run / परंकारुणिकं सदैव ।
प्राचीनकर्मनिगडार्गलबन्धमुक्त्यै नान्यः पुराणपुरुषादपरोऽस्त्युपायः ॥
इति महापुराणे वायुप्रोक्ते कल्पानिरूपणं नामैकविंशोऽध्यायः ॥ २१ ॥

आदितः श्लोकानां समष्ट्यङ्काः--१४१०


अथ द्वाविंशोऽध्यायः ।

कल्पसंख्यानिरूपणम् ।

ऋषय ऊचुः-
अत्यद्भुतमिदं सर्वं कल्पानां ते महामुने । रहस्यं वै समाख्यातं मन्त्राणां च प्रकल्पनम् ॥ १
न तवाविदितं किंचित्रिषु लोकेषु विद्यते । यस्माद्विस्तरतः सर्वाः कल्पसंख्या ब्रवीहि नः ॥ २


* ख. पुस्तक एवायं श्लोको न न्न्यादर्शपुस्तकेषु ।