भारतकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

[अ०६५-६६श्लो०१४७-१५९।१-५] वायुपुराणम् । २३७ ( कश्यपीयप्रजासर्गः ) बालिशा बत यूयं वै न प्रजानीथ भूतलम् । अन्तमूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ १४७ किं प्रमाणं तु मेदिन्याः स्रष्टव्यानि तथैव च । अविज्ञायेह स्रष्टव्यं अन्यथा किं तु स्रक्ष्यथ ॥ अल्पं वाऽपि बहुर्वाऽ(वाऽ)पि तत्र दोषस्तु दृश्यते ॥ १४८ ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् । वायुं तु समनुप्राप्य गतास्ते वै पराभवम् ॥ १४९ अद्यापि न निवर्तन्ते भ्रमन्तो वायुमिश्रिताः । एवं वायुपथं प्राप्य भ्रमन्ते ते महर्षयः ॥ १५० स्वेषु पुत्रेषु नष्टेषु दक्षः प्राचेतसः पुनः । वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥ १५१ प्रजा विवर्धयिषवः शबलाश्वा पुनस्तु ते । पूर्वमुक्तं वचस्तत्र श्राविता नारदेन ह ॥ १५२ तच्छ्रुत्वा वचनं सर्वे कुमारास्ते महौजसः । अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः ॥ भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः ॥ १५३ ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः । × तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् ॥ अद्यापि न निवर्तन्ते समुद्रेभ्य इवाऽऽपगाः ॥ १५४ ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः । प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ १५५ नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽभवद्विभुः । नारदं नाशमेहीति गर्भवासं वसेति च ॥ १५६ तथा तेष्वपि नष्टेषु महात्मसु पुरा किल । षष्टिकन्याऽसृजद्दक्षो वैरिण्यामेव विश्रुताः ॥ १५७ तास्तदा प्रतिजग्राह पत्न्यर्थे कश्यपः प्रभुः । धर्मः सोमस्तु भगवांस्तथैवान्ये महर्षयः ॥ १५८ इमां विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः । आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्च भवत्युत ॥ १५९ इति श्रीमहापुराणे वायुप्रोक्ते प्रजापतिवंशानुकीर्तनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ आदितः श्लोकानां समष्ट्यङ्काः— ५८२५

अथ षट्षष्टितमोऽध्यायः । कश्यपीयप्रजासर्गः ।

ऋषय ऊचुः— देवानां दानवानां च दैत्यानां चैव सर्वशः । उत्पत्तिं विस्तरेणेह ब्रूहि वैवस्वतेऽन्तरे ॥ १ सूत उवाच— धर्मस्य तावद्वक्ष्यामि निसर्गं तं निबोधत । अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ॥ २ संकल्पा च मुहूर्ता च साध्या विश्वा तथैव च । धर्मपत्न्यो दश त्वेता दक्षः प्राचेतसो ददौ ॥ ३ साध्या पुत्रांस्तु धर्मस्य साध्यान्द्वादश जज्ञिरे । साध्या नाम महाभागाश्छन्दजा यज्ञभागिनः ॥ देवेभ्यस्तानपरान्देवान्देवज्ञाः परिचक्षते ॥ ४ ब्रह्मणो वै मुखात्सृष्टा जया देवाः प्रजेप्सया । सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ ५


× इदमर्धं नास्ति ख. ग. घ. ङ. पुस्तकेषु ।

धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः । पूर्वं स्म अनुसूयन्ते चाक्षुषस्यान्तरे मनोः ॥ १०

२३८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६६ श्लो० ६-३०] ( कश्यपीयप्रजासर्गः )

दर्शश्च पौर्णमासश्च बृहद्यच्च रथंतरम् । चित्तिश्चैव विचित्तिश्च आकृतिः कूर्विरेव च ॥ ६ विज्ञाता चैव विज्ञातो मनो यज्ञश्च ते मृताः । नामान्येतानि तेषां वै जयानां प्रथितानि च ॥ ७ ब्रह्मशापेन ते जाताः पुनः स्वायंभुवे जिताः । स्वारोचिषे वै तुषिताः सत्याश्चैवोत्त्तमे पुनः ॥ ८ तामसे हरयो नाम वैकुण्ठा रैवतान्तरे । साध्याश्च चाक्षुषे नाम्ना छन्दजा अज्ञिरे सुराः ॥ ९ धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः । पूर्वं स्म अनुसूयन्ते चाक्षुषस्यान्तरे मनोः ॥ १० स्वारोचिषेऽन्तरेऽतीता देवा ये वै महौजसः । तुषिता नाम तेऽन्योन्यमूचुर्वै चाक्षुषेऽन्तरे ॥ ११ किंचिच्छिष्टे तदा तस्मिन्देवा वै तुषिताऽब्रुवन् । इतरेतरं महाभागान्वयं साध्यान्प्राविश्य वै ॥ मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति ॥ १२ एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । तस्माद्द्वादश संभूता धर्मात्स्वायंभुवात्पुनः ॥ १३ नरनारायणौ तत्र जज्ञाते पुनरेव हि । विपश्चिदिन्द्रो यश्चाऽऽसीत्तथा सत्यो हरिश्च तौ ॥ स्वारोचिषेऽन्तरे पूर्वमास्तां तौ तुषितौ सुरौ ॥ १४ तुषितानां तु साध्यत्वे नामान्येतानि वक्ष्यते । मनोऽनुमन्ता प्राणश्च नरो यानश्च वीर्यवान् ॥ १५ चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा । प्रभवोऽथ विभुश्चैव साध्या द्वादश जज्ञिरे ॥ १६ स्वायंभुवेऽन्तरे पूर्वं ततः स्वारोचिषे पुनः । नामान्यासन्पुनस्तानि तुषितानां निबोधत ॥ १७ प्राणोऽपानस्तथोदानः समानो व्यान एव च । चक्षुः श्रोत्रं तथा प्राणः स्पर्शो बुद्धिर्मनस्तथा ॥ १८ प्राणापानावुदानश्च समानो व्यान एव च । नामान्येतानि पूर्वं तु तुषितानां स्मृतानि ह ॥ १९ वसोस्तु वसवः पुत्राः साध्यानां मनुजाः स्मृताः । धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः ॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ २० धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ध्रुवपुत्रो भवो नाम्ना कालो लोकमकालनः ॥ २१ सोमस्य भगवान्वर्चा बुधश्च ग्रहबोधनः । रोहिण्यां तौ समुत्पन्नौ त्रिषु लोकेषु विश्रुतौ ॥ २२ धारोर्मिकालिलाश्चैव त्रयश्चन्द्रमसः सुताः । आतपस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च ॥ २३ स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः । अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ॥ तस्य शाखो विशारवश्च नैगमेयश्च पृष्ठजाः ॥ २४ अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञातगतिश्चैवद्वौ पुत्रावनिलस्य च ॥ २५ प्रत्यूषस्य विदुः पुत्रमृषिर्नाम्ना तु देवलः । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ २६ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ॥ २७ प्रभासस्य तु या भार्या वसूनामष्टमस्य ह । विश्वकर्मा सुतस्तस्या जातः शिल्पिपजापतिः ॥ २८ स कर्ता सर्वशिल्पानां त्रिदशानां च वर्धकिः । भूषणानां च सर्वेषां कर्ता कारयिता च सः ॥ २९ सर्वेषां च विमानानि देवतानां करोति सः । मानुषाश्चोपजीवन्ति यस्य शिल्पानि शिल्पिनः ॥ ३०

[अ० ६६ श्लो० ३१-५४] वायुपुराणम् । २३९ ( कश्यपीयप्रजासर्ग )

विश्वे(धृ)देवास्तु विश्वाया जज्ञिरे दश विश्रुताः । क्रतुर्दक्षः श्रवः सत्यः कालः कामो धुनिस्तथा ॥ ३१ कुरुवान्प्रभवांश्चैव रोचमानश्च ते दश । धर्मपुत्राः स्मृता ह्येते विश्वायां जज्ञिरे शुभाः ॥ ३२ मरुत्वत्यां तु मरुतो भानवो भानुजाः स्मृताः । मुहूर्ताश्च मुहूर्तायां घोषं लम्बा व्यजायत ॥ ३३ संकल्पायां तु संजज्ञे विद्वान्संकल्प एव च । नागवीथ्यस्तु जाम्यां च पथत्रयसमाश्रिताः ॥ ३४ पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत । एष सर्गः समाख्यातो विद्वान्धर्मस्य शाश्वतः ॥ ३५ मुहूर्ताश्चैव तिथ्यश्च पतिभिः सह सुव्रताः । नामतः संप्रवक्ष्यामि ब्रुवतो म निबोधत ॥ ३६ अहोरात्रविभागश्च नक्षत्राणि समासतः । मुहूर्ताः सर्वनक्षत्रा अहोरात्रविदस्तथा ॥ ३७ अहोरात्रकलानां तु षट्शतीत्यधिका स्मृता । रवेर्गतिविशेषेण सर्वेषु ऋतुमिच्छतः ॥ ३८ ततो वेदविदश्चैतां तिथिमिच्छन्ति पर्वसु । अविशेषेषु कालेषु योज्यः स पितृदानतः ॥ ३९ रौद्रः सार्वस्तथा मैत्रः पिण्डचवासव एव च । आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंत्रिताः ॥ ४० प्राजापत्यस्तथा ऐन्द्रस्तथेन्द्रो निर्ऋतिस्तथा । वरुणश्च तथाऽर्यम्णो भागाश्चापि दिनाश्रिताः ॥ ४१ एते दिनमुहूर्ताश्च दिवाकरविनिर्मिताः । शंकुच्छायाविशेषेण वेदितव्याः प्रमाणतः ॥ ४२ अजास्तथाऽहिर्बुन्ध्नश्च पूषा हि यमदेवताः । आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ॥ ४३ ब्रह्मसौम्यस्तथाऽऽदित्यो बार्हस्पत्योऽथ वैष्णवः । सावित्रोऽथ तथा त्वष्ट्रो वायव्यश्चेति संग्रहः ॥ ४४ एकरात्रिमुहूर्ताः स्युः क्रमोक्ता दश पञ्च च । इन्दोर्गक्युदया ज्ञेया नालिकाः पादिकास्तथा ॥ कालावस्थास्तिवमास्त्वेते मुहूर्ता देवताः स्मृताः ॥ ४५ सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च । दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् ॥ ४६ स्थानं जारद्गवं मध्ये तथैरावतमुत्तरम् । वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ॥ ४७ अश्विनी कृत्तिका याम्या नागवीथिरिति स्मृता । पुष्योऽश्लेषापुनर्वसू वीथीरैरावती मता ॥ तिस्रस्तु वीथयो ह्येता उत्तरो मार्ग उच्यते ॥ ४८ पूर्वोत्तरे फाल्गुन्यौ च मघा चैवार्यमी स्मृता । हस्तचित्रे तथा स्वाती गोवीथीत्यभिशब्दिता ॥ ४९ ज्येष्ठा विशाखाऽनुराधा वीथि जारद्गवी स्मृता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥ ५० मूलं चाऽऽषाढे द्वे चापि अजवीथ्यभिशब्दिषा । श्रवणं च धनिष्ठा च गार्गी शतभिषक्तथा ॥ ५१ वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता । स्मृता वीथ्यस्तु तिस्रस्ता मार्गो वै दक्षिणो बुधैः ॥ ५२ सप्तविंशत्तु याः कन्या दक्षः सोमाय ता ददौ । सर्वा नक्षत्रनाम्र्यस्ता ज्योतिषे चैव कीर्तिताः ॥ तासामपत्यान्यभवन्दीप्तान्यमिततेजसा ॥ ५३ यास्तु शेषास्तदा कन्याः पतिजग्राह कश्यपः । चतुर्दश महाभागाः सर्वास्ता लोकमातरः ॥ ५४

एतामेव महाभागामादितिं संप्रविश्य वै । वैवस्वतेऽन्तरे ह्यस्मिन्योगादर्धेन तेजसः ॥ ५८

२४०श्रीमद्वैपायनमुनिप्रणीतम्-[अ० ६६-श्लो० ५५-७५]<br>(कश्यपीयप्रजासर्गः)

अदितिर्दितिर्दनुः काला अरिष्टा सुरसा तथा । सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ॥
कद्रूर्मुनिश्ध धर्मज्ञः प्रजास्तासां निबोधत ॥ ५५
चारिष्णवेऽन्तरेऽतीते ये द्वादश पुरोगमाः । वैकुण्ठा नाम ते साध्या बभूवुश्चाक्षुषेऽन्तरे ॥ ५६
उपस्थितेऽन्तरे ह्यस्मिन्पुनर्वैवस्वतस्य ह । आराधिता ह्यदित्याते समेत्याऽऽहुः परस्परम् ॥ ५७
एतामेव महाभागामादितिं संप्रविश्य वै । वैवस्वतेऽन्तरे ह्यस्मिन्योगादर्धेन तेजसः ॥ ५८
गच्छामः पुत्रतामस्यास्तन्नः श्रेयो भविष्यति । आदित्यास्तु प्रसूतानामादित्यत्वं भविष्यति ॥ ५९
एवमुक्त्वा तु ते सर्वे चाक्षुषस्याऽन्तरे मनोः । जज्ञिर द्वादशाऽऽदित्या मारीचात्कश्यपात्पुनः ॥ ६०
शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि । वैवस्वतेऽन्तरे ह्यस्मिन्नरनारायणौ सुरौ ॥ ६१
तेषामपि हि देवानां निधनोत्पत्तिरुच्यते । यथा सूर्यस्य लोकेऽस्मिन्नुद्यास्तमयावुभौ ॥
प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः ॥ ६२
श्रेष्ठानानुश्राविके यस्माच्छक्ताः शब्दादिलक्षणे । अष्टात्मकेऽणिमाद्ये च तस्मात्ते जज्ञिरे सुराः ॥ ६३
इत्येष विषये रागः संभूत्याः कारणं स्मृतम् । ब्रह्मशापेन संभूता जयाः स्वायंभुवे जिताः ॥ ६४
स्वारोचिषे वै तुषिताः सत्याश्चैवोत्त्तमे पुनः । तामसे हरयो देवा जाताश्चारिष्णवे तु वै ॥
वैकुण्ठाश्चाक्षुषे साध्या आदित्याः सांप्रते पुनः ॥ ६५
धाताऽर्यमा च मित्रश्च वरुणोऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ॥ ६६
ततस्त्वष्टा ततो विष्णूरजघन्योऽजघन्यजः इत्येते द्वादशाऽऽदित्याः कश्यपस्य सुताः स्मृताः ॥ ६७
सुरभी कश्यपाद्द्वावेकादश विजज्ञिरे । महादेवप्रसादेन तपसा भाविता सती ॥ ६८
अङ्गारकं तथा सर्पं निर्ऋतिं सदसस्पतिम् । अजैकपादहिर्बुध्नमुर्ध्वकेतुं ज्वरं तथा ॥ ६९
भुवनं चेश्वरं मृत्युं कपालं चैव विश्रुतम् । देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान् ॥
तपसा तेन महता सुरभी तानजीजनत् ॥ ७०
ततो दुहितरावन्ये सुरभी द्वे व्यजायत । रोहिणी चैव रुद्राभा गान्धारी च यशस्विनी ॥ ७१
रोहिण्यां जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः । सुरूपा हंसकीला च भद्रा कामदुघा तथा ॥ ७२
सुषुवे कामदुघा तु सुरूपा तनयद्वयम् ॥
हंसकीला नृमहिषा भद्रायास्तु व्यजायत । विश्रुतास्तु महाभागा गन्धर्वा वाजिनः सुताः ॥ ७३
उच्चैःश्रवास्तदा जाताः खेचरास्ते मनोजवाः । श्वेताः शोणाः पिशङ्गाश्च सारङ्गा हरिताऽर्जुनाः ॥
रुद्रा देवोपवाह्यास्ते गन्धर्वयोनयो हयाः ॥ ७४
भूयो जज्ञे सुरभ्यास्तु श्रीमांश्चन्द्राभसुप्रभः । * वृषो दक्ष इति ख्यातः कण्ठेमणिलप्रभः ॥ ७५


* इदमर्धं नास्ति क. पुस्तके ।

[अ०६६ श्लो० ७६-९८] (कश्यपीयप्रजासर्गः) वायुपुराणम्। २४१

स्रग्वी ककुद्मी द्युतिमानमृतालंयसंभवः। सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः॥ ७६ इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः। धर्मपुत्राः स्मृताः साध्या विश्वे च वसवस्तथा॥ ७७ अरिष्टनेमिपत्नीनामपत्यानीह षोडश। बहुपुत्रस्य विदुषश्चतस्रो विद्युतस्स्मृताः॥ ७८ प्रत्यङ्गिरसजाः श्रेष्ठा ऋषयो ब्रह्मर्षिसत्कृताः॥ कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः। एते युगसहस्रान्ते जायन्ते पुनरेव हि॥ ७९ सर्वे देवगणा विप्रास्त्रयस्त्रिंशत्तु च्छन्दजाः। एतेषामपि देवानां निरोधोत्पत्तिरुच्यते॥ ८० यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमयावुभौ। एते देवनिकायास्ते संभवन्ति युगे युगे॥ ८१

ऋषय ऊचुः--- साध्याश्च वसवो विश्वे रुद्रादित्यास्तथैव च। आभिजात्या प्रभावैश्च कर्मभिश्चैव विश्रुताः॥ ८२ प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः। अन्तरं ज्ञातुमिच्छामो यश्च यस्माद्विशिष्यते॥ ८३ यश्च यस्मात्प्रभवति यश्च यस्मिन्प्रतिष्ठितः। ज्यायान्यो मध्यमश्चैव कनीयान्यश्च तेषु वै॥ ८४ प्रधानभूतो यस्तेषां गुणभूतश्च तेषु यः। कर्मभिश्चाभिजात्या प्रभावेण च यो महान्॥ एतत्प्रब्रूहि नः सर्वं त्वं हि वेत्थ यथायथम्॥ ८५

सूत उवाच-- अत्र वो वर्णयिष्येऽहमन्तरं तेषु यत्स्मृतम्। यद्ब्रह्मविष्णुरुद्राणां शृणुध्वं मे विवक्षतः॥ ८६ राजसी तामसी चैव सात्त्विकी चैव ताः स्मृताः। तन्वः स्वयंभुवः प्रोक्ता काले काले भवन्ति याः॥ एतासामन्तरं वक्तुं नैव शक्यं द्विजोत्तमाः। गुणवृद्धिनिबद्धत्वाद्विधानुग्रहबन्धतः॥ ८८ प्रवृत्तिं च निवृत्तिं च गुणवृद्धिमितिह द्विजः। यथाशक्त्या प्रवक्ष्यामि तनूनां तान्निबोधत॥ ८९ [*ब्राह्मी तु राजसी तेषां कालारूपा तामसी स्मृता। सात्त्विकी पौरुषी चैव कर्म तासां निबोधत] एका तु कुरुते तासां राजसी सर्वतः प्रजाः। एका चैवार्णवस्था तु साऽनुगृह्णाति सात्त्विकी॥ ९१ एका सा क्षिपते काले तामसी ग्रसते प्रजाः॥ ९१ रजसा तु समुद्रिक्तो ब्रह्मा संभवते यदा। पुरुषाख्या तदा तस्य सात्त्विकी विनिवर्तते॥ ९२ यदा भवति कालात्मा उद्रेकात्तमसस्तु सः। ब्रह्माख्या सा तदा त्वस्य राजसी विनिवर्तते॥ ९३ सत्त्वोद्रेकात्तु पुरुषो यदा भवति स प्रभुः। कालाख्या सा तदा तस्य पुनर्न भवतीति वै॥ ९४ क्रमात्तस्य निवर्तन्ते रूपं नाम च कर्म च। त्रैलोक्ये वर्तमानस्य सर्गानुग्रहानग्रहैः॥ ९५ यदा भवति ब्रह्मा च तदा चान्तरमुच्यते। यदा च पुरुषो ब्रह्मा न चैव पुरुषस्तु सः॥ ९६ [+यदा च पुरुषो भवति ब्रह्मा न भवते तदा। यदा भक्षन्द्ववति हि तदा न पुरुषस्तु सः॥ ९७ यदा भद्रो भवेद्धृयो ब्रह्मा न भवते तदा। यदा न भवति ब्रह्मा न चैव पुरुषस्तु सः] ९८

* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति। + धनुश्चिह्नान्तर्गतग्रन्थः क. ख. पुस्तकयोर्नास्ति। ३१

२४२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६६ श्लो०९९-१२१] ( कश्यपीयप्रजासर्गः )

मणिर्विभजते वर्णान्विचित्रान्स्फटिके यथा। वैमल्यादाश्रयवशात्तद्वर्णः स्यात्तदञ्जनः ॥ ९९
तदा गुणवशात्तस्य स्वयंभोरनुरञ्जनम् । एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ॥ १००
एको भूत्वा यथा मेषः पृथक्त्वेनावतिष्ठते । रूपतो वर्णतश्चैव तथा गुणवशात्तु सः ॥ १०१
भवत्येको द्विधा चैव त्रिधा मूर्तिविनाशनात्। एको ब्रह्माऽन्तकृच्चैव पुरुषश्चेति ये त्रयः ॥ १०२
एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयंभुवः । ब्राह्मी च पौरुषी चैव अन्तकारी च ते त्रयः ॥ १०३
तत्र या राजसी तस्य तनुः सा वै प्रजाकरी । या तामसी तु कालाख्या प्रजाक्षयकरी तु सा ॥
सात्त्विकी पौरुषी या तु सानुग्रहकरी स्मृता ॥ १०४
राजस्या ब्रह्मणोऽशेन मरीचिः कश्यपोऽभवत् । तामसी चान्तकृद्या तु तदंशेनाभवद्भवः ॥ १०५
सात्त्विकी पौरुषी या सा तस्यांशो विष्णुरुच्यते । त्रैलोक्ये ताः स्मृतास्तिस्रस्तनवस्तु स्वयंभुवः ॥
नानाप्रयोजनार्था हि कालोऽवस्थां करोति यः । ब्रह्मत्वेन प्रजाः सृष्ट्वा विष्णुत्वेनानुगृह्य च ॥
वैष्णव्याऽनुगृहीतास्ता रौद्र्याऽनुग्रसते पुनः ॥ १०७
एकः स्वयंभुवः कालाग्निभिर्त्स्नीन्वै करोति सः । सृजते चानुगृह्णाति प्रजाः संहरते तथा ॥ १०८
इत्येताः कथितास्तिस्रस्तनवस्तु स्वयंभुवः । माजापत्या च रौद्री च वैष्णवी चैव ताः स्मृताः ॥ १०९
एका तनुः स्मृता वेदे धर्मशास्त्रे पुरातने । सांख्ययोगपरैर्वीरैः पृथक्त्वैकत्वदर्शिभिः ॥
अभिजातमभावज्ञैऋषिभिस्तत्त्वदर्शिभिः ॥ ११०
एकत्वे च पृथक्त्वे च तासु भिन्नाः प्रजास्त्विह । इदं परमिदं नेति ब्रुवन्तो भिन्नदर्शनाः ॥ १११
ब्रह्माणं कारणं केचित्केचित्प्राहुः प्रजापतिम् । केचिच्छिवं परत्वेन प्राहुर्विष्णुं तथाऽपरे ॥
अविज्ञानेन संसक्ताः सक्ता रूप्यादिचेतसा ॥ ११२
तत्त्वं कालं च देशं च कार्याण्यावेक्ष्य तत्त्वतः । कारणं च स्मृता ह्येता नानार्थेष्विह देवताः ११३
एकं निन्दति यस्तेषां सर्वानेव स निन्दति । एकं प्रशंसमानस्तु सर्वानेव प्रशंसति ॥
* एकं निन्दति यस्तेषां सर्वानेव स निन्दति । एकं यो वेत्ति पुरुषं तमाहुर्ब्रह्मवादिनम् ॥ ११४
अद्वेषस्तु सदा कार्यो देवतासु विजानता । न शक्यमीश्वरं ज्ञातुमैश्वर्येण व्यवस्थितम् ॥ ११५
एकात्मा स त्रिधा भूत्वा संमोहयति यः प्रजाः । एतेषां च त्रयाणां तु विचरन्त्यन्तरं जनाः ॥ ११६
जिज्ञासन्तः परीक्षन्तः सक्ता रूपाविचेतसः । इदं परमिदं नेति वदन्ति भिन्नदर्शिनः ॥ ११७
यातुधानान्पिशांश्चैताः पिशाचांश्चैव तान्ररान् । एकत्वेन पृथक्त्वेन स्वयंभूर्व्यवतष्ठते ॥ ११८
गुणमात्रात्मिकाभिस्तु तनुभिर्मोहियन्प्रजाः । तेष्वेकं यजते यस्तु स तदा यजते त्रयम् ॥ ११९
तस्मादेवास्त्रयो ह्येते नैरन्तर्ये व्यवस्थिताः । तस्मापृथक्त्वमेकत्वसंख्यां संख्यागतागतम् ॥
एकत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति ॥ १२०
यस्मात्सृष्ट्वाऽनुगृह्णाति ग्रसते चैव ते प्रजाः । गुणात्मकत्वात्त्रैकाल्ये तस्मादेकः स उच्यते ॥ १२१


* इदमर्धं नास्ति क. पुस्तके ।

[अ० ६६--श्लो० १२२-१४३]वायुपुराणम् ।२४३

( कश्यपीयप्रजासर्गः )

रुद्रं ब्रह्माणमिन्द्रं च लोकपालानृषीन्दनून् । देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः ॥ १२२
प्राजापत्या तनूर्या च तनूर्या चैव वैष्णवी । मन्वन्तरे च कल्पे च आवर्तन्ते पुनः पुनः ॥ १२३
*क्षेत्रज्ञो अ(ह्य)पि चाऽऽनेष्य विभजेदित्यनुग्रहात् । तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च ॥
जायन्ते तत्समाश्चैव तानपीह निबोधत ॥ १२४
राजस्या ब्रह्मणोऽशेन मरीचिः कश्यपोऽभवत् । तामस्यास्तस्य चांशेन कालात्मा रुद्र उच्यते ॥
सात्त्विक्या पुरुषांशेन यज्ञे विष्णुरभूत्तदा ॥ १२५
त्रिषु कालेषु तस्यैता ब्रह्मणस्तनवोऽशजाः । कालो भूत्वा पुनश्चासौ रुद्रः संहरते प्रजाः ॥ १२६
संप्नाप्ते चैव कल्पान्ते सप्तरश्मिर्दिवाकरः । भूत्वा संवर्तकादित्यो लोकांस्त्रीन्स तदा दहन् ॥ १२७
विष्णुः प्रजाऽनुगृह्णाति नामरूपविपर्ययैः । तस्यां तस्यामवस्थायां तत्तदुत्पाद्य कारणम् ॥ १२८
सत्त्वोद्रिक्ता तु या प्रोक्ता ब्रह्मणः पौरुषी तनुः । तस्यांशेन विजज्ञे स इह स्वायंभुवेऽन्तरे ॥
आकूत्यां मनसो देव उत्पन्नः प्रथमे विभुः ॥ १२९
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेऽन्तरे । तुषितायां समुत्पन्नो ह्यजितस्तुषितैः सह ॥ १३०
औत्तमे चान्तरे चैव तुषितस्तु विदुः स वै । वशवर्तिभिरुत्पन्नो वशवर्ती हरिः पुनः ॥ १३१
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः । तामसस्यान्तरे चापि संप्राप्ते पुनरेव हि ॥
भार्यायां हरिभिः सार्धं हरिरेव बभूव हि ॥ १३२
चारिष्णवेऽन्तरे चापि हरिर्देवः पुनस्तु सः । विकुण्ठायामजो जज्ञे ह्यभूतरजसैः सह ॥
वैकुण्ठः स पुनर्देवः संप्राप्ते चाक्षुषेऽन्तरे ॥ १३३
धर्मो नारायणः साध्यः साध्यैः सह सुरैरभूत् । स तु नारायणः साध्यः प्राप्ते वैवस्वतेऽन्तरे ॥ १३४
मारीचात्कश्यपादद्विष्णुरदित्यां संभव ह । त्रिभिः क्रमैरिमाँल्लोकाञ्जित्वा विष्णुरुरुक्रमम् ॥ १३५
प्रत्यपादयदिन्द्राय देवेभ्यश्चैव स प्रभुः । इत्येतास्तनवस्तस्य व्यतीताः सप्त सप्तसु ॥
मन्वन्तरेष्वतीतेषु याभिः संरक्षिता प्रजाः ॥ १३६
यस्माद्विष्टमिदं सर्वं वामनेनेह जायता । तस्मात्स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात् ॥ १३७
इत्येतल्लक्षणश्चैव वामनस्य महात्मनः । एकत्वं च पृथक्त्वं च विशिष्टत्वं च कीर्तितम् ॥ १३८
देवतानामिहांशेन जायन्ते यास्तु देवताः । तासां तास्तेजसा बुद्ध्या श्रुतेन च बलेन च ॥
जायन्ते तत्समाश्चैव ता वै तेषामनुग्रहात् ॥ १३९
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छध्वं विष्णोस्तेजोंऽशसंभवम् ॥ १४०
स एवं जायतेऽशेन केचिदिच्छन्ति मानवाः । ततोऽपरे ब्रुवन्तीममन्योन्यांशेन जायते ॥ १४१
एवं विवदमानास्ते दृष्ट्वा तान्वै ब्रुवन्ति ह । यस्मान्न विद्यते भेदो मनसश्चेतसश्च ह ॥
तस्मादनुग्रहास्तेषां क्षेत्रज्ञास्ते भवन्त्युत ॥ १४२
एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः । भूत्वा यस्माच्च बहुधा भवत्येकः पुनस्तु सः ॥ १४३


* नास्तीदमर्धं क. पुस्तके ।

२४४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६६-६७श्लो० १४४-१५२-१-६] (कश्यपीयप्रजासर्गः)

तस्मात्सुमनसो भेदाजायन्ते तेजसश्च ह । मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः ॥ सर्गादौ सकृदुत्पन्नास्तिष्ठन्तीह प्रशंसया ॥ १४४ प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः । जायन्ते मोहयन्तोऽन्यानीश्वरा योगमायया ॥ ऐश्वर्येण चरन्तस्ते मोहयन्ति ह्यनीश्वराः । तस्माद्दोपमचारेषु युक्तायुक्तं न विद्यते ॥ १४५ भूतापवादिनो दृष्टा मध्यस्था भूतभाविनः । भूतापनादिनः शाक्तास्त्रयो वेदाः प्रवादिनाम् ॥ १४६ * परीक्ष्य यो न गृह्णाति गृह्णाति न विपर्ययात् । दृढपूर्वश्रुतत्वाच्च प्रवादाच्चैव लौकिकात् ॥ चतुर्भिः कारणैरेभिर्यथातत्त्वं न विन्दति ॥ १४७ पूर्वमर्थान्तरे न्यस्ताः कालान्तरगता अपि । तेनान्यत्सन्तमप्यर्थं द्वेषात्तु प्रतिपद्यते (?) ॥ १४८ दशानां द्रव्यभूतो यो गुणभूतस्तु तेषु यः । कर्मणां महतां कर्ता अभिजात्या च यो महान् ॥ भूतज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्यते ॥ १४९ अशक्तरुष्टो जानाति देवताः प्रविभागशः । इमौ चोदाहरन्त्यत्र श्लोकौ योगेश्वरं प्रति ॥ १५० आत्मनः प्रतिरूपाणि परेषां च सहस्रशः । कुर्याद्योगबलं प्राप्य तैश्च सर्वैः सहाऽचरेत् ॥ १५१ प्राप्नुयाद्विषयांश्चैव तथैवोग्रतपश्चरन् । संहरेच्च पुनः सर्वान्सूर्यतेजो गुणानिव ॥ १५२ इति महापुराणे वायुप्रोक्ते गुणनैरन्तर्ये कश्यपीयप्रजासर्गो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥

आदितः श्लोकानां समष्ट्यङ्काः-५९७७

अथ सप्तषष्टितमोऽध्यायः ।

कश्यपीयप्रजासर्गः ।

ऋषय उवाच-- एतच्छ्रुत्वा वचस्तस्य नैमिषेयास्तपस्विनः । पप्रच्छुर्ऋषयः श्रेष्ठं वचनस्य यथाक्रमम् ॥ १ सप्तास्विह कथं देवा जाता मन्वन्तरेष्विह । इन्द्रविष्णुप्रधानास्ते आदित्यास्तु महौजसः ॥ एतत्प्रब्रूहि नः सर्वं विस्ताराद्रोमहर्षण ॥ २ एवमुक्तस्तदा सूतो विनयी ब्रह्मवादिभिः । उवाच वदतां श्रेष्ठो यथा पृष्टो महर्षिभिः ॥ ३

सूत उवाच-- ब्रह्मणो वै मुखात्सृष्टा यथा देवाः प्रजेप्सया । सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ ४ दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् । आकृतः प्रथमस्तेषां ततस्त्वाकूतिरेव च ॥ ५ विचित्तिश्च सुविचित्तिश्च आकृतिः कूर्तिरेव च । अधीष्टस्तु ततो ज्ञेयः अधीतिश्चैव तत्त्वतः ॥ विज्ञातिश्चैव विज्ञातो मनवो ये च द्वादश ॥ ६


* इदमर्धं नास्ति क. पुस्तके ।

[अ० ६७--श्लो० ७--३२] वायुपुराणम्। २४५

(कश्यपीयप्रजासर्गः)

*ज्ञेयो द्वादशपुत्रश्च यश्चाब्देन समाजयेत्। तं दृष्ट्वा चाब्रवीद्ब्रह्मा जया देवानसूत ॥ ७
दाराग्निहोत्रसंयोगमिज्यामारभतेति च। एवमुक्त्वा तु तं ब्रह्मा तत्रैवान्तरधीयत ॥ ८
ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः। सन्यस्येह तु कर्माणि वाङ्मनःकर्मजानि तु ॥ ९
यमेष्वेवावतिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु। क्षयातिशययुक्तं तु ते दृष्ट्वा कर्मणां फलम् ॥ १०
जुगुप्सन्तः प्रसूतिं च निस्तन्द्रा निर्ममाऽभवन्। अजस्रत्वं काङ्क्षमाणास्ते विरक्ता दोषदर्शिनः ॥ ११
अर्थं धर्मं च कामं च हित्वा ते वै व्यवस्थिताः। पौरुषं ज्ञानमास्थाय तेजः संक्षिप्य चाऽऽस्थिताः॥ १२
तेषां च तमभिप्रायं ज्ञात्वा ब्रह्मा चुकोप ह। तानब्रवीत्तदा ब्रह्मा निरुत्साहान्सुरानथ ॥ १३
प्रजार्थमिह यूयं वै प्रजास्रष्टाऽस्मि नान्यथा। प्रसूयध्वं यजध्वं चेत्युक्तवानस्मि यत्पुरा ॥ १४
यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः। जुगुप्समानाः स्वं जन्म संततिं नाभिनन्दथ ॥ १५
(+कर्मणां च कृतो न्यासो ह्यमृतत्वाभिकाङ्क्षया। तस्माद्यूयमनादृत्य सप्तकृत्वस्तु यास्यथ) ॥ १६
ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन्। क्षमास्माकं महादेव यदज्ञानात्कृतं विभो ॥ १७
प्रणिपत्य सानुनयं ब्रह्मा तानब्रवीत्पुनः। लोके मयाऽननुज्ञातः कः स्वातन्त्र्यमिहार्हति ॥ १८
मया परिगतं सर्वं कथमच्छन्दतो मम। प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वाऽशुभम् ॥ १९
लोके यदस्ति किंचिद्वै सच्चासच्च व्यवस्थितम्। बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिसंधयेत
भूतानां तर्कितं यच्च यच्चाप्येषां विचारितम्। तथा विचारितं यच्च यत्सर्वं विदितं मम ॥ २१
मया स्थितमिदं सर्वं जगत्स्थावरजङ्गमम्। आशामयेन तत्त्वेन कथं छेत्तुमिहोत्सहे ॥ २२
यस्माच्चाहं विवृत्तो वै सर्गार्थमिह नान्यथा। इह कर्माण्यनारभ्य को मे च्छन्दाद्विमोक्ष्यते ॥ २३
परिभाष्य ततो देवान्जयान्वै नष्टचेतसः। अब्रवीत्स पुतस्तान्व्रै धृतान्दण्डे प्रजापतिः ॥ २४
यस्मान्मामभिसंधाय संन्यासो वः कृतः पुरा। यस्मात्स विफलो यत्नो ह्यपारस्त्वेष यः कृतः ॥
भविताऽतः सुखोदर्को देवा भावेषु जायताम् ॥ २५
आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः। मन्वन्तरेषु संमूढाः षट्सु सर्वे गमिष्यथ ॥ २६
वैवस्वतान्तेषु सुरास्तथा स्वायंभुवादिषु। ताञ्ज्ञात्वा ब्रह्मणा तत्र श्लोको गीतः पुरातनः ॥ २७
त्रयीं विद्यां ब्रह्मचर्यं प्रसूतिं श्राद्धमेव च। यज्ञं चैव तु दानं च एषामेव तु कुर्वताम् ॥
स हि स्म विरजा भूत्वा वसेतेऽन्यप्रशंसया ॥ २८
स एवं श्लोकमुक्त्वा तु जयान्देवानथाब्रवीत्। वैवस्वतेऽन्तरेऽतीते मत्समीपमिहेष्यथ ॥ २९
ततो यूयं मया सार्धं सिद्धिं प्राप्स्यथ शाश्वतीम्। एवमुक्त्वा तु तान्ब्रह्मा तत्रैवान्तरधीयत ॥ ३०
ततो देवास्तिरोभूत ईश्वरे ह्यकुतोभयाः। प्रपन्ना अणिमाद्यैश्च युक्ता योगबलान्विताः ॥ ३१
ततस्तेषां तु यास्तन्वस्ताऽभवन्द्वादश हृदाः। जया इति समाख्याता जाताश्चोदधिसंनिभाः ॥ ३२


* एतदर्धस्थान इदमर्धम्—ज्ञेयो दशपुत्रः पश्चाब्देन सामाजयेत्येजोदिति ख, ग, घ, ङ. पुस्तकेषु।
+ नास्त्ययं श्लोको घ, पुस्तके।

२४६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६७ श्लो० ३३-५४] ( कश्यपीयप्रजासर्गः )

ततः स्वायंभुवे तस्मिन्सर्गे ते जज्ञिरे सुराः । अजितायां रुचे पुत्रा अजिता द्वादशात्मकाः ॥ ३३ विधिश्च मुनयश्चैव क्षेमो नन्दोऽव्ययस्तथा । प्राणोऽपानः सुधामा च ऋतुशाक्तिव्यवस्थिताः ॥ इत्येते मानसाः सर्वे अजिता द्वादश स्मृताः ॥ ३४ ये च यज्ञे सुरैः सार्धं यज्ञभाजस्तदा स्मृताः । स्वायंभुवेऽन्तरे पूर्वं ततः स्वारोचिषे पुनः ॥ तुषिता नाम मे ह्यासन्प्राणाख्या यज्ञियाः सुराः । पुनस्ते तुषिता देवा उत्तमे त्वन्तरे स्वयम् ॥ तुषितायां समुत्पन्नाः पुनः पुत्राः स्वरोचिषः ॥ ३५ उत्तमस्य तु ते पुत्राः सत्यायां जज्ञिरे शुभाः । ततः सत्याः स्मृता देवा उत्तमे चान्तरे तदा ॥ अभवन्द्यज्ञभाजस्ते तृतीये द्वापरान्तरे । ते तु सत्याः पुनर्देवाः संप्राप्ते तामसेऽन्तरे ॥ ३८ हर्षा ये तमसः पुत्रा जज्ञिरे द्वादशैव तु । हरयो नाम ते देवा यज्ञभाजस्तथाऽभवन् ॥ ३९ ततस्ते हरयो देवाः प्राप्ते चारिष्णवेऽन्तरे । वैकुण्ठायां ततस्ते वै चरिष्णोर्जज्ञिरे सुराः ॥ वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मनोः ॥ ४० ततस्ते वै पुनर्देवा वैकुण्ठाः प्राप्य चाक्षुषम् । साध्यायां द्वादश सुता जज्ञिरे धर्मसूनवः ॥ ४१ ततस्ते वै पुनः साध्याः संक्षीणे चाक्षुषेऽन्तरे । उपस्थिते मनोः सर्गे पुनर्वैवस्वतस्य ह ॥ ४२ आद्ये त्रेतायुगमुखे प्राप्ते वैवस्वतस्य तु । अंशेन साध्यास्तेऽदित्यां मारीचात्कश्यपात्पुनः ॥ ४३ जज्ञिरे द्वादशाऽऽदित्या वर्तमानेऽन्तरे पुनः । यदा त्वेते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ॥ ४४ ततः स्वायंभुवे साध्या जज्ञिरे द्वादशामराः । एवमाद्या जयास्ते वै शापात्सम्भवंस्तदा ॥ ४५ य इमां सप्तसंभूतिं देवानां देवशासनात् । पठेद्यः श्रद्धया युक्तः प्रत्यवायं न गच्छति ॥ ४६ इत्येता भूतयः सप्त जयानां सप्रलक्षणाः । परिक्रान्ता मया चाद्य किं भूयः श्रोतुमिच्छथ ॥ ४७ ऋषय ऊचुः-- दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् । सर्पभूतपिशाचानां पशूनां पक्षिवीरुधाम् ॥ उत्पत्तिं निधनं चैव विस्तरात्कथयस्व नः ॥ ४८ एवमुक्तस्तदा सूत उवाच ऋषिसत्तमान् । दितेः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ॥ ४९ कश्यपस्याऽऽत्मजौ तौ वै सर्वेभ्यः पूर्वजौ स्मृतौ । सौत्येऽहन्यतिरात्रस्य कश्यपस्याऽऽश्वमेधिके ॥ ५० हिरण्यकाशिपुर्नाम प्रथमं ऋत्विगासनम् । दित्या गर्भाद्विनिःसृत्य तत्राऽऽसीनो*च्चसंसदि ॥ हिरण्यकशिपुस्तस्मात्कर्मणा तेन स स्मृतः ॥ ५२ ऋषय ऊचुः-- हिरण्यकशिपोर्नाम जन्म चैव महात्मनः । प्रभावं चैव दैत्यस्य विस्तराद्ब्रूहि नः प्रभो ॥ ५२ सूत उवाच-- कश्यपस्याश्वमेधोऽभूत्पुण्यो वै पुष्करे पुरा । ऋषिभिर्देवताभिश्च गन्धर्वैरुपशोभितः ॥ ५३ उत्कृष्टेनैव विधिना आख्यानादौ यथाविधि । आसनान्युपकॢप्तानि काञ्चनानि तु पञ्च वै ॥ ५४


* अत्र संधिरार्षः ।

[अ० ६७-श्लो० ५५-७५] वायुपुराणम्। २४७

( काश्यपीयप्रजासर्गः )

कुशपुतानि त्रीण्यत्र कूर्चः फलकमेव च। मुख्यार्त्विजश्च चत्वारस्तेषां तान्युपकल्पयेत् ॥ ५५ शुभं तत्राऽऽसनं यत्तु होतुरर्थे प्रकल्पितम्। हिरण्मयं तथा दिव्यं दिव्यास्तरणसंस्तृतम् ॥ ५६ अन्तर्वत्नी दितिश्चैव पत्नीत्वं समुपागता। दश वर्षसहस्राणि गर्भस्तस्या अवर्तत ॥ ५७ स तु गर्भो विनिःसृत्य मातुर्वै उदरात्तदा। उपक्लुप्तासनं यत्तु होतुरर्थे हिरण्मयम् ॥ निषसाद स गर्भोऽत्र तत्राऽऽसीनः शशंस च ॥ ५८ आख्यानपञ्चमान्वेदान्महर्षिः काश्यपो यथा। तं दृष्ट्वा मुनयस्तस्य नामाकुर्वंस्तु तद्विधम् ॥ ५९ हिरण्यकशिपुस्तस्मात्कर्मणा तेन विश्रुतः। हिरण्याक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा ॥ राहोः सा जननी देवी विप्रचित्तेः परिग्रहः ॥ ६० हिरण्यकशिपुर्दैत्यश्चचार परमं तपः। शतं वर्षसहस्राणां निराहारो ह्यधःशिराः ॥ ६१ तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु। सर्वामरत्वं विप्रेन्द्राः सर्वभूतेभ्य एव च ॥ योगाद्देवाग्विनिर्जित्य सर्वदेवत्वमास्थितः ॥ ६२ दानवाश्चासुराश्चैव देवाः समा भवन्तु वै। मारुतेर्यन्महैश्वर्यमेष मे दीयतां वरः ॥ ६३ एवमुक्तोऽथ ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम् । दत्त्वा तस्मै वरान्दिव्यांस्तत्रैवान्तरधीयत ॥ हिरण्यकशिपुर्दैत्यः श्लोकैर्गीतः पुरातनैः ॥ ६४ राजा हिरण्यकाशिपुर्यां यामाशां निषेवते। तस्यै तस्यै दिशे देवा नमश्चकुर्महर्षिभिः ॥ ६५ एवंभावो दैत्येन्द्रो हिरण्यकशिपुर्द्विजाः। तस्याऽऽसीन्नरसिंहः स विष्णुर्मृत्युः पुरा किल ॥ नखैस्तु तेन निर्भिन्नानांद्रेण्वका नखाः स्मृताः ॥ ६६ हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः। उत्कुरः शकुनिश्चैव कालनाभस्तथैव च ॥ ६७ महानाभश्च विक्रान्तो भूतसंतापनस्तथा। हिरण्याक्षसुता ह्येते देवैरपि दुरासदाः ॥ ६८ तेषां पुत्राश्च पौत्राश्च वाडेयः स गणः स्मृतः। शतं तानि सहस्राणि निहतास्तारकामये ॥ ६९ हिरण्यकशिपोः पुत्राश्चत्वारस्तु महाबलाः। प्रह्लादः पूर्वजस्तेषामनुह्लादस्तथैव च ॥ संह्लादश्च ह्रदश्चैव ह्रदपुत्रान्निबोधत ॥ ७० ह्रादो निसुन्दश्च तथा ह्रदपुत्रौ बभूवतुः। सुन्दोपसुन्दौ विक्रान्तौ निसुन्दतनयावुभौ ॥ ७१ ब्रह्मघ्नस्तु महावीर्यो मूकस्तु ह्रददायिनः। मारीचः सुन्दपुत्रस्तु ताडकामुपपद्यते ॥ ७२ ताडका निहता साऽथ राघवेण बलीयसा। मूको विनिहतश्चापि किराते सव्यसाचिना ॥ ७३ उत्पन्ना महता चैव तपसा भाविताः स्वयम्। तिस्रः कोट्यस्तु तेषां वै मणिवर्तनिवासिनाम् ॥ अवध्या देवतानां वै निहताः सव्यसाचिना ॥ ७४ अनुह्लादसुतो वायुः सिनीवाली तथैव च। तेषां तु शतसाहस्रो गणो हालाहलः स्मृतः ॥ ७५

गवेष्ठिनः सुता ह्येते जम्भस्य शतदुन्दुभिः । (तथा दक्षश्च खण्डश्च चत्वारो जम्भसूनवः ॥ ७८

२४८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६७श्लो० ७६-९७] । काश्यपीयप्रजासर्गः )

विरोचनस्तु प्राह्लादिः पञ्च तस्याऽऽत्मजाः स्मृताः । गवेष्ठी कालनेमिश्च जम्भो वाष्कल एव च ।
शंभुस्तु अनुजस्तेषां स्मृताः प्रह्लादसूनवः ॥ ७६
यथाप्रधानं वक्ष्यामि तेषां पुत्रान्दुरासदान् । शुम्भश्चैव निशुम्भश्च विष्वक्सेनो महौजसः ॥ ७७
गवेष्ठिनः सुता ह्येते जम्भस्य शतदुन्दुभिः । (*तथा दक्षश्च खण्डश्च चत्वारो जम्भसूनवः ॥ ७८
विरोधश्च मनुश्चैव वृक्षायुः कुशलीमुखः । वाष्कलस्य सुता ह्येते कालनेमिसुताञ्शृणु ॥ ७९
ब्रह्मजित्क्षत्रजिच्चैव देवान्तकनरान्तकौ । कालनेमिसुता ह्येते शंभोस्तु शृणुत प्रजाः ॥ ८०
धनुको ह्यसिलोमा च नाबलश्च सगोमुखः । गवाक्षश्चैव गोमांश्च शंभोः पुत्राः प्रकीर्तिताः ॥ ८१
विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान् ) । बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ॥ ८२
तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः । सहस्रबाहुर्ज्येष्ठस्तु बाणो द्रविणसंमतः ॥
कुम्भनामो गर्दभाक्षः कुशिरित्येवमादयः ॥ ८३
शकुनी पूतना चैव कन्ये द्वे तु बलेः सुते । बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ८४
बलियों नामविख्यातो गणो विक्रान्तपौरुषः । + बाणस्य चेन्द्रमनसो लौहित्यमुपपद्यते ॥ ८५
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् । स कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया ॥
वरेण च्छन्दयामास सा च वव्रे वरं ततः । स तु तस्यै वरं प्रादात्प्रार्थितं भगवान्प्रभुः ॥
किमिच्छसीति चाप्युग्रो मारीचस्तामभाषत ॥ ८७
मारीचं कश्यपं तुष्टं भर्तारं प्राञ्जलिस्तथा । हतपुत्राऽस्मि भगवन्नादित्यैस्तव सूनुभिः ॥ ८८
शक्रहन्तारमिच्छेयं पुत्रं दृप्तंतपोन्वितम् । अहं तपश्चरिष्यामि गर्भमाधातुमर्हसि ॥ ८९
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तथा । प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ ९०
एवं भवतु भद्रं ते शुचिर्भव तपोधने । जनयिष्यति सत्पुत्रं शक्रहन्तारमाहवे ॥ ९१
पूर्णं वर्षशतं तावच्छुचिर्यदि भविष्यसि । पुत्रं त्रिलोकप्रवरमथ त्वं जनयिष्यसि ॥ ९२
एवमुक्त्वा महातेजास्तया समवसत्प्रभुः । तामालिङ्ग्य त्रिभुवनं जगाम भगवानृषिः ॥ ९३
गते भर्तरि सा देवी दितिः परमहर्षिता । कुशलं वनमासाद्य तपस्तेपे सुदारुणम् ॥ ९४
तपस्तस्यां तु कुर्वत्यां परिचर्यां चकार ह । सहस्राक्षः सुरश्रेष्ठः परया गुणसंपदा ॥ ९५
अग्निं समित्कुशं काष्ठं फलं मूलं तथैव च । न्यवेदयत्सहस्राक्षो यच्चान्यदपि किंचन ॥
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा । शक्रः सर्वेषु लोकेषु दितिं परिचचार ह ॥ ९६
एवमाराधिता शक्रमुवाचाथ दित्तिस्तथा । ९७


* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । + तस्मिन्गणे हते देवैर्विक्रान्ते दुर्जयेऽमरैरित्यधिकं ख. पुस्तके ।

[अ०६७श्लो० ०९८-११९] वायुपुराणम् । २४९ (कश्यपीयप्रजासर्गः) दितिरुवाच-- प्रीता तेऽहं सुरश्रेष्ठ दश वर्षाणि पुत्रक । अवाशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ ९८ जयलिप्सुं समाधास्ये लब्ध्वाऽहं तादृशं सुतम् । त्रैलोक्यविजयं पुत्र प्राप्स्यानि सह तेन वै ॥ ९९ एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे । निद्रयाऽपहृता देवी जान्वोः कृत्वा शिरस्तदा ॥ १०० दृष्ट्वा तामशुचिं शक्रः पादयोर्गतमूर्धजाम् । तस्यास्तदन्तरं लब्ध्वा जहास च मुमोद च ॥ १०१ तस्याः शरीरं विवृतं विवेशाथ पुरंदरः । प्रविश्य चामितं दृष्ट्वा गर्भमिन्द्रो महौजसम् ॥ १०२ अभिनत्सप्तधा तं तु कुलिशेन महायशाः ॥ भिद्यमानस्तदा गर्भो वज्रेण शतपर्वणा । रुरोद सस्वरं भीमं वेपमानः पुनः पुनः ॥ १०३ मा रोदीरिति तं गर्भं शक्रः पुनरभाषत ॥ तं गर्भं सप्तधा कृत्वा ह्येकैकं सप्तधा पुनः । कुलिशेन विभेदेन्द्रस्ततो दितिरबुध्यत ॥ १०४ न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् । निष्पपातोदराद्वज्री मातृवचनगौरवात् ॥ प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ॥ १०५ अशुचिर्देवि सुप्ताऽसि पादयोर्गतमूर्धजा । तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ॥ भिन्नवान्गर्भमेतं ते बहुधा क्षन्तुमर्हसि ॥ १०६ तस्मिंस्तु विफले गर्भे दितिः परमदुःखिता । सहस्राक्षं ततो वाक्यं सा सानुनयमब्रवीत् ॥ १०७ ममापराद्धाद्गर्भोऽयं यदि ते विफलीकृतः । नापराधोऽस्ति देवेश ऋषिपूत्र महाबल ॥ १०८ शत्रोर्वधे न दोषोऽस्ति तेन त्वां न शपामि भोः । प्रियं तु कर्तुमिच्छामि श्रेयो गर्भस्य मे कुरु ॥ १०९ भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि । वातस्कन्धानिमान्सप्त चरन्तु मम पुत्रकाः ॥ मरुतश्चेति विख्याता गणास्ते सप्त सप्तकाः ॥ ११० पृथिव्या प्रथमस्कन्धो द्वितीयश्चैव भास्करे । सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ॥ १११ ग्रहेषु पञ्चमश्चैव षष्ठः सप्तर्षिमण्डले । ध्रुवे तु सप्तमश्चैव वातस्कन्धः परस्तु सः ॥ ११२ तानेते विचरन्त्वद्य काले काले ममाऽऽत्मजाः । वातस्कन्धानिमान्भूत्वा चरन्तु मम पुत्रकाः ॥ ११३ पृथिव्यां प्रथमस्कन्ध आमेघेभ्यो य आवहः । चरन्तु मम पुत्रास्ते सप्तमे प्रथमे गणे ॥ ११४ द्वितीयश्चापि मेध्येभ्य आसूर्यात्प्रवहस्तु यः । वातस्कन्धं द्वितीयं तु द्वितीयश्चरतां गणः ॥ ११५ सूर्योर्ध्वं तु ततः सोमादुद्वहो यस्तु वै स्मृतः । वातस्कन्धं तु तं प्राहुस्तृतीयश्चरतां गणः ॥ ११६ (* सोमादूर्ध्वं तथैर्क्षेभ्यश्चतुर्थः सुवहस्तु यः । चतुर्थो मम पुत्राणां गणस्तु चरतां विभो ॥ ११७ यक्षेभ्यश्च तथैवोर्ध्वमाग्रहाद्विवहस्तु यः । पञ्चमं पञ्चमः सौम्यः स्कन्धस्तु चरतां गणः ) ॥ ११८ ऊर्ध्वं ग्रहादृषिभ्यस्तु षष्ठो यो वै पराहतः । चरन्तु मम पुत्रास्तु तत्र षष्ठे गणे तु ये ॥ ११९


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

३२

सप्तर्षयस्तथैवोर्ध्वमाध्रुवात्सप्तमस्तु यः । वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ॥ १२०

२५० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६८-श्लो० १२०-१३५/१] (कश्यपीयप्रजासर्गः)

सप्तर्षयस्तथैवोर्ध्वमाध्रुवात्सप्तमस्तु यः । वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ॥ १२० एतस्सर्वं चरन्त्येते काले काले ममाऽऽत्मजाः । त्वत्कृतेन च नाम्ना वै भवन्तु मरुतस्त्विमे ॥ १२१ ततस्तेषां तु नामानि मातापुत्रौ प्रचक्रतुः । तत्कृते कर्मभिश्चैव मरुतो वै पृथक्पृथक् ॥ १२२ सत्त्वज्योतिस्तथाऽऽदित्यः सत्यज्योतिस्तथाऽपरः । तिर्यग्ज्योतिश्च सज्ज्योतिर्ज्योतिष्मानपरस्तथा ॥ १२३ प्रथमस्तु गणः प्रोक्तो द्वितीयं मे निबोधत । ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥ १२४ सत्यमित्रोऽभिमित्रश्च हरिमित्रस्तथाऽपरः । गण एष द्वितीयस्तु तृतीयं मे निबोधत ॥ १२५ ऋतः सत्यो ध्रुवो धर्ता विधर्ताऽथ विधारयः । ध्वान्तश्चैव धुनिश्शैव ह्युग्रो भीदस्तथैव च ॥ अभियुः साक्षिपश्चैवमाह्वयश्च गणः स्मृतः ॥ १२६ ईदृक्चैव तथाऽन्यादृग्यादृक्च प्रतिकृत्तथा । ऋक्तथा समितिश्चैव संरम्भश्च तथा गणः ॥ १२७ ईदृक्च पुरुषश्चैव अन्यादृक्षाच्च चेतसः । समितासमिवृक्षाच्च प्रतिदृक्षाच्च वै गणाः ॥ १२८ (*मरुतिद्वसरतश्चैव तथा देवो दिशोऽपरः । यजुश्चैवानुदक्सामस्तथाऽन्यो मानुषीविशः ॥ दैत्या देवाः समाख्याताः सप्तैते सप्तका गणाः ॥ १२९ एते ह्येकोनपञ्चाशन्मरुतो नामतः स्मृताः । प्रसंख्यातास्तथा ताभ्यां दित्या चेन्द्रेण चैव हि ॥ १२. कृत्वा तेषां तु नामानि दितिरिन्द्रमुवाच ह । वातस्कन्धं चरन्त्वेते मम पुत्राश्च पुत्रक ॥ विचरन्तु च भद्रं ते देवैः सह ममाऽऽत्मजाः ॥ १३० तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः । उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ॥ १३१ सर्वमेतद्यथोक्तं ते भविष्यति न संशयः । देवभूता महात्मानः कुमारा देवसंमताः ॥ देवैः सह भविष्यन्ति यज्ञभाजस्तवाऽऽत्मजाः ॥ १३२ तस्माच्च मरुतो देवाः सर्वे चेन्द्रानुजामराः । विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तपस्विनः ॥ १३३ एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोधनौ । जग्मतुस्त्रिदिवं हृष्टौ शक्रोऽपि त्रिदिवं गतः ॥ १३४ मरुतां हि शुभं जन्म शृणुयाद्यः पठेत् वा । नावृतिभयमाप्नोति बह्वायुश्च भवत्युत ॥ १३५ इति महापुराणे वायुप्रोक्ते उपोद्घातपादे कश्यपीयप्रजासर्गे नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥

आदितः श्लोकानां समष्ट्यङ्काः--६२१२


अथाष्टषष्टितमोऽध्यायः ।

कश्यपीयप्रजासर्गः ।

सूत उवाच-- अत ऊर्ध्वं प्रवक्ष्यामि दनुपुत्रान्निबोधत । अभवन्दनुपुत्रास्तु वंशे ख्याता महासुराः ॥ १


* धनुश्चिह्नान्तर्गतग्रन्थः क. घ. पुस्तकेयोर्नास्ति ।

[अ० ६८ श्लो० २-२५] वायुपुराणम् । २५१

(कश्यपीयप्रजासर्गः)
विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः । सर्वे लब्धवराश्चैव सुतप्ततपसस्तथा ॥ २
सत्यसंथाः पराक्रान्ताः क्रूरा मायाविनश्च ते । महाबला अयज्वानो सब्रह्मण्‍याश्च दानवाः ॥
कीर्त्यमानानन्मया सर्वान्प्राधान्येन निबोधत ॥ ३
द्विमूर्धा शङ्कुकर्णश्च तथा शङ्कुनिरामयः । शङ्कुकर्णो महाविश्चो गवेष्ठिर्दुन्दुभिस्तथा ॥ ४
अजामुखोऽथ भगवाञ्छिलो वामनसस्तथा । मरीचिरक्षकश्चैव महागर्ग्योऽङ्गिरावृतः ॥ ५
विक्षोभ्यश्च सुकेतुश्च सुवीर्यः सुहृदस्तथा । इन्द्रजिद्विश्वजिच्चैव तथा सुरविमर्दनः ॥ ६
एकचक्रः सुवाहश्च तारकश्च महाबलः । वैश्वानरः पुलोमा च प्रवीणोऽथ महाशिराः ॥ ७
स्वर्भानुर्वृषपर्वा च मुण्डकश्च महासुरः । धृतराष्ट्रश्च सूर्यश्च चन्द्र इन्द्रश्च तापनः ॥ ८
सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः । असिलोमा सुकेशश्च सदश्व बलको दश ॥ ९
तथा गगनमूर्धा च कुम्भनाभो महोदरः । प्रमोदाहश्च कुपथो हयग्रीवश्च वीर्यवान् ॥ १०
असुरश्च विरूपाक्षः सुपथोऽथ महासुरः । अजो हिरण्मयश्चैव शतमायुश्च शम्बरः ॥ ११
शरभः शलभश्चैव सूर्याचन्द्रमसावुभौ । असुराणां सुरावेतौ सुराणां सांप्रताविमौ ॥ १२
इति पुत्रा दनोर्वंशे प्रधानाः परिकीर्तिताः । तेषामपरिसंख्येयं पुत्रपौत्रायनन्तकम् ॥ १३
इत्येते त्वसुराः प्रोक्ता दैतेया दानवाश्च ये । स्वर्भानुस्तु स्मृतो दैत्यो ह्यनुभानुर्दैनोः सुतः ॥
इमे तु वंशानुगता दनोः पुत्रास्तु ये स्मृताः ॥ १४
एकाक्ष ऋषभोऽरिष्टः प्रलम्बन्रकवावपि । इन्द्रबाधनकेशी च मेरुः शंबोऽथ धेनुकः ॥ १५
गवेष्ठिश्च गवाक्षश्च तालकेतुश्च वीर्यवान् । एते मनुष्यधर्माणस्तु दनोः पुत्रा मया स्मृताः ॥ १६
दैत्यदानवसंघर्षे जाता भीमपराक्रमाः । सिंहिकायामथोत्पन्ना विप्रचित्तिसुतास्त्विमे ॥ १७
सैंहिकेया इति ख्याताश्चतुर्दश महासुराः । शतगालश्च बलवान्व्यासः शाम्बस्तथैव च ॥ १८

  • अनुलोमः शुचिश्चैव वातापिश्च सितांशुकः । हरकल्पः कालनाभो भौमश्च नरकस्तथा ॥ १९
    राहुर्ज्येष्ठस्तु तेषां वै चन्द्रसूर्यप्रतर्दनः । इत्येते सिंहिकापुत्रा देवैरपि दुरासदाः ॥ २०
    दारुणाभिजनाः क्रूराः सर्वे ब्रह्मद्विषश्च ते । दशान्यानि सहस्राणि सैंहिकेयो गणः स्मृतः ॥ २१
    निहतो जामदग्न्येन भार्गवेण बलीयसा । स्वर्भानोस्तु प्रभा कन्या पुलोम्नोऽथ शची सुता ॥ २२
    उपदानवीयमस्र्यापि शर्मिष्ठा वार्षपर्वणी । पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ २३
    प्रभाया नहुषः पुत्रो जयन्तश्च शचीसुतः । पुरुं जज्ञेऽथ शर्मिष्ठा दुष्मन्तमुपदानवी ॥ २४
    वैश्वानरसुते ह्येते पुलोमाकालिके उभे । उभे ह्यपि तु ते कन्ये मारीचस्य परिग्रहे ॥ २५

+ एतदर्धस्थाने इदमर्धं ख. ग. घ. ङ. पुस्तकेषु ‘इल्वला नमुचिश्चैव वातापी दस्युयाजकः ’ इति ।

३५२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ६८-६९श्लो० २६-३९-१-७] ( कश्यपीयप्रजासर्गः )

ताभ्यां पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः । चतुर्दश तथाऽन्यानि हिरण्यपुरवासिनाम् ॥ २६ पौलोमाः कालकेयाश्च दानवाः सुमहाबलाः । अवध्या देवतानां ते निहताः सव्यसाचिना ॥ २७ मयस्य जाता ये पुत्राः सर्वे वीरपराक्रमाः । मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ॥ २८ बालिको वज्रकर्णश्च कन्या मन्दोदरी तथा । दैत्यानां दानवानां च सर्ग एष प्रकीर्तितः ॥ २९ दनायुषायाः पुत्रास्तु स्मृताः पञ्च महाबलाः । अरूरुर्बलिजन्मौ च विरक्षश्च विषस्तथा ॥ ३० अरूरोस्तनयः क्रूरो धुन्धुर्नाम महासुरः । निहतः कुवलाश्वेन उत्तङ्कवचनात्किल ॥ ३१ बलेः पुत्रौ महावीर्यौ तेजसाऽप्रतिमावुभौ । कुम्भिलश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ॥ ३२ विरक्षस्यापि पुत्रौ द्वौ कालकश्च वरश्च तौ । विषस्य त्वभवन्पुत्राश्चत्वारः क्रूरकर्णिकः ॥ श्राद्धहा यज्ञहा चैव ब्रह्महा पशुहा तथा ॥ ३३ क्रान्ता दनायुषापुत्रा वृत्रस्यापि निबोधत । जज्ञिरे श्वसनाद्धोराद्दृष्टस्येन्द्रेण युध्यतः ॥ ३४ भर्त्तारो मनसा ख्याता राक्षसाः सुमहाबलाः । शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥ ३५ सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्तयः । प्रजास्वन्तर्गताः सर्वे निवसन्ति सुधार्मिकाः ॥ ३६ दैत्यानां दानवानां स सर्ग एष प्रकीर्तितः । प्रवाद्यजनयत्पुत्रान्यज्ञै वै गायनोत्तमान् ॥ ३७ सत्वः सत्त्वात्मकश्चैव कलापश्चैव वर्यवान् । क्रुतवीर्यो ब्रह्मचारी सुपाण्डुश्चैव सप्तमः ॥ ३८ पनश्चैव तरण्यश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वा विज्ञेयाः परिकीर्तिताः ॥ ३९ इति श्रीमहापुराणे वायुप्रोक्ते उपोद्घातपादे कश्यपीयप्रजासर्गो नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥

आदितः श्लोकानां समष्ट्यङ्काः—६१९१


अथ नवषष्टितमोऽध्यायः ।

कश्यपीयप्रजासर्गः ।

सूत उवाच-- गन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्तिताः । चित्रसेनोद्यसेनश्च ऊर्णायुरनघस्तथा ॥ १ धृतराष्ट्रः पुलोमा च सूर्यवर्चास्तथैव च । युगपत्तृणपत्कालिदितिश्चित्ररथस्तथा ॥ २ त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः । कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ॥ इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ ३ चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः । अन्तरा दारवत्या च प्रियमुरुख्या सुरोत्तमा ॥ ४ मिश्रकेशी तथा चाशी वर्णिनी वाऽप्यलम्बुषा । मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ॥ ५ अद्रिका लक्षणा चैव देवी रम्भा मनोरमा । सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ॥ ६ पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा । हेमा शारद्वती चैव सुवृत्ता कमला च या ॥ ७

[अ० ६९ श्लो० ८-३६] वायुपुराणम् । २५३

( कश्यपीयप्रजासर्गः )

सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा । गन्धर्वाप्सरसो ह्येता मौनेयाः परिकीर्तिताः ॥ ८
गन्धर्वाणां दुहितरो मया याः परिकीर्तिताः । (*तासां नामानि सर्वासां कीर्त्यमानानि मे शृणु ॥
सुयशा प्रथमा तासां गान्धर्वी तदनन्तरम् । विद्यावती चारुमुखी सुमुखी च वरानना ) ॥ १०
तत्रेमे सुयशापुत्रा महाबलपराक्रमाः । प्रचेतसः सुता यक्षास्तेषां नामानि मे शृणु ॥ ११
कम्बलो हरिकेशश्च कपिलः काञ्चनस्तथा । मेघमाली तु यक्षाणां गण एष उदाहृतः ॥ १२
सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः । तासां नामानि वै सम्यग्ब्रुवतो मे निबोधत ॥ १३
लोहेयी त्वभवज्ज्येष्ठा भरता तदनन्तरम् । कृशाङ्गी च विशाला च रूपेणाप्रतिमा तथा ॥ १४
ताभ्योऽपरे यक्षगणाश्चत्वारः परिकीर्तिताः । उत्पादिता विशालेन विक्रान्तेन महात्मना ॥ १५
लोहेया भरतेयाश्च कृशाङ्गेयाश्च विश्रुताः । विशालेयाश्च यक्षाणां पुराणे प्रथिता गणाः ॥ १६
इत्येतैरसुरैर्धीरैर्महाबलपराक्रमैः । नैकैर्यक्षगणैर्व्याप्ता लोका लोकविदां वराः ॥ १७
गन्धर्वाश्चाथ वालेया विक्रान्तेन महात्मना । उत्पादिता महावीर्या महागन्धर्वनायकाः ॥ १८
विक्रमौदार्यसंपन्ना महाबलपराक्रमाः । तेषां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥ १९
चित्राङ्गदो महावीर्यश्चित्रवर्मा तथैव च । चित्रकेतुर्महाभागः सोमदत्तोऽथ वीर्यवान् ॥ २०
तिस्रो दुहितरश्चैव तासां नामानि वक्ष्यते ( मे शृणु ) २१
प्रथमा त्वभ्रिका नाम कम्बला तदनन्तरम् । तथा वसुमती नाम रूपेणाप्रतिमौजसः ॥ २२
ताभ्यः परे कुमारेण गणा उत्पादितास्त्विमे । त्रयो गन्धर्वमुख्यानां (णां) विक्रान्ता युद्धदुर्मदाः ॥ २३
आभ्रेयाः काम्बलेयाश्च तथा वसुमतिसुताः । तैर्गणैर्विविधैर्व्याप्तमिमं लोकं चराचरम् ॥ २४
विद्यावन्तश्च तेनैव विक्रान्तेन महात्मना । उत्पादिता महाभागा रूपविद्याधनेश्वराः ॥ २५
तेषामुदीर्णवीर्याणां गन्धर्वाणां महात्मनाम् । नामानि कीर्त्यमानानि शृणुध्वं मे विवक्षतः ॥ २६
हिरण्यरोमा कपिलः सुलोमा मागधस्तथा । चन्द्रकेतुश्च वै गाङ्गो मोदश्चैव महाबलः ॥ २७
महविद्यावदातानां विक्रान्तानां तपस्विनाम् । इत्येवमादिर्हि गणो द्वे चान्ये च सुलोचने ॥ २८
शिवा च सुमनाश्चैव ताभ्यामपि महात्मना । उत्पादिता विश्ववसा विद्याचरणगोचराः ॥ २९
शैवेयाश्चैव विक्रान्तास्तथा सौमनसा गणाः । एतैर्य्याप्तमिमं लोकं विद्याधरगणैस्त्रिभिः ॥ ३०
एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम् । लोके गणशतान्येव विद्याधरविचेष्टितात् ॥ ३१
अश्वमुख्याश्च तेनैव विक्रान्तेन महात्मना । उत्पादिता ह्यश्वमुखाः किंनरांस्तान्निबोधत ॥ ३१
समुद्रसेनः कालिन्दो महानेत्रो महाबलः । सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ॥ ३२
इत्येवमादिर्हि गणः किंनराणां महात्मनाम् । हयाननानां विद्वाद्भिर्विस्तीर्णः परिकीर्त्यते ॥ ३३
तथा समुत्थितेनैव विक्रान्तेन महात्मना । उत्पादिता नरमुखाः किंनराः शांशपायनाः ॥ ३४
हरिषेणः सुषेणश्च वारिषेणश्च वीर्यवान् । रुद्रदत्तेन्द्रदत्तौ च चन्द्रद्रुममहाद्रुमौ ॥ ३५
बिन्दुश्च बिन्दुसारश्च चन्द्रवंशश्च किंनराः । इत्येते किंनराः श्रेष्ठा लोके ख्याताः सुशोभनाः ॥ ३६

* धनुश्चिह्नान्तर्गतग्रन्थो ग पुस्तके नास्ति ।

२५४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६९ श्लो० ३७-५८] ( कश्यपीयप्रजासर्गः )

नृत्यगीतप्रगल्भानामेतेषां द्विजसत्तमाः । लोके गणशतान्येव किंनराणां महात्मनाम् ॥ ३७ यक्षा यक्षोपशान्तश्च लौहेया रूपशालिनी । दुहिता सुरविन्देति प्रकाशा सिद्धसंमता ॥ ३८ उपायाकेतनस्याहि स्वयमुत्पादितो गणः । करालकेन भूतानां तेषां नामानि मे शृणु ॥ ३९ भूता भूतगणैर्ज्ञेया आवेशकनिवेशकाः । * सुतारः कालभवनानिर्देश कविदेशकाः ॥ इत्येवमादिर्हि गणो भूमिगोजरकः स्मृतः ॥ ४० विज्ञेय इह लोकेऽस्मिन्भूतानां भूतनायकः । ये तूत्कृष्टा भवन्त्येषामम्बरान्तरचारिणाम् ॥ वृक्षायमात्रमाकाशं ते चरन्ति न संशयः ॥ ४१ तत्रेमे देवगन्धर्वाः प्रायेण कथिता मया । देवोपस्थानानिरता विज्ञेयास्ते यशस्विनः ॥ ४२ नारायणं सुरगुरुं विरजं पुष्करेक्षणम् । हिरण्यगर्भं च तथा चतुर्वक्त्रं स्वयंभुवम् ॥ ४३ शंकरं च महादेवमीशानं च जगत्प्रभुम् । इन्द्रपूर्वांस्तथाऽऽदित्यान् रुद्रांश्च वसुभिः सह ॥ ४४ उपतस्थुः सगन्धर्वा नृत्यगीतविशारदाः । त्रिदशाः सर्वलोकस्था निपुणा गीतवादिनः ॥ ४५ हंसो ज्येष्ठः कनिष्ठोऽन्यो मध्यमौ च हहा हूहूः । चतुर्थो धिषणश्चैव ततो वासिरुचिस्तथा ॥ ४६ षष्ठस्तु तुम्बुरुस्तेषां ततो विश्वावसुः स्मृतः । इमाश्चाप्सरसो दिव्या विहिताः पुण्यलक्षणाः ॥ ४७ सुषुवेऽष्टौ महाभागा वरिष्ठा देवपूजिताः । अनवद्यामनवद्यामन्वतां मदनाप्रियाम् ॥ अरूपां सुभगां भासीमरिष्ठाऽष्टौ व्यजायत ॥ ४८ मनोवती सुकेशा च तुम्बुरोस्तु सुते उभे । पञ्चचूडास्त्विमा दिव्या दैविक्योऽप्सरसो दश ॥ ४९ मेनका सहजन्या च पार्णिनी पुञ्जिकस्थला । घृतस्थला घृताची च विश्वाची पूर्वचित्त्यपि ॥ प्रम्लोचेत्यभिविख्याताऽनुम्लोचन्ती तथैव च ॥ ५० अनादिनिधनस्याथ जज्ञे नारायणस्य या । ऊरोः सर्वानवद्याङ्गी उर्वश्येकादशी स्मृता ॥ ५१ मेनस्य मेनका कन्या ब्रह्मणो हृष्टचेतसः । सर्वाश्च ब्रह्मवादिन्यो महायोगाश्च ताः स्मृताः ॥ ५२ गणा अप्सरसां ख्याताः पुण्यास्ते वै चतुर्दश । ÷ आहूताः शोभयन्तश्च गणा ह्येते चतुर्दश ॥ ५३ ब्रह्मणो मानसाः कन्याः शोभयन्त्यो मनोः सुताः । वेगवन्तस्त्वरिष्ठाया ऊर्जायाश्चाभिसंभवा ॥ ५४ (× आयुष्मत्यश्च सूर्यस्य रश्मिजाताः सुभास्वराः । गर्भस्तेजश्च सोमस्य ज्ञेयास्ते कुरवः शुभाः ॥ ५५ यज्ञोत्पन्नाः शुभा नाम ऋक्सामान्यास्तु वह्नयः ) । वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ॥ वायुत्पन्ना सुदा नाम भूमिजाता भवास्तु वै । विद्युतश्च रुचो नाम मृत्योः कन्याश्च भैरवाः ५७ शोभयन्त्यश्च कामस्य गणाः प्रोक्ताश्चतुर्दश । सेन्द्रोपेन्द्रैः सुरगणै रूपातिशयनिर्मिताः ॥ ५८


* इदमर्धं नास्ति क. पुस्तके । + एतदर्धस्थानेऽयं ग्रन्थः-‘आहूताः शोभयन्तश्च वेगवत्यस्तथैव च । दुर्मयाश्च युवतयश्च तथा भेकुरयः शुभाः । वह्नयोत्यमृतात्सेदा भुवश्च रुचयस्तथा । भैरवाः शोभयन्त्यश्च गणा ह्येते चतुर्दश ' इति-ख. घ. पुस्तकयोः । × धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।

धनुरूपा महाभागा दिव्या नारी तिलोत्तमा । ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती ॥

[०६९श्लो०५९-८२] वायुपुराणम् । २५५ ( कश्यपीयप्रजासर्गः )

धनुरूपा महाभागा दिव्या नारी तिलोत्तमा । ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती ॥ रूपयौवनसंपन्ना उत्पन्ना लोकाविश्रुता ॥ ५९ वेदीतलसमुत्पन्ना चतुर्वक्त्रस्य धीमतः । नाम्ना वेदवती नाम सुरनारी महाप्रभा ॥ ६० तथा यमस्य दुहिता रूपयौवनश लिनी । वरहेमनिभा हेमा देवनारी सुलोचना ॥ ६१ इत्येते बहुसाहस्रं भास्वरा ह्यप्सरोगणाः । देवतानामृषीणां च पत्न्यस्ता मातरश्च ह ॥ ६२ सुगन्धाश्चम्पवर्णाश्च सर्वाश्चाप्सरसः समाः । संपयोगे तु कान्तेन माद्यन्ति मदिरां विना ॥ तासामाप्यायते स्पर्शादानन्दश्च विवर्धते ॥ ६३ (*पर्वते नारदे पूर्वं रेतः स्कन्नं प्रजापतेः । पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ ॥ ६४ तयोर्यवीयसी चैव तृतीयाऽरुन्धती स्मृता । देवरुख्यो(?सूर्यजन्म तस्मिन्नारदपर्वतौ ) ॥ ६५ विनतायास्तु पुत्रौ द्वावरुणा गरुडश्च ह । षट्त्रिंशत्तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ॥ ६६ गायत्र्यादीनि च्छन्दांसि सौपर्णेयाश्च पक्षिणः । हव्यवाहानि सर्वाणि दिक्षु संनिहितानि च ॥ ६७ कण्डूर्नागसहस्रं वै चराचरमजीजनत् । अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥ बहुधा नामधेयानां प्रायशस्तु निबोधत ॥ ६८ तेषां प्रधाननागाश्च शेषवासुकितक्षकाः । सकर्णीरश्च जम्भश्च अञ्जनो वामनस्तथा ॥ ६९ ऐरावतमहापद्मौ कम्बलाश्वतरावुभौ । एलपत्रश्च शङ्खश्च कर्कोटकधनंजयौ ॥ ७० महाकर्णो महानीलो धृतराष्ट्रबलाहकौ । कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥ ७१ शिलीमुखो दधिमुखः कालीयः शालिपिण्डकः । बिन्दुपादः पुण्डरीको नागश्चापूरणस्तथा ॥ ७२ कपिलश्चाम्बरीषश्च धृतपादश्च कच्छपः । प्रह्लादः पद्मचित्रश्च गन्धर्वोऽथ मनस्विकः ॥ ७३ नहुषः खररोमा च मणिरित्येवमादयः । काद्रवेया मया ख्याताः खशायास्तु निबोधत ॥ ७४ खशा विजज्ञे पुत्रौ द्वौ विश्रुतौ पुरुषादकौ । ज्येष्ठं पश्चिमसंख्यायां पूर्वस्यां मनुजास्तथा ॥ ७५ विलोहितं विकर्णं च पूर्वं साऽजनयत्सुतम् । चतुर्भुजं चतुष्पादं द्विमूर्धानं द्विधागतिम् ॥ ७६ सर्वाङ्गकेशं स्थूलाङ्गं तुङ्गनासं महोदरम् । स्थूलशीर्षं महाकर्णं मुञ्जकेशं मनोरथम् ॥ ७७ हस्त्योष्ठं दीर्घजङ्घं च अधर्दंष्ट्रं महाहनुम् । रक्तजिह्वं जटाक्षं च स्थूलास्यं दीर्घनासिकम् ॥ ७८ गुहकं शितिकर्णं च महानन्दं महामुखम् । एवंविधं खशा पुत्रं विजज्ञे साऽतिभीषणम् ॥ ७९ तस्यानुजं द्वितीयं तु खशा चैव व्यजायत । त्रिशीर्षं च त्रिपदं च त्रिहस्तं कृष्णलोचनम् ॥ ८० ऊर्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् । ह्रस्वकायं सुबाहुं च महाकायं महाबलम् ॥ ८१ आकर्णदारितास्यं च लम्बभ्रूं स्थूलनासिकम् । स्थूलोष्ठमष्टदंष्ट्रं च द्विजिव्हं शङ्कुकर्णकम् ॥ ८२


* धनुश्चिह्नान्तर्गतग्रन्थः क पुस्तके नास्ति ।

२५६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०६९-श्लो०८३-१०२] ( कश्यपीयप्रजासर्गः)

पिङ्गलोद्धृतनयनं जटिलं पिङ्गलं तथा । महाकर्णं महोरस्कं कटिहीनं कृशोदरम् ॥
नखिनं लोहितग्रीवं सा कनिष्ठं प्रसूतये ॥ ८३
सद्यः प्रसूतमात्रौ तु विवृद्धौ च प्रमाणतः । उपभोगसमर्थाभ्यां शरीराभ्यामुपस्थितौ ॥
सद्योजातविवृद्धाङ्गौ मातरं पर्यभूषताम् । ८४
ज्यायांस्तयोस्तु यः क्रूरो मातरं सोऽभ्यकर्षत । अब्रवीन्मातरायाहि भक्षार्थे क्षुधयाऽर्दितः ॥ ८५
न्यषेधयत्सुतस्त्वेनं ज्यायांसं तु कनिष्ठकः । अब्रवीत्सोऽसकृत्तं वै रक्षेमां मातरं खशाम् ॥
बाहुभ्यां परिगृह्यैनं मातरं तां व्यमोचयत् ॥ ८६
एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता । तौ दृष्ट्वा विकृताचारौ वसतां हीत्याभाषत ॥ ८७
तौ तु तं पितरं दृष्ट्वा बलवन्तौ त्वरान्वितौ । मातुरेव पुनश्चाङ्के प्रलपेतां स्वमायया ॥ ८८
अथाब्रवीदृषिभार्यामावाभ्यामुक्तवत्यसि । पूर्वमाचक्ष्व तत्त्वेन तथैवाऽऽभ्यां व्यतिक्रमम् ॥ ८९
मातुलं भजते पुत्रः पितॄन्भजति कन्यका । यथाशीला भवेन्माता तथाशीलो भवेत्सुतः ॥ ९०
यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम् । मातृणां शीलदोषेण तथा शीलगुणैः पुनः ॥
विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ॥ ९१
बलशीलादिभिस्तासामदितिर्धर्मतत्परा । * गन्धशीला दितिश्चैव प्रवाध्ययनशालिनी ॥
धर्मशीलादिभिश्चैव प्रबोधबलशालिनी ॥ ९२
गीतशीला तथाऽरिष्टा मायाशीला दनुः स्मृता । विनता तु पुनर्देवी वैहायसगतिप्रिया ॥ ९३
तपोमयेन शीलेन सुरभिः समलंकृता । क्रोधशीला तथा कद्रूः क्रोधेनासुखशीलका ॥ ९४
दनायुषायाः शीलं वै वैराद्यनुग्रहलक्षणम् । त्वं च देवि महाभागे क्रोधशीला मताऽसि मे ॥ ९५
इत्येतानि स्वशीलानि स्वभावालोकनान्नृणाम् । कर्मतो यत्नतो बुद्ध्या रूपतो बलतस्तथा ॥
क्षमातश्चैव भिन्नानि भावितातार्थबलेन च ॥ ९६
रजःसत्त्वतमोवृत्तेर्विश्वरूपाः स्वभावतः । मातुलं त्वनुयातास्ते पुत्रका गुणवृत्तिभिः ॥ ९७
इत्येवमुक्त्वा भगतान्खशामप्रतिमां तदा । पुत्रावाहूय साम्ना वै चक्रे सोममभीतयः (?) ॥ ९८
ताभ्यां च यत्कृतं तस्यास्तदाचष्ट तदा खशा । मात्रा यथा समाख्यातं कर्म ताभ्यां पृथक्पृथक्
तेन धात्वर्थयोगेन तत्वदर्शी चकार ह ॥ ९९
यक्ष इत्येष धातुर्वै खादने क्षपणे च सः । यक्षयत्युक्तवान्यस्मात्तस्माद्यक्षो भवत्ययम् ॥ १००
रक्ष इत्येष धातुर्यः पालने स विभाव्यते । उक्तवांश्चैव यस्मात्तु रक्ष मे मातरं खशाम् ॥
नाम्नाऽयं राक्षसस्तस्माद्भविष्यति तवाऽऽत्मजः ॥ १०१
स तदा तद्विधान्दृष्ट्वा विज्ञाय तु तयोः पिता । तथा भाविनमर्थं च बुद्ध्वा मातृकृतं तयोः ॥ १०२


* इदमर्धं नास्ति क. पुस्तके ।