वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 169, कुल 237 में से
संदर्भ में पढ़ें३१२ वेदस्वरूप-विमर्श न हि ज्ञानत्वमात्रेण संशयः, तस्य साधारणधर्मादिनिश्चयाधीनत्वात् । तस्मात् अवश्यं कानिचित् ज्ञानानि अप्रमाणान्येवोत्पद्यन्ते, यत्र दूरत्वा- दिदोषसम्भवादप्रामाण्यशङ्का, तत्रापि प्रत्यासत्तिगमनादिनाऽन्यतरपदार्थ- निर्णयात् नातिदूरगमनम् । तृतीयज्ञाने यदि दोषो न संभावितः, ततस्तदवधिरेव निर्णयः । यदि सम्भावितस्तत्त्वन्निराकरणप्रयत्नेन चतुर्थज्ञानावसानो निर्णयः, नाधिकज्ञानापेक्षा । तृतीयेन चतुर्थेन वा द्वितीयस्य तृतीयस्य वा बाधे आद्यस्य द्वितीयस्य वा यस्यैव प्रामाण्यं समर्थ्यते, तस्य स्वाभाविकं प्रामाण्यमनपोहितं भवति । इतरदपवादादप्रमाणमिति नातस्था । तदुक्तम्— “एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः । प्राप्यते तावतैवैकं स्वतःप्रामाण्यमश्नुते ॥” तत्र शब्दे वक्तृधीन एव दोषोद्भवः, क्वचिद् गुणवद्वक्तृकत्वेन दोषाभावश्च । वेदस्य चापौरुषेयत्वात् पुरुषाभावेन निराश्रयत्वात् दोषाभावेनाऽनपोहितं स्वतः प्रामाण्यमेव । न च वक्तृगुणान्वयव्यतिरेकानुविधायित्वात् शब्दस्य गुणाधीनमेव प्रामाण्यमिति तदभावेन वेदस्याप्रामाण्यमेवेति वाच्यम् । प्रमाणानां परायतत्प्रामाण्यस्य निराकृतत्वेन प्रामाण्यस्वतस्त्वसाधनात्, अन्वयव्य- तिरेकयोश्च दोषाभावेन गतार्थत्वाच्च प्रमाणभूतपौरुषेयवचस्सु न केवलं गुणा दृष्टाः किन्तु दोषाभावोऽपि दृष्टः । दोषाभावनिबन्धन्तवेन प्रामाण्यस्य वेदेऽपि सुलभत्वात् । न चैवमपि प्रामाण्यपरतस्त्वमेवायाताम्, तस्यापवादाभाव एवेोप- योगित्वात् । गुणेभ्यो दोषाभावाद्वाप्रामाण्यद्रव्याभावः, तत्तच्चानपोहितं स्वतःप्रामाण्यमेव तिष्ठति । यत्र साक्षाद्विपरीतबोधकज्ञानादर्थान्यथात्वम- वगम्यते, यत्र च दोषज्ञानेनोभयत्रापि ज्ञानस्यायथार्थत्वे दोषा एव कारणम्, दोषाभावेन तद्द्वयासत्त्वेनोत्सर्गस्यानपवाद एव सिद्ध्यति । अपवादा- भावे प्रत्ययोत्पत्तिहेतुत्वात् प्रत्यक्षादिवत् पौरुषेयवाक्यस्यापि प्रामाण्यं ग्राह्यम्, तन्नापनीयते । एवं पौरुषेयवाक्यस्यापि स्वतःप्रामाण्ये सिद्धे- ऽपौरुषेये वेदे तु सुतरां स्वतःप्रामाण्यम् ।
वेदप्रामाण्य-विमर्शा ३१३ ननु दोषाभावस्य गुणाधीनत्वे पुनरपि सैव स्थितिरिति चेन्न । प्रामाण्यावधारणे गुणानां ज्ञायमानत्वेन कारणत्वेऽनवस्थासम्भवेऽपि दोषाभावस्य सत्तामात्रेणापकारित्वेन तदसम्भवात् । गुणनिरकृतदोषा औत्सर्गिकं प्रामाण्यं नोपघ्नन्तीति कानवस्थावकाशः ? वेदे तु वक्तृप्रभा- वादपवादनिवृत्तिस्ततोऽपि लघीयसी, तेन तत्रापवादशङ्काऽपि नोदेति । एवं लोकेऽपि शब्दप्रामाण्यस्य वक्तृनपेक्षाभावेन वेदप्रामाण्यसिद्धयर्थं कर्तृकल्पनमनावश्यकम् । शाक्यादिवत् अप्रामाण्ये कल्पयितव्ये एव कर्तृकल्पना युक्ता । यथोक्तमात्राप्रणीतत्वेन, बालोन्मत्तादिवाक्यवद- प्रामाण्यमेवेति चेन्न । प्रामाण्यस्वतस्त्वसिद्धेः । न च तर्हि पौरुषेयेऽपि वाक्ये प्रमाणान्तरापेक्षाऽनपेक्षणीयेति वाच्यम् ; तथात्वेऽप्रमाणमूलतया दुष्टमूलत्वेन प्रामाण्यापवादापातात् । वेदे त्वपौरुषेयतयाऽप्रमाणमूलत्वा- शङ्काया अभावेन तद्योगात् । वेदे प्रमाणान्तरमूलाभावो भूषणमेव, न दूषणम् । प्रमाणान्तरविषयत्वेनानधिगतगन्तृत्वाभावेनानुवादक- त्वापत्तेः । ननु प्रत्यक्षादीनां पौरुषेयवाक्यानाञ्च प्रमाणान्तरसंवादनिबन्धनमेव प्रामाण्यम्; अतो वेदस्यापि तथात्वमेवेति चेन्न । प्रमाणान्तरसंगतिरू- पसंवादस्य प्रामाण्यविरोचित्वेन तद्धेतुत्वानुपपत्तेः । यत्रैकस्मिन्नर्थेऽनेक- प्रमाणसन्निपातस्तत्र तेषामन्योन्यनिरपेक्षार्थावबोधहेतुत्वेन तुल्यानामेव प्रामाण्यम् , न समुच्चितानाम् । अतः प्रमाणान्तरमूलत्वेनानुवादत्वा- पत्त्या नो संवादाधीनं प्रामाण्यम् । ननु चैकमेव वस्तु दूरात् दृष्ट्वाऽपि पुनः प्रमित्सयैव प्रत्यासीदन्तो दृश्यन्ते । तदेतत्पूर्वस्य नैरपेक्ष्ये नोपपद्यते । अतः संवादापेक्षमेव प्रामाण्यमिति चेन्न । अप्रमितिविशेषप्रमित्सयैव प्रत्यासत्त्युपपत्तेः । तदुक्तम्— “यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरैः पुनः । नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा ॥” यदि हि उत्तरोत्तरप्रमाणसंवादेन पूर्वपूर्वप्रमाणानां प्रामाण्यं भवेत् , तदानवस्थानात् न क्वचिद् व्यवस्था स्यात् ।