वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 21, कुल 237 में से
संदर्भ में पढ़ें१६ वेदस्वरूप-विमर्शः ‘अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥’ ( प्र० २।६ ) इति मन्त्रेऽपि चाग्निनाम्नि प्राणे ऋक्सामयोः प्रतिष्ठा प्रोक्ता— “अग्निर्जागार तमृचः कामयन्ते । अग्निर्जागार तमु सामानि यन्ति । अग्निर्जागार तमयं सोम आह । तवाहंमस्मि सख्ये न्योकाः ।” ( ऋ० सं० ५।४४।१५ ) अत्राग्निनाम्ना यजुरेवोक्तम्, पूर्वोक्तब्राह्मणेन सहैकवाक्यतासिद्धेः । सोमस्य तत्सहचरत्वम् । ततो न्यूनत्वं 'न्योकाः' इति पदेनोक्तम् । भगवान् मनुरपि आह— 'एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥' ( १२ । १२३ ) । लोके सूर्याद्याः स्वज्योतिषः चन्द्राद्यास्तु अन्यस्यज्योतिरादाय तदात्मसात्कृत्य परत्र तज्ज्योतिः प्रयच्छन्तीति परज्योतिषः कथ्यन्ते । येषु ज्योतिर्नास्ति केवलं रूपमेव येषां दृश्यते, ते रूपज्योतिषः, पृथिव्याद्याः । येषां वाय्वादीनां रूपमपि न दृश्यते तेऽज्योतिषः । तत्र स्वज्योतिषि सूर्ये वेदत्रयम् उक्तेन ब्राह्मणेनाम्नातम् । यावत्तेषां ज्योतिर्गच्छति तत्तेषां मण्डलमिति परज्योतिषोऽपि पदार्था एवमेव निर्वक्तव्याः । रूपज्योतिषि पृथिव्यामपि वेदत्रयमाह श्रुतिः— ‘त्रयी वै विद्या ऋचो यजूंषि सामानि इयमेवर्क् । अस्यां त्वर्चि योऽर्चति स वागेवर्क् । वाचा ह्यर्चति योऽर्चति । सोऽन्तरिक्षमेव यजूंषि द्यौः सामानि । सैषा त्रयी विद्या सौम्येऽध्वरे प्रयुज्यते ।’ ( शत० ४।६।७।२ ) । अत्र पृथिव्या ऋक्त्वं तस्या व्युत्पत्तिश्चापि व्याख्याता । अन्त- रिक्षस्य यजुष्ट्वम्, दिवः सामत्वञ्चाम्नातम् । प्राणरूपोऽग्निः पृथिव्या उत्थाय द्युलोकपर्यन्तं गच्छति । तत्र दिव्यस्याः साममण्डलम्, मध्ये- ऽन्तरिक्षे तु यजुर्मण्डलमिति श्रुत्या पृथिव्या ऋक्त्वम्, अन्तरिक्षस्य यजुष्ट्वम्, दिवश्च सामत्वमाख्यातम् । तत्तल्लोकस्थितानि ऋग्यजुः- साममण्डलानीति तात्स्थ्यात् ताच्छब्द्यं श्रुतौ द्रष्टव्यम् । स्थानत्रयस्थिता अग्निवाय्वादित्याख्योऽप्यग्नेरेव रूपाणीत्यपि श्रुतिषु असकृदुपदिष्टम्— वेदस्वरूप-विमर्शः १७ ‘एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ।’ ( ऋ० १ । १६४ । ४६ ) इति । तत एव 'ऋग्वेद एवाग्नेरजायत, यजुर्वेदो वायोः, सामवेद आदित्यात्’ ( ऐ० ब्रा० २५।३२ ) इत्यग्निवाय्वादित्येभ्यस्त्रयाणां वेदानामुत्पत्ति- राख्याता । 'इतरेतरजन्मानो भवन्ति इतरेतरप्रकृतयः ।' इति ( निरु० ७ । ४ । १२ ) निरुक्तकृदुक्तदिशा वेदेभ्यो देवा जायन्ते, देवेभ्यश्च वेदाः, इति वैज्ञानिकप्रक्रियायां नात्र विशेषः। तन्तुभ्योऽपि पटो जायते पटाच्च तन्तव इति लोकेऽपि दृश्यते । तस्मादेकरूपतैव अभिमता कार्यकारणयोः । मनुरप्याह— 'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' ( १ । २३ ) वेदेष्वप्ययं सङ्केतः— ‘ऋग्वेदश्च 'अग्निमीळे पुरोहितम्' इति पुरो दृश्यमानं पार्थिवमग्निमेवारम्भे प्रस्तौति । यजुर्वेदश्च 'इषे त्वोर्जे त्वा वायवः स्थः' इति वायुमेव प्रस्तुत्यैवारभ्यते । सामवेदश्चारम्भे 'अग्न आयाहि वीतये' इति सूर्यमण्डलात् आयान्तमग्निं सूर्यमेवादौ प्रस्तौति । पृथिव्याः प्राण रूपोऽग्निः पृथिव्या उत्थाय सूर्यमण्डलपर्यन्तं गच्छति । यावत्पर्यन्तं रूपज्योतिषः प्राणाः प्रसर्पन्ति, तावत्पर्यन्तमेव तद्वस्तु दृश्यते । यस्य पदार्थस्य साममण्डलेऽन्तर्गतमस्माकं चक्षुः, तदेवास्माभि- रालोक्यते । यस्य तु साममण्डलं नास्माकं चक्षुरिन्द्रियपर्यन्तं व्याप्नोति, तन्न दृश्यते । अत एव येषां वस्तूनां साम ऋगनुसारेण विस्तृतं तदेव दूरादालोक्यते । तत्रैव स्थिता लघवः पदार्थाश्च न दृश्यन्ते, तेषां लघूनां साम्नोऽस्मच्चक्षुःपर्यन्तमव्याप्तत्वात् । पृथिव्याः साम रथन्तरमुच्यते—'सूर्यरथं तरती'ति सूर्यमण्डल- मभितो विराजमानं देवमण्डलमेव सूर्यरथ उच्यते। यथा सूर्योपस्थान- काले वदामः—‘चित्रं देवानामुदगादनीकम्’ ( ऋ० १ । ११५ । १ ) । एतेन सूर्यमण्डलमभितो देवानां प्राणभूतानामनीकं सेना तिष्ठति । २