वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 211, कुल 237 में से
संदर्भ में पढ़ें३९६ वेदार्थपारिजातविमर्शः सम्भवेऽपि वाचकाशक्तिततया मूलशब्दापस्थापनेन प्रत्यायकत्वोपपत्तेः, तज्ज्ञानात्तु शृण्वन्तो बालाः साधारणश्च तत्रैव संज्ञासञ्जिसम्बन्धं शिक्षित्वा स्वयं व्यवहरन्ति । तेभ्यश्च शिक्षित्वाऽन्येपीत्येवमपि प्रयोगप्रत्ययोप- पत्तौ नैकान्ततः सर्वेषामप्यविच्छिन्नपारम्पर्यवाचकत्वनिर्णयः सम्भ- वति । तत एवानेकशब्दत्वमेकस्यार्थस्यानभ्युपगन्तुं युक्तम्, अनेकशक्ति- कल्पनाप्रसङ्गात् । गोशब्देन सास्नादिमानभिधीयते इत्यातवक्यात् वाचकत्वप्रग्रहदशायामभिधानक्रियामभिधानक्रिया द्वारा तत्कर्मकरणयो- र्वाच्यवाचकयोरर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति अनेन न्यायेन नियमरूपः सम्बन्धोऽवगतः । ततश्च गाव्यादेरपि सास्नादिमदर्थवाचकत्वस्वीकारे सास्नादिमत्क- र्मकाभिधानक्रियायां गोशब्द एव करणमिति नियमस्य व्युत्पत्तिकालो- वगतस्य बाधः स्यात् । तस्मादेकैकस्य वाचकत्वमितरे त्वशक्तित्जा इत्येव न्याय्यम् । कर-हस्त-पाण्यादिषु तु विशेषानवधारणादनेकशब्दता गत्यन्तराभावा- दूरीक्रियते । गाव्यादिषु तु शिष्टस्मरणाभावान्न तथेति न सर्वेषां वाचक- त्वम् । वाचकरूपनियमॆऽपि स्मृतेः स्मृत्यन्तरमेव मूलम् तस्याप्यन्यदित्य- नादिरेवैषा स्मृतिपरम्परा । न चेयमन्धपरम्परा शब्दस्वरूपशब्दान्तराद्विविक्तस्य प्रत्यक्षत्वात् । सर्वो हि स्वे काले गवादिंशब्दान् प्रत्यक्षत उपलभन्ते। वृद्धेभ्यः श्रुत्वाऽतीत- कालेऽपि सत्तामवधारयन्ति । सर्वकालमपि केचन वृद्धाः सन्ति, तत्प्रत्यक्षसम्भवान्न कदाचिदपि- प्रत्यक्षविच्छेदः । सर्वकालवर्तित्वमेवानादित्वं साधुत्वञ्च । तथा च तत्तत्कालिकवृद्धप्रत्यक्षसश्राचीनया शिष्यस्मरणपरम्परया सास्नादि- मदर्थेषु गवादिंशब्दानांमनादिवाचकत्वरूपं साधुत्वं स्वध्यवसानम् । न चैतत्सर्वं गाव्यादिष्वपि सम्भवति, तत्र प्रत्यक्षपरम्परायाः कथ- ञ्चित् सम्भावितत्वेऽपि तन्मात्रेण साधुत्वानिश्चयात्, अशक्तिजत्वस्यापि सम्भवाच्च ।
वेदस्वरूप-विमशॆ ३९७ शिष्टस्मरणाभावान्न गाव्यादिषु अनादित्वनिश्चय इति न साम्यम् । न च विगानादप्रामाण्यम्, श्रुतीनामपि ग्रहणामग्रहणादिविगानदर्शनात् । नापि निष्फलत्वं व्याकरणशास्त्रस्य, धर्माधर्मप्रतिपत्तिपरिहारार्थं तदुपादान- हानोपयोगिशब्दापशब्दविभागज्ञानस्वरूपफलस्य सत्त्वात् । रक्षोहादेश्च वेदविरुद्धस्य सर्ववेष्टनस्मरणाद्येवाप्रामाण्येऽपि न सर्वस्याप्रामाण्यं, अप्रामाण्यहेत्वभावात् । 'प्रयोगोत्पत्त्यशास्त्रत्वात् शब्देषु न व्यवस्थास्या- त्, (१।३।२४) शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्, ( १।३।२५ ) अन्यायाश्चानेकशब्दत्वम्, ( १।३ २६ ) तत्र तत्त्वमभियोगविशेषात् स्यात् १।३।२७ तदशक्तिश्चानुरूपत्वात्, (१।३।२९) एकदेशत्वाच्च विभक्ति- व्यत्यये स्यात्, (१।३।२९) यत्त्वार्य-म्लेच्छयोरभिधानविपत्तिर्यथा पीलु- शब्दमार्यावृक्षविशेषे म्लेच्छास्तु हस्तिनि प्रयुञ्जते, तत्रोभयोरपि शब्दार्थ- योर्लोके प्रसिद्धिगम्यत्वात् तुल्यबलत्वं प्राप्यते । यद्यार्येषु अबंध्यस्मरणमना- दित्वकारणं तदपि समानं म्लेच्छेषु इति पूर्वः पक्षः। सिद्धान्तस्तु प्रातिपदि- कतामात्रं म्लेच्छेष्वप्यवगम्यते । अविप्लुतशब्दस्त्वार्थेष्वेवावधार्यते । न चोभावपि शब्दार्थौ, अनेकादृष्टशक्ति कल्पनाप्रसङ्गात् । शब्दप्रयोगो- प्यन्यतरस्यानवगणात्, व्यवहारानुपपत्त्या कदाचित्कस्यचिदुपादाने विकल्पापत्तिश्च स्यात् । तेनैकत्र मुख्यत्वेनान्यत्र गौणत्वेनापि प्रयोगोप- पत्तिः । गौणत्वेऽपि पार्श्वस्थानां मुख्याभिमानसम्भवात् । तैरेव चान्येभ्यो मुख्यत्वस्य कथनात् मुख्याभिधानपरम्परानुवृत्तिस्सम्भवात् । यदि विशेषोनावधार्येत तदा गत्यभावाद् द्वयोरभिधेयता अस्ति तु विशेषः। शास्त्रज्ञा हि शब्दैङ्गम्यमधर्माधर्माविप्लुतलिप्सया शब्दार्थतत्त्वं विविच्य पालयन्ति । म्लेच्छास्तु दृष्टार्थव्यवहारस्य यथाकथञ्चित् सिद्धेः प्रयोजनाभावात् नाविप्लुतितिसिद्धौ यतन्ते । अतः प्रतिपादकतामात्रं यद्यपि म्लेच्छेष्वपि सिद्धयति तथापि विप्लुतित्सम्भवान्न तेषु शब्दार्थत स्वासिद्धिरिति निर्दोषार्यप्रसिद्धयै वार्थसिद्धिरिति पील्वादिशब्द वृक्षार्थमभिधायिनः । आर्यप्रसिद्धिविरोधे म्लेच्छप्रसिद्धेरप्रामाण्येऽपि अविरोधे तु तस्या अपि भवत्येवार्थनिर्णये प्रामाण्यम् । पिक-नेम-सत-तामरसादिशब्दा