वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 31, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ ३६
'आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वती । विद्या ह्येताश्चतस्रस्तु लोकसंस्थितिकेतवः ।।' ( कामन्दकीये ) 'द्वे विद्ये वेदितव्ये परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः ।' ( मुण्डके ) इत्यादौ सर्वत्र विद्याशब्दस्य ग्रन्थपरत्वं विज्ञायते । वेद-मन्त्रशब्दयोस्तथोक्तार्थाभ्युपगमो न युक्तः; तान्त्रिकेष्वपि देवताविज्ञानेषु तदुपपादकेषु शब्देष्वपि वेदमन्त्रादिशब्दप्रयोगपत्तेः । न चेष्टापत्तिः ; व्यवहारविरोधात् । 'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते । एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता ।।' इति । वेदशब्दस्यायमेव तु मुख्यार्थः । “अत एव यज्ञविद्या, देवविज्ञानम् , प्रजापतिविज्ञानम् , सूर्यविद्या- नम् , सर्वविज्ञानं वा वेदः” इत्यादिकमपि न सङ्गतम् ; व्यभिचारादेव । 'शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ।।' इत्येवमादिशक्तिग्राहकेषु व्यवहार एव मूर्धन्यः । तदभावे तु यथायथमन्थेऽप्युपायाः । श्रुतिस्मृतिपुराणेतिहासेषु शिष्टानां व्यवहारेषु विशिष्टशब्दराशौ वेदशब्दः प्रसिद्धः । तत्रैव च गद्य-पद्य-गीतिक्रमेण ऋग्यजुःसामादिशब्दाः प्रसिद्धा इति तदपहाय अन्यत्र गौणोलक्षणादि- वृत्तिभेदेनैव वेदादिशब्दप्रयोग इति मन्तव्यम् । वेदार्थावधारणसमयेऽपि व्यवहारानुरोधेनैव वेदार्थोऽधिगन्तव्यः । अत एव मीमांसकानां मर्यादा- "ये एव लौकिकाः शब्दास्त एव वैदिका अपि।” वैदिकानां शब्दानां क्वचित् संस्कारभेदेऽपि प्रत्यभिज्ञानेनैक्यं निश्चीयते। अत एव “य एव लौकिकाः शब्दार्थास्त एव वैदिका अपि शब्दार्थाः” इत्युक्तिः सङ्गच्छते । यदुक्तम्- “ऋषीणां शब्दरचनाकर्तृत्वाभिप्रायेण मन्त्रकर्तृत्वम् । देवताविज्ञानसाक्षात्कारकर्तृत्वाभिप्रायेण तु मन्त्रद्रष्टृत्वम्”ति । तन्न ; 'वाचा
पृष्ठ ३७
विरूपनित्यया, अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा' इत्यादि- वचनविरोधात् । अत एव "स्वर्गापूर्वदेवतादीन् प्रत्यक्षीकृत्य तद्वाचकाः शब्दाः स्वयमृषिभिरुच्चारिताः । अत एव मन्त्राः” इत्यप्यपास्तम् । न च धर्मसाक्षात्कारत्वमृषीणां संभवति ; धर्मस्य चोदनैकसम- धिगम्यत्वात् । यथा रूपस्य नेत्रैकसमधिगम्यत्वम् , शब्दस्य च श्रोत्रैक- समधिगम्यत्वम्, तथैव धर्मब्रह्मणोर्वेदिकसमधिगम्यत्वावगमात् “नावेद- विन्मनुते तं बृहन्तम् , 'तं त्वौपनिषदं पुरुषं पृच्छामि', 'चोदना- लक्षणोऽर्थो धर्मः', 'शास्त्रयोनित्वात्' इत्यादि-श्रुति-सूत्रेभ्यः । यदुक्तम् - 'स्वर्गापूर्वदेवतानाम् ईश्वरप्रत्यक्षविषयत्वात् तत्प्रेरणयैव ऋषिप्रत्यक्षविषयत्वेऽपि न हानिरिति । तन्न ; परमेश्वरस्य सर्वोपा दानत्वेन सर्वस्य स्वाध्यस्तत्वेन ईश्वरचैतन्य-सत्तातिरिक्तसत्ताकत्वाभावेन सर्वस्य परमेश्वरप्रत्यक्षविषयत्वे सत्यपि जीवस्य तथात्वाभावेन तदनु- पपत्तेः । योग-न्यायशास्त्राद्रीत्या योगजशक्त्या सूक्ष्मव्यवहितविप्र- कृष्टज्ञानमपि स्वार्थानतिवर्त्येव ज्ञातव्यम् । 'यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टौ तु न रूपे श्रोत्रवृत्तिता ।।' इति शास्त्रतात्पर्यविदां वचनात् । 'प्रातिभाद्वा सर्वम्'त्यपि तथाभि- प्रायकमेव द्रष्टव्यम् । योगादिमवरीत्याऽपि निरतिशयं सार्वज्ञ्यमीश्वर- स्यैव, जीवानां तु सापेक्षमेव तत् । अपि च-यथा अनन्तस्य अनन्तत्वेन ज्ञानमेव अनन्तज्ञता, तथैव परोक्षस्वभावस्य धर्मस्य परोक्षत्वेन ज्ञानमेव धर्मज्ञता । यदप्युक्तम् - 'धर्माधिगमनिपुणयोगिप्रत्यक्षसिद्धौ दर्शनातिशय एव प्रमाणम् । अस्मदादिरपेक्षितारोक आलोकयति निकटस्थमर्थ- जातम् । बिडालस्तु सान्द्रतमःपङ्कपटललिप्तदेशवर्त्तिमपि पश्यति ।