भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 34, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 34

४२ वेदस्वरूप-विमर्शः स्तदानीमसत्त्वादिति चेन्न । भावित्वेन तद्ग्रहणे यद्वयोगादिति । तन्न ; भावित्वेन ग्रहणासंभवात् । नहि भाविनां प्रत्यक्षेण ग्रहणं संभवति । ननु तद्देशसम्बन्धस्य तत्र प्रागभावो न धर्मिणः । स हि विद्यते एव, कुतश्चिद्भोजनोत्कण्ठादेः कारणात् स्मरणपदवीमुपारूढः श्वस्तनागमन- विशिष्टतया प्रतिभातीति प्रातिभज्ञानस्य स एव जनकः । शब्दलिङ्गसारूप्य- निमित्ताभायात् प्रत्यक्षमेव तदिति चेन्न । क्वचित्सत्त्वेऽपि व्यवहितत्वेन इन्द्रियसन्निकर्षाभावात् प्रत्यक्षत्वानुपपत्तेः । न च मनसोऽपीन्द्रियत्वेन तत्सन्निकृष्टस्य संभवत्येव प्रत्यक्षत्वमिति वाच्यम् ; मनसो बहिरस्वा- तन्त्र्यात् । मनसा तथाभूतव्यवहितग्रहणे अन्धाद्याविर्याद्यभावापत्तेः । न च पूर्वोत्पन्नचाक्षुषविज्ञानविशेषणस्य बाह्यस्य वस्तुनो मनो ग्राहक मिति नाऽ

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 34, कुल 237 में से · BharatKosha