वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 86, कुल 237 में से
संदर्भ में पढ़ें१२८ वेदस्वरूप-विमर्शः यदप्युक्तम्—"गुरुः शास्त्रं उपायः, शास्त्रञ्च स्वपरामर्शः। स्वपरा- मर्शस्तु न कुत्राप्युपायत्वं भजते । तेन गुरुशास्त्रयोरुपायत्वं गौणञ्चैव, स्वपरामर्शस्यैव प्राधान्यम् । 'उपादायापि ये हेयास्तानूपायान् प्रचक्षते ।' इति ह्युक्तेः । यस्य चेतसि गुरुशास्त्रानपेक्षतया स्वपरामर्शस्य उदयो भवति, तस्याधिकारः सार्वत्रिकोऽप्रतिहतश्च ज्ञेयः । अनधिगत- गुरोः अनधीतशास्त्रस्य च तस्य स्वत एव शास्त्राद्यर्थज्ञानम्। शुद्धविद्याया एतदेव माहात्म्यं यत्सा निरन्तरं सत्यमेव भासयति, नानृतम् । 'सर्वशास्त्राद्यर्थवेत्तृत्वमकस्माच्चास्य जायते ।' इति पूर्वागमवचनात् । तादृग्ज्ञानोदये यल्लोकोत्तरनिमित्तं तदेव परमेश्वरस्य शुद्धविलास-समुल्लासः । यतः सर्वविषयं सर्वथाऽविषय- मक्रमञ्च प्रातिभं महाज्ञानं स्वात्मानं प्रकाशयति इति योगिषु ऋषिषु च सुविदितमेव" इति । तदपि न क्षोदक्षमम्; श्रुतियुक्तिविरोधात् । तथा हि-'नावेदविन्मनुते तं बृहन्तम्, 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति स्वस्वरूपसाक्षात्कारात्मकस्य स्वविमर्शस्यापि प्रसिद्धवेदादिशास्त्रैक- गम्यत्वावधारणात् । यत्र वामदेवादीनां शास्त्रानपेक्षमिव तत्त्वज्ञानं श्रूयते, तत्रापि जन्मान्तरीयशास्त्राभ्यासहेतुकत्वस्य कल्पनात्, स्वविमर्शस्यापि अन्ते हेयत्वावधारणाच्च । अत एव सांख्यीयरीत्या तत्त्वपुरुषान्यताख्यातेः हेयत्वावसायः । वेदान्तिमत्तरीत्याऽपि विषं विषान्तरं जरयति, पयः पयोऽन्तरं जरयति इतिन्यायेन स्वविमर्शस्य स्वपरविरोधित्वावगमात् । पारमेश्वरविलास-समुल्लासोऽपि न सर्वथा कारणानपेक्षः । तथात्वे क्वचिच्चैव तत्समुल्लासो नोपपद्यते, ईश्वरस्य सर्वसमत्वात् । 'समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।' इति वचनात् । न च स्वातन्त्र्यरूपा स्वरूपशक्तिरेव सर्वसमाधानमिति वाच्यम्; पारतन्त्र्यात्यन्ताभावाधिकरणत्वस्यैव स्वातन्त्र्यात् । अन्यथा स्वगतभेदसत्त्वे 'एकमेवाद्वितीयम्' इति श्रुतिविरोधः स्यात् । यद्यपि स्वभावतः सर्वार्थावभासनशालि बुद्धिसत्त्वं सर्वार्थावभासन- क्षमं रजस्तमोभिरावृतं तत्तत्प्रमाणैः सीमितमेवार्थं प्रकाशयति । योगा-
वेदस्वरूप-विमर्शः १२९ भ्यासैरुपासनेश्चापाकृते तस्मिन्नावणे सर्वार्थावभासनक्षमं भवति । तेन जन्मान्तरीयसर्वशास्त्राभ्यासजन्य-संस्कारसाचिव्येनैव उपासनादिभिः सर्वशास्त्राद्यर्थवेत्तृत्वं सम्भवति । तथापि जीवेषु सातिशयमेव तदपाकरणं सम्भवति, नानतिशयम् । एतदर्थमेव निरतिशयं सार्वज्ञ्यमीश्वरस्यैवेति योगिभिरुपगम्यते । अत एव तादृशं प्रातिभं महाज्ञानमपि प्रसिद्धवेदादिशास्त्राविरुद्धमेव मन्तव्यम् । अन्यथा बौद्धाद्यर्हतादीनामपि तादृशप्रातिभमहाज्ञानकल्पनात् तन्मूलकानां तदागमानामपि वेदादिवत् प्रामाण्यं प्रसज्येत । तथात्वे सुन्दोपसुन्द-न्यायेन उभयेषामपि प्रामाण्यं व्याहतं स्यात् । 'कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतभेदः कथं तयोः ॥' इत्युक्तेः । यदुक्तम्- "वेदज्ञानस्य पूर्वा कोटिः सर्वज्ञत्वम्, उत्तरा च आत्म- ज्ञानत्वम् । वेदात्मकस्य ज्ञानचक्षुष उन्मेषे तस्य पराङ्मुखत्वं यावदनुवर्तते, तावत् स्पष्टतया द्वैतात्मकस्य विश्वस्य पृथक्तया सत्त्वेन विषयज्ञानं जायत एव । प्रदक्षिणक्रमेण प्राङ्मुखं तन्नेत्रं शनैरभ्यासयोगाद् उदङ्मुखं भवति । प्राङ्मुखनयनस्य उदङ्मुखीभावे यः क्रमः, स एव विषयाणामुद्वासन- पूर्विकाया निवृत्तेरपि क्रमोऽवसेयः । अत्र प्रथममनात्मनि देहादौ आत्म- भावो निवर्तते, तदनन्तरमात्मनि आत्मभावोऽपि निवर्तते । इत्थं द्विवि- धस्यापि बन्धस्य व्युपरमे आत्मैव शुद्धस्तिष्ठति । ज्ञानाज्ञानयोरुभयोरपि परस्तात् इयमेव दशा जीवस्य महाख्यातिः, ब्रह्मावाप्तिश्च" इति । तदपि न क्षोदक्षमम्; विकल्पासहत्वात् । तथा—हि वेदशब्दः परावाकपरः प्रसिद्धवेदपरो वा ? न प्रथमः ; तथात्वे तस्य सार्वज्ञ्यहेतु- त्वाश्रवणात्, तथा बौद्धाद्यर्हत्वादीनामपि सर्वज्ञताप्रासक्तेश्च । न द्वितीयः; तस्य सर्ववेदाद्यर्थज्ञानजनकत्वेऽपि अनापेक्षिकसर्वज्ञत्वाजनकत्वात् । वेदाद्युपासनाद्यनुष्ठानद्वारा सार्वज्ञ्यजनकत्वेऽपि वेदज्ञानमात्रस्य तदजनकत्वात् । शब्दब्रह्मात्मकस्य वेदस्य नेत्रत्वे तस्य नित्यत्वेन तत्र अभ्यासाजन्यातिशयायोगाच्च तेन तत्र प्राङ्मुखत्वोदङ्मुखत्वादिकल्पन- मप्यपार्थकम् ।