भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 86, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 86

१२८ वेदस्वरूप-विमर्शः यदप्युक्तम्—"गुरुः शास्त्रं उपायः, शास्त्रञ्च स्वपरामर्शः। स्वपरा- मर्शस्तु न कुत्राप्युपायत्वं भजते । तेन गुरुशास्त्रयोरुपायत्वं गौणञ्चैव, स्वपरामर्शस्यैव प्राधान्यम् । 'उपादायापि ये हेयास्तानूपायान् प्रचक्षते ।' इति ह्युक्तेः । यस्य चेतसि गुरुशास्त्रानपेक्षतया स्वपरामर्शस्य उदयो भवति, तस्याधिकारः सार्वत्रिकोऽप्रतिहतश्च ज्ञेयः । अनधिगत- गुरोः अनधीतशास्त्रस्य च तस्य स्वत एव शास्त्राद्यर्थज्ञानम्। शुद्धविद्याया एतदेव माहात्म्यं यत्सा निरन्तरं सत्यमेव भासयति, नानृतम् । 'सर्वशास्त्राद्यर्थवेत्तृत्वमकस्माच्चास्य जायते ।' इति पूर्वागमवचनात् । तादृग्ज्ञानोदये यल्लोकोत्तरनिमित्तं तदेव परमेश्वरस्य शुद्धविलास-समुल्लासः । यतः सर्वविषयं सर्वथाऽविषय- मक्रमञ्च प्रातिभं महाज्ञानं स्वात्मानं प्रकाशयति इति योगिषु ऋषिषु च सुविदितमेव" इति । तदपि न क्षोदक्षमम्; श्रुतियुक्तिविरोधात् । तथा हि-'नावेदविन्मनुते तं बृहन्तम्, 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति स्वस्वरूपसाक्षात्कारात्मकस्य स्वविमर्शस्यापि प्रसिद्धवेदादिशास्त्रैक- गम्यत्वावधारणात् । यत्र वामदेवादीनां शास्त्रानपेक्षमिव तत्त्वज्ञानं श्रूयते, तत्रापि जन्मान्तरीयशास्त्राभ्यासहेतुकत्वस्य कल्पनात्, स्वविमर्शस्यापि अन्ते हेयत्वावधारणाच्च । अत एव सांख्यीयरीत्या तत्त्वपुरुषान्यताख्यातेः हेयत्वावसायः । वेदान्तिमत्तरीत्याऽपि विषं विषान्तरं जरयति, पयः पयोऽन्तरं जरयति इतिन्यायेन स्वविमर्शस्य स्वपरविरोधित्वावगमात् । पारमेश्वरविलास-समुल्लासोऽपि न सर्वथा कारणानपेक्षः । तथात्वे क्वचिच्चैव तत्समुल्लासो नोपपद्यते, ईश्वरस्य सर्वसमत्वात् । 'समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।' इति वचनात् । न च स्वातन्त्र्यरूपा स्वरूपशक्तिरेव सर्वसमाधानमिति वाच्यम्; पारतन्त्र्यात्यन्ताभावाधिकरणत्वस्यैव स्वातन्त्र्यात् । अन्यथा स्वगतभेदसत्त्वे 'एकमेवाद्वितीयम्' इति श्रुतिविरोधः स्यात् । यद्यपि स्वभावतः सर्वार्थावभासनशालि बुद्धिसत्त्वं सर्वार्थावभासन- क्षमं रजस्तमोभिरावृतं तत्तत्प्रमाणैः सीमितमेवार्थं प्रकाशयति । योगा-


वेदस्वरूप-विमर्शः १२९ भ्यासैरुपासनेश्चापाकृते तस्मिन्नावणे सर्वार्थावभासनक्षमं भवति । तेन जन्मान्तरीयसर्वशास्त्राभ्यासजन्य-संस्कारसाचिव्येनैव उपासनादिभिः सर्वशास्त्राद्यर्थवेत्तृत्वं सम्भवति । तथापि जीवेषु सातिशयमेव तदपाकरणं सम्भवति, नानतिशयम् । एतदर्थमेव निरतिशयं सार्वज्ञ्यमीश्वरस्यैवेति योगिभिरुपगम्यते । अत एव तादृशं प्रातिभं महाज्ञानमपि प्रसिद्धवेदादिशास्त्राविरुद्धमेव मन्तव्यम् । अन्यथा बौद्धाद्यर्हतादीनामपि तादृशप्रातिभमहाज्ञानकल्पनात् तन्मूलकानां तदागमानामपि वेदादिवत् प्रामाण्यं प्रसज्येत । तथात्वे सुन्दोपसुन्द-न्यायेन उभयेषामपि प्रामाण्यं व्याहतं स्यात् । 'कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतभेदः कथं तयोः ॥' इत्युक्तेः । यदुक्तम्- "वेदज्ञानस्य पूर्वा कोटिः सर्वज्ञत्वम्, उत्तरा च आत्म- ज्ञानत्वम् । वेदात्मकस्य ज्ञानचक्षुष उन्मेषे तस्य पराङ्मुखत्वं यावदनुवर्तते, तावत् स्पष्टतया द्वैतात्मकस्य विश्वस्य पृथक्तया सत्त्वेन विषयज्ञानं जायत एव । प्रदक्षिणक्रमेण प्राङ्मुखं तन्नेत्रं शनैरभ्यासयोगाद् उदङ्मुखं भवति । प्राङ्मुखनयनस्य उदङ्मुखीभावे यः क्रमः, स एव विषयाणामुद्वासन- पूर्विकाया निवृत्तेरपि क्रमोऽवसेयः । अत्र प्रथममनात्मनि देहादौ आत्म- भावो निवर्तते, तदनन्तरमात्मनि आत्मभावोऽपि निवर्तते । इत्थं द्विवि- धस्यापि बन्धस्य व्युपरमे आत्मैव शुद्धस्तिष्ठति । ज्ञानाज्ञानयोरुभयोरपि परस्तात् इयमेव दशा जीवस्य महाख्यातिः, ब्रह्मावाप्तिश्च" इति । तदपि न क्षोदक्षमम्; विकल्पासहत्वात् । तथा—हि वेदशब्दः परावाकपरः प्रसिद्धवेदपरो वा ? न प्रथमः ; तथात्वे तस्य सार्वज्ञ्यहेतु- त्वाश्रवणात्, तथा बौद्धाद्यर्हत्वादीनामपि सर्वज्ञताप्रासक्तेश्च । न द्वितीयः; तस्य सर्ववेदाद्यर्थज्ञानजनकत्वेऽपि अनापेक्षिकसर्वज्ञत्वाजनकत्वात् । वेदाद्युपासनाद्यनुष्ठानद्वारा सार्वज्ञ्यजनकत्वेऽपि वेदज्ञानमात्रस्य तदजनकत्वात् । शब्दब्रह्मात्मकस्य वेदस्य नेत्रत्वे तस्य नित्यत्वेन तत्र अभ्यासाजन्यातिशयायोगाच्च तेन तत्र प्राङ्मुखत्वोदङ्मुखत्वादिकल्पन- मप्यपार्थकम् ।