विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 203, कुल 1001 में से
संदर्भ में पढ़ेंवाष्णेयोऽपि मतैश्चां सर्वेषां प्रवराः शुभाः ॥ अगस्त्यश्च महेन्द्रश्च ऋषिश्चैव मयोभुवः ॥ ३ ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ पौर्ण- मासाः पारणाश्च ज्याष्णोयाः परिकीर्तिताः ॥ ४ ॥ अगस्त्यः पौर्णमासश्च पारणश्च महातपाः ॥ परस्परमवैवाह्या पौर्णमासाश्च पारणम् ॥ ५ ॥ एतदुक्तं ऋषीणां ते वंशानुक्रमपूरुषम् ॥ अतः परं प्रवक्ष्यामि किं तवानद्य कथ्यताम् ॥ ६॥ वज्र उवाच ॥ पुलस्त्यस्य क्रतोश्चैव महात्मनः ॥ अग- स्त्यस्य तथा चैकं कथं वंशं तदुच्यते ॥ ७ ॥ मार्कण्डेय उवाच ॥ कृतः खलवनपत्योऽस्ति गजश्वेवश्वेतन्तरे ॥ इध्मवाहं स पुत्रत्वे जग्राह नृपसत्तम ॥ ८ ॥ अगस्त्यपुत्रं धर्मज्ञ अगस्त्यात्मकतस्तथा ॥ पुलस्त्यस्य तथा पुत्रः तिरश्चः पृथिवीपते ॥ ९ ॥ तेषां ते जन्म वक्ष्यामि उत्तरत्र यथा विधि ॥ पुलस्त्यप्रजां दृष्ट्वा नातिप्रीतमना ह्यभूत् ॥ १० ॥ अगस्त्यजं दृष्टसुतं तं पुत्रत्वे कृतवांस्तदा ॥ पौलह्यश्च तथा राजन्नागस्त्याः परिकी- र्त्तिताः ॥ ११॥ एते तवोक्ताः प्रवरा द्विजानां महासुभाबा नृप गोत्रकाराः ॥ येषां च नामां परिकीर्त्तनेन पापं समग्रं पुरुषो जहाति ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अगस्त्यवंशानुकीर्त्तनं नामाष्टादशाधिकशततमोऽध्यायः ॥ ११८ ॥ ॥ मार्कण्डेय उवाच ॥ अस्मिन्वैवस्वते प्राप्ते शृणु धर्मस्य पार्थिव ॥ दाक्षायण्यश्च सकलं शृणु त्वं वंशमुत्तमम् ॥ १ ॥ एवं तानि महीदंगं शरी- राणि नराधिप ॥ अरुन्धत्या प्रसूतानि धर्मो वैवस्वतेन्तरे ॥ २ ॥ अष्टौ च वसवः पुत्राः सोमपाश्च वसोस्तथा ॥ धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलौ ॥ ३ ॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ धरस्य पुत्रोद्रविणम्नः कालः पुत्रो ध्रुवस्य च ॥ ४ ॥ काल- स्यावयवानां तु शरीराणि नराधिप ॥ मुहूर्त्तवर्णं कालादि प्रस्तुतान्यविशेषतः ॥ ५ ॥ सोमस्य भगवान्वर्चः श्रमस्त्वपापस्य कीर्त्यते ॥ अनेकजन्मा जनवः कुमारश्चानलस्य तु ॥ ६ ॥ पुरोजवाश्चानिलस्य प्रत्यूषस्य च देवलः ॥ विश्वकर्मा प्रभासस्य त्रिदशानां स वार्धिकः ॥ ७ ॥ जामी दुहितरः प्रोक्ता नागवीथ्यादयो नव ॥ लंबापुत्रः स्मृतो घोषो भानोः पुत्रश्च मानवः ॥ ८ ॥ ग्रहांणां तु सर्वेषां चान्येषामपि तेजसाम् ॥ मरुत्वत्यां मरुत्वन्तः सर्वे पुत्राः प्रकीर्तिताः ॥ ९ ॥ संकल्पायाश्च संकल्पास्तथा पुत्राः प्रकीर्तिताः ॥ मुहूर्त्ताश्च मुहूर्तायाः माध्यात्माख्यासुताः स्मृताः ॥ १० ॥ मत्तोन्मत्तश्च प्राणश्च नरोपाणश्च वीर्यवान् ॥ चित्तिर्नरो हयश्चैव हंसो नारायणस्तथा ॥ ११ ॥ विशुश्चापि प्रभुश्चापि साध्या- द्वादश कीर्तिताः ॥ विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥ १२ ॥ ऋतुर्दक्षो वसुः सत्यः कालः कामो धुनस्तथा ॥ ऊर्जवान्मृदुजौ
१ 'श्वेतादि' इति ख० ।